विश्वास-प्रस्तुतिः
अन्यतरो ऽनड्वान्युक्तः स्यादन्यतरो विमुक्तो ऽथ राजानमुपावहरेयुः ।
Haug
One of the bullocks (which carry the cart on which the king Soma is seated) is to remain yoked, the other to be unyoked. Then they should take down (from the cart) the king (Soma).
मूलम्
अन्यतरो ऽनड्वान्युक्तः स्यादन्यतरो विमुक्तो ऽथ राजानमुपावहरेयुः ।
विश्वास-प्रस्तुतिः
यदुभयोर्विमुक्तयोरुपावहरेयुः पितृदेवत्यं राजानं कुर्युः ।
Haug
Were they to take him down when both are let loose, they would bring him into the power of the manes (pitaraḥ).
मूलम्
यदुभयोर्विमुक्तयोरुपावहरेयुः पितृदेवत्यं राजानं कुर्युः ।
विश्वास-प्रस्तुतिः
यद्युक्तयोरयोगक्षेमः प्रजा विन्देत्ताः प्रजाः परिप्लवेरन् ।
Haug
Would they do so, when both are still yoked (to the cart), the sacrificer could not keep what he is possessed of, nor increase it; should he have any children, they would be scattered (everywhere, and consequently be lost for him).
मूलम्
यद्युक्तयोरयोगक्षेमः प्रजा विन्देत्ताः प्रजाः परिप्लवेरन् ।
विश्वास-प्रस्तुतिः
यो ऽनड्वान्विमुक्तस्तच्छालासदाम्प्रजानां रूपम् ।
Haug
The bullock which is let loose, represents the children who are in the house,
मूलम्
यो ऽनड्वान्विमुक्तस्तच्छालासदाम्प्रजानां रूपम् ।
विश्वास-प्रस्तुतिः
यो युक्तस्तच्चक्रियाणाम् ।
Haug
that one which remains yoked, the actions (ceremonies, and worldly pursuits).
मूलम्
यो युक्तस्तच्चक्रियाणाम् ।
विश्वास-प्रस्तुतिः
ते ये युक्ते ऽन्ये विमुक्ते ऽन्य उपावहरन्त्युभयमेव ते क्षेमयोगौ कल्पयन्ति ।
Haug
Those sacrificers who take the Soma down, whilst one of the bullocks is yoked and the other let loose, avail themselves of both actions, of acquiring property, and keeping what they have acquired.
मूलम्
ते ये युक्ते ऽन्ये विमुक्ते ऽन्य उपावहरन्त्युभयमेव ते क्षेमयोगौ कल्पयन्ति ।
विश्वास-प्रस्तुतिः
देवासुरा वा एषु लोकेषु समयतन्त ।
Haug
The Devas and Asuras were fighting in these worlds.
मूलम्
देवासुरा वा एषु लोकेषु समयतन्त ।
विश्वास-प्रस्तुतिः
त एतस्याम्प्राच्यां दिश्ययतन्त ।
Haug
They fought in the eastern direction;
मूलम्
त एतस्याम्प्राच्यां दिश्ययतन्त ।
विश्वास-प्रस्तुतिः
तांस्ततो ऽसुरा अजयन् ।
Haug
there the Asuras defeated the Devas.
मूलम्
तांस्ततो ऽसुरा अजयन् ।
विश्वास-प्रस्तुतिः
ते दक्षिणस्यां दिश्ययतन्त ।
Haug
Then they fought in the southern direction,
मूलम्
ते दक्षिणस्यां दिश्ययतन्त ।
विश्वास-प्रस्तुतिः
तांस्ततो ऽसुरा अजयन् ।
Haug
the Asuras defeated the Devas again.
मूलम्
तांस्ततो ऽसुरा अजयन् ।
विश्वास-प्रस्तुतिः
ते प्रतीच्यां दिश्ययतन्त ।
Haug
They then fought in the western direction,
मूलम्
ते प्रतीच्यां दिश्ययतन्त ।
विश्वास-प्रस्तुतिः
तांस्ततो ऽसुरा अजयन् ।
Haug
the Asuras defeated the Devas again.
मूलम्
तांस्ततो ऽसुरा अजयन् ।
विश्वास-प्रस्तुतिः
त उदीच्यां दिश्ययतन्त ।
Haug
They fought in the northern direction,
मूलम्
त उदीच्यां दिश्ययतन्त ।
विश्वास-प्रस्तुतिः
तांस्ततो ऽसुरा अजयन् ।
Haug
the Asuras defeated the Devas again.
मूलम्
तांस्ततो ऽसुरा अजयन् ।
विश्वास-प्रस्तुतिः
त उदीच्याम्प्राच्यां दिश्ययतन्त ते ततो न पराजयन्त ।
Haug
They then fought in the north-eastern direction[9]; there the Devas did not sustain defeat.
Haug - Notes
[9]It is called âiśânî, i e., the direction of iśânaḥ, who is Siva.
मूलम्
त उदीच्याम्प्राच्यां दिश्ययतन्त ते ततो न पराजयन्त ।
विश्वास-प्रस्तुतिः
सैषा दिगपराजिता ।
Haug
This direction is aparājitā, i.e., unconquerable.
मूलम्
सैषा दिगपराजिता ।
विश्वास-प्रस्तुतिः
तस्मादेतस्यां दिशि यतेत वा यातयेद्वेश्वरो हानृणाकर्तोः ।
Haug
Thence one should do work in this (north-eastern) direction, and have it done there; for such one (alone) is able to clear off his debts.[10]
Haug - Notes
[10] According to the Brahmanical notions, every man born is a debtor. His creditors are the gods, Riṣis, the Pitaras, and men. His debt towards the Pitaras or manes, is cleared off by begetting a son. As long as he has begot no son, he is debtor to the manes. To clear his debts towards the gods by offering sacrifies to them, he must have some property. Any act required for the acquisition of anything, should be done in the north-eastern direction.
मूलम्
तस्मादेतस्यां दिशि यतेत वा यातयेद्वेश्वरो हानृणाकर्तोः ।
विश्वास-प्रस्तुतिः
ते देवा अब्रुवन्नराजतया वै नो जयन्ति राजानं करवामहा इति ।
Haug
The Devas said, it is on account of our having no king, that the Asuras defeat us. Let us elect a king.
मूलम्
ते देवा अब्रुवन्नराजतया वै नो जयन्ति राजानं करवामहा इति ।
विश्वास-प्रस्तुतिः
तथेति ।
Haug
All consented.
मूलम्
तथेति ।
विश्वास-प्रस्तुतिः
ते सोमं राजानमकुर्वन् ।
Haug
They elected Soma their king.
मूलम्
ते सोमं राजानमकुर्वन् ।
विश्वास-प्रस्तुतिः
ते सोमेन राज्ञा सर्वा दिशो ऽजयन् ।
Haug
Headed by the king Soma, they were victorious in all directions.
मूलम्
ते सोमेन राज्ञा सर्वा दिशो ऽजयन् ।
विश्वास-प्रस्तुतिः
एष वै सोमराजा यो यजते ।
Haug
He who brings the sacrifice is the king Soma.
मूलम्
एष वै सोमराजा यो यजते ।
विश्वास-प्रस्तुतिः
प्राचि तिष्ठत्यादधति तेन प्राचीं दिशं जयति ।
Haug
The Soma faces the eastern direction, when the priests put him (on the cart). By this means the sacrificer conquers the eastern direction.
मूलम्
प्राचि तिष्ठत्यादधति तेन प्राचीं दिशं जयति ।
विश्वास-प्रस्तुतिः
तं दक्षिणा परिवहन्ति तेन दक्षिणां दिशं जयति ।
Haug
The priests turn the cart round in the southern direction. By this means he conquers the southern direction.
मूलम्
तं दक्षिणा परिवहन्ति तेन दक्षिणां दिशं जयति ।
विश्वास-प्रस्तुतिः
तम्प्रत्यञ्चमावर्तयन्ति तेन प्रतीचीं दिशं जयति ।
Haug
They turn (the cart) towards the west; by this means he conquers the western direction.
मूलम्
तम्प्रत्यञ्चमावर्तयन्ति तेन प्रतीचीं दिशं जयति ।
विश्वास-प्रस्तुतिः
तमुदीचस्तिष्ठत उपावहरन्ति तेनोदीचिं दिशं जयति ।
Haug
When the cart stands in the northern direction, they take (the Soma) off. By this means he conquers the northern direction.
मूलम्
तमुदीचस्तिष्ठत उपावहरन्ति तेनोदीचिं दिशं जयति ।
विश्वास-प्रस्तुतिः
सोमेन राज्ञा सर्वा दिशो जयति य एवं वेद ।
Haug
He who has this knowledge conquers all directions.
मूलम्
सोमेन राज्ञा सर्वा दिशो जयति य एवं वेद ।