विश्वास-प्रस्तुतिः
गायत्र्यौ स्विष्टकृतः संयाज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामः ।
English
He who wishes for beauty and acquisition of sacred knowledge should use at the Sviṣṭakṛit[23] two verses in the Gāyatrī metre as his Samyājyās.
English - Notes
[23]The Sviṣṭakṛit is that part of an offering which is given to all gods indiscriminately, after the principal deities of the respective Iṣṭi (in the Dîkṣāṇīya Iṣṭi, these deities are Agni, Soma, and Agni-Viṣṇu) have received their share. The two mantras required for the Sviṣṭakṛit are called Saṁyājyā. On account of the general nature of this offering, the choice of the mantras is not so much limited as is the case when the offering is to be given to one particular deity.
मूलम्
गायत्र्यौ स्विष्टकृतः संयाज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामः ।
विश्वास-प्रस्तुतिः
तेजो वै ब्रह्मवर्चसं गायत्री ।
English
For the Gāyatrī is beauty and sacred knowledge.
मूलम्
तेजो वै ब्रह्मवर्चसं गायत्री ।
विश्वास-प्रस्तुतिः
तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गायत्र्यौ कुरुते ।
English
He who having such a knowledge uses two Gāyatrīs[24] (at the Sviṣṭakṛit) becomes full of beauty and acquires sacred knowledge.
English - Notes
[24]They are, sa havyavāl amartyaḥ (3, 11, 2), and Agnir hotā purohitaḥ (3, 11, 1).
मूलम्
तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गायत्र्यौ कुरुते ।
विश्वास-प्रस्तुतिः
उष्णिहावायुष्कामः कुर्वीत ।
English
He who wishes for long life, should use two verses in the Uṣṇih metre;
मूलम्
उष्णिहावायुष्कामः कुर्वीत ।
विश्वास-प्रस्तुतिः
आयुर्वा उष्णिक् ।
English
for Uṣṇih is life.
मूलम्
आयुर्वा उष्णिक् ।
विश्वास-प्रस्तुतिः
सर्वमायुरेति य एवं विद्वानुष्णिहौ कुरुते ।
English
He who having such a knowledge uses two Uṣṇihs[25] arrives at his full age (i.e., 100 years).
English - Notes
They are, agne vijasya gomataḥ (1, 79, 4), and sa idkāno vasuṣ haviḥ (1, 79, 5).
मूलम्
सर्वमायुरेति य एवं विद्वानुष्णिहौ कुरुते ।
विश्वास-प्रस्तुतिः
अनुष्टुभौ स्वर्गकामः कुर्वीत ।
English
He who desires heaven, should use two Anuṣṭubhs.
मूलम्
अनुष्टुभौ स्वर्गकामः कुर्वीत ।
विश्वास-प्रस्तुतिः
द्वयोर्वा अनुष्टुभोश्चतुःषष्टिरक्षराणि ।
English
There are sixty-four syllables in two Anuṣṭubhs.[26]
English - Notes
[26]Tvam agne vaśūn (1, 45, 1. 2).
मूलम्
द्वयोर्वा अनुष्टुभोश्चतुःषष्टिरक्षराणि ।
विश्वास-प्रस्तुतिः
त्रय इम ऊर्ध्वा एकविंशा लोका ।
English
Each of these three worlds (earth, air, and sky) contains twenty-one places, one rising above the other (just as the steps of a ladder).
मूलम्
त्रय इम ऊर्ध्वा एकविंशा लोका ।
विश्वास-प्रस्तुतिः
एकविंशत्यैकविंशत्यैवेमाँ ल्लोकान्रोहति स्वर्ग एव लोके चतुःषष्टितमेन प्रतितिष्ठति ।
English
By twenty-one steps he ascends to each of these worlds severally;[27] by taking the sixty-fourth step he stands firm in the celestial world.
English - Notes
[27]This makes on the whole 63 steps.
मूलम्
एकविंशत्यैकविंशत्यैवेमाँ ल्लोकान्रोहति स्वर्ग एव लोके चतुःषष्टितमेन प्रतितिष्ठति ।
विश्वास-प्रस्तुतिः
प्रतितिष्ठति य एवं विद्वाननुष्टुभौ कुरुते ।
English
He who, having such a knowledge, uses two Anuṣṭubhs, gains a footing (in the celestial world).
मूलम्
प्रतितिष्ठति य एवं विद्वाननुष्टुभौ कुरुते ।
विश्वास-प्रस्तुतिः
बृहत्यौ श्रीकामो यशस्कामः कुर्वीत ।
English
He who desires wealth and glory, should use two Bṛihatīs.
मूलम्
बृहत्यौ श्रीकामो यशस्कामः कुर्वीत ।
विश्वास-प्रस्तुतिः
श्रीर्वै यशश्छन्दसाम्बृहती ।
English
For among the metres the Bṛihatī[28] is wealth and glory.
English - Notes
[28]They are, ena vo agniṃ (7, 16, 1), and udasya śochiḥ (7, 16, 3).
मूलम्
श्रीर्वै यशश्छन्दसाम्बृहती ।
विश्वास-प्रस्तुतिः
श्रियमेव यश आत्मन्धत्ते य एवं विद्वान्बृहत्यौ कुरुते ।
English
He who, having such a knowledge, uses two Bṛihatīs, bestows upon himself wealth and glory.
मूलम्
श्रियमेव यश आत्मन्धत्ते य एवं विद्वान्बृहत्यौ कुरुते ।
विश्वास-प्रस्तुतिः
पङ्क्ती यज्ञकामः कुर्वीत ।
English
He who loves the sacrifice should use two Paṅktis.[29]
English - Notes
²⁹ Agnim tam manye (5, 6, 1. 2).
मूलम्
पङ्क्ती यज्ञकामः कुर्वीत ।
विश्वास-प्रस्तुतिः
पाङ्क्तो वै यज्ञ ।
English
For the sacrifice is like a Paṅkti.
मूलम्
पाङ्क्तो वै यज्ञ ।
विश्वास-प्रस्तुतिः
उपैनं यज्ञो नमति य एवं विद्वान्पङ्क्ती कुरुते ।
English
It comes to him who having such a knowledge uses two Paṅktis.
मूलम्
उपैनं यज्ञो नमति य एवं विद्वान्पङ्क्ती कुरुते ।
विश्वास-प्रस्तुतिः
त्रिष्टुभौ वीर्यकामः कुर्वीत ।
English
He who desires strength should use two Triṣṭubhs.[30]
English - Notes
[30]Dve virūpe charathaḥ (1. 95, 1, 2).
मूलम्
त्रिष्टुभौ वीर्यकामः कुर्वीत ।
विश्वास-प्रस्तुतिः
ओजो वा इन्द्रियं वीर्यं त्रिष्टुब् ।
English
Triṣṭubh is strength, vigour, and sharpness of senses.
मूलम्
ओजो वा इन्द्रियं वीर्यं त्रिष्टुब् ।
विश्वास-प्रस्तुतिः
ओजस्वीन्द्रियवान्वीर्यवान्भवति य एवं विद्वांस्त्रिष्टुभौ कुरुते ।
English
He who knowing this, uses two Triṣṭubhs, becomes vigorous, endowed with sharp senses and strong.
मूलम्
ओजस्वीन्द्रियवान्वीर्यवान्भवति य एवं विद्वांस्त्रिष्टुभौ कुरुते ।
विश्वास-प्रस्तुतिः
जगत्यौ पशुकामः कुर्वीत ।
English
He who desires cattle should use two Jagatīs (verses in the Jagatī metre).[31]
English - Notes
[31]They are, amasya gopā (5, 11, 1, 2).
मूलम्
जगत्यौ पशुकामः कुर्वीत ।
विश्वास-प्रस्तुतिः
जागता वै पशवः ।
English
Cattle are Jagatī-like.
मूलम्
जागता वै पशवः ।
विश्वास-प्रस्तुतिः
पशुमान्भवति य एवं विद्वाञ्जगत्यौ कुरुते ।
English
He who knowing this, uses two Jagatīs, becomes rich in cattle.
मूलम्
पशुमान्भवति य एवं विद्वाञ्जगत्यौ कुरुते ।
विश्वास-प्रस्तुतिः
विराजावन्नाद्यकामः कुर्वीत ।
English
He who desires food (annādya) should use two verses in the Virāj metre.[32]
English - Notes
[32]They are, preddho agne (7, 1, 3), and imo agne (7, 1, 18).
मूलम्
विराजावन्नाद्यकामः कुर्वीत ।
विश्वास-प्रस्तुतिः
अन्नं वै विराट् ।
English
Virāj is food.
मूलम्
अन्नं वै विराट् ।
विश्वास-प्रस्तुतिः
तस्माद्यस्यैवेह भूयिष्ठमन्नम्भवति स एव भूयिष्ठं लोके विराजति ।
English
Therefore he who has most of food, shines (vi-rājati) most on earth.
मूलम्
तस्माद्यस्यैवेह भूयिष्ठमन्नम्भवति स एव भूयिष्ठं लोके विराजति ।
विश्वास-प्रस्तुतिः
तद्विराजो विराट्त्वम् ।
English
This is the reason why it is called virāj (from vi-rāj, to shine).
मूलम्
तद्विराजो विराट्त्वम् ।
विश्वास-प्रस्तुतिः
वि स्वेषु राजति श्रेष्ठः स्वानाम्भवति य एवं वेद ।
English
He who knows this, shines forth among his own people, (and) becomes the most influential man among his own people.
मूलम्
वि स्वेषु राजति श्रेष्ठः स्वानाम्भवति य एवं वेद ।