भय सप्तत्रिंशोऽध्यायः।
स्तुतशस्त्रविशेषोऽस्य क्षत्रियस्योपवर्णितः ।
तो समासेऽथ पुनरभिषेकोऽत्र वर्ण्यते ॥१॥ समेतमभिषेकं प्रतिजानीते
अथातः पुनरभिषेकस्यैव, इति । oogle
९०५
१ प्रथमः खण्डः] ऐतरेयबामणम् ।
अथ क्रतुसमाप्त्सनन्तरं यतः क्षत्रियोऽभिषेकमर्हति । अतः कारणात्पुनर भिषेकस्यैव विषिरुच्यत इति शेषः । राज्ञः पूर्वमभिषिक्तत्वादयं पुनरभिषेको भवति । इतरस्यापि क्षत्रियस्य माहेन्द्रग्रहाय प्रस्तुते साम्न्यभिषेकस्याऽऽध्वर्य बस्य विद्यमानत्वादयं पुनरभिषेको भवति ।
विषचे
सूयते ह वा अस्य क्षत्रं यो दीक्षते क्षत्रियः सन्स यदाऽवभृथादुदेत्यानूबन्ध्ययेष्वोदवस्यत्यथैनमुद
वसानीयायां संस्थितायां पुनरभिषिञ्चन्ति, इति । यः पुमान्क्षत्रियः सन्दीक्षते दीक्षां मामोति । अस्य क्षत्रस्य पुरुषस्य क्षत्रं सर्वेषां प्राणिनां क्षतात्राणनं सूयते प्रवर्ततेऽस्मात्स क्षत्रियो यदाऽवभृथाबुदे. त्यावभृयाख्यं कर्म समाप्तं कृत्वा ततोऽनबन्ध्याख्यया कयाचित्पभुस्थानी ययेष्ठा यागं कृत्वा पश्चादुदवस्यत्युदवसानीयाख्ययेल्या कर्मावसानं करोति । मय तदानीमेनं क्षत्रियमुदवसानीयेष्टौ समाशायां पुनरपि कर्मावत्वेनविजोऽ भिषिचेयुः।
वस्याभिषेकसाधनानि विषचे
तस्यैते पुरस्तादेव संभारा उपक्लप्ता भवन्यो दुम्बर्यासन्दी तस्यै प्रादेशमात्राः पादाः स्युर रलिमात्राणि शीर्षण्यानूच्यानि मौनं विव यनं व्याघ्रचर्माऽऽस्तरणमौदुम्बरश्वमस उदु म्बरशाखा तस्मिन्नेतस्मिश्चमसेऽष्टातयानि निषुतानि भवन्ति दधि मधु सर्पिरातपवर्ष्या
आपःशष्पाणि च तोक्मानि च सुरादूर्वा, इति । तस्य पुनरभिषेकस्यैते वक्ष्यमाणाः संभाराः संपादनीया द्रव्यविशेषाः पुर स्तादेवोपकप्ता अभिषेककालात्मागेव संपादिता भवेयुः । के वस्तुविशेषाः संपादनीयास्तेऽभिधीयन्ते । उदुम्बरकाष्?निर्मिता काचिदासन्दी। तस्यै तस्या भासन्याश्चत्वारः पादाः पादेशपरिमिताः । तेषां पादानां शिरस्युपरिभागेऽ. पस्थितानि शीर्षण्यान्यन्वक्तिर्यगवस्थितानि काष्ठान्यनूच्यानि तानि शीर्षण्या. नूच्यान्यरलिपरिमितानि । प्रादेशद्वयमरनिः । विविध वयनं रज्जूनामोतमो वापेण संयोजनम् । तब मौझं मुञ्जवणेन निर्मितम् । ईदृश्या आसन्था उप
११४
९०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[१७सप्तत्रि ध्याये स्विरणं व्याघ्रचर्म । दध्यादिप्रक्षेपार्थः प्रौढ उदुम्बरकाष्ठनिर्मितश्चमसः । तथा काचित्सूक्ष्मोदुम्बरशाखा । तस्मितस्मिनोदुम्बरे प्रौढे चमसे वक्ष्यमाण दध्यादिद्रव्याण्यष्टातयानि । अत्र द्वितयत्रितयादिवत्संख्याया अवयवे तय विति सूत्रेण तयप्पत्ययः । अष्टसंख्याका अवयवा येषां दध्यादीनां तान्यष्टा तयानि । दीर्घ छान्दसः । तानि च निषुतानि नितरां मुतानि प्रक्षिप्तानि भवन्ति । चमसे प्रक्षेप्याण्यष्ट द्रव्याणि कानीति तान्युच्यन्ते । दधि मधु सपि. रित्येतानि त्रीणि प्रसिद्धानि । आसपयुक्तवर्षभवा आतपवास्तादृश्य आप चतुर्थ द्रव्यम् । शष्पाणि श्यामतृणानि पञ्चमं द्रव्यम् । तोक्मान्यवराणि पर्छ द्रव्यम् । मुरा दूर्वेति द्रव्यद्वयं प्रसिद्धम् ।
संपादिताया आसन्धाः प्रतिष्ठापनं विधत्ते
तथैषा दक्षिणा स्फ्यवर्तनिदेर्भवति तत्रैतां प्राचीमासन्दी प्रतिष्ठापयति तस्या अन्तर्वेदि हो पादौ भवतो बहिर्वेदि दावियं वै श्रीस्तस्या एतत्परिमितं रूपं यदन्तवेद्यथैष भूमाऽपरि मितो यो बहिर्वेदि तबदस्या अन्तर्वेदि दौ
पादौ भवतो बहिर्वेदि हा उभयोः कामयोरु.
पाप्त्यै यश्चान्तर्वेदि यश्च बहिर्वेदि ॥५॥ इति । पुरा वेदिपरिग्रहार्थं स्फ्येन रेखात्रयं कृतं दक्षिणा प्रतीच्युदीची च । तत्र देवयजनदेशे यैषा वेदेः संबन्धिनी दक्षिणा स्फ्यवर्तनिः स्फ्यस्य रेखा भवति तत्र तस्यां रेखायामेतामासन्दी प्राची प्रागग्रामवस्थापयेत् । तस्याश्थाऽऽसन्या उत्तरदिग्गतौ द्वौ पादावन्तर्वेदि तिष्ठतः । दक्षिणदिग्गतौ द्वौ पादौ बहिर्वेदि स्थापनीयौ । इयं भूमिः श्रीवै संपदूपैव । तस्या भूमेरन्तर्वेदि यद्रूपमस्ति एत. परिमितमल्पम् । अथ बहिर्वेदि यः प्रदेशोऽस्ति एष भूमा बहुलः । अत एवापरिमित इयानिति परिच्छेदरहितः । एवं सति वेदेमध्ये बहिश्वाऽऽसन्या दौ दौ पादाविति यदस्ति तदुभयोः कामयोः प्राप्त्यै भवति । यश्च कामो वेदिमध्ये लभ्यते । यथान्यः कामो वेदेर्बहिर्लभ्यते तदुभयसिदचर्यमेवं स्थापनम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण.
भाष्ये सप्तत्रिंशाध्याये प्रथमः खण्डः ॥ १ ॥ (५) [१६२]
२ द्वितीयः खण्डः] ऐतरेयबामणम् ।
प्रतिष्ठापिताया आसन्या उपरि चर्मास्तरणं विधत्ते
व्याघ्रचर्मणाऽऽस्तृणात्युत्तरलोना प्राचीनग्री वेण क्षत्रं वा एतदारण्यानां पशूनां ययाघ्रः
क्षत्रं राजन्यः क्षत्रेणैव तत्क्षत्रं समर्धयति, इति । उत्तराण्यूलभ.गे लोमानि यस्य चर्मणस्तदुत्तरलोम । प्राच्यां दिशि श्रीना यस्य चर्मणस्तत्माचीनग्रीवं तादृशेन व्याघ्रचर्मणा तामासन्दीमास्तृणीयात् । अरण्य एवावस्थिता आरण्याः पशवो हरिणादयो यो व्याघ्रोऽस्त्येतदार ण्यानां पशूनां मध्ये क्षत्रं क्षत्रियवच्छूरः । योऽयं राजन्यो यजमानः सोऽपि सत्र क्षत्रियजातित्वाच्छूरः । अतश्चर्मास्तरणाब्याघ्रचर्मरूपेण सत्रेणैव यजमान रूपं क्षत्रं समृदं करोति ।
आसन्या अभिमवणं विधत्ते
तां पश्चात्माकुपविश्याऽऽच्य जानु दक्षिण
मभिमन्त्रयत उभाभ्यां पाणिभ्यामालभ्य, इति । प्रतिष्ठापिताया आसन्याः पश्चाद्भागे यजमानः प्राङ्मुख उपविश्य दक्षिणं यज्जान्वस्ति तदाच्य तमिस्पृष्टं यया भवति तथा न्यग्भूतं कृत्वा सव्यजा नर्ध्वमुखमेवावस्थाप्योभाभ्यां पाणिभ्यामासन्दीमालभ्य स्पृष्ट्वा वक्ष्यमाण मत्रेणाभिमवयेत् ।
तं मचं दर्शयति
अमिष्क्षा गायत्र्या सयुक्छन्दसाऽऽरोहतु सवि तोष्णिहा सोमोऽनुष्टुभा बृहस्पतिव॒हत्या मित्रावरुणौ पङ्क्त्येन्द्रस्त्रिष्टुभा विश्वे देवा जगत्या तानहमनु राज्याय साम्रा ज्याय भौज्याय स्वाराज्याय वैराज्याय पार मेष्ट्याय राज्याय माहाराज्यायाऽऽधिप
याय स्वावश्यायाऽऽतिष्ठायाऽऽरोहामि, इति । हे आसन्दि त्वा त्वां गायत्र्या छन्दसा सयुक्सहितोऽग्निरारोहतु । उष्णिहा छन्दसा सहितः सविताऽऽरोहतु । एवं सोमवृहस्पतिमित्रावरुणेन्द्रविश्वे (पादेवा अनुष्टुवादिच्छन्दोभिः सहितास्त्वामारोहन्तु । तानगन्यादीन्देवाननु
.—. .–.- .. —
——–.
.. -.–….—.–
९०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३७सप्तत्रि ध्याये पश्चादहमारोहामि । किमर्थ राज्यादिसिद्ध्यर्थम् । राज्यं देशाधिपत्यम् । साम्राज्यं धर्मेण पालनम् । भौज्यं भोगसमृद्धिः । स्वाराज्यमपराधीनत्वम् ।
राज्यमितरेभ्यो भूपतिभ्यो वैशिष्ट्यम् । एतदुक्तमैहिकम् । अथाऽऽमुष्पिकम ज्यते । पारमेष्ठयं प्रजापतिलोकमाप्तिः। तत्र राज्यमैश्वर्यम् । माहाराज्यं तत्र सेभ्य इतरेभ्य आधिक्यम् । आधिपत्यं तानितरान्मति स्वामित्वम् । स्वाक श्यमपारतव्यम् । आतिष्ठत्वं चिरकालवासित्वम् ।
अनेन मवेणाभिमत्रणादूर्ध्वमारोहणं विषचे
इत्येतामासन्दीमारोहेदक्षिणे
नाग्रेजानुनाऽथ सव्येन, इति । इतिशब्दः पूर्वोक्तमभिमत्रणमन्त्रं परामशति । तेनैव मत्रेण तामासन्दी मारोहेत् । तत्रायं प्रकारः । दक्षिणेन जानुना प्रथमं समारोहेद । वा
सन्येनाऽऽरोहे ।
आरोहणं प्रशंसति
तत्तदिती, इति । तदारोहणमित्येवं सर्वे जनाः पूजयन्ति । पूजार्येयं श्रुतिः । मनतात्पर्य दर्शयति
चतुरुत्तरचे देवाश्छन्दोभिः सयुग्भूत्वैतां श्रियमारोहन्यस्यामेत एतर्हि प्रतिष्ठिता अमिर्गायच्या सवितोष्णिहा सोमोऽ नुष्टुभा बृहस्पतिवृहत्या मित्रावरुणौ पड़
क्त्येन्द्रस्त्रिष्दभा विश्वे देवा जगत्या, इति । चत्वार्यक्षराण्येकैकस्माच्छन्दस उत्तराण्यधिकानि येषु गायत्र्यादिषु जन त्यन्तेषु च्छन्दःसु तानि चतुरुत्तराणि । तादृशै छन्दोभिः सयुग्भूत्वा साहिलं प्राप्य देवा अग्न्यादय एतामासन्दीं श्रियमैश्वर्यापामारोहन् । यस्यामास न्यामेतेऽन्यादय इदानीमपि मतिष्ठिता वर्तन्ते । देवाग्छन्दोभिः सयुग्भूत्वे त्ययम(स्या)र्थोऽमिर्गायत्र्येत्यादिना स्पष्टीकृतः ।
उक्तमर्थ मनसंवादेन द्रढयति ते एते अभ्यनूच्येते अनेर्गायत्र्यभवत्सयुग्वेति, इति ।२ द्वितीयः खण्डः] . ऐतरेयबामणम् ।
९०९ ते एते देवच्छन्दसी परस्परसहिते कयाचिहचाऽभ्यनूच्येते । सेयमृगमेरि त्यादिका येयं गायत्री सेयमः सयुग्वा सहवासिन्यभवदिति तस्या ऋचोऽर्थः। क्षत्रियस्याऽऽरोहणं प्रशंसति
कल्पते ह वा अस्मै योगक्षेम उत्तरोत्त रिणी ह श्रियमश्नुतेऽश्रुते ह प्रजानामैश्व र्यमाधिपत्यं य एवमेता अनु देवता एता
मासन्दीमारोहति क्षत्रियः सन्, इति । पा पुमान्खयं क्षत्रियः समारोहति एता देवता अनु स्वयमप्युक्तेन प्रका रेणेतामासन्दीमारोहति । अस्मै क्षत्रियाय योगक्षेमः कल्पते सिध्यति । अमा सस्य लाभस्य प्राप्तियोगः । प्राप्तस्य वस्तुनो रक्षण क्षेमः। योगसहिता क्षेमो योगक्षेमः । किंचायं क्षत्रिय उत्तरोत्तरिणी दिने दिने वर्धमानां श्रियं मामोति । तथा सर्वासां प्रजानामैश्वर्यं नियामकत्वमाधिपत्यमषिकत्वेन पालनं च प्रामोति।
अभिषेककर्तुः शान्तिमन्त्रवाचन विधत्ते
अथैनमभिषेक्ष्यनपा शान्ति वाचयति, इति । अयाऽऽसन्यारोहणानन्तरमेनमारूढं क्षत्रियं योऽन्योऽभिषेक्ष्यति स पुमा नपा शान्ति जलदेवतानां शान्तिकरं मर्च पाचयेत् । क्षत्रियस्याने स्वयं सकः दुक्त्वा ते क्षत्रियं पाठयेत् ।। एतं शान्तिमचं दर्शयति
शिवेन मा चक्षुषा पश्यताऽऽपः शिवया तन्वो पस्पृशत त्वचं मे । सर्वा अमीरप्सुषदो हुवे
वो मयि वक़ बलमोजो निधत्तेति, इति । हे आपो देवताः शिवेन शान्तेनानुग्रहयुक्तेन चक्षुषा मामवलोकयत । तथा शिवया शान्तया तन्वा मदीयां त्वचमुपस्पृशत । अप्सु जलेषु सीदन्तीत्यप्र. पद और्वादयोऽमयस्तानमीन्सर्वान्वो युष्मदर्थ हुव आहयामि । यूयमपि वर्च: कान्ति बलं शरीरवलं तत्कारणमोजश्च मयि निधत्त संपादयत ।
तदेतच्छान्तिमववाचनं प्रशंसति
नैतस्याभिषिषिचानस्याशान्ता आपो वीर्य निर्हणनिति ॥ ६॥ इति । Googlee
९१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तत्रि ध्याये
अशान्ता उग्रा आपः । तया चान्यत्र श्रूयते-‘दिल्या आपोऽधान्ताः’ इति । ताबाऽऽप: शान्तिवाचनाभावेऽभिषिषिचानस्याभिषेकं मासस्यैतस्य क्षत्रियस्य वीर्य निर्हरेयुर्विनाशयेयुः । सति तु शान्तिपाठे न निईणमेव विना. षयन्तीत्यनेनाभिप्रायेण शान्ति वाचयेत् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण भाष्ये सप्तत्रिंशाध्याये द्वितीयः खण्डः ॥२॥ (६) [१६]
अभिषेकमकारं विषचे
अथैनमुदुम्बरशाखामन्तर्धायाभिषिञ्चति, इति । अथ शान्तिवाचनानन्तरमेनं क्षत्रियमुदुम्बरशाखामन्तर्षीय शिरस्युदुम्बर पाखया व्यवधानं कृत्वा चमसस्यैर्दध्यादिभिरभिषिशेत् । तिल ऋच एवं पाहतयश्रेत्येतेऽभिषेकमवाः।
तत्र प्रथमामृचमाह
इमा आपः शिवतमा इमाः सर्वस्य भेषजीः ।
इमा राष्ट्रस्य वर्धनीरिमा राष्ट्रभृतोऽमृताः, इति । आप इत्यनेन दध्यादिसर्वद्रव्याण्युपलक्ष्यन्ते । इमा दध्यादिसहिता आपः शिवतमा अतिशयेन शान्ताः। तथेमा आपः सर्वस्य दारियादिरोगस्य भेष. जीरोषधरूपाः । तथेमा आपो राष्ट्रस्य वर्धनीरभिवृदिहेतवोऽत एवेमा आपो
राष्ट्रभृतो राष्ट्रधारिण्यः स्वयं चामृता विनाशरहिताः।
द्वितीयामृचमाह
याभिरिन्द्रमभ्यषिश्चत्प्रजापतिः सोमं राजानं वरुणं यमं मनुम् । ताभिरद्भिरभिषिश्चामि
स्वामहं राज्ञां त्वमधिराजो भवेह, इति । पुरा प्रजापतिर्याभिर्दध्यादिसहिताभिरद्भिरिन्द्रादीनभ्यषिश्चत् । हे क्षत्रिय ताभिरभिस्त्वामहमभिषिचामि । त्वं चेह लोके रामा सर्वेषामपिको
राजा भव।
तृतीयामचमाह
महान्तं वा महीनां सम्राजं चर्षणीनाम् । देवी जनित्यजीजनद्रा जनित्र्यजीजनत, इति ।
र तृतीयः खण्डः] ऐतरेयबामणम् ।
जनित्री तवोत्पादिका मातृरूपा देवी स्वां महीनां महान्तं महतामपि पुरु. पाणां मध्येऽतिशयेन महान्तं चर्षणीनां मनुष्याणां च सर्वेषां सम्राजं सम्य ग्धर्मेण पालयितारं कृत्वाऽजीजनदुत्पादितवती। अतो भवदीया जनित्री माता स्वयं तदा पुण्यात्मा भूत्वोत्पादितवती । तिस ऋषोऽभिधाय यजुर्दर्शयति
देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणा-.
भिषिञ्चामि बलाय श्रिय यशसेऽवाचाय, इति । हे क्षत्रिय सवितुः प्रेरकस्य देवस्य परमेश्वरस्य प्रसवेऽनुमायां सत्यां त्वाम मिपिनामि । केन साधनेन । अश्विनोदॆवयोः संबन्धिभ्यां बाहुभ्यां न तु मदीयाभ्याम् । तथा पूष्णो देवस्य हस्ताभ्याम् । मणिबन्धपर्यन्तौ दण्डाकारी पाहू अगुलिसहितावप्रभागौ हस्तौ। तथाऽमिसंबन्धिना तेजसा शरीरकान्त्या। सूर्यस्य संपन्धिना वर्चसा बासमकाशेन । इन्द्रसंबन्धिनेन्द्रियेण चक्षुरादिपा टवेन । कस्मै प्रयोजनायायमभिषेकः । तव शारीरबलाय, श्रियै हस्त्यश्वादि. संपदे, यशसे कीत्य, अनाधायानसमृदये। .
अथ कामनाभेदेन व्याहृतीर्दर्शयति
भूरिति य इच्छेदिममेव प्रत्यनमद्यादित्यथ य इच्छेहिपुरुषं भूर्भुव इत्यथ य इच्छेत्रिपुरुषं
वाऽप्रतिमं वा भूर्भुवः स्वरिति, इति । योऽभिषेक्ता इममेवाभिषिच्यमानं क्षत्रियं प्रत्यसावनमधामीरोगो भवेदि तीच्छेत्कामयेत तं भूरिति व्याहत्याऽभिषिश्वेत् । अथ योऽभिषेक्ता पुत्रपौ. प्राभ्यां पुरुषाभ्यां सहितमिमं क्षत्रियं प्रत्यनमयादिति कामयेत । तदानीं भर्भुव इति व्याहृतिद्वयेनाभिषिश्वेत् । अथ योऽभिषेक्ता पुत्रपौत्रप्रपौत्रैखिभिः पुरुषैर्युक्तमिमं क्षत्रियमिच्छेत्पुरुषत्रयपर्यन्तं जीवित्वा सुखेनाममघादिति कामयेत । अथ वा तमेतमप्रतिमं स्वतुल्यक्षत्रियान्तररहितं कुर्यामिति कामयेत सदानी भूर्भुवः स्वरिति व्याहृतित्रयेणाभिषिशेत् ।
अय कंचित्पूर्वपलमुत्थापयति
तबैक आहुः सर्वाप्तिर्वा एषा यदेता व्याहृतयोति सर्वेण हास्य परस्मै कृतं भव- Google
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३७सप्तत्रि०ध्याये तीति तमेतेनाभिषिञ्चेदेवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताभ्याममे स्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषि
वामि बलाय श्रियै यशसेऽनाद्यायेति, इति । तद्ध तस्मिन्नेवाभिषेके ब्रह्मवादिनः केचिदेवमाहुः । या एता व्याहतया सन्ति एषा व्याहृतिरूपा सर्वाप्तिः सर्वफलमाप्तिसाधनम् । अतो व्याहृतिमि रभिषेके सत्यस्याभिषिच्यमानस्य परस्मै परस्य स्वस्मादन्यस्य क्षत्रियस्यावि सर्वेण तदपेक्षामात्रममिक्रम्य कृत्स्नेनापि मवजातेनाभिषेचनं कृतं भवति । तदेतदधिकाभिषेचनमयुक्तमित्यभिप्रेत्य तं क्षत्रियमेतेन देवस्य त्वेत्यादिना यजु. पाऽभिपिशेष तु व्याहृतिभिरिति तेषां पक्षः।
वै पक्षं दूषयति
तदु पुनः परिचक्षते यदसर्वेण वाचोऽभि षिक्तो भवतीश्वरो ह तु पुराऽऽयुषः प्रतोरिति ह स्माऽऽह सत्यकामो जाबालोऽयमे
ताभिातिभिर्नाभिषिञ्चन्तीति, इति । तदु तदपि पूर्वोक्तं मतं पुनरन्येऽभिज्ञाः परिचक्षते निराकुर्वन्ति । य क्षत्रिः यमेताभिर्व्याहृतिभिर्नाभिषिश्वन्ति एष क्षत्रियो यद्यस्मात्कारणादसर्वेण संपू. तिरहितेन वाचो वाक्येन मत्रेणाभिषिक्तो भवति तस्मादयं स्वोचितादायुषः पुरा भैतोः मैतुं मर्तुमीश्वरः समर्थो भवति । तस्मादायुःक्षयहेतुत्वादयं पक्षो न युक्त इति जाबालायाः पुत्रः सत्यकामो महर्षिराह ।
पूर्वपक्षं दूषयित्वा सिद्धान्तमाह
ईश्वरोह सर्वमायुरैतोः सर्वमामोदिजयेनेत्यु ह स्माऽऽहोहालक आरुणिर्यमेताभिा हृतिभिरभिषिञ्चन्तीति तमेतेनैवाभिषिञ्चे देवस्य वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्रेस्तेजसा सूर्यस्य वर्चसे न्द्रस्येन्द्रियेणाभिषिञ्चामि बलाय श्रियै यशसेऽवाचाय भूर्भुवः स्वरिति, इति ।
४ चतुर्थः खण्डः] ऐतरेयब्रामणम् ।
९१६ यं क्षत्रियमेताभिर्व्यातिभिरभिषिञ्चन्ति स क्षत्रियः सर्वमायुरैतोः सर्व मायुः पातुमीश्वरः समर्थो भवति । ततो विजयेन शत्रूनभिभूय सर्व भोगमा मोत्मामोतीत्येवमरुणपुत्र उद्दालक आह स्म। तस्मात्तं क्षत्रियमेतेन व्याहृत्यन्ते. नैव यजुषाऽभिषिक्षेत्र केवलेन । सोऽयं व्याहत्यन्तो मनोनित्यप्रयोगे द्रष्टव्यः। काम्यप्रयोगे तु व्याहृतिविकल्पः पूर्वमुक्तः ।
अभिषेकार होमं विधत्ते
अथैतानि ह वै क्षत्रियादीजानाद्युत्क्रान्तानि भवन्ति ब्रह्मक्षत्रे ऊर्गनाधमपामोषधीनां रसो ब्रह्मवर्चस मिरापुष्टिः प्रजातिः क्षत्ररूपं तदथो अनस्य रस
ओषधीनां क्षत्रं प्रतिष्ठा तद्यदेवामू पुरस्तादाहुती जुहोति तदस्मिन्ब्रह्मक्षत्रे दधाति ॥ ७॥ इति । अयाभिषेकानन्तरं होम उच्यत इति शेषः । ईजानाधागं कृतवता क्षत्रि पादेतानि वक्ष्यमाणानि व्युत्क्रान्तान्यपगतानि भवन्ति । तानि निर्दिश्यन्ते । ब्रह्माने एतस्य समीपे वर्तमानं जातिद्वयम् । ऊक्षीरादिरसः अमाधमोदना. दिकम् । तदेतदुभयमपामोषधीनां रसः सारः। अपां रसः क्षीरादिः। ओषधीनां रसोऽमाधम् । ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः । इरापुष्टिरमसमृद्धिः। प्रजातिः पुत्रोत्पादनम् । तच्च सर्व क्षत्रस्य स्वरूपमत्यन्तमपेक्षितत्वात् । एतेषां व्युत्क्रान्ती भत्रियस्य स्वरूपहानिरेव भवति । अथो अपि चानस्यौदनस्य रसो रसस्य क्षीरादेरोषधीनाममकारणानां व्रीहियवादीनां क्षत्रं प्रतिष्ठा क्षत्रिय भाश्रयः। तस्मादुक्तो व्यतिक्रमः क्षत्रियस्य न युक्तः । तत्तथा सति यद्यम् बुद्धिस्थे आहुती अभिषिक्तस्य क्षत्रियस्य पुरस्ताज्जुहुयात् । तत्तदानीमस्मि मभिषिक्त ब्रामणजाति क्षत्रियजाति तदुपलक्षितमन्नादिकं च सर्वमवस्थाप पति । ब्रह्म प्रपये स्वाहा क्षत्रं प्रपद्ये स्वाहेत्याहुतिद्वयं जुहुयादिति तात्पर्यार्थः ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण
भाष्ये सप्तत्रिंशाध्याये तृतीयः खण्डः ॥३॥ (७) [१६४] भभिषेकसाधनानि क्रमेण प्रशंसितुमादावासन्धादित्रयं प्रशंसति
अथ यदौदुम्बर्यासन्दी भवत्योदुम्बर श्वमस उदुम्बरशाखाग्खों अनावमुदु-Cnonfe
९१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१७सप्तत्रि ध्याये
म्बर ऊर्जमेवास्मिंस्तदन्नाचं दधाति, इति । आसन्दीचमसशाखाना कारणभूतो य उदुम्बरः सोऽयं रसस्यामस्य स्वरू. पभूतः । तेनास्मिन्यजमाने रसमयं च संपादयति ।
दध्यादित्रयं प्रशंसति
अथ यहधि मधु घृतं भवत्यपां स ओषधीनां रसोऽपामेवास्मिस्तदोषधीनां रसं दधाति, इति । दपिघृतयोः पशुभक्षिततृणोदकजन्यवादोषपिरसत्वम् । मधुनो मधुकरानी. तपुष्परसजन्यत्वादोषघिसारत्वम् ।
आतपसहिता वृष्टिजन्या अपः प्रशंसति
अथ यदातपवर्ष्या आपो भवन्ति तेजश्व ह वै ब्रह्मवर्चसं चाऽऽतपवा आपस्तेज
एवास्मिंस्तद्ब्रह्मवर्चसं च दधाति, इति । आतपसंबन्धाचेजस्त्वमाहुतिफलरूपवृष्टिसंबन्धासवर्चसत्वम् । श्यामतृणान्यहुराणि च प्रशंसति
अथ यच्छष्पाणि च तोक्मानि च भवन्ती रायै तत्पुष्टय रूपमथो प्रजात्या इरामेवा
स्मिस्तत्पुष्टिं दधायथो प्रजातिम् , इति । तृणानामहराणां च पश्चमत्वाचनक्षणेन पशुषु पुष्टिप्रजोत्पादनयोष्टत्वा. दिरापुष्टिप्रजादिरूपत्वम् ।
मुरा प्रशंसति
अथ यत्सुरा भवति क्षत्ररूपं तदथो अनस्य रसः क्षत्ररूपमेवास्मिंस्त
दधात्यथो अन्नस्य रसम् , इति । मुरया क्षत्रियस्यैव मदयोगात्मत्ररूपत्वं ब्रीसाधारजन्यत्वादभरसत्वम् । दूर्वा मशंसति
अथ यहूर्वा भवति क्षत्रं वा एतदोषधीनां
म.यभरसज।
gize is. 6300gfice.
- चतुर्थः खण्डः] ऐतरेयबामणम् ।
९१५ यदूर्वा क्षत्रं राजन्यो नितत इव हीह क्षत्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव निततेव दूर्वाs वरोधैर्भूम्यां प्रतिष्ठितेव तद्यद्दूर्वा भवत्योषधी नामेवास्मिंस्तरक्षत्रं दधात्यथो प्रतिष्ठाम्, इति । ओषधिजातौ पूर्वायाः क्षत्रियजातित्वं राजसंबन्धिक्षत्रियजातिसाम्पादव गन्तव्यम् । तदेव साम्यं नितत इत्यादिना प्रपञ्जयते । इह राष्ट्रे क्षत्रियो घसं. स्तेषु प्रामेषु संचरन्स्वपुरुषस्थापनाच स्वयं नितरां ततो विस्तृत एव राज्यैष पेण प्रतिष्ठित एव भवति । पूर्वा चावरोधैरधोमुखैः स्वकीयमूलनितरां ततेव व्याता स्थैर्यादेकत्र प्रतिष्ठिता भवति । तत्तया सति यवत्र दूर्वा भवति तदा. नीमोषधिसंबन्धिक्षत्रियजातिमस्मिन्यजमाने संपादयति । अपि च प्रतिष्ठा स्थैर्यमपि च संपादयति ।
प्रत्यके प्रशस्य समुदायरूपेण प्रशंसति
एतानि ह वै यान्यस्मादीजानाद्युत्क्रान्तानि भवन्ति तान्येवास्मिस्तदधाति तैरेवेनं तत्समर्धयति, इति । ईजानाचागं कृतवतोऽस्मात्क्षत्रियाद्यान्येवैतानि दध्युदुम्बरादीनि व्युत्का तानि भवन्ति तान्येवास्मिन्क्षत्रिये संपाच तैरेवेनं समृदं करोति ।
अभिषिक्तस्य क्षत्रियस्य पानपात्रं विधत्ते
__ अथास्मै सुराकंसं हस्त आदधाति, इति । अयाभिषेकानन्तरमस्मा अस्य क्षत्रियस्य हस्ते सुरायुक्तकांस्यपात्रमा दध्यात् ।
तत्र मघमाह
स्वादिष्ठया मदिष्ठया पवस्व सोम
धारया। इन्द्राय पातवे सुतः, इति । हे सोम तत्समानसुराद्रव्य खादिष्टयाऽतिशयेन स्वादुभूतया मदिष्टयाs. विशयेन मदहेतुभूतया त्वदीयया धारया पवस्व यजमानं शोधय । हे द्रव्यवि शेषेन्द्राय पातव इन्द्रस्य पानार्थ मुतोऽभिपुतः संपादितोऽसि ।
स्वादिष्ठया मदिष्ठया०-९-१-१ | session is google
९१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्–[३७सप्तत्रिं ध्याये
मत्रान्तरेण शान्तिवाचन विधत्ते
इत्याधाय शान्ति वाचयति , इति । इत्यनेन पूर्वोक्तमत्रेण हस्ते मुरायुक्तं कांस्यपात्रमाषाय वक्ष्यमाणमण शान्ति वाचयेत् ।
तं मचं दर्शयति
नाना हि वां देवहितं सदस्कृतं मा संमृक्षाथां परमे व्योमनि । सुरा स्वमसि शुष्मिणी सोम एष राजा मैनं हिंसिष्टं स्वां योनिमाविशन्ताविति , इति । हे सुरासोमौ यां युवयोर्देवहितं देवैः संपादितं सदः स्थानं नाना कृतं पृथ. गेव निष्पादितम् । अतः परमे व्योमनि उत्कृष्ट उदराकाशे मा संसृक्षा संसर्ग मा कुरुतम् । संसर्गे हि सोमस्य बाधा स्यात् । हे मय त्वं शुष्मिणी पलवती सुराऽसि । एष तु सोमो राजा । तो बलवन्तौ युवामुभौ खां योनि माविशन्तावुदरमध्ये विभागेन खं खं स्थानं प्रविशन्तावेनं पातारं मा हिंसिष्टं हिंसितमुपद्रुतं मा कुरुतम् । इत्येतं मत्र क्षत्रियस्याने कथयित्वा तं वाचयेत् ।
सस्य मन्त्रस्य तात्पर्यार्थ दर्शयति
सोमपीथस्य चैषा सुरापीथस्य च व्यावृत्तिः, इति । एषा मन्त्रातिपाया सोमपानसुरापानयोः परस्परव्यावृत्तिः। मा संमृक्षा थामिति संसर्गस्य निषिद्धत्वात् । पीतशेषस्य दानं विधत्ते
पीत्वा यं रातिं मन्येत तस्मा एनां प्रयच्छे त्तद्वि मित्रस्य रूपं मित्र एवैनां तदन्ततः प्रति
ष्ठापयति तथा हि मित्रे प्रतितिष्ठति, इति । कांस्यपागतां मुरां क्षत्रियः स्वयं पीत्वा यं पुरुषं रातिं स्वस्य धनदावारं मित्रं मन्येत तस्मै पुरुषायैनामवशिष्ट मुरां प्रयच्छेत् । तदेकपात्रगतद्रव्यपानं मित्रस्य रूपम् । परस्परं मित्रयोः सहभोजनदर्शनात् । ततेन दानेनान्ततः पानान्ते मित्र एवैना मुरां प्रतिष्ठापयति । तथा हि तथैव कुर्वन्स्वयमपि मित्र प्रतिष्ठितो भवति ।
prognozuo in Google
५ पञ्चमः खण्डः] ऐतरेयब्रामणम् ।
घेदनं प्रशंसति
प्रतितिष्ठति य एवं वेद ॥ ८॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम
णभाष्ये सप्तत्रिंशाध्याये चतुर्थः खण्डः ॥४॥(८)[ १६५] आसन्या अवरोहं विधत्ते–
अथोदुम्बरशाखाममि प्रत्यवरोह त्यूर्वा अनावमुदुम्बर ऊर्जमेव तद
बाद्यमभि प्रत्यवरोहति , इति । अयाभिषेकपानानन्तरं भूमावुदुम्बरशाखामवस्थाप्य तामभिलक्ष्य प्रत्यवरो हेत् । योऽयमुदुम्बरः स ऊर्वै रसरूप एव तत्फले माधुर्यसद्भावात् । तथाs भाद्यस्वरूपश्च तद्भक्षणेनोदरपूरणात् । तस्मादुदुम्बरशाखायां प्रत्यवरोहेनो(णो) जमनाचं चाभिलक्ष्यावरोहति ।
तत्र प्रकारं विधत्ते
उपर्येवाऽऽसीनो भूमौ पादौ प्रति
छाप्य प्रत्यवरोहमाह , इति । आसन्धा उपर्येव स्वयमुपविष्टः प्रथमतः पादौ भूमाववस्थाप्य प्रत्यवरोहसा पनभूतं मत्रं पठेत् ।
तं मर्च दर्शयति
प्रतितिष्ठामि द्यावापृथिव्योः प्रतितिष्ठामि प्राणापानयोः प्रतितिष्ठाम्यहोरात्रयोः प्रतितिष्ठाम्यन्नपानयोः प्रति ब्रह्मन्प्रति क्षत्रे प्रत्येषु त्रिषु लोकेषु तिष्ठामि, इति । भूमौ यदवरोहणं तद्यावापृथिव्यादिषु सर्वेष्ववस्थानमिति मवार्थः । अनेन मत्रेण क्रियमाणं प्रत्यवरोहं प्रशंसति
अन्ततः सर्वेणाऽऽत्मना प्रतितिष्ठति सर्वस्मिन्ह वाएतस्मिन्प्रतितिष्ठत्युत्तरोत्तरिणीह श्रियमश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेतेन पुनरभिःoule
…
..
.
.
… -
–
९१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३७सप्तत्रि०ध्याये
षेकेणाभिषिक्तः क्षत्रियः प्रत्यवरोहति , इति । या क्षत्रिय उक्ताभिषेकादूर्ध्वमनेन मत्रेण प्रत्यवरोहति स पुरुषोऽन्ततोs भिषेकस्यान्ते धनिकत्वादिना सर्वेण रूपेण प्रतिष्ठितो भवति । एतस्मिन्सस्सि न्यावापृथिव्यादिके प्रतिष्ठितो भवति । उत्तरेत्यादि पूर्ववयोजनीयम् ।
प्रत्यवरोहादूर्वा कर्तव्यं विषत्ते
- एतेन प्रत्यवरोहेण प्रत्यवरुद्योपस्थं कृत्वा
प्राङासीनो नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्कृत्य वरं ददामि जित्या अभिजित्यै विजित्यै
संजित्या इति वाचं विसृजते , इति । प्रत्यवरूपति दीर्घश्छान्दसः। पूर्वोक्तेन प्रत्यवरोहमत्रेण प्रत्यवरूप भूमावु. पस्थमासनविशेषं कृत्वा भाब्युख आसीनो नमस्कारमत्रं त्रिः पठित्वा परमि त्यादिमत्रेण वाचं विसृजेत् । वाग्विसर्गो लौकिव्यवहारः। जितिर्जयमात्रम् । मभितः सर्वेषु देवेषु जितिरभिजितिः । प्रबलदुर्बलशत्रूणां तारतम्येन विविषो जयो विजितिः। पुन शत्रुत्वराहित्याय सम्यग्जयः संजितिः । एतसिख बामणाय वरं गां ददामि । नमस्कारमचं प्रशंसति
स यनमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति विष्कृत्वो ब्रह्मणे नमस्करोति ब्रह्मण एव तत्क्षत्रं वशमेति तवत्र वै ब्रह्मणः क्षत्रं वशमेति तद्राष्ट्र
समृद्धं तद्दीवदाहास्मिन्वीरो जायते, इति । स क्षत्रियो मत्रेण नमस्करोतीति यदस्ति तेन ब्रह्मणो ब्रामणस्यैव क्षत्रि. यजातिर्वशमेति । तेन ब्राह्मणाधीनत्वेन तद्राष्ट्र सर्ववसुसमृदं वीरपुरुषोपेवं च भवति । अस्मिन्क्षत्रिये वीरः पुरुष आजायते ।
वरदानमत्रं प्रशंसति
अथ यहरं ददामि जित्या अभिजित्यै विजित्यै संजित्या इति वाचं विसृजत एतदै वाचो५ पञ्चमःख
९१९
ऐतरेयब्राह्मणम् । जितं यहदामीत्याह यदेव वाचो जिता३म्,
तन्म इदमनु कर्म संतिष्ठाता इति, इति । घरमित्यादिमण वाचं विमृजत इति यदस्ति तस्मिन्मवस्वकरें ददामीति यदाह । एतदेव वाक्संबन्धि जितं जयः। यदेव वाचो जितमस्ति । पूजार्थो जितामिति दीर्घः । तद्वाग्जयरूपं मे मदीयमिदं कर्मानुसृत्य संतिष्ठातै समास भवति सम्यगवतिष्ठतामिति तस्य मवस्याभिमायः।
समिदापानं विधत्ते
विसृज्य वाचमुपोत्थायाऽऽहव
नीये समिधमभ्यादधाति, इति ।। उक्तेन प्रकारेण वानियम परित्यज्य तस्मादासनादुत्थितो वक्ष्यमाणमने णाऽऽहवनीये समिषं मक्षिपेत् ।।
तं मचं दर्शयति
समिदसि सम्वेक्ष्वेन्द्रियेण वीर्येण स्वाहेति, इति । हे काष्ठ त्वं समिदसि समिन्धनसाधनमसि । इतिधातोर्लोण्मध्यमपुरुषेक पचनमेजस्वेति । स च गत्यर्थः । उशन्दोऽनर्थकः । इन्द्रियपाटवेन शरीरसाम ध्र्येन च सम्वेस्व संयोजय त्वदर्य स्वाहुतमिदमस्तु ।
मत्स्य तात्पर्यार्थ दर्शयति
इन्द्रियेणेव तबीर्येणाऽऽत्मान
। मन्ततः समर्धयति, इति । ततेन समिदापानमत्रेणाऽऽत्मानमभिषेककर्मान्ते वीर्येन्द्रियाभ्यां समृद करोति।
समिदाधानादूर्ध्वं कर्तव्यं विधत्ते
आधाय समिधं त्रीणि पदानि
प्राङदङभ्युत्क्रामति, इति । समिधं प्रक्षिप्य भामुख उदब्युखो वो पदत्रयमभित उत्क्रामेत् । यद्वा पाहु दस्त्यिन्तरालवर्तिनीमैशानी दिशमभिलक्ष्योत्क्रामेत् ।
- प्लुत इत्यपेक्षितम् ।
१स. वा पाद । Perized by Google
९२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[३७सप्तत्रि०ध्याये
तत्र मचं दर्शयति
क्लप्तिरसि दिशां मयि देवेभ्यः कल्पत ।
कल्पतां मे योगक्षेमोऽभयं मेऽस्तु, इति । दिग्विशेषमभिलक्ष्य क्रियमाण हे पदोत्क्रमण त्वं दिशां कृप्तिः कल्पन खाधीनत्वसंपादकमसि । अतो मयि सेवार्थ कल्पत कल्पनं सामर्थ्य कुरु । बहुवचनं छान्दसम् । मे मम योगसहितः क्षेमः कल्पता संपद्यताम् । तथैव मे ममाभयं भयराहित्यमस्तु ।
दिगुपस्थानं विधत्ते
इत्यपराजितां दिशमुपतिष्ठते जितस्यैवा
पुनःपराजयाय तत्तदिती ॥९॥ इति । इत्यनेन पूर्वोक्तेन कृप्तिरसीत्यादिमत्रेण पराजयरहितां प्राचीमुदीची वा दिसमुपतिष्ठते । अथवा दिशमैशानीमपराजितामुपतिष्ठते । पूर्व जितस्यैव दिग्विश्रेषस्य पुनःपराजयराहित्यार्थमुपस्थानम् । लोकाय तदुपस्योनमिति सर्वे पूजयन्ति । पूजार्थेयं सानुनासिकछुतिः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण.
भाष्ये सप्तत्रिंशाध्याये पञ्चमः खण्डः ॥५॥(९) [१६७ ]
अपराजितां दिशमुपतिष्ठत इति यदुक्तं तत्रैशान्या दिशो मुख्यापराजि तत्वं दर्शयति
देवासुरा वा एषु लोकेषु संयेतिरे त एतस्यां प्राच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्ते दक्षिणस्यां दिशि येतिरे तांस्ततोऽसुरा अज यंस्ते प्रतीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्त उदीच्यां दिशि येतिरे तांस्ततोऽ सुरा अजयंस्त एतस्मिन्नवान्तरदेशे येतिरे य एष प्राङदते ह ततो जिग्युः , इति ।
१. दनं तथा संपादक । २ अ. ‘स्थानं तदुपस्थान | nife
(षष्ठः खण्डः] ऐतरेयबामणम् ।
९२१ पुरा कदाचिदेवाचामुराधेषु भूरादिषु लोकेषु निमित्तेषु संयेतिरे युद्धं कृत पन्तः । तत्र माच्यादिषु चतसृषु दिक्षु यत्र यत्र युदं कृतं तत्र तत्रासुराणामेव विजयोऽभूत् । य एष माडुददिग्दयस्पर्शी कश्चिदवान्तरदेश ऐशानात्मक एतस्मिन्देशे यदा युद्धं कृतं तदा ते देवास्ततो देशानिमित्तभूताजिग्युर्जयं प्राप्तास्तस्मादियमैशानी दिगपराजिता पूर्वोक्तमत्रेणोपस्थेया। ___तमेतमभिषिक्तक्षत्रियवृत्तान्तं तावदवस्थाप्य तत्मसहागतं पुरुषान्तरवृत्तान्तं
दर्भयति
तं यदि क्षत्रिय उपधावेत्सेनयोः समाययो स्तथा मे कुरु यथाऽहमिमां सेनां जयानीति स यदि तथेति ब्रूयाहनस्पते वीको हि भूया
इत्यस्य रथोपस्थमभिमृश्याथेनं ब्रूयाव, इति । कस्मिंश्चिदेशे युद्धार्थमुभे सेने परस्परं समागच्छतः । तयोः समागच्छन्त्योः सेनयोर्मध्ये यः कोऽपि क्षत्रियो विजयार्थी संस्तमभिषिक्तमैशानीदिगुपस्थानमुक्तं राजानं यापधावेद, शरणं गच्छेत् । केनाभिमायणेति सोऽभिधीयते । हेऽभि विक्त ययाऽहमिमा शत्रुसेनां जयानि तथा मेऽनुग्रहं कुर्विति तदभिमायः। सदानी सोऽभिषिक्तः क्षत्रियो यदि तथेत्यवीकारं ब्रूयात् । तदानीं वनस्पत इत्यूचा जयार्थिनः पुरुषस्य रथोप्रभागमभिमश्यानन्तरमेनं जयार्थिन प्रति वक्ष्यमाणं मत्रं भूयात् ।
वं मनं दर्शयति
आतिष्ठस्वैतां ते दिशमभिमुखः संनदी रथोऽभिप्रवर्ततां स उदङ्स प्रत्यङ्स
दक्षिणा स प्राङ्सोऽभ्यमित्रमिति, इति । हे जयार्थिनेतामैशानी दिशमातिष्ठस्व प्रामुहि । ते रथ एतामैशानी दिर्श प्रत्यभिमुखः संनद्धः सर्वायुधादिसंनाहोपेतोऽभितः प्रवर्तताम् । ततः स रय पदमुखः प्रवर्तताम् । ततः स रथः प्रत्यन्मुखः प्रवर्तताम् । ततः स रयो दक्षि णामुखः प्रवर्तताम् । ततः स रथः प्रामुखः प्रवर्तताम् । तव उर्ध्वमभ्यमित्रं स्वदीयं शg प्रति प्रवर्तताम् ।
वनस्पते वीड्वङ्गो हि भूयाः-६-४७-२९ ॥ ogle. ११६
.
.
९२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तत्रि०ध्याये
जयार्थिनं प्रत्येतन्मवकथनापूर्ध्वमभिषिक्तस्य कर्तव्यं दर्शयति
अभीवर्तेन हविषेत्येवैनमावर्तयेदथैनमन्वी
क्षेताप्रतिरथेन शासेन सौपर्णेनेति, इति । अभीवर्तेनेत्यादिना सूक्तेनैनं जयार्थिनमुक्तक्रमेण दिश्वावर्तयेत् । अयान न्तरमावर्तमानमेनं सूक्तत्रयेणान्वीक्षेत । आशुः शिशानः [१०-१०३-१] इत्यमतिरथं सूक्तम् । शास इत्या [१०-१५२-१] इति शाससूक्तम् । प्रधार यन्तु मधुन इति सौपर्णसूक्तम्।
अभिषिक्तस्य कृत्यमुक्त्वा जयार्थिनः कृत्यं दर्शयति
जयति ह तां सेनाम्, इति । सेनाद्वययुद्धे जयार्थ प्रयोगमुक्त्वा पुरुषद्वंद्वयुद्धेऽपि तमाह
यावा एनमुपधावेत्सङ्कामं संयतिष्यमाणस्तथा मे कुरु यथाऽहमिमं सङ्कामं संजयानीत्येतस्या
मेवैनं दिशि यातयेजयति हतं सङ्घामम्, इति । यः कोऽपि पुमान्संयतिष्यमाणो युदं करिष्यस्तं सामं जेतुमेनमभिषित यापधावेत् । तथा मे कुर्विति पूर्ववत् ।।
राष्ट्राष्टस्य पुनरपि राष्ट्रप्राप्त्यर्थ प्रयोग दर्शयति
यधु वा एनमुपधावेद्राष्ट्रादपरुध्यमानस्तथा मे कुरु यथाऽहमिदं राष्ट्र पुनरवगच्छानीयेतामेवैनं दिश
मुपनिष्क्रमयेत्तथा ह राष्ट्रं पुनरवगच्छति , इति । यथा वै सेनयोयुद्ध पुरुषयोद्धे चाभिषिक्तनोदीची दिशं प्रति प्रस्थापि तस्य जयस्तथैव राष्ट्रभ्रष्टोऽप्यभिषिक्तेनशानी दिशं प्रस्थापितो राष्ट्र पुनः पामोति।
इत्यं प्रासनिक प्रयोगत्रयमुक्त्वा प्रकृतमेवाभिषिक्तविषयं प्रयोगमाह
उपस्थायामित्राणां व्यपनुत्तिं ब्रुवन्गृहानभ्येत्यप प्राच इन्द्र विश्वाँ अमित्रानिति सर्वतो हास्मा
अनमित्रमभयं भवत्युत्तरोत्तरिणी ह श्रियमश्नु भभीवर्तेन हविषा-१०-१७५- १ । अप प्राच इन्द्र विश्वा अमित्रान्-१० १११-१।
progizen in Google
७ सप्तमः खण्डः] ऐतरेयब्राह्मणम् ।
तेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमे __ताममित्राणां व्यपनुत्तिं ब्रुवन्गृहानभ्येति, इति । पूर्वत्र तिरसीत्यादिमत्रेणाभिषिक्तस्य पदत्रयाभ्युत्क्रमणमैशानीदिगुपस्थानं चाभिहितम् । तां दिशमुपस्थायानन्तरममित्राणां शत्रूणां व्यपनुत्ति विशेषेणा पनोदनहेतुमत एव व्यपनुत्त्यभिधानामप पाच इत्यादिकाचं ब्रुवन्स्वग्रहानभि गच्छेत् । तस्याभूचि द्वितीयपादे नुदस्वेति श्रवणादियमृगमित्राणां व्यपनुचिः। अस्मा एवं गृहमागच्छतोऽस्य यजमानस्य सर्वतः सर्वासु दिक्षु शत्रुराहित्यल. क्षणमभयं भवति । न केवलं भयराहित्यं किंतूत्तरोचराभिवृदिसंपत्माप्त्युपाया दिकमपि । यथोक्तमत्रोच्चारणेन यो गृहानभ्यागतो भवति ।
गृहमारूर्व कर्तव्यं विधत्ते
एत्य गृहान्पश्चाद्गृह्यस्यानरुपविष्टायान्वार ब्धाय ऋत्विगन्ततः कंसेन चतुर्ग्रहीतास्तिस्र आज्याहुतीरेन्द्रीः प्रपदं जुहोत्यना- अरि
ट्या अज्यान्या अभयाय ॥१०॥ इति । गृहान्मत्यागत्य योऽयं गृखो गृहे वर्तमान औपासनोऽमिस्तस्य पवादाग उप विष्टायाऽऽसीनाय ऋत्विजेऽन्वारब्धायोपसृष्टवते क्षत्रियाय तादृशस्य क्षत्रियस्या नाादिसिसर्यमृत्विगध्वर्युरन्ततः सर्वप्रयोगान्ते कसेन कांस्यपात्रेण चतुर्ग्रही ताश्चतुर्वारं स्वीकृता ऐन्द्रीरिन्द्रदेवताका वक्ष्यमाणैत्रिभिमस्तिस्त्र आज्याहुती: प्रपदं यथा भवति तथा जुहुयात् । प्रपदं प्रकृष्टं पदम् । तथा चाऽऽहु: .. …….. “पादाः यस्यास्तु यावन्तो यावदक्षरसंमिताः।
ऋष्यध्ययनमेतेषां प्रपदं तद्विदुर्बुधाः” इति ॥ अतः प्रपदशब्देनाक्षरपादादिवैकल्यरहितं लाक्षणिकमुच्चारणमभिधीयते । अनातिाधिपीडाराहित्यम् । अरिष्टिः शत्रुभिरहिंसा । अज्यानिर्द्रव्यहानि राहित्यम् । अभयं चोरादिभयराहित्यम् ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण
भाष्ये सप्तत्रिंशाध्याये षष्ठः खण्डः ॥ ६ ॥ (१०) [१६८] उक्ताहुत्यर्थं प्रथमं मनमाह
पर्येषु प्रधन्व वाजसातये परि वृत्रा मूर्ब्रह्म
पर्यषु प्रधन्व वाजसातये०-९-११०-१ Ofe
९२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[३७सप्तत्रि ध्याये
प्राणममृतं प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये । सह प्रजया सह पशुभिर्णि सक्ष णिर्दिषस्तरध्या ऋणया न ईयसे स्वाहा, इति । अत्र पवित्यादिकाया ऋचा परि वृत्राणि सक्षणिरिति द्वितीयः पादः। तस्मिन्पादे वृत्राणीति यत्पदं तस्य पदस्य मध्ये भूरित्यादिकं पशुभिरित्यन्त पदजातं प्रक्षेपणीयम् । वृत्रेत्येतदक्षरद्वर्य पुरस्ताद, गीत्येतत्परस्तान्मध्ये प्रक्षेपः । अत एवास्योचारणस्य प्रपदमिति नाम संपनम् । प्रक्षितं पदजावं यभिचारणे तदुचारणं प्रपदम् । तत्र तावत्संहितायामानाताया ऋचोऽय मर्थः । हे इन्द्र वाजसातयेऽमलामाय । पर्यवितिनिपातमयसमूहेन परित इसे तावानेवार्योऽभिधीयते । परितः सर्वतः। मधन्व प्रकर्षेण धारय । धारणाऱ्या धन्वतिधातुः। अस्मभ्यममं दातुं चित्तं धारयेत्यर्थः। दृप्राण सन्परि सक्षणिः परितो निराकरिष्णुर्भव । सक्षणिधातुरोचित्याभिराकरणं छूते । दिपः शस्तरध्यै तरीतुम् । ऋणयाः प्रयत्नं प्रातः । नोऽस्मदर्थमीयसे चेष्टस इति । अस्याचि वृत्राणीति पदस्य मध्ये प्रक्षिप्तस्य भूरित्यादिपभुमिरित्यन्तपदजा. तस्यायमर्थः । अयं क्षत्रियोऽसौ विष्णुगुप्तादिनामको भूरादीन्मपद्यते भरनं गच्छति । भूः पृथिवी । ब्रह्म वेदः। माणः प्रसिद्धः। अमृतं मरणरहितम् । देवता भूरादिकं शरणं प्रपत्रस्य क्षत्रियस्य मजया पुत्रादिरूपया सह प. भिर्गवादि[भि] सह स्वस्तये क्षेमार्थ त्वं शर्म सुखं वर्म कवचमभयं भयरहित देवतादिरूपं स्थानं च कुर्विति शेषः। एतसिध्यर्थ स्वाहा तुभ्यमिदं सुहतमस्तु ।
प्रपदनामकं प्रथम मनमुक्त्वा तमामकं द्वितीयं मनमाह
अनु हि वा सुतं सोम मदामसि महे सम भुवो ब्रह्म प्राणममृतं प्रपद्यतेऽयमसौ शर्म वर्मा भयं स्वस्तये । सह प्रजया सह पशुभि(भी)र्य
राज्ये वाजाँ अमि पवमान प्रगाहसे स्वाहा, इति । अप्राप्यनुहिवेत्येतस्यापचि महे समर्य राज्य इति द्वितीयः पादः। तत्र समर्येति यत्पदं तस्य समेत्यक्षरद्वयमधस्तात्कृत्वा येत्येततृतीयमक्षरमुपर्यव. स्थाप्य भुव इत्यादिकं पदजातं प्रक्षेपणीयम् । तस्या ऋचोऽयमर्थः। हे सोग मुतमभिषुतं त्वामनुमदामसि वयं हष्यामः । समरं युदं समर्हति समर्यः शूर
अनु हि त्वा सुतं सोम मदामसि०-९-११०-3 honic
।
७ सप्तमः खण्डः] ऐतरेयबामणम् ।
९२५ स्तथाविध हे इन्द्र महे महति राज्ये । एनं क्षत्रियं स्थापयेति शेषः । हे पव. मान शोधक वाजानमानि अभिप्रगाहसे सर्वतः प्रकर्षेण गाहसे विलोडयसि संपादयसीत्यर्थः। पदमध्ये प्रक्षिप्तस्य पदजातस्याऽऽदौ भुव इत्यन्तरिक्ष. मुच्यते । अमेत्यादिकं स्वाहाकारच पूर्ववत् ।
प्रपदनामकं तृतीयं मधमाह
अजीजनो हि पवमान सूर्य विधारे श स्वब्रह्म प्राणममृतं प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये। सह प्रजया सह पशुभिः क्मना पयो
गोजीरया रम्भमाणः पुरं ध्या स्वाहेति, इति । अजीजन इत्यस्यामृचि विधारे शक्मनेति द्वितीयः पादः । तत्रत्वस्य शक्म नेति पदस्य शेत्येकमक्षरमधस्तादुचार्य क्मनेत्यक्षरद्वयमुपरिष्टादवस्थाप्य मध्ये स्वरित्यादिकं पशुभिरित्यन्तं पदजातं प्रक्षेपणीयम् । तस्या ऋचोऽयमर्थः ।। पवमान शोधकेन्द्र त्वं सूर्यमजीजन उत्पादितवानसि । शक्मना स्वशक्त्या पयो जलं विधारे विशेषेण मेघमध्ये धारयसि । गोजीरया गवां जीवनेन निमिचेन रहमाणो दृष्टिमदानार्थ संचरन्पुरं पूर्णफलं ध्या चिन्तय । गोजी. रयेत्युपलक्षणम् । सर्वप्राणिजीवननिमित्तमित्यर्थः । अत्रापि शक्मनेतिपदमध्ये भक्षिप्तस्य पदजातस्याऽऽदौ स्वरिति घुलोकोऽभिधीयते । ब्रह्मेत्यादिकं स्वाहा. कारान्तं पूर्ववत् । एतेषां प्रपदनामकानां मत्राणां लक्षणं पूर्वमेव पादा यस्या स्त्विति श्लोकेनोदाहतम् । पवित्यादिका[या] ऋचो मध्ये भूर्बम माणेत्या दिकाया अस्या ऋचो यावन्तः पादा यावदक्षरसंमितास्तेषां सर्वेषां पतनं प्रप दमिति तस्य लक्षणवाक्यस्यार्थः।।
उक्तमवयसाध्या आहुती प्रशंसति
अना” ह वा अरिष्टोऽजीतः सर्वतो गुप्तस्त्रय्यै विद्यायै रूपेण सर्वा दिशोऽनु संचरत्यैन्द्रे लोके प्रतिष्ठितो यस्मा एता ऋखिगन्ततः कंसेन चतुर्गी
हीतास्तिस्र आज्याहुतीरेन्द्रीः प्रपदं जुहोति, इति । यस्मै क्षत्रियाय ऋत्विगध्वर्युरन्ततोऽभिषेकप्रयोगान्ते यथोक्तकमेण जुहोति।
अजीजनो हि पवमान सूर्य०-९-११०-1109 Choigle
……
..-…………
–..-
.
९२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२७सप्तत्रि०वाये असौ क्षत्रियोऽनार्को रोगरहितोऽरिष्टः शत्रुभिरहिसितः । अजीतस्तैः भुमि युद्धेऽप्यजितः । सर्वतो गुप्त इन्द्रेण रक्षितः। केन साधनेन रक्षित इति तदु. च्यते। अय्यै विधायै रूपेण वेदत्रयोक्तमवणेत्यर्थः । तेन रक्षितःसन्सर्वा दिशा पाच्याषा अनुसंचरति अनुक्रमेण विजयाय प्रवर्तते । मरणादूर्वमैन्द्रे लोके प्रतिष्ठितो भवति ।
होमादूर्ध्वमाशीर्मत्रपाठे विधत्ते
अथान्ततः प्रजातिमाशास्ते गवामश्वानां पुरुषा णामिह गावः प्रजायध्वमिहाश्वा इह पूरुषाः।
इहो सहस्रदक्षिणो वीरमाता निषदिविति, इति । अथ होमानन्तरमन्ततः प्रयोगान्त इह गाव इत्यादिमत्रेण गवादीनां प्रजा तिमुत्पत्तिमाशास्ते मार्थयेत । मत्रस्यायमर्थः । हे गाव इह मद्राष्ट्र प्रजापर्व प्रकर्षणोत्पमा भवत । एवमचाः पुरुषाश्च । इहो, अस्मिमेव राष्ट्रे सहस्रदक्षिणो यागेषु सहस्रसंख्यदक्षिणादानशीलो वीरः पुत्रस्नाता प्रजानां रक्षकः समि पीदतु ।
अनेन मत्रेण प्रार्थनं प्रशंसति
बहुर्ह वै प्रजया पशुभिर्भवति य एवमेतामन्ततः
प्रजातिमाशास्ते गवामश्वानां पुरुषाणाम्, इति । य एवमाशासाना क्षत्रियः स प्रजादिभिर्वहुवै भूत एव भवति । पुनरभिषेकपर्यन्तेऽस्मिन्क्षत्रिययागे याजयितॄणामृत्विजा वेदनं प्रशंसति
एष ह वाव क्षत्रियोऽविकृष्टो
यमेवंविदो याजयन्ति, इति । एवमुक्ताभिषेकप्रकारं जानन्त ऋत्विजो यं क्षत्रियं याजयन्ति । एष एव क्षत्रियः सर्वेष्वविकृष्टो नापकृष्टः । न ह्यस्य कदाचिदप्यपकर्षों भवति ।
ऋत्विजामभिषेकपरिज्ञानामावं निन्दति- ..
अथ ह तं व्येव कर्षन्ते यथा ह वा इदं निषादा वा सेळगा वा पापकृतो वा वित्तवन्तं पुरुषमरण्ये गृहीत्वा कर्तमन्वस्य वित्तमादाय
१ क. स. ग. घ. भ. प. छ. म. सेलगा। Choule
७.सप्तमः खण्डः] ऐतरेयबामणम् ।
९२७ द्रवन्येवमेव त ऋत्विजो यजमानं कर्तमन्यस्य
वित्तमादाय द्रवन्ति यमनेवंविदो याजयन्ति, इति । भनेविदोऽभिषेकप्रकारमजानन्त ऋत्विजो यं क्षत्रियं याजयन्ति तं क्षत्रियं विकर्षन्त एव विकृष्टमपकष्टं कुर्वन्त्येव । तत्रेदं निदर्शनमुच्यते । निषादा नीचजातयो मनुष्याः। ‘सेळगाचोराः। इलाऽनं तया सह वर्तन्त इति सेळा पनिकास्तान्धनापहारार्थ गच्छन्तीति चौराः ‘सेळगा। पापकृतो हिंसा कारिणः । त्रिविधा दुष्टाः पुरुषा विचवन्तं बहुधनोपेतं पुरुषमरण्यमध्ये गृहीत्वा कर्तमन्वस्य कस्मिंश्चिदन्धकूपादिरूपे गर्ने ते प्रक्षिप्य तदीयं धनमपहत्य द्रवन्ति पलायन्ते । एवमेवानभिज्ञा ऋत्विजो यजमानं नरकरूपं कर्तमन्वस्य नरकहेतो दुरनुष्ठानेऽवस्थाप्य दक्षिणारूपेण तदीयं द्रव्यमपहत्य स्वगृहेषु गच्छन्ति।
उक्ताभिषेकपर्यन्तं क्षत्रिययागमुदाहरणमुखेन प्रशंसति
एतद्ध स्म वै तदिहानाह जनमेजयः पारिक्षित एवंविदं हि वै मामेवंविदो याजयन्ति तस्मादहं जयाम्यभीतरी सेनां जयाम्यभीत्वर्या सेनया न मा दिव्या न मानुष्य इषव ऋच्छन्ये
ष्यामि सर्वमायुः सर्वभूमिभविष्यामीति, इति । परिक्षितो राजा पुत्रो जनमेजयस्तदेतत्सर्व प्रयोगमाहात्म्यं विद्वान्सभामध्य एवमुवाच । अहमप्येवंवित्विजोऽप्येवंविदस्तस्मादभिषेकान्तेन यागेन बंद युद्ध जयामि । किंच । अभीत्वरीमभितो युद्धार्थमुयुक्तां परकीयां सेना तादृश्या सेनया जयामि । तथाविधं मां दिव्या इषवो देवप्रेरिता पाणा न मामुवन्ति । मानुष्यश्चेषवो न मामुवन्ति । अपमृत्युरहितः सर्वमप्यायुः प्राप्स्यामि। सर्वा चतुःसागरपरिवेष्टिता भूमिर्यस्याधीना सोऽयं सर्वभूमिस्तादृशो भविष्यामीति।
जनमेजयवाक्योदाहरणे रतीकृतमर्थ निगमयति
न ह वा एनं दिव्या न मानुष्य इषव ऋच्छ न्त्येति सर्वमायुः सर्वभूमिर्भवति यमेवंविदो
क. स. अ. सेलगा। १ क. स. भ. इलाऽमें। ३ क. स. म. सेला । ४ क. स. ग. लगा।
Presize ben Google
९२८
भीमरसायणाचार्यविरचितभाष्यसमेतम्- [३८अष्टात्रि० ध्याये
याजयन्ति याजयन्ति ॥ ११॥ इति । स्पष्टोऽर्थः। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्ये सप्तत्रिंशाध्याये सप्तमः खण्डः ॥७॥ (११) [ १६९] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य
धुरंधरसायणाचार्यकृतावैतरेयबामणभाष्ये
सप्तत्रिंशोऽध्यायः ॥ ३७॥