३०

अग्नीषोमाभ्याम्प्रणीयमानाभ्यामनुब्रूहीत्याहाध्वर्युः सावीर्हि देव प्रथमाय पित्र इति सावित्रीमन्वाह तदाहुर्यदग्नीषोमाभ्याम्प्रणीयमानाभ्यामनु वाचाहाथ कस्मात्सावित्रीमन्वाहेति सविता वै प्रसवानामीशे सवितृप्रसूता एवैनौ तत्प्रणयन्ति तस्मात्सावित्रीमन्वाह प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यामन्वाह तदाहुर्यदग्नीषोमाभ्याम्प्रणीयमानाभ्यामनु वाचाहाथ कस्माद्ब्राह्मणस्पत्याम-न्वाहेति ब्रह्म वै बृहस्पतिर्ब्रह्मैवाभ्यामेतत्पुरोगवमकः न वै ब्रह्मण्वद्रि ष्यति प्र देव्येतु सूनृतेति ससूनृतमेव तद्यज्ञं करोति तस्माद्ब्राह्मणस्पत्यामन्वाह होता देवो अमर्त्य इति तृचमाग्नेयं गायत्रमन्वाह सोमे राजनि प्रणियमाने सोमं वै राजानम्प्रणीयमानमन्तरेणैव सदोहविर्धानान्यसुरा रक्षांस्यजिघांसंस्तमग्निर्मा-ययात्यनयत्पुरस्तादेति माययेति मायया हि स तमत्यनयत्तस्माद्वस्याग्नि-म्पुरस्ताद्धरन्त्युप त्वाग्ने दिवेदिव उप प्रियम्पनिप्नतमिति तिस्रश्चैकां चान्वाहे श्वरौ ह वा एतौ संयन्तौ यजमानं हिंसितोर्यश्चासौ पूर्व उद्धृतो भवति यमु चैनमपरम्प्रणयन्ति तद्यत्तिस्रश्चैकां चान्वाह संजानानावेवैनौ तत्संगमयति प्रतिष्ठायामेवैनौ तत्प्रतिष्ठापयत्यात्मनश्च यजमानस्य चहिंसाया अग्ने जुषस्व प्रति हर्य तद्वच इत्याहुत्यां हूयमानायामन्वाहाग्नय एव तज्जुष्टिमाहुतिं गमयति सोमो जिगाति गातुविदिति तृचं सौम्यं गायत्रमन्वाह सोमे राजनि प्रणीयमाने स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति सोमः सधस्थमासददित्यास-त्स्यन्हि स तर्हि भवति तदतिक्रम्यैवानुब्रूयात्पृष्ठत इवाग्नीध्रं कृत्वा तमस्य राजा वरुणस्तमश्विनेति वैष्णवीमन्वाह क्रतुं सचन्त मारुतस्य वेधसः दाधार दक्ष-मुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुत इति विष्णुर्वै देवानां द्वारपः स एवास्मा एतद्द्वारं विवृणोत्यन्तश्च प्रागा अदितिर्भवासीति प्रपाद्यमानेऽन्वाह श्येनो न योनिं सदनं धिया कृतमित्यासन्ने हिरण्ययमासदं देव एषतीति हिरण्मयमिव ह वा एष एतद्देवेभ्यश्छदयति यत्कृष्णाजिनं तस्मादेतामन्वा-हास्तभ्नाद्द्यामसुरो विश्ववेदा इति वारुण्या परिदधाति वरुणदेवत्यो वा एष तावद्यावदुपनद्धो यावत्परिश्रितानि प्रपद्यते स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्द्बयति तं यद्युप वा धावेयुरभयं वेछेरन्नेवा वन्दस्व वरुणम्बृहन्तमित्येतया परिदध्याद्यावद्भ्यो हाभयमिछति यावद्भ्यो हाभयं ध्यायति तावद्भ्यो हाभयम्भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्यात्ता एताः सप्तदशान्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रिय-माणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता एकविंशतिः सम्पद्यन्त एकविंसो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश उत्तमा प्रतिष्ठा तद्दैवं क्षत्रं सा श्रीस्तदाधिपत्यं तद्ब्रध्नस्य विष्टपं

तत्प्रजापतेरायतनं तत्स्वाराज्यमृध्नोत्येतमेवैताभिरेकविंशत्यैकविंशत्या ३०

प्रथमपञ्चिका समाप्ता