अथाष्टात्रिंशोऽध्यायः ।
पुनः कार्योऽभिषेकान्ते क्रत्वात्वेन वर्णितः ॥
अभिषेकः पुमर्थो यस्तस्योपोद्धात उच्यते ॥ १ ॥ ताऽऽदाविन्द्रस्याभिषेकं प्रतिनानीते
अथात ऐन्द्रो महाभिषेकः, इति । अथ मानुषक्षत्रियाभिषेकोक्त्यनन्तरं यतो देवोऽभिषेको बुभुत्सितः । अतः कारणादिन्द्रसंबन्धी महाभिषेक कथ्यत इति शेषः । आरोहणमुत्क्रोशनाभि मवणादिभिर्वक्ष्यमाणैरस्याभिषेकस्य महवं द्रष्टव्यम् ।
तदभिषेकार्य देवविवादं दर्शयति
ते देवा अब्रुवन्सप्रजापतिका अयं वै देवानामोजिष्ठो बलिष्ठः सहिष्टः सत्तमः पारयिष्णुतम इममेवा भिषिञ्चामहा इति तथेति तदै तदिन्द्रमेव, इति । प्रजापतिना सह वर्तन्त इति समजापतिकास्तेऽग्न्यादयो देवाः परस्परमि दमब्रुवन् । हस्तेनेन्द्रं मदर्य कथयन्ति । अयमेवेन्द्रो देवानां मध्य ओजिष्ठोऽ. तिशयेनाष्टमधातुयुक्तः । बलिष्ठोऽतिशयेन शरीरबलयुक्तः। सहिष्ठोऽतिशयेन वैयमिभवशीलः । सचमोऽतिशयेन स्वभक्तेषु साधुः। पारयिष्णुवमोऽतिशयेन भक्रान्तस्य कार्यस्य समाप्तिकृत् । तस्मादिममेव सर्वे वयमभिषिक्षामहा इति कैश्चियुक्ते सत्यन्ये सर्वेऽपि तथेत्यजीकृत्य तदै तदानीमेव तदिन्द्रमेव तं सर्वैरनु मतमिन्द्रमेवाभ्यषिश्वमिति शेषः ।
११. ‘पेकोऽन्ते । २ छ. विचार द.. Google१ प्रथमः खण्डः] ऐतरेयबामणम् ।
तत्र प्रकारं दर्शयति
तस्मा एतामासन्दी समभरनृचं नाम तस्यै बृहच्च रथंतरं च पूर्वी पादावकुर्वन्वरूपं च वैराज चापरौ शाकररैवते शीर्षण्ये नौधसं च कालेयं चानूच्ये ऋचः प्राचीनातानान्सा मानि तिरश्चीनवायान्यजूंष्यतीकाशान्यश जास्तरणं श्रियमुपबहणं तस्यै सविता च बृहस्पतिश्च पूर्वी पादावधारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्वि
नावनूच्ये स एतामासन्दीमारोहव, इति । तस्मा इन्द्रार्थमेतां वक्ष्यमाणां वेदमयीमासन्दी समभरन् । ऋचं नामेत्या सन्या विशेषणम् । ऋभूपामेतमामिकामित्यर्थः । तस्यै तस्या पाया आसन्या बृहदादीन्यष्ट सामानि पूर्वपादायशवयवानकुर्वन् । आसन्यां या नस्येन्द्रस्य शिरोदेशस्थं फलकं शीर्षण्यम् । तथ पाददेशाविष्कृतस्य फलक स्याप्युपलक्षणम् । अत एव शीर्षण्ये इति द्विवचनमुच्यते । अनूच्ये पार्षद्वय वर्तिनी फलके । ऋग्रूपा ये मत्राः सन्ति तान्माचीनातानान्माक्मत्यगायतत्वेन विस्तारितान्दीर्घतन्तुविशेषानकुर्वन् । गीयमानानि सामानि तिरथीनवायां स्तिर्यक्त्वेन वयनहेतूव्रज्जुविशेषानकुर्वन् । यष्यतीकाशाव्रज्ज्वन्तरालच्छिद्र विशेषानकुर्वन् । यद्यशः कीर्तिर्देवतारूपं तदासन्या उपर्यास्तरणम् । या तु श्रीः संपदभिमानिनी देवता तामुपबईणं शिरस उपधानमकुर्वन् । तस्यै तस्या आसन्धाः पादादीनष्टावयवान्सवित्रादयोऽष्टौ देवा अधारयन् । इन्द्र एतां वेदमयीमासन्दी वक्ष्यमाणैः षण्मरारोहन् ।
वान्मवान्दर्शयति
वसवस्त्वा गायत्रेण च्छन्दसा त्रिता स्तोमेन रथंतरेण सानाऽऽरोहन्तु तानन्वारोहामि साम्रा ज्याय रुद्रास्वा त्रैष्टुभेन च्छन्दसा पञ्चदशेन स्तोमेन बृहता सानाऽऽरोहन्तु तानन्वारोहामि fe १४
। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१८अष्टात्रिघ्याये
भौज्यायाऽऽदित्यास्त्वा जागतेन च्छन्दसा सप्त दशेन स्तोमेन वैरूपेण साम्राऽऽरोहन्तु तान न्वारोहामि स्वाराज्याय विश्वे खा देवा आनु. . ष्टुमेन च्छन्दसैकविंशेन स्तोमेन वैराजेन सानाऽऽरोहन्तु तानन्वारोहामि वैराज्याय साध्याश्च त्वाऽऽप्याश्च देवाः पाङ्क्तेन च्छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्राऽऽरोहन्तु तान न्वारोहामि राज्याय मरुतश्च त्वाऽनिरसश्च देवा अतिच्छन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्राऽऽरोहन्तु तानन्वारोहामि पारम ष्ठयाय माहाराज्यायाऽऽधिपत्याय स्वावश्याया
तिष्ठायाऽऽरोहामीत्येतामासन्दीमारोहव, इति । घस्वादयो देवगणा गायत्र्यादिच्छन्दोभित्रिसदादिस्तोमै रयंतरादिसाम भिश्च सह हे आसन्दि त्वां प्रथमत आरोहन्तु । ताननु पश्चादहमारोहामि । आप्त्या इत्यनेनापि वस्वादिशब्दवत्कश्चिद्देवगणविशेष उच्यते । साम्राज्या दीन्यारोहणपयोजनानि । एते च शब्दाः पूर्वाध्याये घ्याघ्रचर्मणाऽऽस्तृणाती त्यस्मिन्खण्डे व्याख्याताः । एतैः षड्भिर्मवैरिन्द्र उक्तामासन्दीमारोहद ।
इन्द्रारोहणादूर्ध्व देवानामभ्युत्क्रोशनं दर्शयति
तमेतस्यामासन्धामासीनं विश्वे देवा अब्रुवन्न वा अनभ्युस्कुष्ट इन्द्रो वीर्य कर्तुमर्हत्यभ्येनमुल्क्रो शामेति तथेति तं विश्वे देवा अभ्युदकोशनिमं देवा अभ्युत्क्रोशत सम्राजं साम्राज्यं भोज भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं राजानं राजपितरं परमेष्ठिनं पारमेष्ठयं क्षत्रम जनि क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिर जनि विशामत्ताऽजनि पुरां भेत्ताऽजन्यसुराणां
२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।
हन्ताऽजनि ब्रह्मणो गोप्ताऽजनि
धर्मस्य गोप्ताऽजनीति, इति । एतस्यां घेदमय्यामासन्धामासीनं तमिन्द्रं प्रति विश्वे सर्वे देवाः परस्परमि दमब्रुवन् । यथा लोके बन्दिनो गुणकथनेन राज्ञः कीर्ति कुर्वन्ति । एवमत्रापि गुणकीर्तनमभ्युत्क्रोशनम् । तेन रहितोऽनभ्युत्क्रुष्ट इन्द्रो युद्धादौ वीर्य कर्तुं नैवा ईति । कीर्तिमन्तरेण परेषां भीत्यनुदयात् । तस्मादभित एनमिन्द्रमभ्यु(मु)त्को शामोदोषयामेति विचार्य तथैवाङ्गीकृत्य तमिन्द्रं सर्वे देवा अभ्युदक्रोशन् । इम मित्यादिरभ्युत्क्रोशनपकारः । हे देवा इममिन्द्रमभित उत्क्रोशतोडोषयत । कीरशमिन्द्रं सम्रादस्वरूपमत एव साम्राज्यं कर्तुमर्हम् । भोज भोक्तारमत एवं भोजपितरं भोजपालकं स्वराडूपत्वादेव स्वाराज्यं कर्तुमर्ह राजरूपत्वादेव राज पितरं सर्वेषां राज्ञां पालकम् । परमेष्टिरूपत्वात्पारमेष्ठचं पदमनुभवितुं योग्यम् । भत्रमजनि । ईशी क्षत्रियजातिलॊके समुत्पमा । तज्जातिमान्क्षत्रिया पुरुषः समुत्पनः । सर्वस्य प्राणिजातस्याधिपतिः समुत्पभः । विशां प्रजानामत्ता भोक्ता समुत्पनः । पुरा परकीयाणां भेत्ता विदारयिता समुत्पनः । असुराणां हन्ता घातकः समुत्पनः । ब्रह्मणो वेदस्य गोप्ता रक्षकः समुत्पनः । धर्मस्य वेदोक्तस्य गोता रक्षकः समुत्पनः । इत्ययमभ्युत्कोशमत्रः।
अभ्युत्कोशनादूर्ध्व प्रजापतिकर्तव्यं दर्शयति
तमभ्युत्क्रुष्टं प्रजापतिरभिषेक्ष्यन्नेतय
र्चाऽभ्यमन्त्रयत ॥ १२ ॥ इति । एतया निषसादेति वक्ष्यमाणया ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबाम
भाष्येऽष्टात्रिंशाध्याये प्रथमः खण्डः ॥ १॥ (१२) [ १७०] एतयाऽभ्यमन्त्रयतेत्यत्र योऽयं मन्त्र ऋक्शब्देन विवक्षितस्तं मवं दर्शयति
निषसाद धृतव्रतो वरुणः पस्यास्वा। साम्रा ज्याय भौज्याय स्वाराज्याय वैराज्याय पार मेष्ठयाय राज्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽतिष्ठाय सुक्रतुरिति, इति ।
१ क. इ. अ. भोगपा। pies Hoogle
९३२ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्-[३(अष्टात्रि ध्याये
धृतव्रतः स्वीकृतनियमो वरुणः सर्वस्यानिष्टस्य निवारयितेन्द्रः पस्त्यासु गृहेष्वागत्य साम्राज्यादिफलसिद्ध्यर्थं सुक्रतुः शोभनसंकल्पो भूत्वा निषसादा स्यामासन्यां निषण्णवान् ।
अनेन मत्रेणाभिमत्रितस्येन्द्रस्याभिषेकप्रकारं दर्शयति
तमेतस्यामासन्धामासीनं प्रजापतिः पुरस्ता त्तिष्ठन्प्रत्यङ्मुख औदुम्बर्याऽऽया शाखया सपलाशया जातरूपमयेन च पवित्रेणान्त र्धायाभ्यषिञ्चदिमा आपः शिवतमा इत्येतेन तृचेन देवस्य खेति च यजुषा भूर्भुवः स्वरि
त्येताभिश्च व्याहृतिभिः ॥ १३ ॥ इति । एतस्यां पूर्वोक्तायां वेदमय्यामासन्धामासीनं तमिन्द्रं प्रजापतिरभ्यपिञ्चत् । किं कुर्वन् । पुरस्तादासन्धाः पूर्वस्यां दिशि प्रत्ययुखस्तिष्ठन् । किं कृत्वा । आर्द्रयाऽऽपत्रोपेतयोदुम्बरशाखया सुवर्णमयेन च पवित्रेणान्तर्धाय व्यवधानं कृत्वा । केन मन्त्रेण । इमा आपः शिवतमा इत्यादिकेन क्रत्वकाभिषेके मोक्तेन त्रिविधेन मबजातेन ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राम
भाष्येऽष्टात्रिंशाध्याये द्वितीयः खण्डः ॥२॥ (१३)[१७१] इन्द्रस्य प्रजापतिकृताभिषेकादूर्ध्व दिग्भेदेन देवविशेषैरभिषेकः कृतः । तत्र माच्या दिश्यभिषेकं दर्शयति
अथैनं प्राच्यां दिशि वसवो देवाः षभिश्चैव पञ्चविंशैरहोभिरभ्यषिश्चन्नेतेन च तृचेनैतेन च
यजुषैताभिश्च व्याहृतिभिः साम्राज्याय, इति । अथ प्रजापत्यभिषेकानन्तरमेनमिन्द्रं माच्या दिश्यवस्थिता वसवो देवा एकत्रिंशत्स्वहःमु पूर्वोक्तैर्मत्रैरभ्यपिश्चन् । तच्च साम्राज्यसिद्धये भवति ।
इदानींतनलौकिकाचारप्रदर्शनेनेन्द्रस्य प्राच्यां दिशि तमभिषेकं द्रढयति
तस्मादेतस्यां प्राच्यां दिशि ये के च प्राच्यानां राजानः साम्राज्यायैव तेऽभिषिच्यन्ते सम्राळि-fe
३ तृतीयः खण्डः] ऐतरेयबामणम् ।
त्येनानभिषिक्तानाचक्षत एता
मेव देवानां विहितिमनु, इति । यस्मादमुभिः प्राच्या दिश्यभिषेकः कृतस्तस्मादिदानीमपि प्राच्यानां पूर्व दिग्वतिना मनुष्याणां ये के च राजानः सन्ति ते सर्वेऽपि देवानां च वसूनां च संबन्धिनीमेतामेव विहितिं पूर्वोक्तमेव विधानमनु साम्राज्यसिद्धचर्थमभि पिच्यन्तेऽत एवाभिषिक्तानेनाव्राज्ञः सम्राळित्यनेन शन्देन व्यवहरन्ति ।
दिगन्तरेऽपि देवान्तरैरिन्द्राभिषेकं दर्शयति
अथैनं दक्षिणस्यां दिशि रुद्रा देवाः षभि चैव पञ्चविंशैरहोभिरभ्यषिञ्चनेतेन च तृचेनै तेन च यजुषैताभिश्च व्याहृतिभिभीज्याय तस्मादेतस्यां दक्षिणस्यां दिशि ये के च सत्वतां राजानो भौज्यायैव तेऽभिषिच्यन्ते भोजेत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनं प्रतीच्या दिश्यादित्या देवाः षभिश्चैव पञ्चविंशैरहोभिरभ्यषिश्चनेतेन च तृचेनतेन च यजुषताभिश्च व्याहृतिभिःस्वारा ज्याय तस्मादेतस्यां प्रतीच्यां दिशि ये के च नीच्यानां राजानो येऽपाच्यानां स्वाराज्या यैव तेऽभिषिच्यन्ते स्वराळियेनानभिषिक्ताना चक्षत एतामेव देवानां विहितिमन्वथैनमु दीच्यां दिशि विश्वे देवाः षभिश्चैव पञ्चविंशै रहोभिरभ्यषिश्चनेतेन च तृचेनैतेन च यजुषैता भिश्च व्याहृतिभिर्वैराज्याय तस्मादेतस्यामु. दीच्यां दिशि ये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा इति वैराज्यायैव तेऽभि पिच्यन्ते विराळियेनानभिषिक्तानाचक्षत एता-ngle
— ९१४ भीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१९एकोनचत्वारिं ध्याये
मेव देवानां विहितिमन्वथैनमस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाऽऽ प्याश्च देवाः षभिश्चैव पञ्चविंशरहोमिर भ्यषिश्चनेतेन च तृचेनतेन च यजुषैताभिश्च व्याहृतिभी राज्याय तस्मादस्यां धुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च कुरुपश्चा लानां राजानः सवशोशीनराणां राज्यायैव तेऽभिषिच्यन्ते राजेयेनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमूर्ध्वायां दिशि मरुतश्चारिसश्च देवाः षड्भिश्चैव पञ्चविंशेरहोभिरभ्यषिञ्चनेतेन च तृनैतेन च यजुषताभिश्च व्याहृतिभिः पारमेष्ट्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽति
ष्ठायेति स परमेष्ठी प्राजापत्योऽभवत्, इति । प्रथमपर्यायवघ्याख्येयम् । सत्वतां दक्षिणस्यां दिशि वर्तमानाः प्राणिनः सत्वमामकाः। तेषां ये राजानोऽभिषिक्तास्ते भोजेत्यनेन शन्देन व्यवड़ियन्ते। मतीच्यां दिशि वर्तमानाः माणिनो नीच्या अपाच्याश्च । निकर्षमवन्तीति नीच्याः । अपकर्षमवन्तीत्यपाच्याः । जात्या निकर्षः । व्यवहारेणापकर्षः । उभयविधानां माणिनां ये राजानः सन्ति ते स्वराडिति शब्देन व्यवड़ियन्ते । उदीच्यां दिशि हिमवन्तं परेण हिमवत्पर्वतपरभागे जनपदा ग्रामविशेषा उत्त रकुरुनामका उत्तरमद्रनामकाः सन्ति तत्रत्या राजानो विराडितिशन्देन व्यवड़ियन्ते । मध्यमा दिवाध्यदेशः । स माच्यादिभिः सर्वाभिरपेक्षितत्वेन ध्रुवो भवति । तदपेक्षयैव पूर्वा पश्चिमेत्यादिव्यवहारः। स च देशः सर्वेषां बैदिकानामाश्रयः । तत्र ये वशदेशैरुशीनरदेशैश्च सहिताः कुरुपत्रालदेशाः सन्ति तेषां देशानां ये राजानस्ते राजेत्यनेन शब्देन व्यवड़ियन्ते । ऊर्ध्वायां दिशि स्वर्गरूपायां मनुष्यस्य संचाराभावातत्र राजानो नोदाहताः। किंत्वि न्द्रस्यैवाभिषेक उक्तः । तस्यां दिश्यभिषेकेण स इन्द्रः परमेष्ठी परमपदेव स्थितः प्राजापत्यः प्रजापतिसंवन्ध्यभवत् ।
pielizes in Google
.
१ प्रथमः खण्डः] ऐतरेयबामणम् ।
कत्ममिन्द्राभिषेकं निगमयति
स एतेन महाभिषेकेणाभिषिक्त इन्द्रः सर्वा जितीरजयत्सल्लिोकानविन्दत्सर्वेषां देवानां श्रेष्ध्यमतिष्ठां परमतामगच्छत्साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहारा ज्यमाधिपत्यं जित्वाऽस्मिल्लोके स्वयंभूः स्वराळमृतोऽमुष्मिन्स्वर्गे लोके सर्वान्कामा
नाप्त्वाऽमृतः समभवत्समभवद ॥१४॥ इति । पूर्वोक्ताभिषेकेणाभिषिक्त इन्द्रो नितीर्जेतव्याः सर्वा युद्धभूमीरजयत् । तेन नयेन सर्वाल्लोकानविन्ददलभत । देवानां मध्ये श्रेष्ठपमतिशयेन प्रशस्तस्वम तिष्ठा सर्वानतिक्रम्यावस्थानं परमतामुत्कृष्टत्वमगच्छत् । जातित उत्तमत्वं भैष्टयम् । गुणैरुत्तमत्वं परमत्वम् । साम्राज्यादीनि पदान्यस्मिल्लोके जित्वा माप्य स्वयंभूः प्रजापतिरूपः स्वरादस्वतवराजोऽमृत इतरमनुष्यवदल्पकाले मर. णरहितः सभमुष्मिन्परोक्षे स्वर्गे लोके सर्वान्कामान्भोगान्माप्यामतो मरणर हितो मुक्तः समभवत् । अभ्यासोऽध्यायसमाप्त्यर्थः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थमकामा ऐतरेयनाम
भाष्येऽष्टात्रिंशाध्याये तृतीयः खण्डः ॥ ३॥ (१४) [१७२] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य धुरंधरसायणाचार्यकृतावैतरेयबामणभाष्येऽ.
टात्रिंशोऽध्यायः ॥१८॥