अन्यतरोऽनड्वान्युक्तः स्यादन्यतरो विमुक्तोऽथ राजानमुपावहरेयुर्यदुभयो-र्विमुक्तयोरुपावहरेयुः पितृदेवत्यं राजानं कुर्युर्यद्युक्तयोरयोगक्षेमः प्रजा विन्दे-त्ताः प्रजाः परिप्लवेरन्योऽनड्वान्विमुक्तस्तच्छालासदाम्प्रजानां रूपं यो युक्त-स्तच्चक्रियाणां ते ये युक्तेऽन्ये विमुक्तेऽन्य उपावहरन्त्युभवेव ते क्षेमयोगौ कल्पयन्ति देवासुरा वा एषु लोकेषु समयतन्त त एतस्याम्प्राच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंश्ते दक्षिणस्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंश्ते प्रतीच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंश्त उदीच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्त उदीच्याम्प्राच्यां दिश्ययतन्त ते ततो न पराजयन्त सैषा दिगपराजिता तस्मादेतस्यां दिशि यतेत वा यातयेद्वेश्वरो हानृणाकर्तोस्ते देव अब्रुवन्नराजतया वै नो जयन्ति राजानं करवामहा इति तथेति ते सोमं राजानमकुर्वंस्ते सोमेन राज्ना सर्वा दिशोऽजयन्नेष वै सोमराजा यो यजते प्राचि तिष्ठत्यादधति तेन प्राचीं दिशं जयति तं दक्षिणा परिवहन्ति तेन दक्षिणां दिशं जयति तम्प्रत्यञ्चमावर्तयन्ति तेन प्रतीचीं दिशं जयति तमुदीचस्तिष्ठत उपावहरन्ति तेनोदीचिं दिशं जयति सोमेन राज्ञा सर्वा दिशो जयति य एवं
वेद १४