विश्वास-प्रस्तुतिः
पुनर्वा एनमृत्विजो गर्भं कुर्वन्ति यं दीक्षयन्ति ।
English
The priests make him whom they initiate (by means of the Dîkṣā ceremony) to be an embryo again (i.e., they produce him anew altogether).
मूलम्
पुनर्वा एनमृत्विजो गर्भं कुर्वन्ति यं दीक्षयन्ति ।
विश्वास-प्रस्तुतिः
अद्भिरभिषिञ्चन्ति रेतो वा आपः ।
English
They sprinkle him with water; for water is seed.
मूलम्
अद्भिरभिषिञ्चन्ति रेतो वा आपः ।
विश्वास-प्रस्तुतिः
सरेतसमेवैनं तत्कृत्वा दीक्षयन्ति ।
English
By having thus provided him with seed (for his new birth), they initiate him.
मूलम्
सरेतसमेवैनं तत्कृत्वा दीक्षयन्ति ।
विश्वास-प्रस्तुतिः
नवनीतेनाभ्यञ्जन्ति ।
English
They besmear him with fresh butter (navanîta).
मूलम्
नवनीतेनाभ्यञ्जन्ति ।
विश्वास-प्रस्तुतिः
आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितृणां नवनीतं गर्भाणाम् ।
English
The butter for the gods is called ājya,[15] that for men surabhi ghṛitam, that for the manes āyuta, and that for the embryos navanîta.
English - Notes
[15]To remind his readers of the difference existing between ājya and ghṛita, Sāy. quotes an ancient versus memorialis (Kārikā), sarpir vilīnam ājyaṁ syāt; ghanībhūtaṁ ghṛitam viduḥ, i.e., they call the butter which is in a liquid condition, ājya, and that one which is hardened is called ghṛita. *Āyuta is the butter when but slightly molten, and surabhi when well seasoned. According to the opinion of the Taittirīyas, says Sāyaṇa, the butter for the gods is called ghṛita, that for the manes āstu, and that for men nispakvā. Astu is the same as āyuta, slightly molten, and nispakvā, the same as ājya, entirely molten.
मूलम्
आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितृणां नवनीतं गर्भाणाम् ।
विश्वास-प्रस्तुतिः
तद्यन्नवनीतेनाभ्यञ्जन्ति स्वेनैवैनं तद्भागधेयेन समर्धयन्ति ।
English
Therefore by anointing him with fresh butter, they make him thrive through his own portion.
मूलम्
तद्यन्नवनीतेनाभ्यञ्जन्ति स्वेनैवैनं तद्भागधेयेन समर्धयन्ति ।
विश्वास-प्रस्तुतिः
आञ्जन्त्येनम् ।
English
They besmear his eyes with collyrium.
मूलम्
आञ्जन्त्येनम् ।
विश्वास-प्रस्तुतिः
तेजो वा एतदक्ष्योर्यदाञ्जनम् ।
English
For this anointment is lustre for both eyes.
मूलम्
तेजो वा एतदक्ष्योर्यदाञ्जनम् ।
विश्वास-प्रस्तुतिः
सतेजसमेवैनं तत्कृत्वा दीक्षयन्ति ।
English
By having imparted lustre to him, they make him a Dîkṣita.
मूलम्
सतेजसमेवैनं तत्कृत्वा दीक्षयन्ति ।
विश्वास-प्रस्तुतिः
एकविंशत्या दर्भपिञ्जूलैः पावयन्ति ।
English
They rub him clean with twenty-one handfuls of Darbha grass.
मूलम्
एकविंशत्या दर्भपिञ्जूलैः पावयन्ति ।
विश्वास-प्रस्तुतिः
शुद्धमेवैनं तत्पूतं दीक्षयन्ति ।
English
By having thus made pure and clean they make him a Dîkṣita.
मूलम्
शुद्धमेवैनं तत्पूतं दीक्षयन्ति।
विश्वास-प्रस्तुतिः
दीक्षितविमितं प्रपादयन्ति ।
English
They make him enter the place destined for the Dîkṣita.[16]
English - Notes
[16]Dīkṣita-vimita. It is that place which is generally called prāchīna vaṁśa (or prāg-vaṁśa). This place is to represent the womb which the Dîkṣita enters in the shape of an embryo to be born again. This is clearly enough stated in the Brāhmaṇa of another Śākhā, which Sāyaṇa quotes: तेन प्राचीनवंशप्रवेशेन स्वकीययोनिप्रवेशः सम्पाद्यते.
मूलम्
दीक्षितविमितं प्रपादयन्ति ।
विश्वास-प्रस्तुतिः
योनिर्वा एषा दीक्षितस्य यद्दीक्षितविमितम् ।
English
For this is the womb of the Dîkṣita.
मूलम्
योनिर्वा एषा दीक्षितस्य यद्दीक्षितविमितम् ।
विश्वास-प्रस्तुतिः
योनिमेवैनं तत्स्वां प्रपादयन्ति ।
English
When they make him enter the place destined for the Dîkṣita, then they make him thus enter his own womb.
मूलम्
योनिमेवैनं तत्स्वां प्रपादयन्ति ।
विश्वास-प्रस्तुतिः
तस्माद्ध्रुवाद्योनेरास्ते चरति च ।
English
In this (place) he sits as in a secure abode,[17] and thence he departs.
English - Notes
[17]Sāyaṇa takes the three ablatives- tasmād, dhruvād, yoner, in the sense of locatives; but I think this interpretation not quite correct. The ablative is chosen on account of the verb charati, he walks, goes, indicating the point, whence he starts. The other verb āste, he sits, would require the locative. Therefore we should expect both cases, locative and ablative. On account of conciseness, only the latter is chosen, but the former is then to be understood.
मूलम्
तस्माद्ध्रुवाद्योनेरास्ते चरति च ।
विश्वास-प्रस्तुतिः
तस्माद्ध्रुवाद्योनेर्गर्भा धीयन्ते च प्र च जायन्ते ।
English
Therefore the embryos are placed in the womb as a secure place, and thence they are brought forth (as fruit).
मूलम्
तस्माद्ध्रुवाद्योनेर्गर्भा धीयन्ते च प्र च जायन्ते ।
विश्वास-प्रस्तुतिः
तस्माद्दीक्षितं नान्यत्र दीक्षितविमितादादित्यो ऽभ्युदियाद्वा ऽभ्यस्तमियाद्वा ऽपि वा ऽभ्याश्रावयेयुः ।
English
Therefore the sun should neither rise nor set over him finding him in any other place than the spot assigned to the Dîkṣita; nor should they speak to him (if he should be compelled to leave his place).[18]
English - Notes
[18]For performing, for instance, the functions of nature.- Sāy.
मूलम्
तस्माद्दीक्षितं नान्यत्र दीक्षितविमितादादित्यो ऽभ्युदियाद्वा ऽभ्यस्तमियाद्वा ऽपि वा ऽभ्याश्रावयेयुः ।
विश्वास-प्रस्तुतिः
वाससा प्रोर्णुवन्ति ।
English
They cover him with a cloth.
मूलम्
वाससा प्रोर्णुवन्ति ।
विश्वास-प्रस्तुतिः
उल्बं वा एतद्दीक्षितस्य यद्वास ।
English
For this cloth is the caul (ulba) of the Dîkṣita (with which he is to be born, like a child);
मूलम्
उल्बं वा एतद्दीक्षितस्य यद्वास ।
विश्वास-प्रस्तुतिः
उल्बेनैवैनं तत्प्रोर्णुवन्ति ।
English
thus they cover him with the caul.
मूलम्
उल्बेनैवैनं तत्प्रोर्णुवन्ति ।
विश्वास-प्रस्तुतिः
कृष्णाजिनमुत्तरं भवति ।
English
Outside (this cloth) there is (put by them) the skin of a black antelope.
मूलम्
कृष्णाजिनमुत्तरं भवति ।
विश्वास-प्रस्तुतिः
उत्तरं वा उल्बाज्जरायु ।
English
For outside the caul, there is the placenta (jarāyu).
मूलम्
उत्तरं वा उल्बाज्जरायु ।
विश्वास-प्रस्तुतिः
जरायुणैवैनं तत्प्रोर्णुवन्ति ।
English
Thus they cover him (symbolically by the skin of the antelope) with the placenta.
मूलम्
जरायुणैवैनं तत्प्रोर्णुवन्ति ।
विश्वास-प्रस्तुतिः
मुष्टी कुरुते ।
English
He closes his hands.
मूलम्
मुष्टी कुरुते ।
विश्वास-प्रस्तुतिः
मुष्टी वै कृत्वा गर्भो ऽन्तः शेते मुष्टी कृत्वा कुमारो जायते ।
English
For with closed hands the embryo lies within (the womb); with closed hands the child is born.
मूलम्
मुष्टी वै कृत्वा गर्भो ऽन्तः शेते मुष्टी कृत्वा कुमारो जायते ।
विश्वास-प्रस्तुतिः
यज्ञं चैव तत्सर्वाश्च देवता मुष्ट्योः कुरुते ।
English
As he closes his hands, he thus holds the sacrifice, and all its deities in his two hands closed.
मूलम्
यज्ञं चैव तत्सर्वाश्च देवता मुष्ट्योः कुरुते ।
विश्वास-प्रस्तुतिः
तदाहुर्न पूर्वदीक्षिणः संसवो ऽस्ति ।
English
They allege a reason (why the Dîkṣita should close together both his hands) that he who takes (among two who are sacrificing on the same place and at the same time) his Dîkṣā (initiation) first, is not guilty (of the sin) of “confusion of libations” (saṃsara).[19]
English - Notes
[19]If two or more people offer their Soma-libations at the same time, and at places which are not separated from one another, either by a river, or by a mountain, then a saṁsava or confusion of libation is caused, which is regarded as a great sin. He, however, who has performed his Dîkṣā first, and holds the gods between his hands, is not guilty of such a sin, and the gods will be with him.- Sāy.
मूलम्
तदाहुर्न पूर्वदीक्षिणः संसवो ऽस्ति ।
विश्वास-प्रस्तुतिः
परिगृहीतो वा एतस्य यज्ञः परिगृहीता देवता नैतस्या ऽऽर्तिरस्त्यपरदीक्षिण एव यथा तथेति ।
English
For his sacrifice and the deities are held fast (in his hands); and (consequently) he does not suffer any loss like that which falls on him who performed his Dîkṣā later.
मूलम्
परिगृहीतो वा एतस्य यज्ञः परिगृहीता देवता नैतस्या ऽऽर्तिरस्त्यपरदीक्षिण एव यथा तथेति ।
विश्वास-प्रस्तुतिः
उन्मुच्य कृष्णाजिनमवभृथमभ्यवैति ।
English
After having put off the skin of the black antelope he descends to bathe.
मूलम्
उन्मुच्य कृष्णाजिनमवभृथमभ्यवैति ।
विश्वास-प्रस्तुतिः
तस्मान्मुक्ता गर्भा जरायोर्जायन्ते ।
English
Thence embryos are born after they are separated from the placenta.
मूलम्
तस्मान्मुक्ता गर्भा जरायोर्जायन्ते ।
विश्वास-प्रस्तुतिः
सहैव वाससा ऽभ्यवैति ।
English
He descends to bathe with the cloth (which was put on him).
मूलम्
सहैव वाससा ऽभ्यवैति ।
विश्वास-प्रस्तुतिः
तस्मात्सहैवोल्बेन कुमारो जायते ।
English
Thence a child is born together with the caul.
मूलम्
तस्मात्सहैवोल्बेन कुमारो जायते ।