स्रक्वे द्र प्सस्य धमतः समस्वरन्निति नव पावमान्यो नव वै प्राणाः प्राणानेवास्मिंस्तद्दधात्ययं वेनश्चोदयत्पृश्निगर्भा इत्ययं वै वेनोऽस्माद्वा ऊर्ध्वा अन्ये प्राणा वेनन्त्यवाञ्चोऽन्ये तस्माद्वेनः प्राणो वा अयं सन्नाभेरिति तस्मान्नाभिस्तन्नाभेर्नाभित्वं प्राणमेवास्मिंस्तद्दधाति पवित्रं ते विततम्ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पदे वि यत्पवित्रं धिषणा अतन्वतेति पूतवन्तः प्राणास्त
इमेऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्य इत्येतानेवास्मिंस्तद्दधाति २०