२३

देवासुरा वा एषु लोकेषु समयतन्त ते वा असुरा इमानेव लोकान्पुरोऽकुर्वत यथौजीयांसो बलियांस एवं ते वा अयस्मयीमेवेमामकुर्वत रजतामन्तरिक्षं हरिणीं दिवं ते तथेमाँ ल्लोकान्पुरोऽकुर्वत ते देवा अब्रुवन्पुरो वा इमेऽसुरा इमाँ ल्लोकानक्रत पुर इमाँ ल्लोकान्प्रतिकरवामहा इति तथेति ते सद एवास्याः प्रत्यकुर्वताग्नीध्रमन्तरिक्षाद्धविर्धाने दिवस्ते तथेमाँ ल्लोकान्पुरः प्रत्यकुर्वत ते देवा अब्रुवन्नुपसद उपायामोपसदा वै महापुरं जयन्तीति तथेति ते यामेव प्रथमामुपसदमुपायंस्तयैवैनानस्माल्लोकादनुदन्त यां द्वितीयां तयान्तरिक्षाद्यां तृतीयां तया दिवस्तांस्तथैभ्यो लोकेभ्योऽनुदन्त ते वा एभ्यो लोकेभ्यो नुत्ता असुरा ऋतूनश्रयन्त ते देव अब्रुवन्नुपसद एवोपायामेति तथेति त इमास्तिस्रः सतीरुपसदो द्विर्द्विरेकैकामुपायंस्तः षट्समपद्यन्त षड्वा ऋतवस्तान्वा ऋतु-भ्योऽनुदन्त ते वा ऋतुभ्यो नुत्ता असुरा मासानश्रयन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमाः षट्सतीरुपसदो द्विर्द्विरेकैकामुपायंस्ता द्वादश समपद्यन्त द्वादश वै मासस्तान्वै मासेभ्योऽनुदन्त ते वै मासेभ्यो नुत्ता असुरा अर्धमासानश्रयन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमा द्वादश सतीरुपसदो द्विर्द्विरेकैकामुपायंस्ताश्चतुर्विंशतिः समपद्यन्त चतुर्विंशतिर्वा अर्धमासास्तान्वा अर्धमासेभ्योऽनुदन्त तेऽवा अर्धमासेभ्यो नुत्ता असुरा अहोरात्रे अश्रयन्त ते देवा अब्रुवन्नुपसदावेवोपायामेति तथेति ते यामेव पूर्वाह्ण उपसदमुपायंस्तयैवैनानह्नोऽनुदन्त यामपराह्णे तया रात्रेस्तांस्तथोभाभ्यामन्त-रायंस्तस्मात्सुपूर्वाह्ण एव पूर्वयोपसदा प्रचरितव्यं स्वपराह्णेऽपरया तावन्तमेव

तद्द्विषते लोकम्परिशिनष्टि २३