२८

अग्नये प्रणीयमानायानुब्रूहीत्याहाध्वर्युः प्र देवं देव्या धिया भरता जातवेदसम्हव्य नो वक्षदानुषगिति गायात्रीम्ब्राह्मणस्यानुब्रूयाद्गायत्रो वै ब्राह्मणस्तेजो वै ब्रह्मवर्चसं गायत्री तेजसैवैनं तद्ब्रह्मवर्चसेन समर्धयतीमम्महे विदथ्याय शूषमिति त्रिष्टुभं राजन्यस्यानुब्रूयात्त्रैष्टुभो वै राजन्य ओजो वा इन्द्रि यं वीर्यं त्रिष्टुबोजसैवैनं तदिन्द्रि येण वीर्येण समर्धयति शश्वत्कृत्व ईड्याय प्र जभ्रुरिति स्वानामेवैनं तच्छ्रैष्ठ्यं गमायति शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्र इत्याजरसं हास्मिन्नजस्रो दीदाय य एवं वेदायमिह प्रथमो धायि धातृभिरिति जगतीं वैश्यस्यानुब्रूयाज् जागतो वै वैश्यो जागताः पशवः पशुभिरेवैनं तत्समर्धयाति वनेषु चित्रं विभ्वं विशेविश इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धमयमु ष्य प्र देवयुरित्यनुष्टुब्बि वाचं विसृजते वाग्वा अनुष्टुब्वाच्येव तद्वाचं विसृजतेऽयमु ष्य इति यदाहायमु स्यागमं या पुरा गन्धर्वेष्ववात्समित्येव तद्वाक्प्रब्रूतेऽयमग्निरुरुष्यतीत्ययं वा अग्निरुरुष्यत्यमृ-तादिव जन्मन इत्यमृतत्वमेवास्मिंस्तद्दधाति सहसश्चित्सहीयान्देवो जीवातवे कृत इति देवो ह्येष एतज्जीवातवे कृतो यदग्निरिळायास्त्वा पदे वयं नाभा पृथिव्या अधीत्येतद्वा इळायास्पदं यदुत्तरवेदीनाभिर्जातवेदो नि धीमहीति निधास्यन्तो ह्येनम्भवन्त्यग्ने हव्याय वोळ्हव इति हव्यं हि वक्ष्यौ भवत्यग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तम्प्रथमः सीद योनिमिति विश्वाइरेवैनं तद्देवैः सहासादयति कुलायिनं घृतवन्तां सवित्र इति कुलायमिव ह्येतद्यज्ञे क्रियते यत्पैतुदारवाः परिधयो गुल्गुलूर्णास्तुकाः सुगन्धितेजनानीति यज्नां नय यजमानाय साध्विति यज्ञमेव तदृजुधा प्रतिष्ठापयति सीद होतः स्व उ लोके चिकित्वानित्यग्निर्वै देवानां होता तस्यैष स्वो लोको यदुत्तरवेदीनाभिः सादया यज्ञं सुकृतस्य योनाविति यजमानो वै यज्ञो यजमानायैवैतामाशिषमाशास्ते देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धा इति प्राणो वै वयः प्राणमेव तद्यजमाने दधाति नि होता होतृषदने विदान इत्यग्निर्वै देवानां होता तस्यैतद्धोतृषदनं यदुत्तरवेदीनाभिस्त्वेषो दीदिवाँ असदत्सुदक्ष इत्यासन्नो हि स तर्हि भवत्यदब्धव्रतप्रमतिर्वसिष्ठ इत्यग्निर्वै देवानां वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निरित्येषा ह वा अस्य सहस्रम्भरता यदेनमेकं सन्तम्बहुधा विहरन्ति प्र ह वै साहस्रम्पोषमाप्नोति य एवं वेद त्वं दूतस्त्वमु नः परस्पा इत्युत्तमया परिदधाति त्वं वस्य आ वृषभ प्रणेता अग्ने तोकस्य नस्तने तनूनामप्रयुछन्दीद्यद्बोधि गोपा इत्यग्निर्वै देवानां गोपा अग्निमेव तत्सर्वतो गोप्तारम्परिदत्त आत्मने च यजमानाय च यत्रैवं विद्वानेतया परिदधात्यथो संवत्सरीणामेवैतां स्वस्तिं कुरुते ता एता अष्टावन्वाह रूपसमृधा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादस वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह

यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय २८