४०

अथ चत्वारिंशोऽध्यायः।

महाभिषेक ऐन्द्रो यः क्षत्रस्यासौ पुरोहितः॥

पौरोहित्यं ब्रामणस्य वक्तव्यमधुनोच्यते ॥ १॥ तदेतत्पतिजानीते

अथातः पुरोधाया एव, इति । अथ क्षत्रियस्य महाभिषेककथनानन्तरं यतो ब्रामणस्य पौरोहित्यं बहुषु श्रुतं भवति । अतः कारणात्पुरोधाया एव पौरोहित्यस्यैव विषिरुच्यत इति शेषः।

petizen in Google


.

९५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[४०चत्वारि ध्याये

तद्विर्षि दर्शयति

न ह वा अपुरोहितस्य राज्ञो देवा अन्न मदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणं

पुरो दधीत देवा मेऽनमदनिति, इति । यस्मादपुरोहितस्य राशोऽनं देवा नादन्ति न भक्षयन्ति तस्माद्राजा यक्ष्य माणो ब्रामणं पुरोहितं कुर्यात् । केनाभिमायणति सोऽभिधीयते । देवा मदी. यमनमदमदन्त्विति तस्याभिमायः । अयक्ष्यमाण इति वा पदच्छेदः। यागा. भावेऽपि प्रजापरिपालने धर्मबोधनाय पुरोहितः संपादनीयः ।

तदेवमेतत्मशंसति

अग्रीवा एष स्वात्राजोद्धरते यत्पुरोहितम्, इति । पुरोहितं संपादयतीति यदस्ति तेनैष राजा स्वर्गहेतूननीनेवोदरते। ताननीन्दर्शयति

तस्य पुरोहित एवाऽऽहवनीयो भवति जाया गार्हपत्यः पुत्रोऽन्वाहार्यपचनः स यत्पुरोहि ताय करोत्याहवनीय एव तज्जुहोत्यथ यज्जा यायै करोति गार्हपत्य एव तज्जुहोत्यथ यत्पु त्राय करोत्यन्वाहार्यपचन एव तज्जुहोति त एनं शान्ततनवोऽभिहुता अभिप्रीताः स्वर्ग लोकम

भिवहन्ति क्षत्रं च बलं च राष्ट्रं च विशंच, इति । तस्य राज्ञः पुरोहितादय एवाऽऽहवनीयाथमिस्थानीयाः। अन्वाहार्यपचनो दक्षिणामिः। स राजा पुरोहितादिभ्यो यदपेक्षितं करोति तदेतदाहवनीया दिषु होमसमानम् । अतः पुरोहितद्वारा तेऽमयः शान्ततनवः स्वकीयमुत्ररू. पत्वं परित्यज्याभीष्टहोमेन प्रीता एनं क्षत्रियं स्वर्गादिकं प्रापयन्ति । सनं मान सोत्साहरूपं शौर्यम् । बलं शारीरम् । राष्ट्र देशः । विदाजा । पुरोहितादि प्रीत्या तदेतत्सर्वं प्राप्यते । विपले पाषकमाह

त एवैनमशान्ततनवोऽनभिहुता अनभिप्रीताः स्वर्गा

,

१ प्रथमः खण्डः] ऐतरेयबामणम् ।

९५७ ल्लोकानुदन्ते क्षत्राच्च बलाच राष्ट्राच्च विशश्च, इति । त एव पुरोहितादयोऽभीष्टहोमाभावेन प्रीतिरहिता अशान्ततनवः स्वर्गा देरेनमपनुदन्ते ।

पुनरपि पुरोहितं प्रकारान्तरेण प्रशंसति

अग्निर्वा एष वैश्वानरः पञ्चमेनियत्पुरोहित स्तस्य वाच्येवैका मेनिर्भवति पादयोरेका खच्येका हृदय एकोपस्थ एका तामिर्च लन्तीभिदीप्यमानाभिरुपोदेति राजानं स यदाह व भगवोऽवात्सीस्तृणान्यस्मा आहर तेति तेनास्य तां शमयति याऽस्य वाचि मेनि भवत्यथ यदस्मा उदकमानयन्ति पाद्यं तेनास्य तां शमयति याऽस्य पादयोमनिर्भवत्यथ यदेनमलं कुर्वन्ति तेनास्य तां शमयति याऽस्य त्वचि मेनिर्भवत्यथ यदेनं तर्पयन्ति तेनास्य तां शमयति याऽस्य हृदये मेनिर्भ वत्यथ यदस्यानारुतो वेश्मसु वसति तेनास्य

तां शमयति याऽस्योपस्थे मेनिर्भवति, इति । परोपद्रवकारिणी क्रोधरूपा शक्तिर्मेनिरित्युच्यते । यथाऽनेर्वाला तद्वत् । अतो यः पुरोहितोऽस्ति सोऽयं पञ्चविधमेन्युपेतो वैश्वानरनामकागिसमानः । बागादीनि पञ्च मेनिस्थानानि । अतः पुरोहितस्ताभिर्मेनिभिर्व्वलन्तीभिर्चा लासहशीभिर्दीप्यमानाभिः परेषु दीप्तिं संतापं कुर्वतीभिः सह राजानमुपोदेति समीपे पामोति । तदा स राजा हे भगवनेतावन्तं कालं कुत्रावात्सीः । एतस्य पुरोहितस्योपवेशनार्थ हे परिचारकास्तृणानि तृणनिर्मितकुशाबासनान्याहरते. त्यनेन राजसंबन्धिना प्रियवाक्येन(ण) वाच्येका या मेनिर्बाधिका शक्तिस्तांस राजा शमयति । पाघार्थोदकानयनेन पादगता मेनिः शाम्यति । वस्खगन्धाध लंकरणेन त्वग्गता मेनिः शाम्यति । धनादिना संतपणेन हृदयगता मेनि: शाम्यति । अस्य राज्ञो वेश्मस्वनारुदो निरोधरहितः शयनादिकं कुर्वन्विस

९५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्–[४०चत्वारिं०ध्याये म्भेण वसतीति यदस्ति तेनोपस्थस्था मेनिः शाम्यति । गृहे समागतस्य पुरो हितस्यैतावन्त उपचाराः कर्तव्या इत्यर्थः ।

अन्वयव्यतिरेकाभ्यामुक्तोपचारं प्रशंसति

स एनं शान्ततनुरभिहुतोऽभिप्रीतः स्वर्ग लोकम भिवहति क्षत्रं च बलं च राष्ट्रं च विशं च स एवै नमशान्ततनुरनभिहुतोऽनभिप्रीतः स्वर्गाल्लोकात्रु

दते क्षत्राच बलाच राष्ट्राच विशश्च ॥२४॥ इति । उक्तोपचारहोमेन प्रीतो सत्यां शान्ततनुः स्वर्गादिकं प्रापयतीत्यन्वयः । उक्तोपचारहोमाभावे स्वर्गादेरपनुदतीति व्यतिरेकः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

णभाष्ये चत्वारिंशाध्याये प्रथमः खण्डः ॥१॥ (२४) [१८२] उक्तोपचारेण भीतं पुरोहितं दृष्टान्तेन प्रशंसति

अनिर्वा एष वैश्वानरः पञ्चमेनियत्पुरोहितस्ताभी

राजानं परिगृह्य तिष्ठति समुद्र इव भूमिम्, इति । योऽयं पुरोहितोऽस्ति स एष पञ्चमेनिः पञ्चविधोग्रशक्तियुक्तो वैश्वानरना. मकोऽमिरेव निग्रहानुग्रहयोरनिवच्छक्तिमत्त्वात् । पुरोहितस्ताभिः शान्ताभिः शक्तिभिस्तं राजानं परिगृह्य परितः स्वीकृत्य तिष्ठति । यथा समुद्रो भूमि परितः स्वीकृत्य तिष्ठति तद्वत् ।

पुरोहितवशादनिष्टं परिहारयति

अयुवमार्यस्य राष्ट्रं भवति नैनं पुराऽऽयुषः प्राणो जहात्याजरसं जीवति सर्वमायुरोति न पुनर्मियते

यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः, इति । यस्य राज एवं विद्वान्वेदशास्त्रोक्तप्रकारेण धर्माधर्मों बोधयितुमभिशोब्रामणो राष्ट्रगोपो राज्यपरिपालनक्षमः पुरोहितो भवति । ईशस्याऽऽर्यस्य राज्ञो राष्ट्र मयुवं कदाचिदपि पृथग्भावरहितं भवति ‘यु मिश्रणामिश्रणयोः’ इति धातुरमि श्रणे वर्तते । अयुवमिति पदेन स निषिध्यते । राष्ट्रमस्थिरं न भवतीत्यर्थः। अथवाऽस्य राष्ट्रमयुवमारि युवमरणरहितं भवतीत्यर्थः । एनं राजानमायुषः पुरा३. तृतीयः खण्डः] ऐतरेयबामणम् ।

९५९ प्राणो न परित्यजति अपमृत्युनं भवतीत्यर्थः । अत एवाऽऽजरसं जरापर्यन्तं मुखेन जीवति । सर्वमायुरेति प्राप्तायामपि जरायामवशिष्टं सर्वमायुः पामोति । ततः सकृन्मृत्वा न पुनम्रियते पुरोहितमुखेन तत्त्वज्ञानं संपाच मुच्यत इत्यर्थः।

अनिष्टपरिहारं दर्शयित्वेष्टमाप्तिं दर्शयति

क्षत्रेण क्षत्रं जयति बलेन बलमश्नुते यस्यैवं

विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः, इति । उक्तविधपुरोहितयुक्तो राजा स्वकीयेन क्षत्रेण कुमारादिना परकीय क्षत्रं कुमारादिकं जयति । तथा स्वकीयेन बलेन सैन्येन परकीयं बलं सैन्यमभुते व्यामोति अभिभवतीत्यर्थः।

इष्टमाप्त्यनिष्टपरिहारौ दर्शयित्वा प्रजानुरागं दर्शयति

तस्मै विशः संजानते संमुखा एकमनसो यस्यैवं विहान्ब्राह्मणो राष्ट्रगोपः पुरोहितः॥२५॥ इति । उक्तविधपुरोहितयुक्ताय तस्मै तस्य राज्ञो विशः प्रजाः संजानते राजा सहै कमत्यं प्रामुवन्ति । माय च परस्परमप्येकमनस्का राज्ञः संमुखा भवन्ति । न तु कस्मिमपि कार्ये विमुखाः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्म णभाष्ये चत्वारिंशाध्याये द्वितीयः खण्डः ॥२॥ (२५) [१८३]

14-.

पुरोहितमहिमानं दर्शयितुं मत्रमुदाहरति

तदप्येतदृषिणोक्तम् , इति । तदेतत्पुरोहितमाहात्म्यमप्य॒षिणा मत्रदर्शिना तिमृभिक्रग्निरुक्तम् । तत्र प्रथमाया ऋचः पूर्वार्ध दर्शयति

स इद्राजा प्रतिजन्यानि विश्वा .

शुष्मेण तस्थावभि वीर्येणेति, इति । स इत्स एव पुरोहितयुक्तो राजा प्रतिजन्यानि प्रतिपक्षवलानि विधा सर्वाणि शुष्मेण वीर्येण स्वकीयेनाधिकेन बलेनाभितस्थावभितिष्ठति अभिभव. तीत्यर्थः।

, . स इद्राजा प्रतिजन्यानि०-४-१०-

r

ic

९६० भीमरसायणाचार्यविरचितभाष्यसमेतम्-[४०चत्वारिं ध्याये

अस्यास्य तात्पर्य दर्शयति

सपला वै द्विषन्तो भ्रातृव्या जन्यानि

तानेव तच्छुष्मेण वीर्येणाधितिष्ठति, इति । जन्यानीत्यनेन सपत्ना एवाभिधीयन्ते । सपत्नशब्दस्य व्याख्यानं द्विषन्तो भ्रातृव्या इति । तानेवं भ्रातृव्यांस्तत्तेन शुष्मेणाधिकेन वीर्येण सामर्थेनाषि. तिष्ठति अभिभवति ।

तृतीयं पादमनूध व्याचष्टे

बृहस्पतिं यः सुभृतं बिभर्तीति बृहस्पतिर्ह वै देवानां पुरोहितस्तमन्वन्ये मनुष्यराज्ञां पुरो हिता बृहस्पतिं यः सुभृतं बिभर्तीति यदाह

पुरोहितं यः सुभृतं बिभर्तीयेव तदाह, इति । यो बृहस्पति बृहस्पतितुल्यं पुरोहितं सुभृतं यथा स्यात्सम्यगवस्थाप्येवि यावत् । तथा बिभर्ति पोषयति स इद्राजेति पूर्वत्रान्वयः। यो देवानां वृर स्पतिः पुरोहितस्तं बृहस्पतिमनु पश्चान्मनुष्यराज्ञामन्ये पुरोहिता वर्तन्ते । अतः पुरोहितानां बृहस्पत्यनुसारित्वाबृहस्पतिमित्यादिपदेन पुरोहितविषयमेवैत द्वाक्यं मन्त्र आह ।

चतुर्थ पादमनूध व्याचष्टे

वल्गूयति वन्दते पूर्वभाजमित्य

पचितिमेवास्मा एतदाह, इति । स राजा पूर्वभाजं प्रथमतोभजनयुक्तं पुरोहितं स हि राजानं तदीयहित. विचारेण प्रथमतो भजति । तादृशं वल्गूयति राजाऽर्चयति । वन्दते नमस्क रोति । एतदनेन पादेनास्मा अस्मिन्यजमानेऽपचितिमेव पूजामेव मत्र आह।

द्वितीयस्या ऋचः प्रथमं पादमनूध व्याचष्टे

स इत्क्षेति सुधित ओकसि व इति गृहा वा

ओकः स्वेष्वेव तद्गृहेषु सुहितो वसति, इति । * म. पुस्तकस्थः पुस्तकान्तरपाठ:–‘ति । हितोपदेशेन राजानं सुत्रु विर्भतीति सुभृत् । तादर्श बृहस्पतिसमानं बिभर्ति पोषयति । स ।

स इत्क्षेति सुधित ओकसि स्वे०-४-१०-८ ।

10.1111/

९६१

३ तृतीयः खण्डः ] ऐतरेयबामणम् । .’ स इत्स एव राजा पूजितः पुरोहितः सुधितः सुमीतः स्त्रे स्वकीय एवौ. कसि गृहे क्षेति निवसति । ओकाशब्देनात्र गृहा एवोच्यन्ते । ततः स्वेष्वेव गृहेषु सुप्रीतो वसतीत्युक्तं भवति । द्वितीयं पादमनूध व्याचष्टे

तस्मा इळा पिन्वते विश्वदानीमियनं वा

इळाऽनमेवास्मा एतदूर्जस्वच्छश्वद्भवति, इति । .. तस्मै पुरोहितयुक्ताय राज्ञ इलाऽनम् । विश्वदानीं सर्वस्मिन्नपि काल इदानीं तदानीमित्यादिवदवगन्तव्यम् । पिन्वते वर्धते । अनसमृद्धिर्भवति । अस्मिन्पाद इलाशब्देनाममेवोच्यते । एतदनमस्मा अस्मिवाजनि ऊर्जस्व क्षीरादिरसोपेतं शश्वत्सर्वदा तिष्ठति । . तृतीयं पादमनूध व्याचष्टे

तस्मै विशः स्वयमेवाऽऽनमन्त इति राष्ट्राणि वै

विशो राष्ट्राण्येवैनं तत्स्वयमुपनमन्ति, इति । तस्मै पुरोहितयुक्ताय राज्ञे विशः प्रजाः स्वयमेव तदीयप्रयत्ननिरपेक्षा आनमन्त आनति प्राप्ता भवन्ति । अस्मिन्पादे विशब्देन राष्ट्राण्येव प्रजो पेता देशा एव विवक्षिताः । तादृशानि राष्ट्राण्येनं पुरोहितयुक्तं क्षत्रियं स्वय मेव मामुवन्ति ।

चतुर्थ पादमनूध व्याचष्टे

यस्मिन्ब्रह्मा राजनि पूर्व एतीति

पुरोहितमेवैतदाह , इति । यस्मिनाजनि ब्रह्मा ब्रामणो हितमुपदिशन्पूर्व एति प्रथमतो गच्छति स इसेतीति पूर्वत्रान्वयः । अनेन पादेन पूर्व एतीत्येव पुरोहितमेव मत्रो ब्रूते ।

तृतीयस्या ऋचः प्रथमं पादमभूध व्याचष्टे

अप्रतीतो जयति सं धनानीति राष्ट्राणि

वै धनानि तान्यप्रतीतो जयति, इति । अयं पुरोहितयुक्तो राजाप्रतीतः प्रतिकूलैः शत्रुभिरितः प्रातः प्रतीतस्त. दिपरीतोऽप्रतीतः शत्रुमाप्तिरहित एव भूत्वा धनोपेतानि रामाणि सम्यग्ज

___अप्रतीतो जयति सं धनानि०-४-९०-

Ofe. १२१

.

.

.

.

.

९६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[४०चत्वारिं ध्याये पति । अस्मिन्पादे धनशब्देन राष्ट्राण्येव विवक्षितानि । तानि स्वयं प्रतिपक्ष रहित एव जयति ।

द्वितीय पादमनूध ब्याचष्टे

प्रतिजन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो

भ्रातृव्या जन्यानि तानप्रतीतो जयति, इति । जन्यानि शनप्रतीतः स्वयममतिपक्षो जयतीत्यनुवर्तते । किंच या सेना सजन्या शत्रुसहिता तामपि जयति । अस्मिन्पादे जन्पशन्देन सपत्ना अमि धीयन्ते । तस्य व्याख्यानं द्विषन्तो वै भ्रातृव्या इति । तान्भ्रातृव्यान्यविपक्ष रहितो जयति ।

तृतीय पादमनूध व्याचष्टे

अवस्यवे यो वरिवः कृणोतीति यदाहावसी

यसे योऽवसीयः करोतीयेव तदाह , इति । अवस्यवे वसुरहिताय ब्राह्मणाय पुरोहिताय यो राजा वरिवः कृणोति परिचर्या करोतीति मत्रो यदाह तत्रावसीयसेऽत्यन्तदरिद्राय धनरहिवाय यो राजाऽवसीयोऽतिशयेन धनिकत्वं करोतीत्यनेनैव प्रकारेण मत्रो ब्वे ।

चतुर्थ पादमनूध व्याचष्टे

ब्रह्मणे राजा तमवन्ति देवा इति पुरो

हितमेवैतदभिवदति ॥२६॥ इति । ब्रमणे ब्रामणाय पूर्वोक्तेनावस्यव इति चतुर्थ्यन्तेनान्वेति । तथा राजेति पदं य इत्यनेनान्वेति तं साहश पुरोहितपूजकं राजानं देवा अवन्ति पाल पन्ति । एतदेतेन ब्रमण इति पदेन पुरोहितमेव मनोऽभिवदति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्रामण __ भाष्ये चत्वारिंशाध्याये तृतीयः खण्डः ॥३॥ (२६) [१८४]

..

.

..

.

. .–

अथ पौरोहित्यस्य योग्यायोग्यौ ब्रामणौ विविनक्ति

यो ह वै त्रीन्पुरोहितांस्त्री-पुरोधातन्वेद स ब्राह्मणः पुरोहितः स वदेत पुरोधाया अग्नि वि पुरोहितः पृथिवी पुरोधाता वायुर्वाव

1.11111

१ चतुर्थः खण्डः ] ऐतरेयब्रामणम् ।

पुरोहितोऽन्तरिक्षं पुरोधाताऽऽदित्यो वाव पुरोहितो द्यौः पुरोधातैष ह वै पुरोहितो य

एवं वेदाथ स तिरोहितो य एवं न वेद, इति । राजा स्वहितोपदेशार्थ स्वस्य पुरोहितोऽवस्थापितः । तस्य पुरोहितस्य योऽयमवस्थापयिता राजा स पुरोधाता । देवतासु मध्ये त्रयः पुरोहिताः सन्ति । ये च प्रयः पुरोधातारस्तानुभयविषान्यो बेद तत्मतिपादकं मत्रं सर्वदाऽनुसंधत्त इत्यर्थः । स ताशो ब्रामणः पुरोहितो भवितुं योग्यः । स व प्रामणः पुरोधायै पौरोहित्यार्थममिरित्यादिमत्रं वदेज्जपेत् । अमि पायवादित्याः पुरोहितकपाः पृथिव्यन्तरिक्षलोकाः पुरोधातृरूपा इति मचार्यः । यः पुमानेवं वेदमत्रार्थमनुसंधत्त एष एव योग्यः पुरोहितः । अथ तदैलक्षण्येन या पुमानेवं न वेद स पुरोहितः पौरोहित्यादन्तहितस्तदयोग्य इत्ययः।

योग्यं पुरोहितं प्रशंसति

तस्य राजा मित्रं भवति दिषन्तमपबाधते

यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः, इति । यस्यैवंविधत्वादिगुणयुक्तः पुरोहितो भवेत्तस्य राज्ञो देशान्तरवर्ती राजा मित्र बन्धुर्भवति । तथा द्विषन्तमन्यं राजानं पुरोहितयुक्तो राजाऽपपाधते विनाशयति ।

पुनरपि देवा प्रशंसति

क्षत्रेण क्षत्रं जयति बलेन बलमश्नुते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितस्तस्मै विशः संजानते संमुखा एकमनसो यस्यैवं

विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः, इति । पूर्ववयाख्येयम् । अथ रामः पुरोहितवरणमनमाह

भूर्भुवः स्वरोममोऽहमस्मि स ख स त्वमस्य मोऽहं धौरहं पृथिवी वं सामाहमुक्त्वं तावेह संवहावहै । पुराण्यस्मान्महामयात् । तनूरसिole

९६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[४० चत्वारिं ध्याये

तन्वं मे पाहि, इति । भूर्भुवः स्वरिति शब्दैोकत्रयाभिमानिन्यो देवता उच्यन्ते । प्रणवेन पर मात्मा । एते सर्वेऽनुगृहन्त्वित्यभिप्रायः । पुरोहितोऽहममो पुलोकरूपोऽस्मि त्वं तु स भूलॊकरूपोऽसि । पुनरपि स त्वमस्यमोऽहमित्यभिधानं दाार्थम् । तस्यैव व्याख्यानं धौरहं पृथिवी त्वमिति । तथा सामस्वरूपोऽहमृक्स्वरूप स्त्वमिति तावुभावावामिह राष्ट्र आसमन्तात्पुराणि तदुपलक्षितग्रामांश्च संवहा. बहे सम्यग्वहनं पुरादिनिर्वाहं करवावहै । त्वं मम तनूः शरीरमसि । अतो मदीयां तन्वं शरीरमस्मादैहिकादामुष्मिकाच महाभयात्पाहि रक्ष। .

अनेन मत्रेण राज्ञा कृतो यः पुरोहितस्तस्य राजदत्तविष्टराभिमवणमाह

या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः।

ता मद्यमस्मिन्नासनेच्छिद्रं शर्म यच्छत, इति । सोमो राजा यासामोषधीनां ताः सोमराश्यः। बढ्यो बहुजातीयाः। शत विचक्षणाः शतशाखाभित्राः । तादृश्य ओषधयो याः सन्ति तास्तथाविषा हे ओषधयोऽस्मिन्नासने तृणादिनिर्मितकटादिरूपे मयं पुरोहिताप च्छिद्ररहितं शर्म दुःखस्पर्शरहितं मुखं यच्छत दत्त । अभिमविते विष्टर उपवेशनमाह

या ओषधीः सोमराज्ञीविष्ठिताः पृथिवीमनु ।

ता मह्यमस्मिन्नासनेच्छिद्रं शर्म यच्छत, इति । वंशदलादिनिर्मितविष्टरगता ओषधयः पृथिवीमनु विष्ठिता विशेषण स्थापिताः । ता महामित्यादि पूर्ववत् ।

पुरोहितस्य पाचार्थे समानीतानामपामभिमत्रणमवं दर्शयति

अस्मित्राष्ट्रे श्रियमावेशयाम्यतो

देवीः प्रतिपश्याम्यापः, इति । हे आपः पुरोहितोऽहमस्मित्राष्ट्रे श्रियमावेशयामि धनादिसंपदं संपादयामि। अतः कारणादेवी?तनात्मिका युष्मान्मति पश्यामि । ताभिरद्भिः पुरोहितस्य पादप्रक्षालनमत्रमाह

दक्षिणं पादमवनेनिजेऽस्मित्राष्ट्र इन्द्रियं दधामि। सव्यं पादमवनेनिजेऽस्मित्राष्ट्र इन्द्रियं वर्ध

५ पञ्चमः खण्डः ] ऐतरेयप्रामणम् ।

९६५ यामि । पूर्वमन्यमपरमन्यं पादाववनेनिजे ।

देवा राष्ट्रस्य गुप्त्या अभयस्यावरुद्धयै , इति । मदीयं दक्षिणं पादमवनेनिजे प्रक्षालये । तेनास्मिवाष्ट्र माणिनामिद्रियपाट बहेतुं धनं संपादयामि । वामपादप्रक्षालनेन च तद्वर्धयामि । पूर्व प्रथममन्यं दक्षिणं पादं शोषयित्वाऽपरं पश्चादन्यं वामं पादं शोधयामि । हे देवा एवं. भूतौ पादौ प्रक्षालयामि । तच राष्ट्रस्य गुप्त्यै रक्षार्थमभयस्य चोरादिभयराहि त्यस्यावरुद्धयै संपादनाय भवति ।।

पादप्रक्षालनावशिष्टानामपामभिमत्रणमाह

आपः पादावनेजनीषिन्तं निर्दहन्तु मे ॥२७॥ इति । पादावनेजनीः पादशुद्धिकरणभूता इमा आपो मे मदीयं द्विषन्तं शर्बु निःशेषेण दहन्तु ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये चत्वारिंशाध्याये चतुर्थः खण्डः ॥ ४ ॥ (२७) [१८५]

अथोक्तपुरोहितसहितस्य शत्रुक्षयार्थ कंचित्प्रयोगमाह- .

अथातो ब्रह्मणः परिमरो यो ह वै ब्रह्मणः परिमरं वेद पर्येनं द्विषन्तो

भ्रातृव्याः परि सपत्ना म्रियन्ते, इति । अथ पौरोहित्यविधानानन्तरं यतः पुरोहितेन संपायः शत्रुक्षयोऽपेक्षितोऽतः कारणाहमणः परिमर एतनामकः कर्मविशेषोऽभिधीयत इति शेषः । ब्रम शब्देनात्र वायुर्विवक्षितः । अयं वै ब्रम योऽयं पवत इति वक्ष्यमाणत्वात् । तस्य वायोः परितो विघुदादीनां मरणप्रकारः परिमर इत्युच्यते । तद्भाव. नारूपस्य कर्मविशेषस्य तदेव नामधेयम् । यः पुमान्ब्रह्मणः परिमरं यदा मनसा भावयति । एनं परित एतस्य परितोऽवस्थितासु सर्वासु दिक्षु द्वेष कुर्वन्तः शत्रवो म्रियन्ते । इदानीमेनं द्विषन्तो जात्या शत्रवः सपत्नास्तेऽपि परितो म्रियन्ते । तस्मादेतद्वेदनं संपादनीयम् ।

वेदनस्वरूपमाह ___ अयं वै ब्रह्म योऽयं पवते तमेताः पञ्च देवताः परि

१ अ. एवमुभौ ।

Agricuash Jogle





……

९६६ भीमत्सायणाचार्यविरचितभाष्यसमेतम्-[४० चत्वारि ध्याये

नियन्ते विद्युद्दृष्टिश्चन्द्रमा आदित्योऽग्निः, इति । योऽयं वायुः पवतेऽन्तरिक्षे संचरति अयमेव ब्रमसन्देन विवक्षितः। एता विघुदादयः पञ्च देवता वायुं परिनियन्ते । तस्य परितो विनाश

गच्छन्ति । तदेतदनुसंधेयस्वरूपम् ।। . तत्राऽऽदौ विद्युतो मुर्ति प्रतिपादयति

विद्युदै विद्युस्य वृष्टिमनुप्रविशति साs

न्तर्षीयते तां न निर्जानन्ति, इति । येयं विपुदस्ति सा विद्युत्य प्रकाशं कृत्वा पश्चादृष्टिमनुमविचति । अब एवं साऽन्तर्षीयतेऽस्माभिर्न दृश्यते । तां दृष्टौ प्रविष्टां विपुतं क गता कुन स्थिता मृतेति मनुष्या निःशेषेण न जानन्ति ।

तत्र दृष्टान्तमाह

यदा वै म्रियतेऽथान्तर्षीयतेऽथैनं न निर्जानन्ति, इति । लोके कश्चित्पुरुषो यस्मिन्क्षणे म्रियते तस्मिभेव क्षणेऽन्यैर्न दृश्यते । ततो जना विचार्यापिक गतः कुत्रावस्थित इत्येनं पुरुषं मृतं न निर्जानन्ति । पथपि कुणपं पश्यन्ति तथाऽपि जीवात्मानं न जानन्त्येव तथैव विपुदिनार इति द्रष्टव्यम्।

यथोक्तध्यानवतो जप्यमत्रमाह

स ब्रूयाहिद्युतो मरणे द्विषन्मे म्रियतां सोऽ

न्तर्षीयतां तं मा निओसिधुरिति, इति । विद्युतो मरणे सति उपासको विषदित्यादिकं मनं ब्रूयात् । तस्यायमर्थ: इयं विपुदिव मदीयः शत्रुम्रियता स पुनः केनापि न दृश्यताम् । अतो विचा योपिक गतःकाऽऽस्त इति तं शत्रु तदीया बन्धवो निःशेषेण मा जानन्त्विवि।

जपफलं दर्शयति

क्षिप्रं हैवैनं न निर्जानन्ति, इति । शीघ्रमेव मृतमेनं शत्रु तदीया बन्धवो नैव जानन्ति । विद्युत इव दृष्टेविनाशं दर्शयति

वृष्टिं दृष्ट्वा चन्द्रमसमनुप्रविशति साऽन्तर्षीयते तां न निर्जानन्ति यदा वै म्रियतेऽथान्त(य

1.11111

१ पञ्चमः खण्डः ] ऐतरेयबामणम् ।

तेऽथैनं न निर्जानन्ति स ब्रूयादृष्टेमरणे द्विषन्मे प्रियतां सोऽन्तर्धीयतां तं मा निर्मासिषु

रिति क्षिप्रं हैवैनं न निर्जानन्ति, इति । पेयं वृष्टिरस्ति सेयं दृष्ट्वा भूमौ जलं पातयित्वा स्वयमाप्यमण्डलरूपं चन्द्र मसमनुपविशति । अन्यत्पूर्ववद्योज्यम् ।

चन्द्रमसो विनाशं दर्शयति

चन्द्रमा वा अमावास्यायामादित्यमनुप्रविशति सोऽन्तर्षीयते तं न निर्जानन्ति यदा वै म्रियतेऽ थान्तर्षीयतेऽथैनं न निर्जानन्ति स ब्रूयाच्च न्द्रमसो मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्जासिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति, इति । अयं चन्द्रमा अमावास्यायां तिथौ साकल्येनाऽऽदित्यमनुमविशति । अन्य स्पूर्ववत् ।

मादित्यस्य विनाशं दर्शयति

आदित्यो वा अस्तं यननिमनुप्रविशति सोऽन्त धीयते तं न निर्जानन्ति यदा वै म्रियतेऽथान्त ीयतेऽथैनं न निर्जानन्ति स ब्रूयादादित्यस्य मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्जासिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति, इति । आदित्यो यदाऽस्तमेति तदाऽयमग्निमनुपविशति । तदेततैत्तिरीयैः समा. नातम्-“अनि वा आदित्यः सायं प्रविशति तस्मादमिक्रामक्तं दाशे, उभे हि तेजसी संपते” इति । अन्यत्पूर्ववत् ।

अमेर्विनाशं दर्शयति

अग्मिा उद्दान्वायुमनुप्रविशति सोऽन्तर्धी यते तं न निर्जानन्ति यदा बै म्रियतेऽथान्त (यतेऽथैनं न निर्जानन्ति स ब्रूयादमरणे

magic

९७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -

उक्तं कर्मविशेषमनुष्ठातुव्रतविशेषं विधत्ते

तस्य व्रतं न द्विषतः पूर्व उपविशेद्यदि तिष्ठन्तं मन्येत तिष्ठेतैव न दिषतः पूर्वः संविशेद्यद्या सीनं मन्येताऽऽसीतैव न द्विषतः पूर्वः प्रस्व

प्यायदि जाग्रतं मन्येत जाग्रियादेव, इति । __ तस्यानुष्ठातुरेतद्वतमुच्यते । एतदीयो द्विषन्यदोपविशति वतः माक्स्वयं नोपविशेत् । किंतु चारमुखेन(ण) तदीयं वृत्तान्तं विचारयेत् । यदि द्विषन्तं तिष्ठन्तं मन्येत तदानी स्वयमपि तिष्ठेतैव । तथा यदा द्विपक्षयनं करोति ततः प्राक्स्वयं न संविशेत् । शयनं न कुर्यात् । यदि द्विषन्तमुपविष्टं मन्येत तदानी स्वयमप्युपविशेदेव । तथा द्विषन्यदा निद्रां करोति ततः माक्स्वयं न प्रस्त प्यात् । किंतु यदि द्विषन्तं जाग्रतं मन्येत तदानीं स्वयमपि जाप्रियादेवेति ।

एवं व्रतमाचरतः फलं दर्शयति

अपि ह यद्यस्याश्ममूर्धा विषन्भवति क्षिप्रं हैवेनं स्तृणुते स्तृणुते ॥ २८ ॥ इत्यष्टमपश्चिकायां पञ्चमोऽध्यायः ॥ ५ ॥ अस्य राजोऽनुष्ठातुषिशत्रुर्यधश्ममूर्धा पाषाणसदृशचिरस्को भवति । अतिप्रबल इत्यर्थः । तथाऽप्ययं कर्मविशेषः शीघ्रमेवैनं शर्यु स्तृणुते हिनस्ति । अभ्यासोऽध्यायसमाप्त्यर्थः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण भाष्ये चत्वारिंशाध्याये पश्चमः खण्डः ॥५॥ (२८) [ १८६] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्राज्य धुरंधरस्य सायणाचार्यस्य कृतौ वेदार्थप्रकाश ऐतरेयत्रामणभाष्ये

चत्वारिंशोऽध्यायः ॥१०॥ इयैतरेयब्राह्मणेऽष्टमपश्चिका समाप्ता ॥८॥

(पश्चिकाङ्काः-८ । अध्यायाङ्काः-४० । खण्डाङ्का:-१६२) समाप्तिमगमदिदं सायणाचार्यभाष्यसमेतमैतरेयब्राह्मणम् ।।