समिधाग्निं दुवस्यता प्यायस्व समेतु त इत्याज्यभागयोः पुरोनुवाक्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृधं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति सैषाग्नेय्यतिथिमती न सौम्यातिथिमत्यस्ति यत्सौम्यातिथिमती स्याच्छश्वत्सा स्यादेतत्त्वेवैषातिथिमति यदापीनवती यदा वा अतिथिम्परिवेविषत्यापीन इव वै स तर्हि भवति तयोर्जुषाणेनैव यजतीदं विष्णुर्वि चक्रमे तदस्य प्रियमभि पाथो अश्यामिति वैष्णव्यौ त्रिपदामनूच्य चतुष्पदया यजति सप्त पदानि भवन्ति शिरो व एतद्यज्ञस्य यदातिथ्यं सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधाति होतारं चित्ररथमध्वरस्य प्रप्राय-मग्निर्भरतस्य शृण्व इति स्विष्टकृतः संयाज्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति त्रिष्टुभौ भवतः सेन्द्रि यत्वाये ळान्तम्भवतीळान्तेन वा एतेन देवा अराध्नुवन्यदातिथ्यं तस्मा-दिळान्तमेव कर्तव्यम्प्रयाजानेवात्र यजन्ति नानुयाजान्प्राणा वै प्रयाजानु-याजास्ते य इमे शीर्षन्प्राणास्ते प्रयाजा येऽवाञ्चस्तेऽनुयाजाः स योऽत्रानुया-जान्यजेद्यथेमान्प्राणानालुप्य शीर्षन्धित्सेत्तादृक्तदतिरिक्तं तत्समु वा इमे प्राणा विद्रे ये चेमे ये चेमे तद्यदेवात्र प्रयाजान्यजन्ति नानुयाजांस्तत्र स काम उपाप्तो
योऽनुयाजेषु योऽनुयाजेषु १७
३