जितयो वै नामैता यदुपसदोऽसपत्नां वा एताभिर्देवा विजितिं व्यजयन्तासपत्नां विजितिं विजयते य एवं वेद यां देवा एषु लोकेषु यामृतुषु याम्मासेषु यामर्धमासेषु यामहोरात्रयोर्विजितिं व्यजयन्त तां विजितिं विजयते य एवं वेद ते देवा अबिभयुरस्माकं विप्रेमाणमन्विदमसुरा आभविष्यन्तीति ते व्युत्क्र-म्यामन्त्रयन्ताग्निर्वसुभिरुदक्रामदीन्द्रो रुद्रै र्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्ते तथा व्युत्क्रम्यामन्त्रयन्त तेऽब्रुवन्हन्त या एव न इमाः प्रियतमास्तन्वस्ता अस्य वरुणस्य राज्ञो गृहे संनिदधामहै ताभिरेव नः स न संगछातै यो न एतद-तिक्रामाद्य आलुलोभयिषादिति तथेति ते वरुणस्य राज्ञो गृहे तनूः संन्यदधत ते यद्वरुणस्य राज्ञो गृहे तनूः संन्यदधत तत्तानूनप्त्रमभवत्तत्तानूनप्त्रस्य तानूनप्त्रत्वं तस्मादाहुर्न सतानूनप्त्रिणे द्रो ग्धव्यमिति तस्माद्विदमसुरा
नान्वाभवन्ति २४