हविरातिथ्यं निरुप्यते सोमे राजन्यागते सोमो वै राजा यजमानस्य गृहानागछति तस्मा एतद्धविरातिथ्यं निरुप्यते तदातिथ्यस्यातिथ्यत्वं नवकपालो भवति नव वै प्राणाः प्राणानां कॢप्त्यै प्राणानाम्प्रतिप्रज्ञात्यै वैष्णवो भवति विष्णुर्वै यज्ञः स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति सर्वाणि वाव छन्दांसि च पृष्ठानि च सोमं राजानं क्रीतमन्वायन्ति यावन्तः खलु वै राजानमनुयन्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियतेऽग्निम्मन्थन्ति सोमे राजन्यागते तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन्वार्हत्युक्षाणं वा वेहतं वा क्षदन्त
एवमेवास्मा एतत्क्षदन्ते यदग्निम्मन्थन्त्य् अग्निर्हि देवानाम्पशुः १५