३३

ब्रह्म वा आहावः क्षत्रं निविद्विट्सूक्तमाहिवयतेऽथ निविदं दधाति ब्रह्मण्येव तत्क्षत्रमनुनियुनक्ति निविदं शस्त्वा सूक्तं शंसति क्षत्रं वै निविद्विट्सूक्तं क्षत्र एव तद्विशमनुनियुनक्ति यं कामयेत क्षत्रेणैनं व्यर्धयानीति मध्य एतस्यै निविदः सूक्तं शंसेत्क्षत्रं वै निविद्विट्सूक्तं क्षत्रेणैवैनं तद्व्यर्धयति यं कामयेत विशैनं व्यर्धयानीति मध्य एतस्य सूक्तस्य निविदं शंसेत्क्षत्रं वै निविद्विट्सूक्तं विशैवैनं तद्व्यर्धयति यमु कामयेत सर्वमेवास्य यथापूर्वमृजु कॢप्तं स्यादि-त्याह्वयेताथ निविदं दध्यादथ सूक्तं शंसेत्सो सर्वस्य कॢप्तिः प्रजापतिर्वा इदमेक एवाग्र आस सोऽकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स वाचमयछत्स संवत्सरस्य परस्ताद्व्याहरद्द्वादशकृत्वो द्वादशपदा वा एषा निविदेतां वाव तां निविदं व्याहरत्ताम्सर्वाणि भूतान्यन्वसृज्यन्त तदेतदृषिः पश्यन्नभ्यनूवाच स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनामिति तद्यदेताम्पुरस्तात्सूक्तस्य निविदं दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं

वेद ३३