ता वा एताः प्रवत्यो नेतृमत्यः पथिमत्यः स्वस्तिमत्य एतस्य हविषो या-ज्यानुवाक्या एताभिर्वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमान एता-भिरिष्ट्वा स्वर्गं लोकं जयति तासु पदमस्ति स्वस्ति राये मरुतो दधातनेति मरुतो ह वै देवविशोऽन्तरिक्षभाजनास्तेभ्यो ह योऽनिवेद्य स्वर्गं लोकमेतीश्वरा हैनं नि व रोद्धोर्वि वा मथितोः स अदाह स्वस्ति राये मरुतो दधातनेति तम्मरुद्भ्यो देवविड्भ्यो यजमानं निवेदयति न ह वा एनम्मरुतो देवविशः स्वर्गं लोकं यन्तं निरुन्धते न विमथ्नते स्वस्ति हैनमत्यर्जन्ति स्वर्गं लोकमभि य एवं वेद विराजावेतस्य हविषः स्विष्टकृतः संयाज्ये स्यातां ये त्रयस्त्रिंशदक्षरे सेदग्निरग्नीँ रत्यस्त्वन्यान्सेदग्निर्यो वनुष्यतो निपातीत्येते विराड्भ्यां वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानो विराड्भ्यामिष्ट्वा स्वर्गं लोकं जयति ते त्रयस्त्रिंशदक्षरे भवतस्त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च तत्प्रथमे यज्ञमुखे देवता अक्षरभाजः
करोत्यक्षरेणाक्षरेणैव तद्देवताम्प्रीणाति देवपात्रेणैव तद्देवतास्तर्पयति १०