यज्ञो वै देवेभ्य उदक्रामन्न वोऽहमन्नम्भविष्यामीति नेति देवा अब्रुवन्नन्नमेव नो भविष्यसीति तं देवा विमेथिरे स हैभ्यो विहृतो न प्रबभूव ते होचुर्देवा न वै न इत्थं विहृतोऽलम्भविष्यति हन्तेमं यज्ञं सम्भरामेति तथेति तं संजभ्रुस्तं सम्भृत्योचुरश्विनाविमम्भिषज्यतमित्यश्विनौ वै देवानाम्भिषजावश्विनावध्वर्यू तस्मादध्वर्यू घर्मं सम्भरतस्तं सम्भृत्याहतुर्ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामो होतरभिष्टुहीति १८