११

प्रयाजवदननुयाजं कर्तव्यम्प्रायणीयमित्याहुर्हीनमिव वा एतदीङ्खितमिव यत्प्रायणीयस्यानुयाजा इति तत्तन्नादृत्यम्प्रयाजवदेवानुयाजवत्कर्तव्यम्प्राणा वै प्रयाजाः प्रजानुयाजा यत्प्रयाजानन्तरियात्प्राणांस्तद्यजमानस्यान्तरियाद्यदनु-याजानन्तरियात्प्रजां तद्यजमानस्यान्तरियात्तस्मात्प्रयाजवदेवानुयाजवत्कर्त-व्यम्पत्नीर्न संयाजयेत्संस्थितयजुर्न जुहुयात्तावतैव यज्ञोऽसंस्थितः प्रायणीयस्य निष्कासं निदध्यात्तमुदयनीयेनाभिनिर्वपेद्यज्ञस्य संतत्यै यज्ञ् अस्याव्यवछेदा-याथो खलु यस्यामेव स्थाल्याम्प्रायणीयं निर्वपेत्तस्यामुदयनीयं निर्वपेत्तावतैव यज्ञः संततोऽव्यवछिन्नो भवत्यमुष्मिन्वा एतेन लोके राध्नुवन्ति नास्मिन्नित्याहु-र्यत्प्रायणीयमिति प्रायणीयमिति निर्वपन्ति प्रायणीयमिति चरन्ति प्रयन्त्येवा-स्माँ ल्लोकाद्यजमाना इत्यविद्ययैव तदाहुर्व्यतिषजेद्याज्यानुवाक्या याः प्राय-णीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः कुर्याद्या उदयनीयस्य पुरो-नुवाक्यास्ताः प्रायणीयस्य याज्याः कुर्यात्तद्व्यतिषजत्युभयोर्लोकयोरृद्ध्या उभयोर्लोकयोः प्रतिष्ठित्या उभयोर्लोकयोरृध्नोत्युभयोर्लोकयोः प्रतितिष्ठति प्रतितिष्ठति य एवं वेदादित्यश्चरुः प्रायणियो भवत्यादित्य उदयनीयो यज्ञस्य धृत्यै यज्ञस्य बर्सनद्ध्यै यज्ञस्याप्रस्रंसाय तद्यथैवाद इति ह स्माह तेजन्या उभयतोऽन्तयोरप्रस्रंसाय बर्सौ नह्यत्येवमेवैतद्यज्ञस्योभयतोऽन्तयोरप्रस्रंसय बर्सौ नह्यति यदादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्तिमभ्युद्यन्ति स्वस्त्येवेतः प्रयन्ति स्वस्त्युद्यन्ति

स्वस्त्युद्यन्ति ११