ब्रह्म जज्ञानम्प्रथमम्पुरस्तादिति प्रतिपद्यते ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यतीयं वै पित्रे राष्ट्र्येत्यग्र इति वाग्वै राष्ट्री वाचमेवास्मिंस्तद्दधाति महान्मही अस्तभायद्वि जात इति ब्राह्मणस्पत्या ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यत्यभि त्यं देवं सवितारमोण्योरिति सावित्री प्राणो वै सविता प्राणमेवस्मिंस्तद्दधाति सं सीदस्व महाङसीत्येवैनं समसादयनु अञ्जन्ति यम्प्रथयन्तो न विप्रा इत्यज्यमानायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्पतंग-मक्तमसुरस्य मायया यो नः सनुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति द्वे-द्वे अभिरूपे यद्यज्ञेऽभिरूपं तत्समृद्धं कृणुस्न्व पाजः प्रसितिं न पृथ्वीमिति पञ्च राक्षोघ्न्यो रक्षसामपहत्यै परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थ्यं वचः शुक्रं ते अन्यद्यजतं ते अन्यदपश्यं गोपामनिपद्यमानमिति चतस्र एकपातिन्यस्ता एकविंशतिर्भवन्त्येकविंशोऽयम्पुरुषो दश हस्त्या अङ्गुलयो
दश पाद्या आत्मैकविंशश्तमिममात्मानमेकविंशं संस्कुरुते १९