सोमो वै राजा गन्धर्वेष्वासीत्तं देवाश्च ऋषयश्चाभ्यध्यावन्कथमयमस्मान्सोमो राजा गछेदिति सा वागब्रवीत्स्त्रीकामा वै गन्धर्वा मयैव स्त्रिया भूतया पणध्वमिति नेति देवा अब्रुवन्कथं वयं त्वदृते स्यामेति साब्रवीत्क्रीणीतैव यर्हि वाव वो मयार्थो भविता तर्ह्येव वोऽहम्पुनरागन्तास्मीति तथेति तया महानग्न्या भूतया सोमं राजानमक्रीणंस्तामनुकृतिमस्कन्नां वत्सतरीमाजन्ति सोमक्रयणीं तया सोमं राजानां क्रीणन्ति ताम्पुनर्निष्क्रीणीयात्पुनर्हि सा तनागछत्तस्मादुपांशु वाचा चरितव्यं सोमे राजनि क्रीते गन्धर्वेषु हि तर्हि वाग्भवति साग्नावेव
प्रणियामाने पुनरागछति २७