षट्त्रिंशोऽध्यायः ।
फलाख्यचमसो भक्षो राज्ञो यज्ञे प्रकीर्तितः ॥
उच्यते राजयोऽस्मिन्विशेषा स्तोत्रशस्त्रयोः॥१॥ तदेतत्पतिजानीते
अथातः स्तुतशस्त्रयोरेव, इति । अथ राजो भक्षे विशेषकयनानन्तरं यतः स्तुतशस्त्रयोविशेषो जिज्ञासितः। अतः कारणाचयोरेव विशेष उच्यत इति शेषः ।
तं विशेष वकुमादौ विशेषरहितमंचं दर्शयति
ऐकाहिकं प्रातःसवनमैकाहिकं तृतीयसंवनमेते वै शान्ते क्लप्ते प्रतिष्ठिते सवने यदेकाहिके
शान्त्यै क्लप्त्यै प्रतिष्ठित्या अप्रच्युत्यै, इति । एकाहे प्रकृतिभूते यत्मातःसवनं यश्च तृतीयसवनमुक्तं तदुभयं राज्ञो विक तावपि तथैव भयोक्तव्यम् । न तु तयोः कश्चिद्विशेषोऽस्ति । ऐकाहिके ये उभे प्रातःसवनतृतीयसवने स्त एते एव शान्ते सुखकरे कृते स्वभ्यस्ते प्रतिष्ठिते संपले । अतस्तयोः प्रकृतिवदनुष्ठानं शान्त्यै सुखार्य क्लुप्त्यै स्वभ्यासार्थ प्रतिष्ठित्यै च संपत्त्यर्थमप्रच्युत्यै विनाशराहित्यार्थ भवति । __ यथा मातासवनतृतीयसवनयोः प्राकृताद्विशेषो नास्ति तथा माध्यंदिनसव नेऽपि मरुत्वतीयमैकाहिकं होत्रकशस्त्राणि चैकाहिकानि स्तोत्रे तु विशेषोऽस्ति समिमं दर्शयति
उक्तो माध्यंदिनः पवमानो य उभयसानो
बृहत्पृष्ठस्योभे हि सामनी क्रियेते, इति । वृहद्रयंतरं चेत्युभयविध साम यस्मिनभिजिदादौ सोऽयमुभयसामा बृह त्साम पृष्ठं स्तोत्रं यस्मिममिजिदादौ सोऽयं बृहत्पृष्ठस्तादृशस्योभयसानो बृह स्पृष्ठस्याभिजिदादेयों माध्यंदिनः पवमान उक्तः स एवात्र राजयो माध्यं दिनः पवमानो द्रष्टव्यः । न चोभयसामत्वं बृहत्पृष्ठत्वं चोभयं व्याहतमिति
८९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-३षट्त्रिं ध्याये शहनीयम् । माध्यंदिनपवमानस्तोत्रे रयतरं साम पृष्ठस्तोत्रे बृहत्सामेत्येवमुभ यसामत्वस्य व्यवस्थितत्वात् । उभे हीत्यनेनेयमेव व्यवस्था स्पष्टी क्रियते । यद्यपि मरुत्वतीयशस्त्रावयवाः प्रतिपदादयः प्राकृता एव तथाऽपि तदनुवादे. नात्र प्रशंसा क्रियते ।
वत्र प्रतिपदनुचरौ दर्शयति
आ ला रथं यथोतय इदं वसो सुतमन्ध इति राथंतरी प्रतिपदाथंतरोऽनुचरः पवमानोक्थं वा एतद्यन्मरुत्वतीयं पवमाने वा अत्र रथंतरं कुर्वन्ति बृहत्पृष्ठं सवीवधतायै तदिदं रथंतरं
स्तुतमाभ्यां प्रतिपदनुचराभ्यामनुशंसति, इति । आ त्वा रथमिति यस्य॒चः सोऽयं मरुत्वतीयशस्त्रस्य प्रतिपत्तस्मिन्यूचे रख तरं सामोदातृभिर्गीयते । तस्मादियं प्रतिपद्रायंतरी । इदं वसो सुतमन्ध इत्ययं त्र्यूचोऽनुचर छन्दोदेवतादिना पूर्वेण समानत्वात् । रयंतरसामाषा रस्य पूर्वस्य त्र्यचस्यानुसारित्वादस्यापि रायंतरत्वम् । यन्मरुत्वतीयं अख. मस्ति एतत्पवमानोक्यं वै पवमानस्तोत्रानुसारेण शस्यमानत्वात् । उक्वं शस्त्रम् । तच द्विविधम् । पवमानोक्यं ग्रहोक्थं च । अतोऽत्र पवमानोक्थमिति विशेष्यते । अस्मिश्च माध्यंदिनपवमानस्तोत्रे सामगा रथंतरं साम कुर्वन्ति । पृष्ठस्तोत्रं तु बृहत्सामोपेतं कुर्वन्ति तदेतदुभयं सीवधतायै संपवते । उभयतः शिक्यद्वयेन जलकुम्भद्वयं वोढुं यः काष्ठविशेषः पुरुषाणामसे स्थीयते स वीवध इत्युच्यते । सामदयेऽपि तस्य माध्यंदिनसवनप्रयोगस्य वीवषसहन त्वाद्वीवधेन सह वर्तत इति सवीवधत्वम् । यदिदं रथंतरं साम माध्यंदिने पवमाने स्तुतं तदिदमाभ्यामा त्वा रयमिदं वसो मुतमित्येताभ्यां प्रतिपदनु चराभ्यामनुशंसेत् ।
ब्रह्मानपृथिवीरूपत्वेन रथंतरं प्रशंसति
अथो ब्रह्म वै रथंतरं क्षत्रं बृहद्ब्रह्म खलु वै क्षत्रात्पूर्व ब्रह्म पुरस्तान्म उग्रं राष्ट्रमव्यथ्यमस
दियथान्नं वै रथंतरमन्नमेवास्मै तत्पुरस्तात्कल्प . . आ त्वा रथं यथोतये०-८-१८-१ । इदं वसो मुतमन्धः०-८-२-१।
८९७
.
१ प्रथमः खण्डः] ऐतरेयग्रामणम् ।
यत्यथेयं वै पृथिवी रथंतरमियं खलु वै प्रतिष्ठा
प्रतिष्ठामेवास्मै तत्पुरस्तात्कल्पयति, इति । यद्रयंतरं साम सह्राह्मणजातिस्वरूपमुभयोः प्रजापतिमुखजत्वात् । तथा वृहत्सामक्षत्रियजात्योः प्रजापतेर्वाजत्वसाम्यादेकत्वम् । बामणजातिः क्षत्रिः पजाते. पूर्वभाविनी । अतो वृहत्सामसाध्यात्पृष्ठस्तोत्रात्पूर्व रथंतरसामसा. ध्यस्य पवमानस्तोत्रस्यानुष्ठानेऽयमभिमायः । ब्रम प्रामणजातिः पुरस्तात्पूर्व काले यस्य राष्ट्रस्य तदिदं ब्रह्म पुरस्ताद्यदिदं मे राझो राष्ट्रमुग्रमव्यध्यमसद्भ वेदित्यभिप्रायः । किंचानहेतुत्वाद्रयंतरं सामानात्मकं तसेन रथंतरणयोगेणास्मै रामेऽममेव पुरस्तात्कल्पयति प्रथमतः संपादयति । किंच यद्रथंतरं सामेयं पृयिवी भूमिस्वरूपमेव । इयं च भूमिः पाणिनां प्रतिष्ठाऽऽधारा(रस)।तचेन रयंतरमयोगेणास्मै यजमानाय राज्ञे प्रतिष्ठामेव कल्पयति ।
इन्द्र नेदीय एदिहीत्युचिष्ठ ब्रह्मणस्पत इत्येतत्मगाथद्वयं प्रशंसति समान इन्द्रनिहवोऽविभक्तः सोऽहामुद्दान्ब्राह्मण स्पय उभयसाम्रो रूपमुझे हि सामनी क्रियेते, इति । इन्द्रो नितरामाहूयते यस्मिन्मगाये सोऽत्र च प्रकृतौ च समान एक एव । तस्यैवेदं व्याख्यानमविभक्त इति । अविकृत इत्यर्थः । स च प्रगायो कप मिति शेषः । अहम्मयोगस्य निष्पादकत्वात्तदूपत्वम् । यः प्रगाय उद्वानुच्छ. ब्दयुक्तो ब्रामणस्पत्यो ब्रह्मणस्पतिदेवताकचोत्तिष्ठ ब्रह्मणस्पत इत्येवं श्रुत त्वात् । सोऽपि शंसनीयः। किंचासौ प्रगाथ उभयसानो रूपं हि यस्मादुमे ये वृहद्रथंतरे सामनी तस्मिन्मगाथे सामगैरभिधीयते ।
घाय्यानामचा प्रकृतौ विकृतौ चैकत्वमाह
समान्यो धाय्या अविभक्तास्ता अह्नाम्, इति । समान्य इत्यस्य व्याख्यानमविभक्ता इति । ताथाहविशेषनिष्पादकत्वा. चत्स्वरूपाः।
मव इन्द्राय बृहत इत्यस्य मरुत्वतीयमगाथस्य प्रकृतिविकृत्योरेकत्वं दर्शयति
ऐकाहिको मरुत्वतीयः प्रगाथः ॥१॥ इति भीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयबामण.
भाष्ये पत्रिंशाध्याये प्रथमः खण्डः ॥१॥ [१५८]oogic. १३
८९८
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३६षट्त्रिं ध्याये मरुत्वतीये शख्ने निविदानीय सूक्तं प्रशंसति
जनिष्ठा उग्रः सहसे तुरायेति सूकमुग्रवत्सह स्वत्तत्क्षत्रस्य रूपं मन्द्र ओजिष्ठ इत्योजस्वत्त क्षत्रस्य रूपं बहुलाभिमान इत्यभिवदभिभूयै रूपं तदेकादशर्च भवत्येकादशाक्षरावै त्रिष्टुप्त्रै शुभो वै राजन्य ओजो वा इन्द्रियं वीर्य त्रिष्टु बोजः क्षत्रं वीर्य राजन्यस्तदेनमोजसा क्षत्रेण वीर्येण समर्धयति तगौरिवीतं भवत्येतदै मरुत्व
तीयं समृद्धं यौरिवीतं तस्योक्तं ब्राह्मणम्, इति । जनिष्ठा इत्यस्मिन्पाद उग्रशब्दसहाशब्दयोर्विद्यमानत्वात्तदेतत्सूक्तमुप्रवत्स हस्वत्तच्चोभयं क्षत्रियजातेः स्वरूपम् । क्षत्रियोऽपि क्रूरो बलवांश्च । द्वितीयपा दस्य पूर्वभागे मन्द्र ओजिष्ठ इति श्रुतत्वात्सूक्तमोजस्वदोज शब्दोपेतम् । ओजो नाम पलहेतुरष्टमो धातुः । तस्य च धातोः क्षत्रिये संपूर्णत्वादोजःचन्दो पेतं सूक्तं क्षत्रियस्य स्वरूपम् । तदुत्तरभागे बहुलाभिमान इति श्रुतत्वादभिव दभिशब्दोपेतम् । तथाभिभूत्यै शत्रूणामभिभवस्य स्वरूपम् । किंच तत्सूक्तमे कादशर्च भवति । त्रिष्टुप्चैकादशाक्षरा । राजन्यश्च त्रिष्टुप्संबन्धी तयोः प्रजा पतिबाङजत्वात् । किंच यत्रिषुबोजामभृतीनां हेतुत्वात्तत्स्वरूपम् । ओजो बलहेतुरष्टमो धातुः । वीर्य शरीरबलम् । इन्द्रियं चक्षुरादिपाटवम् । राजन्य श्वौजाप्रभृतीनां स्वरूपभूतस्तत्रौजः पूर्वमेवोक्तम् । क्षत्रं क्षत्रियजातियुक्तत्वम् । वीर्य शरीरादिवलम् । एवं च राजयते तत्तेन त्रिष्टुच्छन्दस्कसूक्तपाठेनैनं राजा नमोजाक्षत्रवीर्यैः समृद्धं करोति । किंचैतत्सूक्तं गौरिवीताख्येन महर्षिणा दृष्टत्वाद्गौरिवीताख्यं भवति । यस्मादेतगौरिवीतं तस्मादेतन्मरुत्वतीयशवं समृद्धं संपूर्ण भवति । तस्य च गौरिवीतनाम्नः सूक्तस्य ब्रामणं तद्वा एतबज. मानजननमित्यादिना पूर्वमेवोक्तम् ।
अथ निष्केवल्यशस्त्रमाह
स्वामिद्धि हवामह इति बृहत्पृष्ठं भवति क्षत्रं वै
जनिष्ठा उग्रः सहसे तुराय०-१०-७३-१। त्वामिद्धि हवामहे ०-६-४१-१॥
११. तयोरुभयोः। aspite is fryogic२ द्वितीयः खण्डः] ऐतरेयबामणम् ।
बृहत्क्षत्रेणैव तत्क्षत्रं समर्धयत्यथो क्षत्रं वै बृह दात्मा यजमानस्य निष्केवल्यं तघबृहत्पृष्ठं भवति क्षत्रं वै बृहत्क्षत्रेणेवैनं तत्समर्धयत्यथो ज्यैष्ठ्यं वै बृहज्यैष्ठयेनैवैनं तत्समर्धयत्यथो
श्रेष्ठयं वै बृहच्छ्रेष्टयेनैवैनं तत्समर्धयति, इति । स्वामिद्धीत्यादिकन्चो निष्केवल्यशस्त्रस्य स्तोत्रियप्रतिपद्रूपाबृहत्सान आधारत्वाद्गृहस्पः । तेन च साना पृष्ठस्तोत्रस्य निष्पावत्वात्पृष्ठस्वरूपश्च भवति । त्वामिदीत्यस्यामृच्युत्पनं बृहत्साम क्षत्रं वै क्षत्रियजातिरूपमेव । अतः सत्रेणैव त्वामिद्धीति त्र्यूचरूपेण तत्सत्रं यजमानरूपं समृद्धं करोति । अयो अपि चोक्तरीत्या क्षत्रमेव बृहद्रूपं निष्केवल्यशस्त्रं यजमानस्याऽऽत्मा देहभूता। तत्तथा सति यद्यदि बृहत्पृष्ठशब्दद्वयवाच्यं त्वामिदीत्यादिकं निष्केवल्यं भवेत् । तत्वेन निष्केवल्येन क्षत्रं वै बृहदिति पूर्वमुक्तत्वात्क्षत्रेणैव स्वामिदीत्यादिना बृहस्पेण निष्केवल्येनेनं यजमानं समृद्धं करोति । अथो अपि च त्वामिदी त्यादिकं बृहद्रूपं ज्यैष्ठयं वै वयोवृद्धः स्वरूपम् । अतो ज्यैष्ठचेनैव वयोहयैवैन राजानं समृदं करोति । अथो अपि च त्वामिद्धीत्यादिकं बृहदूपं श्रेष्ठचं बै गुणोत्कर्ष एव । तथा सति श्रेष्ठयेनैव गुणोत्कर्षेणैव यजमानं समृदं करोति ।
निष्केवल्यशस्त्रस्य प्रतिपदमुक्त्वाऽनुरूपमाह
अभि खा शूर नोनुम इति रथंतरमनुरूपं कुर्व न्ययं पै लोको रथंतरमसौ लोको बृहदस्य वै लोकस्यासौ लोकोऽनुरूपोऽमुष्य लोकस्यायं लोकोऽनुरूपस्तद्यद्रथंतरमनुरूपं कुर्वन्त्युभावेव तल्लोको यजमानाय संभोगिनौ कुर्वन्त्यथो ब्रह्म वै रथंतरं क्षत्रं बृहद्ब्रह्मणि खलु वै क्षत्रं प्रतिष्ठितं
क्षत्रे ब्रह्माथो सान एव स सयोनिताय, इति । अभि त्वा भूरेत्येष न्युचो निष्केवल्यशत्रस्यानुरूपः कार्यः। यद्यपि स्वामिद्ध्यमि त्वेत्येतौ प्रगाथाद्वयात्मको तथाऽपि प्रायनेन चत्वं संपाय
अभि त्वा शूर नोनुमः०-७-३३-२२ | easy foogic
९००
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३६षट्त्रिं ध्याये प्रतिपदनुचरत्वं द्रष्टव्यम् । अभि त्वेत्ययं यचो रथंतरसान्न आधारवाद सरमित्युच्यते । बृहद्रयतरशब्दाभ्यां विवक्षितं त्वामिद्ध्यामि स्वेति चयं मिलित्वा प्रशस्यते । भूलोको रयतरस्वरूपः स्वर्गलोको बृहत्स्वरूपस्तावेवी लोकौ परस्परानुरूपौ। अस्मिल्लोके दत्चेन हविषा देवाः स्वर्गे जीवन्ति । स्वर्गादागतया वृष्ट्या मनुष्या जीवन्ति । तदेतत्परस्परमनुरूपत्वम् । एवं सति बृहद्रयंतररूपाभ्यां प्रतिपदनुचराभ्यामुभावेव लोको यजमानार्य समीचीनमो गयुक्तो कुर्वन्ति । अथो अपि च प्रजापतिमुखजत्वसाम्येन रथंतरस्य ब्राम णरूपत्वाचदीयवाहुजत्वसाम्येन बृहतः क्षत्रियरूपत्वाच बृहद्रयंतराभिषान पोलयचयोरनुष्ठानेन ब्रह्मक्षत्रयोः परस्परा(रा) प्रतिष्ठा भवति । अथो अपि च त्र्यचद्वयानुष्ठानं निष्केवल्यशत्रस्य चद्वयाश्रितसान्नश्च सयोनित्वाय समा. नस्थानत्वाय संपचते।
पायां दर्शयति .. यद्दावानेति धाय्या तस्या उक्तं ब्राह्मणम्, इति ।
तस्या धाय्यायाः प्रशंसा ग्रामणं ते देवा अनुवन्सर्व वा अबोचया इत्यादिना पूर्वमेवोक्तम् ।
सामाधारभूतं प्रगाथं दर्शयति
उभयं शृणवच्चन इति सामप्रगांथ उभयसाम्रो
रूपमुझे हि सामनी क्रियेते ॥२॥ इति । उभयमित्यादिमगाथो बृहद्रथतरसामदयस्य स्वरूपम् । यस्मादेते उभय सामनी अस्मिन्मगाथे सामगैर्गीयेते तस्माचबूपत्वं युक्तम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण.
भाष्ये पत्रिंशाध्याये द्वितीयः खण्डः ॥२॥[१५९]
निष्केवल्यशस्ने निविदानीय सूक्तं दर्शयति
तमु टुहि यो अभिमूत्योजा इति
मूक्तमभिवदभिभूत्यै रूपम्, इति । अभिवदभिशब्दोपेतं सूक्तं तस्मादभिभूत्यै शरणामभिभवस्य स्वरूपम् । यद्वावान पुरुतमं०-१०-७४-६ । उभयं शृणवच०-८-११-१। . तमु टुहि यो०-१-१८-१।
Presties iy Google
३ तृतीयः खण्डः] ऐतरेयब्रामणम् ।
तस्या ऋचस्तृतीयपादमनूच प्रशंसति
अपाळमुग्रं सहमानमाभिरित्युग्रवत्स
हमानवत्तत्क्षत्रस्य रूपम्, इति । उपचन्दसहमानशन्दयुक्तमिदं सूक्तम् । तच्च शन्ददयघाच्यं क्षत्रियजाते. स्वरूपम् । क्षत्रियो सुनो भूत्वा शवनभिभवति ।
तत्सूक्तगतामुक्संख्या प्रशंसति
तत्पश्चदशर्च भवत्योजो वा इन्द्रियं वीर्य पञ्चदश ओजः क्षत्रं वीर्य राजन्यस्तदे
नमोजसा क्षत्रेण वीर्येण समर्धयति, इति । पूर्वोक्तत्रिष्टुप्पशंसावाक्यवदिदं पञ्चदशस्तोमप्रशंसावाक्यं व्याख्येयम् । ऋषिद्वारा सूक्तं प्रशंसति
तद्भारद्वाजं भवति भारद्वाज
वै बृहदायेण सलोमा, इति । भरद्वाजेन दृष्टत्वादिदं सूक्तं भारद्वाजं बृहत्सामापि तथा भारद्वाजम् । तासायोगादयं क्रतुरायेण सलोमा । आर्षेयो भरद्वाजमुनिसंवन्धो लोग. शब्देन केशयुक्तो मू!पलक्ष्यते । सलोमा सचिरस्क: संपूर्ण इत्यर्थः । भरदा जमुनिष्टस्य बृहतः संपूर्णत्वावृहद्वारा भरद्वाजमुनिसंबन्धे सति तोरपि संपूर्णत्वं द्रष्टव्यम् ।
इदानीं वृहद्रयंतरसामोपेतमकतऋतुसंबन्धमुपजीव्यैकसामकेऽपि क्षत्रिययो पृष्ठस्तोत्रस्य बृहत्सामसाध्यत्वं विधचे
एष ह वाव क्षत्रिययज्ञः समृद्धो यो बृहत्ट. ठस्तस्माचत्र कच क्षत्रियो यजेत बृह
देव तत्र पृष्ठं स्यात्तत्समृद्धम् ॥३॥ इति । यः ऋतुर्दिसामको बृहत्पृष्ठोपेत एष एव क्षत्रिययाः समुदः संपूर्णः। यस्मादेवं तस्मापत्रक चैकसामकेनापि ऋतुना क्षत्रियो यजेत तत्र पृष्ठस्तोत्र बृहत्सामयुक्तमेव कुर्यात् । तदेतदनुष्ठानं समृद्ध संपूर्ण भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्म
भाष्ये षट्त्रिंशाध्याये तृतीयः खण्डः ॥३॥ [१०]oogle.
९०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१६षट्त्रिं ध्याये
माध्यंदिने सवने होतुः शस्त्रविशेषमभिधाय होत्रकाणां विशेषामा दर्शयति
ऐकाहिका होत्रा एता वैशान्ताःक्लप्ताः प्रति ष्टिता होत्रा यदेकाहिका शान्त्यै क्लुप्त्यै पति ष्टिया अप्रच्युत्यै ताः सर्वरूपा भवन्ति सर्वस मृद्धाः सर्वरूपतायै सर्वसमृद्धयै सर्वरूपाभि: त्राभिः सर्वसमृद्धाभिः सर्वान्कामानवाप्रवामेति तस्माद्यत्र व चैकाहा असर्वस्तोमा असर्वपृष्ठ
ऐकाहिका एव तत्र होत्राः स्युस्तत्समृद्धम्, इति । मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां याः क्रियास्ता होत्राः। ताका हिका एकाहे प्रकृतिरूपे विहिता एवात्र विकृतिरूपेण क्षत्रिययझे कर्तव्याः। एताश्च होत्राः शान्तत्वादिगुण(णि)काः । शान्तादिशब्दार्याः पूर्ववव्याख्येयाः। एताश्चैकाहिका होत्राः सर्वरूपाः सर्वसमृद्धाश्च भवन्ति। तचद्विकृतिषु होत्र काणां ये विशेषा उक्तास्तदूपत्वं सर्वरूपत्वं तत्फलसमृद्धिः सर्वसमृद्धिः। एतच्चोभयमिन्द्राभिष्टवनेन क्षत्रियप्रतिपादनसामर्थ्यात्संपद्यते । अतः सर्वरूप तायै सर्वलोकमाप्त्यर्थं तत्र च सर्वभोगसमृद्ध्यर्थमुक्ता होत्रकाः संपद्यन्ते। वता क्षत्रियाः पुरुषाः सर्वरूपाभिः सर्वसमृदाभिरकाहिकाभिर्होत्राभिः सर्वान्का मानवामवामेत्यभिप्रायेणैकाहिकहोत्रानुष्ठानं कुर्युः । एकाहाथ द्विविधाः सर्व स्तोमसर्वपृष्ठास्तद्विपरीताश्च पृष्ठये षडहे प्रतिपादिताः। त्रिवृत्पञ्चदशसमद शैकविंशत्रिण(न)वत्रयस्त्रिंशरूपाः पदसंख्याकाः सर्वे स्तोमाः । तस्मिमेव पृष्ठयषडहे रथंतरबृहद्वैरूपवैराजशाकररैवतानि पसंख्याकानि सर्वपृष्ठानि । तैः सर्वैः स्तोमैः पृष्ठश्व युक्तेभ्य एकाहेभ्यो व्यतिरिक्ताः कतिपयस्तोमपृष्ठ युक्ता एकाहा असर्वस्तोमा असर्वपृष्ठाश्च । यस्मादैकाहिका होत्राः पूर्वोक्त रीत्या प्रशस्तास्तस्मात्र क वाऽसर्वस्तोमा असर्वपृष्ठाकाहा अनुष्ठीयन्ते तत्र सर्वत्रैकाहिका एव होत्राः स्युः। न तु नूतनो विशेषः कश्चिदस्ति । तत्वावं कर्म संमृद्ध फलेन संपूर्णम् । __ अथ क्षत्रिययनस्य संस्थाविशेषो निर्णेतव्यः । तदर्थमादौ केषांचित्पलमुष न्यस्यति
उक्थ्य एवायं पञ्चदशः स्यादित्याहुरोजो वा
१४. स्तोमास । Artizens SCHOOgle
९०३
1
.
४ चतुर्थः खण्डः] ऐतरेयबामणम् । - इन्द्रियं वीर्य पञ्चदश ओजः क्षत्रं वीर्य राजन्य
स्तदेनमोजसा क्षत्रण वीर्येण समर्धयति, इति । अयं क्षत्रिययज्ञ उक्थ्यसंस्थ एव सर्वेष्वपि स्तोत्रेषु पञ्चदशस्तोम एव स्थादित्येवमेके ब्रह्मवादिन आहुः। ओजो वा इत्यादिकं पूर्ववव्याख्येयम् ।
उक्थ्ये स्तोत्रशस्त्रसंख्या प्रशंसति
तस्य त्रिंशत्स्तुतशस्त्राणि भवन्ति त्रिंशदक्षरा वै विराड्विराळनाचं विराज्येवैनं तदनाचे प्रतिष्ठाप
यति तस्मात्तदुक्थ्यः पञ्चदशः स्यादित्याहुः, इति । तस्योक्थ्यस्य पञ्चदश स्तोत्राणि पञ्चदश शस्त्राणीत्येवं त्रिंशत्संख्या । तथा सत्यक्षरद्वारा विराड्पत्वाद्विराजश्वानसाधनत्वादेनं यजमानं विराट्साम्ये नामाचे प्रतिष्ठापयति । तस्मादेवं पञ्चदशस्तोत्रशखत्वाचदुक्थ्यः स क्षत्रिय यह उक्थ्यसंस्थः पश्चदशस्तोमयुक्तः स्यादित्येवं केचिदाहुः।
अथ स्वपक्षमाह
ज्योतिष्टोम एवाग्निष्टोमः स्यात्, इति । योऽयं क्षत्रियाणां ज्योतिष्टोमः सोऽमिष्टोमसंस्थ एव स्यात् । तस्मिनमिष्टोमे ये त्रिदादयश्चत्वारः स्तोमास्तान्बामणादिवर्णचतुष्टयरू पेण तेजआदिगुणचतुष्टयरूपेण च प्रशंसति
ब्रह्म वै स्तोमानां त्रिरक्षत्रं पञ्चदशो ब्रह्म खलु वै क्षत्रात्पूर्व ब्रह्म पुरस्तान्म उग्रं राष्ट्रम व्यथ्यमसदिति विशः सप्तदशः शौद्रो वर्ण एकविंशो विशं चैवास्मै तच्छौद्रं च वर्णमनु वानौ कुर्वन्त्यथो तेजो वै स्तोमानां त्रि दीर्य पञ्चदशः प्रजातिः सप्तदशः प्रतिष्ठकवि शस्तदेनं तेजसा वीर्येण प्रजात्या प्रतिष्ठयाऽ न्ततः समर्धयति तस्माज्ज्योतिष्टोमः स्याव, इति ।
१ क. स. ‘स्तोत्र ए। guite is E3OYe
९०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२७सप्तत्रि०ध्याये
प्रजापतेर्मुखबाहुमध्यदेहपादेभ्य उत्पचिसाम्यात्रिदादिस्तोमानां ब्राम णादिवर्णचतुष्टयरूपत्वम् । तत्र ब्रामणपूर्वकं राष्ट्रं मदीयमुग्रमव्ययनीयं वाs. स्त्वित्यभिप्रायेण क्षत्रियस्य त्रिवृत्पादशी क्रमेणानुष्ठेयौ सप्तदशैकविंशयोरनुः ष्ठान वैश्यद्रौ वर्णी क्षत्रियस्यानुगामिनौ कुर्वन्ति । त्रिवृदादिस्तोमानां तेजो. वीर्यप्रजननप्रतिष्ठासाधनत्वात्तत्तद्रूपत्वम् । तेषामनुष्ठानेनैनं क्षत्रियमन्ततो या स्यान्ते तेजआदिभिः समृद्धं करोति । तस्मात्तत्रियस्य त्रिवृदादिस्खोमचतुष्टय. विशिष्टो ज्योतिष्टोमा स्यात् ।
अमिष्टोमसंस्थे तमिन्स्तोत्रशस्त्रसंख्या प्रशंसति
तस्य चतुर्विंशतिः स्तुतशस्त्राणि भवन्ति चतुर्विश त्यर्धमासो वै संवत्सरः संवत्सरे कृत्समन्नाद्यं कृत्व एवैनं तदन्नाचे प्रतिष्ठापयति तस्माज्ज्योतिष्टोम
एवामिष्टोमः स्यादमिष्टोमः स्यात् ॥ ४॥ इति । तस्यामिष्टोमसंस्थस्य ज्योतिष्टोमस्य द्वादश स्तोत्राणि द्वादश शनाये चतुर्विशतिसंख्या । ततोऽर्धमासद्वारा संवत्सरत्वम् । संवत्सरे च द्विः संस्थानां पव्यमानस्वादमाचं कुत्तं संपूर्ण भवति । तेनैनं यजमानं संपूर्ण एवाबाये प्रतिष्ठापयति । तस्मात्तत्रियस्य ज्योतिष्टोमोऽमिष्टोमसंस्थ एव स्यात् । न तक्थ्यसंस्थ इति । अभ्यासोऽध्यायसमाप्त्यर्थः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण
भाष्ये पत्रिंशाध्याये चतुर्थः खण्डः ॥४॥ [१६१] . इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य
धुरंपरसायणाचार्यकृतावैतरेयब्रामणभाष्ये
पत्रिंशोऽध्यायः ॥ १६ ॥