गणानां त्वा गणपतिं हवामह इति ब्राह्मणस्पत्यम्ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनन्तद्भिषज्यति प्रथश्च यस्य सप्रथश्च नामेति घर्मतन्वः सतनुमेवैनं तत्सरूपं करोति रथंतरमाजभारा वसिष्ठः भरद्वाजो बृहदा चक्रे अग्नेरिति बृहद्र थंतरवन्तमेवैनं तत्करोत्यपश्यं त्वा मनसा चेकितानमिति प्रजावान्प्राजापत्यः प्रजामेवास्मिंस्तद्दधाति का राधद्धोत्राश्विना वामिति नव विछन्दसस्तदेतद्यज्ञस्यान्तस्त्यं विक्षुद्र मिव व अन्तस्त्यमणीय इव च स्थवीय इव च तस्मादेता विछन्दसो भवन्त्येताभिर्हाश्विनोः कक्षीवान्प्रियं धामो-पागछत्स परमं लोकमजयदुपाश्विनोः प्रियं धाम गछति जयति परमं लोकं य एवं वेदाभात्यग्निरुषसामनीकमिति सूक्तम्पीपिवांसमश्विना घर्ममछेत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धं तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्यमेवास्मिंस्तद्दधाति ग्रावाणेव तदिदर्थं जरेथे इति सूक्तमक्षी इव कर्णाविव नासेवेत्यङ्ग-समाख्यायमेवास्मिंस्तदिन्द्रि याणि दधाति तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्य-मेवास्मिंस्तद्दधातीळे द्यावापृथिवी पूर्वचित्तय इति सूक्तमग्निं घर्मं सुरुचं यामन्निष्टय इत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धं तदु जागतं जागता वै पशवः पशूनेवास्मिंस्तद्दधाति याभिरमुमावतं याभिरमुमावतमित्येतावतो हात्राश्वि-उऔ कामान्ददृशतुस्तानेवास्मिंस्तद्दधाति तैरेवैनं तत्समर्धयत्यरूरुचदुषसः पृश्निरग्रिय इति रुचितवती रुचमेवास्मिंस्तद्दधाति द्युभिरक्तुभिः परि पातम-स्मानित्युत्तमया परिदधात्यरिष्टेभिरश्विना सौभगेभिः तन्नो मित्रो वरुणो मामह-न्तामदितिः सिन्धुः पृथिवी उत द्यौरित्येतैरेवैनं तत्कामैः समर्धयतीति नु
पूर्वम्पटलम् २१