१२

प्राच्यां वै दिशि देवाः सोमं राजानमक्रीणंस्तस्मात्प्राच्यां दिशि क्रीयते तं त्रयोदशान्माआदक्रीणंस्तस्मात्त्रयोदशो मासो नानुविद्यते न वै सोमवि-क्रय्यनुविद्यते पापो हि सोमविक्रयी तस्य क्रीतस्य मनुष्यानभ्युपावर्तमानस्य दिशो वीर्याणीन्द्रि याणि व्युदसीदंस्तान्येकयर्चावारुरुत्सन्त तानि नाशक्नु-वंशतानि द्वाभ्यां तानि तिसृभिस्तानि चतसृभिस्तानि पञ्चभिस्तानि षड्भिस्तानि सप्तभिर्नैवावारुन्धत तान्यष्टाभिरवारुन्धताष्टाभिराश्नुवत यदष्टाभिरवारुन्धता-ष्टाभिराश्नुवत तदष्टानामष्टत्वमश्नुते यद्-यत्कामयते य एवं वेद तस्मादेतेषु

कर्मस्वष्टावष्टावनूच्यन्त इन्द्रि याणां वीर्याणामवरुद्ध्यै १२