३९

अथैकोनचत्वारिंशोऽध्यायः ।

पुरुषार्थाभिषेकार्थमादावैन्द्राभिषेचनम् ॥

उक्तमत्र पुमर्थोऽयमभिषेक उदीर्यते ॥ १ ॥ तमभिषेकं विधते

स य इच्छेदेवं वित्क्षत्रियमयं सर्वा जितीर्जये तायं सर्वाल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रेष्ठय-noble

९१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३९एकोनचत्वारि ध्याये

मतिष्ठां परमतां गच्छेत साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ट्यं राज्यं माहाराज्य माधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुष आऽन्तादा परार्धात्पृथिव्यै समुद्रप र्यन्ताया एकरादिति तमेतेनैन्द्रेण महाभि

षेकेण क्षत्रियं शापयित्वाऽभिषिञ्चेद, इति । एवंविदिन्द्रसंबन्धिमहाभिषेकविध आचार्यः क्षत्रियं प्रति सर्वजयादिफ लमिच्छेत् । स आचार्यः क्षत्रियमेतं शापयित्वा शपथ कारयित्वैतेन पूर्वोके. नेन्द्रसंबन्धिना महाभिषेकविधानेन तं क्षत्रियमभिषिञ्चेत् । कीदृशी फलेच्छति साऽभिधीयते । अयं क्षत्रियो जेतव्याः सर्वा युद्धभूमीर्जयेत् । तथा सर्वालो कान्देशविशेषाल्लँभेत । सर्वेषां रामा मध्ये श्रेष्ठयायाधिपत्यान्तगुणयुक्तो भवेत् । समन्तपर्यायी देशतः कालतः सर्वव्यापी स्यात् । आऽन्तात्समुद्रतीरपर्यन्तं सार्वभौमत्वं देशव्याप्सिरा परार्धात्परार्धशब्दाभिधेयकालसंख्यापर्यन्तं सार्वा युषत्वं कालव्याप्तिः । एवं विधो भूत्वा समुद्रपर्यन्ताया पृथिव्या एक एव राजाऽस्त्वित्यनयेच्छयाऽऽचार्यो महाभिषेकेण तमभिषिशेत् ।

शापयित्वेति यदुक्तं तमेव शपथप्रकारं दर्शयति

यां च रात्रीमजायेथा यां च प्रेतासि तदु भयमन्तरेणेष्टापूर्त ते लोकं सुकृतमायुः

प्रजां वृञ्जीयं यदि मे द्रुह्येरिति, इति । अभिषिच्यमान हे क्षत्रिय यद्याचार्याय मे छोोहं कुर्यास्तदानीं त्वं यां रात्रिमजायेथा यस्यां रात्रावुत्पमोऽसि यां च रात्रि मेतासि यस्यां रात्रौ मरि. ज्यसि तदुभयमन्तरेणोत्पत्तिमरणदिनयोर्द्वयोर्मध्ये ते तवेष्टापूर्त श्रौतस्मातकर्म दूयं तथा पुण्यलोकं तद्धेतुभूतमन्यदपि सुकृतं दीर्घमायुः प्रजा पुत्रादिका दृञ्जीयं त्वत्तो वर्जयेयमित्येतदाचार्यस्य वाक्यम् । तदेतदनी कारयित्वा पश्चादभिषिश्चेत् ।

आचार्यः क्षत्रियार्थ यादृशी फलपरम्परा कामयित्वा शपथं कारयति । क्षत्रियोऽपि तादृशीं फलपरम्परां कामयमानः शपथं कुर्यात् । तदेतत्क्षत्रियवाक्यं दर्शयति ____स य इच्छेदेवंविक्षत्रियोऽहं सर्वा जितीर्जये

२ द्वितीयः खण्डः ] . ऐतरेयबामणम् ।

यमहं सर्वाल्लोकान्विन्देयमहं सर्वेषां राज्ञां श्रेष्टयमतिष्ठां परमतां गच्छेयं साम्राज्य भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं माहाराज्यमाधिपत्यमहं समन्तपर्यायी स्यां सार्वभौमः सार्वायुष आऽन्तादा परार्धात्ट थिव्यै समुद्रपर्यन्ताया एकराळिति स न विचिकित्सेत्स ब्रूयारसह श्रद्धया यां च रात्रीमजायेऽहं यां च प्रेतास्मि तदुभयमन्त रेणेष्टापूर्त मे लोकं सुकृतमायुः प्रजां

वृञ्जीथा यदि ते द्रुह्येयमिति ॥ १५॥ इति । यःक्षत्रिय एवंविन्महाभिषेकमाहात्म्याभिज्ञः सर्वजयादिकं समुद्रपर्यन्तं पृथि ग्यामेकराजत्वपर्यन्तं फलजातमिच्छेत् । पूर्वत्राऽऽचार्यवाक्यत्वाज्जयेत विन्दे वेत्यादिप्रथमपुरुषप्रयोगः । अत्र तु क्षत्रियवाक्यत्वाज्जयेयमित्याधुत्तमपुरुषम योगः । स क्षत्रियः फलकामी न विचिकित्सेत् । आचार्योक्तेऽर्थे संशयं न कुर्यात् । स क्षत्रिय आचार्यस्याभीष्टं शपथमेवं कुर्यात् । हे आचाहिं यदि ते दुखेयं तदानीं त्वं मम जन्ममरणमध्यवर्तीष्टापूर्तादिकं सर्व वृञ्जीथा नाशयेरिवि श्रद्धया सहितं शपथं ब्रूयात् ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण भाष्य एकोनचत्वारिंशाध्याये प्रथमः खण्डः ॥२॥ (१५) [१७]

— संभाराविषचे

अथ ततो ब्रूयाचतुष्टयानि वानस्प त्यानि संभरत नैयग्रोधान्यौदुम्बरा

ण्याश्वत्थानि प्लाक्षाणीति, इति । अथ क्षत्रियशपथानन्तरं यत आचार्येणाभिषेका कर्तव्यस्ततः कारणादा चार्यः परिचारकान्यात् । वनस्पतिसंबन्धीनि न्यग्रोधादीनि फलानि चतु. विधानि हे परिचारका संपादयतेति ।

progizen in Google

११८

९३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३९एकोनचत्वा घ्याये

तत्र वृक्षचतुष्टयं क्रमेण प्रशंसति

क्षत्रं वा एतद्दनस्पतीनां यन्यग्रोधो यन्नैयग्रोधानि संभरन्ति क्षत्रमेवास्मिस्तहधाति भौज्यं वा एत द्वनस्पतीनां यदुदुम्बरो यदौदुम्बराणि संभरन्ति भौज्यमेवास्मिंस्तद्दधाति साम्राज्यं वा एतद्द नस्पतीनां यदश्वत्थो यदाश्वत्थानि संभरन्ति साम्राज्यमेवामिस्तद्दधाति स्वाराज्यं च ह वा एत बैराज्यं च वनस्पतीनां यत्प्लक्षो यत्प्लाक्षाणि संभ

रन्ति स्वाराज्यवैराज्ये एवास्मिंस्तद्दधाति, इति । न्यग्रोधस्य वनस्पतीनां मध्ये राजवद्याप्त्याधिक्यात्तत्रत्वम् । उदुम्बरादीनां भौज्यादिसाधनत्वात्तपत्वम् । अतश्चतुर्विधफलसंपादनेन यजमाने क्षात्रभौ ज्यादिफलानि संपादयति ।

संभारान्तराणि विधत्ते- .

अथ ततो ब्रूयाचतुष्टयान्यौषधानि संभरत तोक्मकृतानि वीहीणां महा

वीहीणां प्रियंगूनां यवानामिति, इति । अथ नैयग्रोधादिफलसंपादनानन्तरं यतो बीवायकरसंपादनमपेक्षितं तत आचार्य एवं भूयात् । हे परिचारकास्तोक्मकृतान्यहरनिमित्चान्योषषिद्रव्यागि चतुर्विधानि संपादयत । सूक्ष्मवीजरूपा बीहयः । प्रौढबीजरूपा महाबीहयः । प्रियंगवो यवाश्च प्रसिद्धाः।

चतुर्विधमोषधिद्रव्यं प्रशंसति

क्षत्रं वा एतदोषधीनां यद्वीहयो यद्वीहीणां तोक्म संभरन्ति क्षत्रमेवास्मिस्तद्दधाति साम्राज्यं वा एतदोषधीनां यन्महाव्रीहयो यन्महावीहीणां तोक्म संभरन्ति साम्राज्यमेवा स्मिस्तद्दधाति भोज्यं वा एतदोषधीनां यस्मि…३ तृतीयः खण्डः] ऐतरेयबामणम् ।

यंगवी यत्प्रियंगूनां तोक्म संभरन्ति भौज्य मेवास्मिस्तद्दधाति सैनान्यं वा एतदो षधीनां यद्यवा यद्यवानां तोक्म संभरन्ति

सैनान्यमेवास्मिंस्तहधाति ॥ १६ ॥ इति । ओषधीनां मध्ये व्रीहीणां बलहेतुत्वात्तत्रत्वम् । महाबीयादीनामप्यनुष्ठा नद्वारा साम्राज्यहेतुत्वात्तपत्वम् । अतो बीमादितोक्मनामकराणां संपादनेन यजमाने क्षत्रसाम्राज्यादिकं सर्व संपादयति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्य एकोनचत्वारिंशाध्याये द्वितीयः खण्डः ॥२॥ (१६) [१७४] आसन्पादिसंभाराविधत्ते

अथास्मा औदुम्बरीमासन्दी संभरन्ति तस्या उक्तं ब्राह्मणमौदुम्बरश्चमसो वा पात्री वोदु. म्बरशाखा तानेतान्संभारान्संभृत्यौदुम्बी पाच्यां वा चमसे वा समावपेयुस्तेषु समो मेषु दधि मधु सर्पिरातपवा आपोऽभ्या

नीय प्रतिष्ठाप्यतामासन्दीमभिमन्त्रयेत , इति । अय वानस्पत्यौषधिसंभारानन्तरमस्मै क्षत्रियायौदुम्बरीमासन्दी संपाद येयुः। तस्याश्चाऽऽसन्या विधायक ब्राह्मणं प्रादेशमात्राः पादा इत्यादिना पूर्वमेवोक्तम् । चतुष्कोणो दण्डयुक्तः पात्रविशेषश्चमसः। आकारनियमरहिता पात्री । तयोरन्यतरदौदुम्बरं संपादयेत् । यद्वा । पात्री मुन्मयी शाखा चौदु म्बरी संपादनीया । ततः पात्रीचमसयोरन्यतरस्मिन्वानस्पत्यौषधिसंभारान्स मावपेयुः । समोसेषु तेषु संभारे दध्यादीनां सेचनं कृत्वा चमसं भूमौ प्रति ष्ठाप्यतामासन्दीं वक्ष्यमाणमत्रेणाभिमन्वयेत् ।

तं मचं दर्शयति

बृहच ते रथंतरं च पूर्वी पादौ भवतां वैरूपं च . वैराज चापरौ शाकररैवते शीर्षण्ये नौधसंच कालेयं चानूच्ये ऋचः प्राचीनातानाः सामानिogle

-.-.-.

-…-

..

………

__ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३९एकोनचत्वा ध्याये

तिरश्चीनवाया यजूंष्यतीकाशा यश आस्तरणं

श्रीरुपबर्हणं सविता च ते बृहस्पतिश्च पूर्वी पादौ धारयतां वायुश्च पूषा चापरौ मित्रा

वरुणौ शीर्षण्ये अश्विनावनूच्ये इति, इति । इन्द्रासन्दीपतिपादकवाक्यवदयं मत्रो व्याख्येयः।

अभिमत्रणादूर्ध्वमाचार्यकर्तव्यं दर्शयति

अथैनमेतामासन्दीमारोहयेत्, इति । अथाभिषिक्तमेनं क्षत्रियमेतस्यामासन्यामारूढं कुर्यात् । तत्र मवं दर्शयति

वसवस्त्वा गायत्रेण च्छन्दसा त्रिता स्तोमेन रथंतरेण सानाऽऽरोहन्तु तानन्वारोह साम्रा ज्याय रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा पञ्चदशेन स्तोमेन बृहता साम्राऽऽरोहन्तु तानन्वारोह भौज्यायाऽऽदित्यास्त्वा जागतेन च्छन्दसा सप्त दशेन स्तोमेन वैरूपेण साम्राऽऽरोहन्तु तान न्वारोह स्वाराज्याय विश्वे खा देवा आनुष्टुभेन च्छन्दसैकविंशेन स्तोमेन वैराजेन साम्राऽऽरो हन्तु तानन्वारोह वैराज्याय मरुतश्च स्वाङ्गि रसश्च देवा अतिच्छन्दसा छन्दसा त्रयस्त्रिं शेन स्तोमेन रैवतेन साम्राऽऽरोहन्तु तानन्वा रोह पारमेष्ट्याय साध्याश्च खाऽऽप्त्याश्च देवाः पाक्तेन च्छन्दसा त्रिणवेन स्तोमेन शाक्वरेण सानाऽऽरोहन्तु तानन्यारोह राज्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽ तिष्ठायाऽऽरोहेत्येतामासन्दीमारोहये , इति ।

४ चतुर्थः खण्डः] ऐतरेयबामणम् ।

९४१ ___ इन्द्रारोहणमनवव्याख्येयम् । तत्राऽऽरोहणकर्तुरपयोज्यत्वादारोहामीत्युत्तम पुरुषः । अत्र त्वाचार्यप्रयोज्यत्वादारोहेति मध्यमपुरुषः । तत्रत्ययोः पश्चमषष्ठ मवयोरत्र क्रमविपर्यासोऽध्ययनसंप्रदायमाप्तः । अनेन मत्रेणाऽऽचार्य आसन्या क्षत्रियमारोहयेत् ।

आरोहणादूर्ध्वमभ्युत्क्रोशनं विधत्ते

तमेतस्यामासन्धामासीनं राजकर्तारो ब्रूयुन वा अनभ्युत्कृष्टः क्षत्रियो वीर्य कर्तुमर्हयभ्ये नमुल्कोशामेति तथेति तं राजकर्तारोऽभ्यु लोशन्तीमं जना अभ्युत्क्रोशत सम्राज साम्राज्यं भोज भोजपितरं स्वराजं स्वाराज्य विराजं वैराज्यं परमेष्ठिनं पारमेष्ठयं राजानं राजपितरं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ताऽ जन्यमित्राणां हन्ताऽजनि ब्राह्मणानां

गोप्ताऽजनि धर्मस्य गोप्ताऽजनीति, इति । राजः कर्तारो राजकर्तारः पितृभ्रात्रादयः । इन्द्रविषयाभ्युत्क्रोशनवाक्य. वदिदं वाक्यं व्याख्येयम् ।।

आचार्यस्य क्षत्रियाभिमन्त्रणं विधत्ते

तमभ्युत्क्रुष्टमेवंविदभिषेक्ष्यनेतय

चाऽभिमन्त्रयेत ॥ १७ ॥ इति । पूर्ववव्याख्येयम् ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण भाष्य एकोनचत्वारिंशाध्याये तृतीयः खण्डः ॥३॥ (१७) [१७५]

एतयर्चेत्युक्तं मनं दर्शयति

निषसाद धृतवतो वरुणः पस्यास्वा। साम्रा ज्याय भौज्याय स्वाराज्याय वैराज्याय (Cogle.

९४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३९एकोनचत्वाध्याये

पारमेष्ट्याय राज्याय माहाराज्यायाऽऽधिप

याय स्वावश्यायाऽऽतिष्ठाय सुक्रतुरिति, इति । पूर्ववयाख्येयम् ।

अभिमन्त्रणादूर्ध्वमभिषेकप्रकारं दर्शयति

तमेतस्यामासन्धामासीनमेवंवित्पुरस्तात्तिष्ठ न्प्रत्यङ्मुख औदुम्बर्याऽऽर्द्रया शाखया सपलाशया जातरूपमयेन च पवित्रेणान्त र्धायाभिषिञ्चतीमा आपः शिवतमा इत्ये तेन तृचेन देवस्य खेति च यजुषा भूर्भुवः

स्वरित्येताभिश्च व्याहृतिभिः ॥ १८॥ इति । इन्द्राभिषेकवाक्यवव्याख्येयम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण भाष्य एकोनचत्वारिंशाध्याये चतुर्थः खण्डः ॥४॥ (१८) [१७६]

अभिषेकापूर्ध्वमभिमत्रणमाह

प्राच्यां खा दिशि वसवो देवाः षडभिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्खेतेन च तृचेनैतेन च यजुषताभिश्च व्याहृतिभिः साम्राज्याय दक्षि णस्यां खा दिशि रुद्रा देवाः षभिश्चैव पञ्च विशैरहोभिरभिषिञ्चन्खेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिभॊज्याय प्रतीच्यां खा दिश्यादित्या देवाः षड्रभिश्चैव पञ्चविंशैर होभिरभिषिञ्चन्त्वेतेन च तृचेनतेन च यजुषै ताभिश्च व्याहृतिभिः स्वाराज्यायोदीच्यां खा दिशि विश्वे देवाः षभिश्चैव पञ्चविंशैरहोमि रभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च

५ पञ्चमः खण्डः] . ऐतरेयग्रामणम् ।

९४३ व्याहृतिभिर्वैराज्यायोर्ध्वायां त्वा दिशि मरुतश्चाङ्गिरसश्च देवाः षभिश्चैव पञ्चविंशै रहोभिरभिषिञ्चन्खेतेन च तृचेनैतेन च यजु पैताभिश्च व्याहृतिभिः पारमेष्ट्यायास्यां खा ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाऽऽप्याश्च देवाः षभिश्चैव पञ्च विशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषताभिश्च व्याहृतिभी राज्याय माहा राज्यायाऽऽधिपत्याय स्वावश्यायाऽऽतिष्ठा

येति स परमेष्ठी प्राजापत्यो भवति, इति । उक्तेन मन्त्रेणाभिमत्रितः क्षत्रियः परमेष्ठिपदस्य योग्यो भूत्वा प्रजापते संबन्धी [भवती]ति ।

महाभिषेकमुपसंहरति

सं एतेनेन्द्रेण महाभिषेकेणाभिषिक्तः क्षत्रियः सर्वा जितीर्जयति सर्वाल्लोकान्विन्दति सर्वेषां राज्ञां श्रेष्टयमतिष्ठां परमतां गच्छति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं माहा राज्यमाधिपत्यं जित्वाऽस्मिल्लोके स्वयंभूः स्वरा ळमृतोऽमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्वाऽ मृतः संभवति यमेतेनैन्द्रेण महाभिषेकेण क्षत्रिय

शापयित्वाऽभिषिञ्चति ॥ १९ ॥ इति । यं क्षत्रियमाचार्यः स्वद्रोहराहित्याय शपथं कारयित्वेन्द्रसंबन्धिना महा भिषेकेणाभिषिञ्चति सोऽभिषिक्तः क्षत्रिय इन्द्रवत्सर्वं जयादिफलं पामोति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण भाष्य एकोनचत्वारिंशाध्याये पञ्चमः खण्डः ॥५॥ (१९) [१७७]

– - preguizen in Google

९४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३९एकोनचत्वा ध्याये

अभिषेकसाधनानि दध्यादिद्रव्याणि प्रशंसति

इन्द्रियं वा एतदस्मिल्लोके यदधि यहनाभि पिञ्चतीन्द्रियमेवास्मिस्तद्दधाति रसो वा एष

ओषधिवनस्पतिषु यन्मधु यन्मध्वाऽभिषिञ्चति रसमेवास्मिंस्तद्दधाति तेजो वा एतत्पशूनां यद्धृतं यद्धृतेनाभिषिञ्चति तेज एवास्मिस्त दधात्यमृतं वा एतदस्मिल्लोके यदापो यद

गिरमिषिञ्चत्यमृतत्वमेवास्मिस्तद्दधाति, इति । दन इन्द्रियपाटवहेतुत्वादिन्द्रियत्वम् । मधुन: पुष्पजन्यत्वेनौषषिवनस्स तिरसत्वम् । घृतस्य स्निग्धभास्वरत्वेन पशुतेजस्त्वम् । अपां चाऽऽप्यायन हेतुत्वादमृतत्वम् । एतैर्द्रव्यैरभिषिक्ते सति यजमान इन्द्रियादिकं संपादयति ।

आचार्याय दक्षिणादानं विधत्ते

सोऽभिषिक्तोऽभिषेक्त्रे ब्राह्मणाय हिरण्यं दद्यात्सहस्रं दद्यात्क्षेत्रं चतुष्पादद्यादथाप्या हुरसंख्यातमेवापरिमितं दद्यादपरिमिती वै

क्षत्रियोऽपरिमितस्यावरुध्या इति, इति । हिरण्यस्यैव संख्या [सहस्रमिति] सहस्रनिष्कपरिमितमित्यर्थः । चतुष्पा. च्छब्देन गवादिकमभिधीयते । पूर्वोक्तसहस्रपक्षमपेक्ष्याधिकाभिप्रायेगासंख्या तमिति पक्षान्तरमुक्तम् । तस्यैव व्याख्यानमपरिमितमिति । इयदेवेति संख्या नियमो नास्ति किंतु स्वशक्त्यनुसारेण प्रभूतमेव दद्यात् । क्षत्रियो हि देशा विपतित्वेनापरिमितो बहुधनयुक्तोऽतोऽपरिमितस्य प्रभूतस्य फलस्य सिखा

र्थमित्यभिप्रायेण पक्षान्तरम् ।

दक्षिणायां दत्तायामाचार्यकर्तव्यं दर्शयति

अथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुत इति, इति ।

स्वादिष्टया मदिष्ठया पवस्व०-९-१-

१ fe.

१ षष्ठः खण्डः] ऐतरेयनामणम् ।

९४५ अथ दक्षिणास्वीकारादनन्तरमस्मा अस्य क्षत्रियस्य हस्ते सुरया पूर्ण कांस्यपात्रं स्वादिष्ठयेति मवेण स्थापयेत् । स च मत्रः क्रत्वज्ञाभिषेके व्याख्यातः।

क्षत्रियकर्तव्यं दर्शयति

तां पिवेद्यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपि बच्छचीभिः । इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामि । अभि त्वा वृषभा सुते सुतं सृजामि पीतये । तृम्पा व्यश्नुही मदमिति, इति । तां कांस्यपात्रस्यां सुरां क्षत्रियो यदत्रेति मन्त्रद्वयेन पिवेत् । अत्र कांस्य पात्रे रसिनो रसयुक्तस्य सुतस्याभिषुतस्य व्रीबाघकुरजन्यस्य पेयद्रव्यस्य यच्छिष्टं योऽवस्थितो भागः । यच द्रव्यं शचीभिः कर्मविशेषैः संस्कृतमिन्द्रोऽ. पिबत् । शचीशब्दः कर्मनाम । इहास्मिनभिषेककर्मणि सोमं राजानं सोमस एसमस्य पेयद्रव्यस्य तदिदं स्वरूपं शिवेन शान्तेन भक्तियुक्तेन मनसा भक्ष यामि । सोऽयमेको मत्रः । हे वृषभ श्रेष्ठेन्द्र त्वाऽमि त्वामभिलक्ष्य मुतेऽस्मि न्द्रव्येऽभिषुते सति पीतये तव पानार्थ सुतमभिषुतं द्रव्यं सृजामि त्वद्धस्ते ददामि । तृम्प तेन द्रव्येण तृप्तो भव । मदं हर्ष व्यभुहि विशेषेण मामुहि । अयं द्वितीयो मत्रः।

तदिदं पानं प्रशंसति

यो ह वाव सोमपीथः सुरायां प्रविष्टः सहै वैतेनेन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रि

यस्य भक्षितो भवति न सुरा, इति । यो ह वाव यः खलु सोमपीयः सोमस्य पानविशेषः मुरायां सुराद्रव्ये भविष्टोऽस्ति । एतेन सोमपानविशेषेण सहैव पूर्वोक्तेन्द्राभिषेकविधानेनाभिषि तस्य क्षत्रियस्य द्रव्यविशेषो भक्षितो भवति। नतु मुरा भक्षिता भवति।सोऽयं मजदयस्य महिमा ।

पानादूर्ध्वमभिमत्रणं विधत्ते

तां पीत्वाऽभिमन्त्रयेतापाम सोमं शं नो भवेति, इति ।

अमि त्वा वृषमा सुते०-८-१९-२२ । अपाम सोमं०-८-१८-३। शं नो भव हदे आपीत इन्दो०-८-४८-

i rea is frogfe

९४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३९एकोनचत्वारिं ध्याये

अपाम सोममित्युगेका । नो भवेति द्वितीया । ताभ्यामभिमचयेत । इदानीं दृष्टान्तेन पानं प्रशंसति

तद्यथैवादः प्रियः पुत्रः पितरं प्रिया वा जाया पतिं सुखं शिवमुपस्पृशयाविनस एवं हैवैतेनेन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रि यस्य सुरा वा सोमो वाऽन्यदाऽनाचं सुखं

शिवमुपस्पृशत्याविस्रसः ॥ २० ॥ इति । तत्तत्र पानेऽदो लौकिक निदर्शनमुच्यते । ययैव पियः पुत्रः शिवं मुसं यथा भवति तथा पितरमुपस्पृशति । प्रिया वा जाया च पतिं यथा स्पचति । शिवं शान्तं शास्त्रनिषिदमार्गेण यत्सुखं तबरकहेतुत्वादुनम् । विहितमार्गेण तु तदभावाच्छान्तम् । सुखस्पर्शस्यावधिराविस्रस इत्यनेनोच्यते । आविसस आविस्रंसनादेहपातपर्यन्तमित्यर्थः । यथा स्पर्शद्वयं दृष्टसुखहेतुः । एवं हैवानेनैव प्रकारेण पूर्वोक्तैन्द्रमहाभिषेकविधिनाऽभिषिक्तस्य क्षत्रियस्य सुरा वा सोमो वाऽन्यान्यभद्रव्याणि देहपातपर्यन्तं शान्तसुखस्पर्शमदानि ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयतामण भाष्य एकोनचत्वारिंशाध्याये षष्ठः खण्डः ॥६॥ (२०) [१७८]

उक्तं महाभिषेकं चिरंतनशिष्टाचारोदाहरणेन प्रशंसति

एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः काव षेयो जनमेजयं पारिक्षितमभिषिषेच तस्मादु जनमेजयः पारिक्षितः समन्तं सर्वतः पृथिवीं

जयन्परीयायाश्वेन च मेध्येनेजे, इति । कवषस्य पुत्रस्तुरनामको महर्षिः परिक्षितपुत्रं जनमेजयमुक्तविधानेनाभिषि षेच । तस्मादेव कारणाज्जनमेजयः सर्वतः सर्वासु दिक्षु पृथिवीं समन्तमन्तेन समुद्रतीरेण संयुक्तं यथा भवति तथा जयन्विजयं मामुवन्परीयाय परितप्रचार। अभिषेकमाहात्म्येनैव दिग्विजयं कृतवानित्यर्थः। अभिषेकमसादादेव मेध्येन यागयोग्येनावेन चेन इष्टवान् । अश्वमेधं कृतवानित्यर्थः ।

अस्मिअर्ये कांचिद्राथामुदाहरति

तदेषाऽभि यज्ञगाथा गीयते, इति । ogle

-…

-.–.

—"–



——-… -



५ सप्तमः खण्डः] ऐतरेयबामणम् ।

९४७ तत्तस्मिजनमेजयवृत्तान्त एषा वक्ष्यमाणा याविषया गीतिवैदिकैरभितो गीयते। .

तो गायां दर्शयति

आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम् । अश्वं बबन्ध सारङ्गं देवेभ्यो जनमेजय इति , इति । आसन्दीवानिति देशविशेषस्य नामधेयं तस्मिन्देशे जनमेजयो देवेभ्यो देवार्थ यागयोग्यमय बबन्ध । कीदृशम धान्यादं धान्यमेवात्ति । रुक्मिणम् । रुक्मशब्देन ललाटगतं घेतलाञ्छनमुपलक्ष्यते । तयुक्तम् । हरितवर्णा सग्य स्थासौ हरितक् । पुष्पमालेव वर्णो देहं व्याप्य वर्तत इत्यर्थः । सारं कर्मसु श्रेष्ठं यागं गच्छतीति सारकः । इत्यनया गाथया जनमेजयस्याभिषेकमहिमो. दाहृतः।

जनमेजयवच्छार्यातनामकं राजानमुदाहरति

एतेन ह वा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शार्यातं मानवमभिषिषेच तस्मादु शार्यातो मानवः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरास, इति । भृगोः पुत्रव्यवननामको महषिर्मनुवंशोत्पलं शार्यातनामक राजानमभिषि च । तस्मात्फलं पूर्ववत् । किं च देवानां संवन्धिनि सत्रेऽपि शार्यातो गृहप तिरभूत् ।

शतानीकनामकं राजानमुदाहरति

एतेन ह वा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्राजितमभिषिषेच तस्मादु शतानीकः सात्राजितः समन्तं सर्वतः

पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे, इति । सोमक्षुष्मनामकः कश्चिन्महर्षिः। स च बाजरत्नस्य पौत्रस्तयाविषो मुनि सत्राजितः पुत्रं शतानीकनामकं क्षत्रियमभिषिषेच । शेषं पूर्ववत् ।

आम्बाष्ठचनामानं राजानमुदाहरति

एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदा-gic

11

९४८ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्-१९एकोनचत्वारि न्याये . वाम्बाष्ठयमभिषिषिचतुस्तस्मादाम्बाष्ठयः समन्तं

सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे, इति । युधांश्रौष्टिनामकमुग्रसेनस्य पुत्र राजानमुदाहरति

एतेन हवा ऐन्द्रेण महाभिषेकेण पर्वतना

रदौ युधांश्रौष्टिमोग्रसैन्यमभिषिषिचतुस्तस्मादु __ ‘युधांश्रौष्टिरोग्रसैन्यः समन्तं सर्वतः पृथिवीं

जयन्परीयायाश्वेन च मेध्येनेजे , इति । भुवनाख्यस्य पुत्र विश्वकर्मनामकं राजानमुदाहरति–

एतेन ह वा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवनमभिषिषेच तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं

जयन्परीयायाश्वेन च मेध्येनेजे , इति । भौवनाभिषेकमाहात्म्यं प्रशंसितुं पुरातनमहर्षिभोक्तमुदाहरणं दर्शयति

भूमिह जगावित्युदाहरन्ति, इति । भूमिर्देवता जगौ भौवनं प्रति किंचिद्वाक्यं गायारूपमुक्तवतीत्येवं पूर्व मा. पय उदाहरन्ति ।

तां गाथा दर्शयति

न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन्भौवन मां दिदासिथ । निमक्ष्येऽहं सलिलस्य मध्ये

मोषस्त एष कश्यपायाऽऽस संगर इति, इति । भुवनाख्यस्य पुत्र हे विश्वकर्मन्कश्चिदपि मनुष्यो मां भूमि दातुं नाईति । अत एव मीमांसका विचार्य सर्वस्वदाने महाभूमिदानं निवारितवन्तः । एवं सति त्वं मां भूमि दिदासिय कश्यपाय त्वदीयाचार्याय दातुमिच्छसि । ई तु सलिलस्य समुद्रस्य मध्ये निमक्ष्ये निमज्जनं करिष्ये । तथा सति ते कश्य पाय त्वदीयाचार्यस्य कश्यपस्यैष संगरो भूमिप्रतिग्रहविषयो मोघ आस पर्व एव बभूवेति । ईशमपि महाभूमिमज्जनं महाभिषेकमहिना निवारितमिति तात्पर्यायः।

. preglezen en Google< अष्टमः खण्डः] ऐतरेयत्रामणम् ।

सुदा इत्येतनामक पिजवनस्य पुत्र राजानमुदाहरति

. एतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः सुदासं पैजवनमभिषिषेच तस्मादु सुदाः पैजवनः समन्तं सर्वतः पृथिवीं

जयन्परीयायाश्वेन च मेध्येनेजे, इति । अविक्षिनामकस्य पुत्रं मरुत्तनामानं राजानमुदाहरति

एतेन हवा ऐन्द्रेण महाभिषेकेण संवर्त आङ्गि रसो मरुत्तमाविक्षितमभिषिषेच तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं

जयन्परीयायाश्वेन च मेध्येनेजे , इति । संवर्तनामको महषिरगिरसः पुत्रः। तेन कृतं मरुत्ताभिषेकं प्रशंसितुं श्लोकमुदाहरति

तदप्येष श्लोकोऽभिगीतः, इति । तस्मिंगपि मरुत्ताभिषेकंमाहात्म्य एष वक्ष्यमाणः श्लोकः पादबदो मत्रोs. भिगीतोऽभितः सर्वैः पठितः।

तं श्लोकं दर्शयति

मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे।

विक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति॥२१॥ इति । मरुत्तनानो राशो गृहे मरुत्संज्ञका देवा भोजनकाले परिवेषणकर्तारो भूत्वाऽवसन् । तथैवाऽऽविक्षितस्याविक्षित्पुत्रस्य कामः सर्वकामपूरितस्य मरु तस्य रहे विधे सर्वे देवाः सभासदः सभायामुपविष्टाः सेवन्त इति शेषः । इत्येष सर्वोऽपि महाभिषेकस्य महिमेत्यभिप्रायः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण

भाष्य एकोनचत्वारिंशाध्याये सप्तमः खण्डः ॥७॥ (२१) [१७९] - भानामकं राजानमुदाहरति

एतेन ह वा ऐन्द्रेण महाभिषेकेणोदमय आत्रे.orse

–.– -

.

1

.

९५० भीमत्सायणाचार्यविरचितभाष्यसमेतम्-१९एकोनचत्वार ध्याये

योगमभिषिषेच तस्मादङ्गः समन्तं सर्वतः

पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे, इति । उदमयनामकः कश्चिन्महर्षिरत्रे पुत्रोङ्गमभिषिषेच। . तस्यात्राभिषेकस्य माहात्म्यं दर्शयितुं कंचिवृत्तान्तमाह

स होवाचालोपाको दश नागसहस्राणि दश दासीसहस्राणि ददामि ते ब्राह्म

णोप माऽस्मिन्यज्ञे ह्रयस्वेति , इति । योऽयमानामको राजोक्तः सोऽयमलोपाकः संपूर्णावयव इत्यर्थः। महद स्याङ्गसौष्ठवम् । स कदाचित्स्वकीयाभिषेककर्तयुदमयनामके पुरोहिते स्वार्थ यागं कुर्वाणे सति तं प्रत्येवमुवाच । हे ब्राह्मणास्मिंस्त्वदीये यझे मामुपहयस समाहानं कुरु । अहमागत्य त्वदीययझे दक्षिणासंपूर्त्यर्थं तुभ्यं गजसहस्राणि दासीसहस्राणि च ददामीति । सेयं बहुदानसंपतिः सद्बुद्धिश्च महाभिषेकम सादलब्धा ।

एवमेवार्थ प्रपञ्चयितुं श्लोकानुदाहरति

तदप्येते श्लोका अभिगीताः, इति । तस्मिनप्याराजपुरोहितस्य यागे दानप्रतिपादका एते पत्र श्लोका अभितो गीताः सर्वतोऽभिः पठिताः। तत्र प्रथम श्लोकमाह

याभिर्गोभिरुदमयं प्रेयमेधा अयाजयन् ।

हे हे सहने बहानामात्रेयो मध्यतोऽददाद, इति । मियमेधस्य पुत्राः श्रयमेधा महर्षय उदमयनामकमाराजपुरोहितं याभिर्गो भिर्दक्षिणारूपाभिरयाजयन् । ता गावो वक्ष्यन्त इति शेषः। बदमिति शत कोटिसंख्याया नामधेयम् । बदानां शतकोटिसंख्याकानां गा मध्ये प्रति दिनं दे दे सहने मध्यतो माध्यंदिनसक्नेऽत्रिपुत्र उदमयो दत्तवान् ।

द्वितीयं श्लोकमाह

अष्टाशीतिः सहस्राणि श्वेतान्वैरोचनी हयान् ।

प्रष्टीनिवृत्य प्रायच्छद्यजमाने पुरोहिते, इति । वैरोचनो विरोचनस्य पुत्रोऽजनामको राजा स्वकीयपुरोहित उदयनामके

८ अष्टमः खण्डः] ऐतरेयब्राह्मणम् । यजमाने यागं कुर्वाणे स्वयमागत्याष्टाशीतिसहस्रसंख्याकानवावेतवर्णान्म. टीन्पृष्ठवाहनयोग्यवयस्काषिवृत्य स्वकीयाश्ववन्धनस्थानानिःसार्य प्रायच्छद्द

पवान् ।

तृतीयं श्लोकमाह

देशादेशात्समोहळानां सर्वासामान्यदुहितृणाम् ।

दशाददात्सहस्राण्यात्रेयो निष्ककण्व्यः, इति । देशादेशादिग्विजयकाले तत्तद्देशविशेषात्समोहळानां सम्यगासमन्तादूढाना. मानीतानामान्यदुहितृणां पनिकपुत्रीणां सर्वासा दश सहस्राण्यायोगराज पुरोहितो दत्तवान् । ताश्च दुहितरो निष्ककण्ठ्य आमरणोपेतकण्ठयुक्ताः।

चतुर्थ श्लोकमाह

दश नागसहस्राणि दत्त्वाऽऽत्रेयोऽवचनुके।

श्रान्तः पारिकुटान्प्रैप्सहानेनागस्य ब्राह्मणः, इति । अराजस्य पुरोहितो ब्राह्मण आत्रेयोऽवचनुकनामदेशे गजसहस्राणि दशसंख्याकानि दत्त्वा दानेन श्रान्तः सन्पारिकुटान्परिचारकान्मैप्सत्मेषि तवान् । हे परिचारका यूयं दत्तेत्येवमुक्तवानित्यर्थः।

पचमं श्लोकमाह

शतं तुभ्यं शतं तुभ्यमिति स्मैव प्रताम्यति । सहस्रं तुभ्यमित्युक्त्वा प्राणान्स्म प्रतिपद्यत इति ॥ २२॥ इति । परिचारकाणामप्यग्र एकैकशी पकुमशक्तस्तुभ्यं शतं तुभ्यं शतमिति शत. संख्या प्रोक्त्वा तत्रापि प्रताम्यति स्मैव ग्लानिमेव माप्तवान् । ततः शतसंख्या परित्यज्य सहस्रं तुभ्यमित्युक्त्वा तस्यामपि संख्यायां बहुशः मोक्तायामा. श्रान्तः सन्माणान्मतिपद्यते स्म । मध्ये मध्ये श्रमपरिहाराय दीर्घश्वासं कृतवा नित्यर्थः। अराजस्य पुरोहितायाप्येतादृशसामर्थ्य महाभिषेकप्रसादलब्ध मिति तात्पर्यायः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयबामण भाष्य एकोनचत्वारिंशाध्यायेऽष्टमः खण्डः ॥८॥ (२२)[१८०]

१. म. हितगा। risto is EGigic.

९५२ भीमत्सायणाचार्यविरचितभाष्यसमेतम् -[३९एकोनचत्वारिं० ध्याये

दुष्षन्तस्य पुत्र भरताख्यं राजानमुदाहरति

एतेन ह वा ऐन्द्रेण महाभिषेकेण दीर्घतमा मामतेयो भरतं दौष्षन्तिमभिषिषेच तस्मादु भरतो दोषन्तिः समन्तं सर्वतः पृथिवीं

जयन्परीयायाश्वैरु च मेध्यैरीजे, इति । ममताख्यायाः स्त्रियाः पुत्री दीर्घतमा इत्येतनामा मुनिर्भरतमभिषिच । भरतोऽपि दिग्विजयेन पृथिवीं परीत्य मेध्यैरभैरपीने । उ चेवि निपातयोः समूहः समुपयार्यः।

भरताभिषेकमाहात्म्यं दयितुं श्लोकानुदाहरति

तदप्येते श्लोका अभिगीताः, इति। तत्तमिन्भरताभिषेकमाहात्म्येऽप्येते वक्ष्यमाणाः पश्च श्लोका अभितः परि गीयन्ते।

तत्र प्रथम श्लोकमाह

हिरण्येन परीकृतान्कृष्णाशुक्लदतो मृगान् ।

मष्णारे भरतोऽददाच्छतं बद्दानि सप्त च, इति । मृगशब्देनात्र गजा विवक्षिताः। मृगवदिति बाहुल्यविवक्षया सुगशन्दः। वे च गजा हिरण्येन परीकृताः सर्वाभरणयुक्ताः शरीरपुष्टया वर्णोत्कर्षे सत्यत्यन्त कृष्णा: प्रतिभासन्ते । शुक्लाभ्यां दन्ताभ्यां युक्तास्तादृशान्गजान्मष्णारनामके देशे भरतो राजा दत्तवान् । शतमित्यादि तत्संख्योच्यते । बई वृन्दमित्येतो पर्यायौ । वृन्दशन्दश्च शतकोटिवाचित्वेन गणिते अन्यकारैर्दर्शित:

__ “एकं दश च शतं च सहस्रं चायुतनियुते तथा।

प्रयुतकोटथर्बुद वृन्दं स्थानं स्थानादशगुणं स्यात्” इति । तानि च शतकोटिरूपणि बद्वानि सप्ताधिकशतसंख्याकानि तावतो गजा न्दचवानित्यर्थः।

द्वितीय श्लोकमाह

भरतस्यैष दौष्षन्तेरग्निः साचीगुणे चितः।

यस्मिन्सहस्रं ब्राह्मणा बद्दशो गा विभेजिरे, इति । साचिगुणनामके कस्मिंश्चिदेशे दुष्षन्तपुत्रस्य भरतस्यैषोऽमिश्चितः । अशि चयनं कृतवानित्यर्थः । यसिमिचयने सहस्त्रसंख्याका ब्रामणा बना प्रत्येक शतकोटिसंख्यया गा विभेजिरे । गवां विभागं कृतवन्तः gle.

९५३

९ नवमः खण्डः] ऐतरेयबामणम् ।

तृतीयं श्लोकमाह

अष्टासप्तति भरतो दौष्पन्तिर्यमुनामनु ।

गङ्गायां वृत्रनेऽवनात्पञ्चपञ्चाशतं हयान्, इति । मेध्यैर धैरीज इत्युक्तं तेषामश्चानां संख्याऽत्रोच्यते। अष्टाधिका सप्ततिरष्टास मतिः।तामष्टासप्ततिं दुष्षन्तपुत्रो भरतो यमुनामनु यमुनायास्तीरेऽवनाबद्धवान् । तावतोऽश्वमेधान्कृतवानित्यर्थः । गङ्गायां गङ्गातीरे वृत्रघ्ननामके देशे पश्चाधि कपश्चाशत्संख्याकान्हयानवनात् । तावतोऽश्वमेधान्कृतवान् ।

चतुर्थ श्लोकमाह

त्रयस्त्रिंशच्छतं राजाऽश्वान्बद्ध्वाऽय(यं) मेध्यान । '

दौष्षन्तिरत्यगाद्राज्ञो मायां मायवत्तरः, इति । यमुनातीरे गातीरे चानुष्ठिता अश्वास्त्रयस्त्रिंशदधिकशतसंख्याकाः । ताव तोऽधान्मध्यान्यायोग्यान्विध्युक्तक्रमेण बन्धनं कृत्वा सोऽयं राजा दोष न्तिायवचरोऽतिशयेन मायावी सम्राज्ञः स्वकीयशत्रोर्मायामत्यगादतिका.

न्तवान् ।

पञ्चमं श्लोकमाह

महाकर्म भरतस्य न पूर्वे नापरे जनाः। दिवं मर्य इव हस्ताभ्यां नोदापुः पञ्च मानवा इति, इति ।

भरतस्य राको यदेतन्महाकर्म तदेतत्पूर्वे पित्रादयो न कर्तुं शक्ताः । अपरे जनाः पुत्रपोत्रादयश्च न कर्तुं शक्ताः । तत्र दृष्टान्तः । यथा मनुष्यो दिवं स्वर्ग हस्ताभ्यां स्पष्टुमशक्त एवं पञ्च मानवा निषादपश्चमाश्चत्वारो वर्णा नोदापु. स्वदीयं कर्म प्रासुमशक्ताः । सोऽयं सर्वोऽपि महाभिषेकस्य महिमेत्यर्थः।

अथ संपदायकथनमुखेन महाभिषेकं प्रशंसति

एतं ह वा ऐन्द्रं महाभिषेकं बृहदुक्थ ऋषिर्दुर्मुखाय पाश्चालाय प्रोवाच तस्मादु दुर्मुखः पाञ्चालो राजा सन्विद्यया समन्तं सर्वतः पृथिवीं जयन्परीयाय, इति । बृहदुक्थनामकः कश्चिदृषिः पञ्चालदेशस्वामिने दुर्मुखनाम्ने राजे तमेतमिन्द्र. संबन्धिनं महाभिषेकं प्रोवाच । तस्मादेव कारणात्स राजा सन्विद्यया महाभि. षेकज्ञानेनैव सर्वासु दिक्षु समन्तं समग्रां पृथिवीं जयन्परीयाय परितः संचचार।

progizen in Google १२०

९५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [४०चत्वारिं ध्याये

अथ ब्रामणस्योक्ताभिषेकाधिकाराभावेऽपि तद्विधाधिकारसद्भावात्कल सिदि दर्शयति

एतं ह वा ऐन्द्रं महाभिषेकं वासिष्ठः साय हव्योऽत्यरातये जानंतपये प्रोवाच तस्मा हत्यरातिर्जानंतपिरराजा सन्विद्यया समन्तं

सर्वतः पृथिवीं जयन्परीयाय , इति । वसिष्ठगोत्रोत्पमो वासिष्ठः सत्यहव्यस्य पुत्रः सात्यहव्यस्वाहशो मुनिरत्य रातिनामकाय जनंतवपुत्राय ब्राह्मणाय तमेतं महाभिषेकं मोवाच । तस्मादेव कारणादयमत्यरातिर्जानंतपिः स्वयमराजा समप्यभिषेकविद्यया जयं प्राप्तः परितो गतवान् ।

यथाऽभिषेके शपथं कृत्वा गुरुद्रोहो न कर्तव्य एवं विद्यायामपीति दर्शयति

स होवाच वासिष्ठः सायहव्योऽजैषी समन्तं सर्वतः पृथिवीं महन्मा गमयेति स होवाचा त्यराति नंतपिर्यदा ब्राह्मणोत्तरकुरूञ्जयेय. मथ खमु हैव पृथिव्यै राजा स्याः सेनापति

तेऽहं स्यामिति स होवाच वासिष्ठः सात्यहव्यो देवक्षेत्रं वै तन वै तन्मयो जेतु महत्यदुक्षो वै म आ त इदं दद इति ततो हात्यराति जानंतपिमात्तवीर्य निःशुक्रममि.

त्रतपनःशुष्मिणःशैब्यो राजा जघान, इति । सात्यहव्यो वासिष्ठो गुरुरत्यराति शिष्यमेवमुवाच । हेऽत्यराते विद्यासा मात्पृथिवीं जितवानसि । अतो मां गुरुं महद्गमय महत्त्वमैश्चर्य प्रापय । ततः शिष्योऽत्यरातिरेवमुवाच । मा भूदिदानी तव महत्त्वम् । हे ब्रामणाचार्य यदाऽहमुत्तरकुरुनामकान्हिमवत्पर्वतस्योत्तरदेशाञ्जयेयं तदानीं त्वमेव पृथिव्या राजा भव । अहं तु त्वदीयसेनापतिरेव भवामीति । ततः सात्यहव्यो वासिष्ठः

म. ‘कामभिः।

१ प्रथमः खण्डः ] ऐतरेयबामणम् ।

९५५ स गुरुरेवमुवाच । हेऽत्यराते मेरोरुत्तरतो यदस्ति तदेवक्षेत्रमतस्तत्क्षेत्रं मनुष्यो जेतुं नैवाईति । त्वं तु मे मामनुलो वै द्रोहं कृतवानेव । मदपेक्षितं महत्त्वं दातु मनिच्छुः सन्वञ्चनार्थ यत्किंचिदुक्तवानसि । अतः शपथोल्लङ्घिनो गुरुद्रोहि णस्तवेदं सामर्थ्यमाददेऽपहरामीति । ततः सामर्थ्यापहरणादत्यराति जानंतपि गुरुणाऽपहृतवीर्यमपहृततेजस्कं कश्चिच्छत्रुतापनः शिविपुत्रः शुष्मिणाख्यो राजा जधान हतवान् ।

एतवृत्तान्तकथनफलं दर्शयति

तस्मादेवंविदुषे ब्राह्मणायैवंचक्रुषे न क्षत्रियो द्रुह्येनेद्राष्ट्रादवपद्येयं नेहा मा

प्राणो जहदिति जहदिति ॥२३॥ इति । यस्माद्गुरुद्रोहे महती हानिरुक्ता तस्मादेवंविदुषे महाभिषेकाभिज्ञायैवंचकु पेऽभिषेककरें ब्राह्मणायाऽऽचार्याय क्षत्रियो न दुखेद । केनाभिप्रायेणेति सोऽभिधीयते । राष्ट्रादस्माद्देशाभेदवपद्येयं नैव भ्रष्टो भूयासम् । अथवा मा माणो नेजहरैव परित्यजत्वित्यभिप्रायः । अभ्यासोऽध्यायसमाप्त्यर्थः ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण.

भाष्ये नवमः खण्डः ॥९॥ (२३) [१८१] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्रा

ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्य ____ एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥