२६

देववर्म वा एतद्यत्प्रयाजाश्चानुयाजाश्चाप्रयाजमननुयाजम्भवतीष्वै संशित्या अप्रतिशराय सकृदतिक्रम्याश्रावयति यज्ञस्याभिक्रान्त्या अनपक्रमाय तदाहुः क्रूरमिव वा एतत्सोमस्य राज्ञोऽन्ते चरन्ति यदस्य घृतेनान्ते चरन्ति घृतेन हि वज्रेणेन्द्रो वृत्रमहंस्तद्यदंशुरंशुष्टे देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्रा य प्यायस्वा प्याययास्मान्सखीन्सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति राजानमाप्याययन्ति यदेवास्य तत्क्रूरमिवान्ते चरन्ति तदेवास्यैतेनाप्यययन्त्यथो एनं वर्धयन्त्येव द्यावा-पृथिव्योर्वा एष गर्भो यत्सोमो राजा तददेष्टा राय एष्टा वामानि प्रेषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति प्रस्तरे निह्नवते द्यावापृथिवीभ्यामेव तन्नमस्कुर्वन्त्यथो एने वर्धयन्त्येव वर्धयन्त्येव २६