२५

शिरो वा एतद्यज्ञस्य यदातिथ्यं ग्रीवा उपसदः समानहर्हिषी भवतः समानं हि शिरोग्रीवमिषुं वा एतां देवाः समस्कुर्वत यदुपसदस्तस्या अग्निरनीक-मासीत्सोमः शल्यो विष्णुस्तेजनं वरुनः पर्नानि तामाज्यधन्वानो व्यसृजंस्तया पुरो भिन्दन्त आयंस्तस्मादेता आज्यहविषो भवन्ति चतुरोऽग्रे स्तनान्व्रत-मुपैत्युपसत्सु चतुःसंधिर्हीषुरनीकं शल्यस्तेजनम्पर्णानि त्रीन्स्तनान्व्रतमुपै-त्युपसत्सु त्रिषंधिर्हीषुरनीकं शल्यस्तेजनं द्वौ स्तनौ व्रतमुपैत्युपसत्सु द्वि-षंधिर्हीषुः शल्यश्च ह्येव तेजनं चैकं स्तनं व्रतमुपैत्युपसत्स्वेका ह्येवेषु-रित्याख्यायत एकया वीर्यङ्क्रियते परो वरीयांसो वा इमे लोका अर्वागंहीयंसः परस्तादर्वाचीरुपसद उपैत्येषामेव लोकानामभिजित्या उपसद्याय मीळ्हुष इमाम्मे अग्ने समिधमिमामुपसदं वनेरिति तिस्रस्तिस्रः सामिधेन्यो रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति जघ्नि-वतीर्याज्यानुवाक्याः कुर्यादग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहे दं विष्णुर्वि चक्रमे त्रीणि पदा वि चक्रम इत्येता विपर्यस्ताभिरपराह्णे यजति घ्नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्यदुपसदः सछन्दसः कर्तव्या न विछन्दसो यद्विछन्दसः कुर्याद्ग्रीवासु तद्गण्डं दध्यादीश्वरो ग्लावो जनितोस्तस्मात्सछन्दस एव कर्तव्या न विछन्दसस्तदु ह स्माहो-पाविर्जानश्रुतेय उपसदां किल वै तद्ब्राह्मणे यस्मादप्यश्लीलस्य श्रोत्रियस्य मुखं व्येव ज्ञायते तृप्तमिव रेभतीवेत्याज्यहविषो ह्युपसदो ग्रीवासु मुखमध्याहितं तस्माद्ध स्म तदाह २५