विश्वास-प्रस्तुतिः
स्रक्वे द्रप्सस्य धमतः समस्वरन्निति नव पावमान्यो नव वै प्राणाः प्राणानेवास्मिंस्तद्दधाति ।
Haug
(Now follow) nine Pāvamānī-verses (dedicated to the purification of the Soma juice) beginning with, srakve drapsasya dhamataḥ (9, 73, 1). There are nine vital airs. By repeating these (verses), the Hotar puts the vital airs in him (the Pravargya man).
मूलम्
स्रक्वे द्रप्सस्य धमतः समस्वरन्निति नव पावमान्यो नव वै प्राणाः प्राणानेवास्मिंस्तद्दधाति ।
विश्वास-प्रस्तुतिः
अयं वेनश्चोदयत्पृश्निगर्भा इति ।
Haug
(Now he repeats) ayam venaś chodayat[7] (10, 123, 1).
Haug - Notes
According to Sâyaṇa this verse is taken from another Sâkhâ.
मूलम्
अयं वेनश्चोदयत्पृश्निगर्भा इति ।
विश्वास-प्रस्तुतिः
अयं वै वेनो ऽस्माद्वा ऊर्ध्वा अन्ये प्राणा वेनन्त्यवाञ्चो ऽन्ये तस्माद्वेनः प्राणो वा अयं सन्नाभेरिति तस्मान्नाभिस्तन्नाभेर्नाभित्वम् ।
Haug
(When repeating this mantra, the Hotar points, when pronouncing the word ayam, i.e., this, to the navel) “This” (the navel) is meant by venaś; for some vital airs are circulating (venanti) above the navel, others below it. On account of this vital air (the life) taking its origin from the navel, venas (circulation, from ven to circulate) means “navel.”
मूलम्
अयं वै वेनो ऽस्माद्वा ऊर्ध्वा अन्ये प्राणा वेनन्त्यवाञ्चो ऽन्ये तस्माद्वेनः प्राणो वा अयं सन्नाभेरिति तस्मान्नाभिस्तन्नाभेर्नाभित्वम् ।
विश्वास-प्रस्तुतिः
प्राणमेवास्मिंस्तद्दधाति ।
Haug
By repeating this mantra, the Hotar puts life in this (Pravargya man).
मूलम्
प्राणमेवास्मिंस्तद्दधाति ।
विश्वास-प्रस्तुतिः
पवित्रं ते विततम्ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पदे वि यत्पवित्रं धिषणा अतन्वतेति पूतवन्तः ।
Haug
(Now he repeats the verses), pavitram te vitatam (9, 83, 1), tapash pavitram vitatam (9, 83, 2), and viyat pavitram dhiṣaṇā atanvata. On account of their containing the word “pavitram” (pure), the vital airs are purified (when these mantras are recited over them).
मूलम्
पवित्रं ते विततम्ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पदे वि यत्पवित्रं धिषणा अतन्वतेति पूतवन्तः ।
विश्वास-प्रस्तुतिः
प्राणास्त इमे ऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्य इत्येतानेवास्मिंस्तद्दधाति ।
Haug
These are the vital airs of the lower part of the body presiding over the semen, urine, and excrements. (By repeating these three verses) he puts these vital airs in this (Pravargya man).
मूलम्
प्राणास्त इमे ऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्य इत्येतानेवास्मिंस्तद्दधाति ।