३५

अथ पञ्चत्रिंशोऽध्यायः ।

८७७

८७७

क्षत्रियो यजमानो यस्तस्य होमादि वर्णितम् ।

फलनामा तु चमसस्तस्यैवात्रोपवर्ण्यते ॥ १॥ तत्राऽऽदौ क्षत्रियस्य सोमभक्षराहित्यप्रदर्शनार्थमुपाख्यानमाह

विश्वतरोह सौषद्मनः श्यापर्णान्परिचक्षाणो विश्यापर्ण यज्ञमाजहे तद्वानुबुध्य श्याप

स्तं यज्ञमाजग्मुस्ते ह तदन्तर्वेद्यासांचक्रिरे तान्ह दृष्टुवोवाच पापस्य वा इमे कर्मणः करिआसतेऽपूतायै वाचो वदितारो यच्छ्या पर्णा इमानुस्थापयतेमे मेऽन्तर्वेदि माss

सिषतेति तथेति तानुत्थापयांचक्रुः, इति । शोभनं सब राजगृहं यस्य राज्ञः सोऽयं सुषमा तस्य पुत्र: सौषमनः ।स च विश्वंतरनामकः । स कदाचिद्यागं चिकीर्ष: श्यापर्णनामकान्ब्राह्मणविशे पान्परिचक्षाण आत्विज्ये निराकुर्वन्विश्यापर्ण यज्ञमाजरे श्यापर्णनामकब्रा मणविरहितमेव यज्ञमनुष्ठितवान् । तद्ध तत्सर्वं श्यापर्णनामका ब्रामणा अनु. बुध्य मनुष्यमुखादवगत्य विश्वंतरेण राज्ञा तदानीमनाहुता एव तं यज्ञमा जग्मुः । आगत्य ते ह त एव श्यापर्णास्तदन्तर्वेदि तस्य यस्य वेदिमध्य आसांचक्रिरे राजानुसामन्तरेण स्वयमेवोपविष्टवन्तः । राजा तानुदण्डाश्याप र्णान्दृष्ट्वा स्वकीयान्वेत्रपाणीन्पुरुषानुवाच । यद्ये श्यापर्णाः सन्तीमेऽपूतायै वाचो वदितारोऽपूतां वाचं मदीयावज्ञारूपां वदन्तः पापस्य कर्मण: कर्तारो धौर्त्यरूपं व्यापारं कर्तुमुद्यता इहाऽऽसते । इमे श्यापर्णा मेऽन्त बेदि मदीयाया वेदेमध्ये माऽऽसिषत स्वयमेवोपविष्टा इमान्धूर्तान्हे वेत्रपा णय उत्थापयत । इत्येवं राझोक्ता वेत्रपाणयस्तयेत्यङ्गीकृत्य ताञ्झ्यापर्णानु स्थापयांचाः।

तेषां श्यापर्णानां वृत्तान्तमाह

ते होत्थाप्यमाना रुरुविरे ये तेभ्यो भूतवीरे भ्योऽसितमृगाः कश्यपानां सोमपीथमभिजिम्युः (gle.

.

.

.

८७० श्रीमत्सायणाचार्यविरचिवभाष्यसमेतम् - [३९पचत्रि ध्याये

पारिक्षितस्य जनमेजयस्य विकश्यपे यज्ञे तैस्ते तत्र वीरवन्त आसुः कः स्वित्सोऽस्माका(कमोस्ति वीरो य इमं सोमपीथमभिजेष्यतीति , इति । वेत्रपाणिभिरुत्थाप्यमानास्ते श्यापर्णा ब्रामणा रुरुविरे रवं शब्दं परस्पर मुखैनिं कृतवन्तः । तत्र धृष्टाः केचिदन्यान्मति काचित्पुरातनी कयामूचुः। परिक्षितः पुत्रो जनमेजयाख्यो यो राजा स कदाचित्कश्यपवंशोत्पमात्राम णान्विहाय विकश्यपं यहं भूतवीरसंबकै प्रणैर्ऋत्विग्भिः कारयामास । तदानीं कश्यपानां मध्ये ये केचिदसितमृगनामकाः पुरुषाः सोमपीयं जनमे जयसंबन्धिनं सोमयागं तेभ्यो भूतवीरसंबकेभ्यो ब्रामणेभ्यो बलादाकृष्य खयमभिजिग्युरभितो जयं प्राप्ताः । बहुषु यज्ञप्रयोगेषु विजिगीषुकयां कृत्वा तान्भूतवीरान्बामणान्पराजयं प्रापय्य स्वयमसितमृगनामानो ये जितवन्तस्वै. रसितमृगैस्ते कश्यपास्तत्र जनमेजयस्य यज्ञे वीरवन्तः भूरपुरुषोपेता आसुः। एतां कथामुदाहृत्य श्यापर्णाः स्वकीयानेवं पृच्छन्ति । अस्माकं राहा विर स्कृतानामस्माकं मध्ये या पुमानिमं सोमपीथं वितरस्य रामः सोमयाम पभिजेष्यति स ताशो वीरः कश्चिदस्ति यः कोऽपि किमस्तीत्येवमुक्षेत्र शब्दं चक्रुः।

वस्य श्यापर्णानां प्रश्नस्य तन्मध्ये केनचिदुक्तमुत्तरं दर्शयति

अयमहमस्मि वो वीर इति

होवाच रामो मार्गवेयः, इति । सुगबुर्नाम काचिद्योषित्तस्याः पुत्रो रामनामा कश्चिद्रामण एवमुवाच । श्यापर्णा वो युष्माकं मध्ये वीरः परकीयान्विनेतुं शूरोऽहमयमस्मि भवतां पुरो वर्तमानोऽस्मीति ।

तस्य रामस्य वृत्तान्तमाह

रामो हाऽऽस मार्गवेयोऽनूचानः श्यापर्णीयस्तेषां होत्तिष्टतामुवाचापि नु राजनित्थंविदं वेदेरुत्थाप यन्तीति यस्त्वं कथं वेत्थ ब्रह्मबन्धविति ॥२७॥ इति । श्यापर्णीयः श्यापर्णानां ब्राह्मणानां संबन्धी सुगबुपुत्रो रामोनूचानः सावेदशास्त्रपारंगत आस तत्रावस्थितवान् । तेषां श्यापर्णानां वेदेश चिष्ठतां मध्येऽवस्थितो रामो विश्वंतरं प्रत्येवमुवाच । हे राजनित्यनिदं२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

८७९ यागसंबन्धिमयोगप्रकाराभिज्ञ मामपि त्वदीया वेत्रपाणयो नु शिमं वेदे रुत्थापयन्ति तदेतदयुक्तमिति । तच्छ्रुत्वा विश्वंतरो राजैवमुवाच । हे ब्रह्म बन्धो बामणाधम राम यस्त्वं धाद्विीपि स त्वं कथं वेत्येति । अत्र राजो पाचेत्यध्याहर्तव्यम् ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये पञ्चत्रिंशाध्याये प्रथमः खण्डः ॥ १॥ (२७) [१५०]

अय रामः स्वकीयं वेदनं राज्ञोऽग्रे प्रकटयति

यत्रेन्द्रं देवताः पर्यञ्जन्विश्वरूपं खाष्ट्रमभ्य मंस्त मस्तृत यतीन्सालाकेभ्यः प्रादादरुर्म घानवधीबृहस्पतेः प्रयवधीदिति तत्रेन्द्रः सोम पीथेन व्याय॑तेन्द्रस्यानु व्यूद्धिं क्षत्रं सोमपी. थेन व्यार्थ्यतापीन्द्रः सोमपीथेऽभवत्त्वष्टुराऽमुष्य सोमं तयुद्धमेवाद्यापि क्षत्रं सोमपीथेन स यस्तं भक्षं विद्याद्यः क्षत्रस्य सोमपीथेन व्युद्धस्य येन

क्षत्रं समृध्यते कथं तं वेदेरुत्थापयन्तीति, इति । हे विश्वंतर मदीयं वेदनं शृणु । पुरा कदाचिदेवता इन्द्रस्योपरि पञ्चापरा धान्संपायेन्द्रं पर्यवृञ्जन्यज्ञेषु परितो वर्जितवन्तः । यत्र यदा वर्जनं कृतं तत्र तदेन्द्रः सोमपीथेन व्यायेंत सोमपानेन वियुक्तोऽभूत् । इन्द्रस्य येऽपराधा स्वेऽभिधीयन्ते । त्वष्णुः पुत्रं विश्वरूपनामानं ब्राह्मणमभ्यमस्तेन्द्रो हिंसित वान् । तया तेन त्वष्ट्रोत्पादितं वृत्रनामानं ब्राह्मणमस्तृत हिंसितवान् । एतदु. भयं तैत्तिरीयविश्वरूपो वै त्वाष्ट्रस्त्वष्टा हतपुत्र इत्यनुवाकद्वये विस्पष्टमाना तम् । तथा यतिवेषधरानमुराञ्चशस्त्रेण च्छित्वा सालाकेभ्योऽरण्यश्वभ्यः भादात् । तथाऽन्यानप्यरुर्मघनामकान्ब्रामणवेषानसुरानवधीत् । तथा स्वगुरो. बृहस्पतेर्वाक्यं स्वकीयेन वाक्येन प्रत्यावधीत् । सोऽयं प्रतिघातो न युक्तः। तथा चाऽऽपस्तम्बः स्मरति-‘वाक्येन वाक्यस्य प्रतिघातमाचार्यस्य वर्जये. घलेयसां च’ इति । एते पञ्चापराधास्तैनिमित्तभूतैरिन्द्रस्य सोमपाने निवारिते सति व्यृद्धि तषिवारणमनु क्षत्रं सर्वाऽपि क्षत्रियजातिः सोमपीयेन व्यायंत सोमपानेन वियुक्ताऽभूत् । तदूर्ध्व सोमपीये सोमपानेऽपि स प्रवृत्तोऽभूत् ।

.

८८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३५पचत्रि ध्याये कयमिति तदुच्यते । अमुष्य त्वष्टुः सोममावलादपिबदिति शेषः। तथा च तैत्तिरीया आमनन्ति-‘स यावेशसं कृत्वा पासहा सोममपिवत्’ इति । तसवा सतीन्द्रेण बलात्सोमे पीते सति क्षत्रियान्तरस्य तत्सामर्थ्याभावादिदानीमपि सत्रं सोमपीयेन व्यूद्धमेव सोमपानरहितमेवावतिष्ठते । येन भक्षविशेषेण सत्र समृद्धं भवति तादृशो योऽन्यो भक्षः सोमपानेन वियुक्तस्य क्षत्रस्य संभवति तं भक्षं यः पुमान्विद्याचं ताशं क्षत्रियभक्षविदममदादिपुरुषं कथमेते वेत्रपा

यो वेदेरुत्थापयन्तीति रामस्योपालम्भः।

अथ रामविश्वंतरयोरुक्तिप्रत्युक्ती दर्शयति

वेत्थ ब्राह्मण वं तं भक्षा३म्, वेद हीति तं वै नो ब्राह्मण बहीति तस्मै

वैते राजनिति होवाच ॥ २८ ॥ इति । हे ब्राह्मण राम त्वं तादृशं भक्षं किं वेत्येति विश्वंतरस्य प्रश्नः। तदा लुतिः। वेद हि जानाम्येवेति रामोऽब्रवीत् । हे ब्राह्मण त्वं वै तमेव क्षत्रियभक्षं नोऽस्माकं ब्रहीति विश्वंतरः पप्रच्छ । हे राजस्तस्मै ते वै ताशाय पृच्छते तुभ्यमेव कथयामीति राम उवाच ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण भाष्ये पञ्चत्रिंशाध्याये द्वितीयः खण्डः ॥२॥ (२८) [१५१ ]

..

"

.

.

.

क्षत्रियस्य हेया भक्षास्त्रिविधा उपादेयो भक्ष एकस्तत्र हेयान्भक्षान्दर्शयति

त्रयाणां भक्षाणामेकमाहरिष्यन्ति

सोमं वा दधि वाऽपो वा, इति । हेयानां त्रयाणां मध्ये भक्षमेकं क्षत्रियस्य तवानभिज्ञा ऋत्विज आहरि व्यन्ति । के भक्षमित्याशय सोमं वा दधि वा जलं वेत्युक्तम् ।

तत्र सोमपक्षे दोषं दर्शयति

स यदि सोमं ब्राह्मणानां स भक्षो ब्राह्मणांस्तेन भक्षेण जिन्विष्यसिब्राह्मणकल्पस्ते प्रजायामा जनिष्यत आदाय्यापाय्यावसायी यथाकामप्र याप्यो यदा वै क्षत्रियाय पापं भवति ब्राह्मा

८८१

१ तृतीयः खण्डः] ऐतरेयब्रामणम् ।

णकल्पोऽस्य प्रजायामाजायत ईश्वरो हास्मा द्वितीयो वा तृतीयो वा ब्राह्मणतामभ्यु

पैतोः स ब्रह्मबन्धवेन जिज्यूषितः, इति । सोऽनभिन्न ऋविग्यदि ते विश्वंतरस्य क्षत्रियस्य सोमं भक्षमाहरेदिति शेषः । स सोमो ब्राह्मणानां योग्यो भक्षस्तेन भक्षेण ब्रामणाञ्जिन्विष्यसि मीणयिष्यसि । न तु क्षत्रियस्य तव प्रीतिः । तथा सति ते तव रामः प्रजायां संतती ब्राह्मणकल्प ईषदसमाप्तो प्रामण आजनिष्यते । क्षत्रियधर्मेण शौर्येण रहितत्वात्तस्य प्रामणसहशत्वम् । स च पुत्रो ब्रामणवक्ष्यमाणगुणचतुष्ट. योपेतो भवति । आदान प्रतिग्रहस्तच्छील आदायी । प्रतिग्रहश्च ब्रामणगुणः। ऋत्विग्भूत्वा सोममा समन्तात्पाययतीत्यापायी। तदेतचाजनमपि ब्रामणगुणः। अवसममं तस्य संबन्धि याचनमावसस्तमावसमेति मामोतीत्यावसायी । पर रहे सदा भोजनयाचनमपि ब्रामणमुणः। काममिच्छामनतिक्रम्य यथाकामं सदनुसारेण प्रयाप्यो निर्वासयितुं शक्यः क्षत्रियवैश्यादिवच्छौर्यधनाधभावाचा कोऽप्यागत्य दुर्बलं ब्रामण तगृहात्तदीयग्रामाद्वा निष्कासयितुमिच्छति तदानी मयं ब्रामणो दुर्बलत्वात्तेन निःसारयितुं शक्यते । एवमेते चत्वारो धर्मा ब्रामणगुणाः । सोमं भक्षयतो राज एतदुणका पुत्रो जायते । किंच यदा प्रमा दालत्रियाय पापं क्षत्रियस्य किंचिनिषिदाचरणं भवति तदानीं तेन पापेन वस्य क्षत्रियस्य प्रजायां संतती प्रामणकल्पा शौर्यराहित्यादिना ब्रामणसमशः पुत्र आजायते । अस्मात्यापिनः क्षत्रियाद्वितीयो वा तृतीयो वा पुत्रो वा पौत्रो वा ब्रामणतामभ्युपैतोः शौर्यादिगुणरहितं ब्रामण्यं मासुमीश्वरः समर्थों भवति। स ब्रामणसमशः क्षत्रियपुत्रो ब्रामणबन्धवेन ब्राह्मणानां क्रमबन्धुत्वेन ब्राम णोचितयाच्यादिना जिज्यूषितो जीवितुमिष्टो नीचरूपदेन्यास्या जीवित प्रवचो भवतीत्यर्थः।

सोमस्य भक्षत्वे दोषमुक्त्वा दनो भक्षत्वे दोषमाह

अथ यदि दधि वैश्यानां स भक्षी वैश्यांस्तेन भक्षण जिन्विष्यसि वैश्यकल्पस्ते प्रजापामाज निष्यतेऽन्यस्य बलिकृदन्यस्याऽऽद्यो यथाका मज्येयो यदा वै क्षत्रियाय पापं भवति वैश्य कल्पोऽस्य प्रजायामाजायत ईश्वरो हास्मादि-gic

९४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[१५पञ्चत्रि०ध्याये

तीयो वा तृतीयो वा वैश्यतामभ्यु

पैतोः स वैश्यतया जिज्यूषितः, इति । यदि ते दधिरूपं भक्षमाहरेत्तदा दनो वैश्यभक्षत्वाचेन वैश्यामीणयि व्यसि । तव संतती वैश्यसमानः पुत्र आजनिष्यते । वैश्यश्च वाणिज्यं पुर्वम न्यस्य रामो पलिकुलिं पूजा करोति करं प्रयच्छतीत्यर्थः । अत एवान्यस्य राब आयो भक्ष्योऽधीनो भवतीत्यर्थः। तस्य राज्ञः काममिच्छामनविक्रम्य ज्येयोऽभिभवनीयो भवति । ज्याभिभव इति धातुः। त एते करमदान पराधीनत्वतिरस्कार्यत्वाख्या वैश्यगुणाः। यदा क्षत्रियस्य किंचित्पापं संभ पति तदा तस्य संततौ वैश्यसहशो जायते । अस्मात्सत्रियात्यापिनोऽन्यः पुत्रा पौत्रो वा वैश्यतां मातुं समर्थो भवति । स च वैश्यतया वैश्यवृत्या करमदा. नादिना जीवितुं प्रवृत्तो भवति ।

दधिभले दोषमुक्त्वा जलभक्षे दोषमाह

अथ यद्यपः शूद्राणां स भक्षः शूद्रांस्तेन भक्षेण जिन्विष्यसि शूद्रकल्पस्ते प्रजायामा जनिष्यतेऽन्यस्य प्रेष्यः कामोत्थाप्यो यथा कामवध्यो यदा वैक्षत्रियाय पापं भवति शूद्र कल्पोऽस्य प्रजायामाजायत ईश्वरो हास्मा द्वितीयो वा तृतीयो वा शूद्रतामभ्युपेतोः

स शूद्रतया जिज्यूषितः ॥२९॥ इति । पदि ते क्षत्रियस्य कश्चिदविगपो जल भक्षमाहरेचदानी स जलात्मक रुद्राणां भक्षस्तेन भक्षेण शूद्रामीणयिष्यसि । ततस्तव संततौ शूद्रसरशः पुत्र उत्पद्यते । शूद्रश्चान्यस्योत्तमवर्णत्रयस्य प्रेष्या प्रेषणीयो भृत्यो भवति । तथा कामोत्थाप्यो मध्यरात्रादौ यदाकदाचिदिन इच्छा भवति तदानीमयमुत्था प्यते । तथा तदीयं काममिच्छामनतिक्रम्य वध्यः कुपितेन स्वामिना ताब्यो भवति । एते शूद्रगुणाः । क्षत्रियस्य कदाचित्पापे सति शूद्रसमानः पुत्रो जायते । तस्मात्क्षत्रियादन्यः पुत्रः पौत्रो वा शूद्रत्वं मातुं समर्थो भवति । स पुत्रः शूद्रतया शूद्रवर्णतया दासत्ववृत्त्या जीवितुं प्रवृत्तो भवति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णभाष्ये पचत्रिंशाध्याये तृतीयः खण्डः ॥३॥ (२९) [१५२]

८१

• चतुर्षः खण्डः] . ऐतरेयबामणम् । __ अथ क्षत्रियोचितं भक्षं दर्शयितुमुक्तानां भक्षाणां क्षत्रियेण हेयता संपु माऽऽह

एते वै ते त्रयो भक्षा राजनिति होवाच

येषामाशां नेयात्क्षत्रियो यजमानः, इति । क्षत्रियो यागं कुर्वन्येषां भक्षाणामाशामिच्छामपि नेयान भामुयात् । हे राज विश्वंतर ते त्रयोऽप्येते पूर्वमुक्ताः। .. उपादेयं भक्षं दर्शयति

अथास्यैष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि प्लाक्षाण्यभि

पुणुयात्तानि भक्षयेत्सोऽस्य स्वो भक्षः, इति । अय हेयभक्षकथनानन्तरमुपादेयो भक्षः कथ्यत इति शेषः । अस्य राम एव वक्ष्यमाणः स्वो भक्षः कोऽसाविति सोऽभिधीयते । न्यग्रोधस्यावरोधाः शाखा भ्योऽवामुखत्वेन प्ररोहन्तो मूलविशेषाः । तथैवोदुम्बराश्वत्थप्लक्षाख्यानां वृक्षाणां फलानि च तानि सर्वाण्यभिषुणुयात् । अभिषुत्य च तानि रसं भक्ष पेव । सोऽयमस्य क्षत्रियस्य स्वोचितो भक्षः। अथ न्यग्रोधप्रशंसायं तदुत्पत्तिं दर्शयति

यतो वा अधि देवा यज्ञेनेष्टुवा स्वर्ग लोकमायं स्तत्रैतांश्चमसान्युजस्ते न्यग्रोधा अभवन्युब्जा इति हाप्येनानेताचक्षते कुरुक्षेत्रे ते ह प्रथ

मजा न्यग्रोधानां तेभ्यो हान्येऽधिजाताः, इति । देवाः पुरा यतो वो अधि यस्य कुरुक्षेत्रस्योपरि यज्ञेनेष्ट्वा स्वर्ग लोकमाय न्मामुवंतत्र तस्मिन्यत्रदेश एतान्सोमचमसान्युजमधोमुखानस्थापयन् । अधो. मुखास्ते चमसा न्यग्रोधला अभवन् । एतीदानीमपि तस्मिन्कुरुक्षेत्र एना. व्यग्रोपवृक्षाब्युना इत्यनेन नानाऽऽचक्षते । ते कुरुक्षेत्रदेशस्था वृक्षा भूलोक वर्तिनां सर्वेषां न्यग्रोधवृक्षाणां मध्ये प्रथमजाः प्रथमत उत्पनाः। तेभ्यस्त देशतिन्यग्रोधवक्षेभ्योऽन्ये देशान्तरवर्तिनो न्यग्रोषा अधिजाता आधि क्येनोत्पना।

क. स. प. वानधितो यज्ञस्य । म. वाजधितो यशस्य । २ क.स.स. म. देशे ता। ३क… म. खानेतान।

४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३९पञ्चत्रि घ्यावे

न्यग्रोपशम्दं निर्वक्ति

ते यन्यञ्चोऽरोहंस्तस्मान्योहति न्यग्रोहो न्यग्रोहो वै नाम तन्यग्रोहं सन्तं न्यग्रोध इत्याचक्षते परो क्षेण परोक्षप्रिया इव हि देवाः ॥३०॥ इति । ते चमसा यद्यस्मात्कारणाभ्योऽधोमुखा अरोहन्यादुर्भूतास्तस्मात्का रणाझ्यधोमुखो रोहति प्रादुर्भवतीति व्युत्पत्त्या न्यग्रोहः संपभः। सच वस्तुतो न्यग्रोह इत्येव नामाहेति तस्य नान्नो व्युत्पत्त्यनुसारित्वात् । तथापि न्यग्रोहं सन्तं वृक्ष लौकिका हकारस्य धकारादेशं कृत्वा न्यग्रोध इति परोक्षनाना व्यवहरन्ति देवानां पूज्यानामाचार्योपाध्यायादीनां परोसनामपियत्वात् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण

भाष्ये पञ्चत्रिंशाध्याये चतुर्थः खण्डः ॥ ४॥ (३०) [१५]

न्यग्रोपवृक्षस्योत्पत्तिमुक्त्वा तदीयानामवरोधानां फलानां चोत्पति दर्शयति

तेषां यश्चमसानां रसोऽवात्तेऽवरोधा अभ

वनथ य ऊर्ध्वस्तानि फलानि, इति । तेषामधोमुखत्वेनावस्थितानां चमसानां वटवृक्षत्वे सति चमसगतो यो रसा सोऽवादधोमुखोऽगच्छन् । ते रसविशेषा अवरोषा अधोमुखत्वेनोत्पमा बढ शाखाभ्यो निर्गता मूलविशेषा अभवन् । अथ तदैलक्षण्येन यो रस ऊों निरगच्छत्तानि रसरूपाणि वटफलान्यभवन् ।

तेषामेवावरोधानां फलानां च क्षत्रियभक्षत्वं प्रशंसति

एष ह वाव क्षत्रियः स्वादशाति यो न्यग्रो धस्यावरोधांश्च फलानि च भक्षयत्युपाह परो क्षेणैव सोमपीथमानोति नास्य प्रत्यक्ष भक्षितो भवति परोक्षमिव ह वा एष सोमो राजा यन्य ग्रोधः परोक्षमिष ब्रह्मणो रूपमुपनिगच्छति

यत्क्षत्रियः पुरोधयैव दीक्षयैव प्रवरेणैव, इति । या पुमान्यग्रोधवृक्षस्यावरोपांवाघोमुखानि मूलानि च तत्फलानि प भा

८८५

.

५ पञ्चमः खण्डः] ऐतरेयबामणम् । यति एष एव क्षत्रियः स्वोचिताभक्षामापैति । किंचायं क्षत्रियः परोक्षेणैव न्यग्रोषव्यवधानेनैव सोमपीथं सोमपानमुपाह मामोति सर्वथा माप्नोति । अस्य क्षत्रियस्य प्रत्यक्षमव्यवधानं यथा भवति तथा सोमो भक्षितो न भवति न्यग्रोधेन व्यवहितत्वात् । योऽयं न्यग्रोध एष परोक्षमेव यथा भवति तथा वर्तमानः सोमो राजा । योऽयं क्षत्रियोऽस्ति एषोऽपि पराक्षमिव व्यवधाने. नैव ब्रामणो भूत्वा रूपं तदीयवेषमुपनिगच्छति । पुरोषयैव पुरोहितद्वारेण दीलयेव दीक्षारूपसंस्कारेण च प्रवरेणेव पुरोहितगोत्रेण च ब्रामण्यस्य संपा. दितत्वादिति घोषः।

मकारान्तरेण न्यग्रोधक्षत्रिययोः साम्यमापाच प्रशंसति

क्षत्रं वा एतद्दनस्पतीनां यन्यग्रोधः क्षत्रं राजन्यो नितत इव हीह क्षत्रियो राष्ट्र वसन्भवति प्रतिष्ठित इव नितत इव

न्यग्रोधोऽवरोहैर्भूम्यां प्रतिष्ठित इव, इति । यो न्यग्रोधोऽस्त्येतस्यग्रोधस्वरूपं वनस्पतीनां मध्ये क्षत्रं वै क्षत्रियजाति रेव । राजन्यो देशाधिपतिरपि क्षत्रं मनुष्याणां मध्ये क्षत्रियजातिः । किंचार्य क्षत्रिय इह राष्ट्रे स्वदेशे वसभितत इव हि तत्तद्रामेषु संचरणेन नितरां संतत एव भवति । तथा प्रतिष्ठित इव राज्यस्थैर्येण चलनरहित एव भवति । न्यग्रो पवृक्षोऽप्यधोमुखैरवरोधैनितत इव नितरां व्यास एव भवति । तथा भूम्यां प्रतिष्ठित इव स्थिर एव भवति । तस्मादस्त्युभयोः साम्यम् । __ न्यग्रोधवृक्षमुपसंहरति

तक्षत्रियो यजमानो न्यग्रोधस्यावरोधांश्च फलानि च भक्षययात्मन्येव तत्क्षत्रं वनस्प

तीनां प्रतिष्ठापयति क्षत्र आत्मानम् , इति । तत्तस्मान्यग्रोधक्षत्रिययोः सादृश्यसद्भावायः क्षत्रियः पुरुषो यागं कुर्वन्य प्रोपवृक्षस्यावरोधान्फलानि च भक्षयेत् । तदानी वनस्पतीनां संबद्ध क्षत्र क्षत्रियजातिमात्मन्येव स्वोदरमध्य एव प्रतिष्ठापयति । तथैवाऽऽत्मानं स्वस्वरूपं वनस्पतिसंबन्धिनि क्षत्रे न्यग्रोधे प्रतिष्ठापयति ।

उपसंहृतं तं भक्षं पुनरपि प्रशंसति

क्षत्रे ह वै स आत्मनि क्षत्रं वनस्पतीनां प्रति:ogle.

64.1

श्रीमत्सायणाचार्यविचितभाष्यसमेतम्-[३६पञ्चत्रि ध्याये ष्ठापयति न्यग्रोध इवावरोधैर्भूम्यां प्रति राष्ट्र तिष्ठत्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं

भक्षं भक्षयति क्षत्रियो यजमानः॥३१॥ इति । या क्षत्रियो यागं कुर्वनेतं न्यग्रोधसंबन्धिनं भक्षे भक्षयति स क्षत्रियः स्वयं बनस्पतीनां संबन्धिनि क्षत्रे न्यग्रोधे प्रतिष्ठितः समात्मनि स्वस्मिन्वनस्पतीनां संबन्धि क्षत्रं न्यग्रोधं प्रतिष्ठापयति । यथा न्यग्रोधोऽवरोषैर्भूम्यां प्रतिष्ठित एवमयं राजा राष्ट्र प्रतितिष्ठति । अस्य राष्ट्रमुग्रं तेजस्वि सदव्यथ्यं केनापि व्यथितुमशक्यं भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण __ भाष्ये पश्चत्रिंशाध्याये पञ्चमः खण्डः ॥५॥(११) [ १५४] न्यग्रोधस्यावरोधान्फलानि च प्रशस्यौदुम्बरादिप्रशंसा क्रमेण दर्शयति

अथ यदौदुम्बराण्यों वा एषोऽवाद्या हनस्पतिरजायत यदुदुम्बरो भोज्यं वा एतद्दनस्पतीनामूर्जमेवास्मिस्तदन्नाचं

भोज्यं च वनस्पतीनां क्षत्रे दधाति, इति । अथ न्यग्रोधप्रशंसानन्तरमुदुम्बरप्रशंसा कथ्यते । यद्यान्यौदुम्बराणि फलानि भक्षत्वेनोक्तानि तेषामुत्पादको यदुदुम्बरोऽस्ति एष ऊों रसादनाचाच बनस्पतिरूपोऽजायत । एतदुदुम्बरफलं वनस्पतीनां मध्ये भौज्यं वै भोजनाई मेव । तत्तेनौदुम्बरभक्षेणास्मिन्क्षत्र ऊर्जमेव रसमेव तथाऽमाचं वनस्पतीनां मध्ये भोजनयोग्यं द्रव्यमवस्थापयति ।

अश्वत्थफलानि प्रशंसति

अथ यदाश्वत्थानि तेजसो वा एष वनस्पतिरजायत यदश्वत्थः साम्राज्यं वा एतद्दनस्पतीनां तेज एवा स्मिस्तत्साम्राज्यं च वनस्पतीनां क्षत्रे दधाति, इति । अयोदुम्बरमशंसानन्तरमश्वत्यफलानि प्रशस्यन्ते । यान्यश्वत्थफलानि सन्ति तेषां जनको योऽश्वत्य एष वनस्पतिस्तेजस एचोदपचत । एतदश्वत्वफलं वनस्पतीनां संवन्धि साम्राज्यस्वरूपमेव । तत्तेनाश्वत्थफलभक्षेण तेज एव वन स्पतीनां साम्राज्यं चास्मिन्क्षत्रे स्थापयति । device is GOOfe

८८७

१ षष्ठः खण्डः ] ऐतरेयबामणम् ।

लक्षफलानि प्रशंसति

अथ यस्लामाणि यशसो वा एष वनस्पतिर जायत यत्लक्षः खाराज्यं च ह वा एतबैराज्यं च वनस्पतीनां यश एवास्मिंस्तत्स्वाराज्यवै

राज्ये च वनस्पतीनां क्षत्रे दधाति, इति । अथावत्थप्रशंसानन्तरं यानि प्लसफलानि विद्यन्ते तानि प्रशस्यन्ते । योऽयं पक्षोऽस्त्येष वनस्पतिर्यशस एवोत्पमः । एतत्प्लक्षफलं वनस्पतीनां संबन्धि स्वाराज्यवैराज्यरूपम् । स्वातध्येण राजत्वं स्वाराज्यं विशेषेण राजत्वं वैरा ज्यम् । तत्वेन पक्षफलेनास्मिन्क्षत्रे यशश्च स्वाराज्यवैराज्ये च संपादयति ।

भाद्रव्यं प्रशस्य तस्य प्रयोगमाह

एतान्यस्य पुरस्तादुपक्लप्तानि भवन्यथ सोमं राजानं क्रीणन्ति ते राज्ञ एवाऽऽतोपवस थात्पतिवेशैश्चरन्यथोपवसथ्यमहरेतान्यध्वर्युः पुरस्तादुपकल्पयेताधिषवणं चर्माधिषवणे फलके द्रोणकलशं दशापवित्रमद्रीन्पूतभृतं चाऽऽधवनीयं च स्थालीमुदश्चनं चमसं च तयदेतद्राजानं प्रातरभिषुण्वन्ति तदेनानि देधा विगृहीयादभ्यन्यानि सुनुयान्माध्यं

दिनायान्यानि परिशिष्यात् ॥ ३२ ॥ इति । एतानि न्यग्रोधावरोधादीन्यस्य रामोऽर्थे सोमक्रयात्पूर्वमुपकृतानि संपादि. तानि भवन्ति । तत ऊर्ध्वं सोमक्रयः । ततस्तेऽध्वर्युप्रभृतयो राज एवाऽऽवृता सोमस्यैव प्रकारेणौपवसथादिनात्पूर्व प्रतिवेशैः प्रसिद्धैः क्रियाविशेषैश्चरन्त्यनु. [तिष्ठेयुः। अथानन्तरमौपवसथ्यमहः । औपवसध्येऽहन्यध्वर्युः पुरस्तात्मयममे वानि वक्ष्यमाणानि चर्मादीन्युपकल्पयेत्संपादयेत् । यस्मिंश्चर्मणि सोमोऽभिषू यते तधर्माधिषवणाख्यम् । ययोः फलकयोरभिषूयते ते फलके अधिषवणसं के । द्रोणकलशं प्रौढदारुपात्रम् । दशापवित्रं वस्त्रम् । अद्रयोऽभिषवणार्या

१ ख. ग. घ. इ. च. छ. अ. ‘तोप। relese is

f rie

८४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११पञ्चमि ध्याये प्रावाणः । पूतभृदापवनीयो पात्रविशेषौ । स्थाली कुम्भः । उदश्चनमुनयनपा प्रम् । चमसो भक्षार्थ दारुपात्रम् । एतान्यध्वर्युः संपाच वत ऊर्ध्वं यद्यदैतदे राजानं मात:कालेऽभिषुण्वन्ति तत्तदानीमेतानि न्यग्रोधावरोधादीनि देषा विभजेत् । तत्रान्यान्येकमागगतानि तस्मिन्मातःसवनेऽभिषुणुयात् । इतरभाग. गतानि तु माध्यंदिनसवनाय स्थापयेत् ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयबामण

भाष्ये षष्ठः खण्डः ॥६॥ (१२)[१५५]

अथास्य फलचमसोमयनादिप्रयोगं दर्शयति

तयत्रेतांश्चमसानुनयेयुस्तदेतं यजमानचमसमु वयेत्तस्मिन्छे दर्भतरुणके प्रास्ते स्यातां तयोर्वष

कृतेऽन्तःपरिधि पूर्व प्रास्येदधिक्राव्णो अका. रिषमियेतयर्चा सस्वाहाकारयाऽनुवषट्कृतेऽ

परमा दधिकाः शवसा पश्च कृष्टीरिति, इति । तत ऊर्ध्वं यत्र यदैतान्ब्रमहोत्रादिचमसान्दशसंख्याकानुमयेयुः । तत्चदानी यजमानस्य राजश्चमसमुपयेत् । अभिपुतेन न्यग्रोधावरोधादिना पूरयेत् । तस्मि पूरिते चमसेऽल्प दर्भद्वयं प्रक्षिप्य तयोर्मध्ये प्रथमपक्षिस दर्भ वषद्कृते वषट् कारे कृते सति दधिक्राव्ण इत्येतयर्चा स्वाहाकारसहितया परिधीनामन्तः प्रक्षिपेत् । अनुवषट्कृतेऽनुवषट्कारे कृते सत्यपरं दर्भमा दधिका इत्यनयर्चा पूर्व पत्स्वाहाकारसहितया परिधीनामन्तः प्रक्षिपेत् । अथास्य फलचमसस्य भक्षणं विधत्ते

तयत्रैतांश्चमसानाहरेयुस्तदेतं यजमानचमसमाहरे तान्यत्रोद्गृह्णीयुस्तदेनमुपोद्गृह्णीयात्तद्यदेळां होतो पह्वयेत यदा चमसं भक्षयेदथैनमेतया भक्षयेव, इति । ततो होमादूर्ध्वं यत्र यदैतान्होत्रादीनां चमसात्विज आहरेयुः। तत्चदानी मेतं यजमानस्य रामश्चमसमाहरेत् । तानाहतान्होत्रादिचमसान्यत्र यदोडीयु

दधिकाव्णो भकारिष०-४-४०-१ । आ दधिकाः शवसा पञ्च कृष्टीः ४-१९-१०।

Piştizen in Google७ सप्तमः खण्डः] ऐतरेयबामणम् । भक्षणार्यमूर्ध्वं धारयेयुः। तत्तदानीमेतं यजमानस्य रामश्चमसमुपोवृतीयापूर्व धारयेत् । वत ऊर्ध्वं यदा होतेळामुपहयेतोपहूय च स्वकीयं चमसं यदा भक्ष.

येत् । अथ तदानीमेनं यजमानचमसमेतया वक्ष्यमाणयर्चा राजा भक्षयेत् । . वामृचं पठति

यत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपि बच्छचीभिः । इदं तदस्य मनसा शिवेन

सोमं राजानमिह मक्षयामीति, इति । रसिनो रसयुक्तस्य सुतस्याभिषुतस्यावरोधादिद्रव्यस्यात्र पात्रे यच्छिष्ट योऽवशिष्टो भागो यञ्च पात्रस्यं द्रव्यमिन्द्रः शचीभिः कर्मविशेषैः संस्कृतमपि बत् । शचीशब्दः कर्मनामसु पठितः । अस्य द्रव्यस्य संबन्धि तदिदं शिष्टं शिवेन भक्तियुक्ततया मालेन मनसेह कर्मणि सोमं राजानं सोमराजरूपं भाव यित्वा भक्षयामि।

तदिदं समवकभक्षणं प्रशंसति

शिवो ह वा अस्मा एष वानस्पत्यः शिवेन मनसा भक्षितो भवत्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानः, इति । यः क्षत्रियो यजमान एवमुक्तेन प्रकारेणैतं फलचमसरूपं भक्षं भक्षयति अस्मै यजमानायैष वानस्पत्यो वानस्पत्यो भक्षः शिवो ह वै मङ्गलो हितकारी भूत्वा शिवेन मनसा भक्तियुक्तेन मालेन मनसा भक्षितो भवति । अस्य राशो राधमुग्रं शत्रूणामभिभवनायोग्ररूपं भूत्वा केनाप्यव्यध्यं व्यययितुमशक्यं भवति । भयं चलनं वा कदाचिदपि नास्य राष्ट्रस्य भवतीत्यर्थः।

भक्षणादूर्ध्व मवेणाऽऽत्मस्पर्श विधत्ते

शं न एधि हृदे पीतः प्र ण आयुर्जीवसे

सोम तारीरित्यात्मनः प्रत्यभिमर्शः, इति । हे सोम सोमस्थानीयावरोधादिभक्षास्माभिः पीतः समोऽस्माकं हृदये शमेघि सुखहेतुर्भव जीवसे चिरजीवनाय नोऽस्माकमायुः प्रतारी: प्रकर्षण संपादयेत्यनेन मवेणाऽऽत्मनः स्वकीयहृदयस्य प्रत्यभिमर्शो हस्तेन संपूर्णः स्पर्शः कर्तव्यः।

Perdice sa Google ११२

८९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-३५पश्चत्रि०व्याये

अथान्वयव्यतिरेकाभ्यापभिमर्श प्रशंसति

ईश्वरो ह वा एषोऽप्रत्यभिमृष्टो मनुष्यस्याऽऽयुः प्रत्यवहौरनहन्मा भक्षयतीति तद्यदेतेनाऽऽ

स्मानमभिमृशत्यायुरेव तत्पतिरते, इति । एषोऽवरोधादिभक्षोऽप्रत्यभिमृष्टो मन्त्रपूर्वकात्मस्पर्शरहितः सन्मनुष्यस्य राम आयुः प्रत्यवहाविनाशयितुमीश्वरः समर्थो भवति । केनाभिप्रायेणेति सोऽमि धीयते । अनहन्मक्षयितुमयोग्यः सन्मा भक्षयतीति तस्य भक्षस्याभिमायः। सोऽयं व्यतिरेकस्तधादित्यादिरन्वयः । तत्तदा भक्षणार्ध्वं यथैतेन शं न इत्यादिमत्रेणाभिमृशति तत्तेनाभिमर्शनेनाऽऽयुरेव प्रतिरते प्रकर्षेण वर्षयति ।

द्वाभ्यामुग्भ्यां तस्य चमसस्य पूरणं विधत्ते

आप्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा इति चमसमाप्याययस्यभिरूपाभ्यां यद्य

शेऽभिरूपं तत्समृद्धम् ॥ ३३ ॥ इति । प्रथमायामृच्याप्यायस्वेति श्रवणाद्वितीयस्यास्तृतीयपादे चाऽऽप्यायमान इति श्रवणादिदं मखद्वयमाप्यायनस्याभिरूपमनुकूलम् । यझे यदामभिरूपमनु कूलं क्रियते तदनं समृद्धं संपूर्ण भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राम

जभाष्ये पञ्चत्रिंशाध्याये सप्तमः खण्डः ॥७॥ (३१) [१५६] भसिताप्यायितस्य नाराशंससंशस्य चमसस्य प्रयोग विधत्ते

तद्यत्रैतांश्चमसान्सादयेयुस्तदेतं यजमानचमसं सादयेतान्यत्र प्रकम्पयेयुस्तदेनमनु प्रकम्पयेद थैनमाहृतं भक्षयेनराशंसपीतस्य देव सोम ते मतिविद ऊमैः पितृभिर्भक्षितस्य भक्षया मीति प्रातःसक्ने नाराशंसी अक्ष रिति

माध्यंदिने काव्यैरिति तृतीयसवने, इति । आप्यायस्व समेतु०-१-९१-१६ । सं ते पयांसि समु०-१९-१-१८ ।

८ अष्टमः खण्डः ऐतरेयबामणम् ।

८९१ तत्तस्मादाप्यायनापूर्वं यत्र यदेतान्होत्रादीनां चमसानाप्यायितान्सादये. युस्खदानीमेतं यजमानस्य रामश्चमसं सादयेत् । तान्होत्रादीनां चमसान्यदा प्रकम्पयेयुस्तदैवैनं राजचमसमनु प्रकम्पयेत् । अथानन्तरमेनं चमसं भक्षणार्थ माहृतं नराशंसेत्यादिमत्रेण भक्षयेत् । हे[सोम] सोमसाश फलमस देव नराशंसपीतस्य नरा मनुष्या ऋभुप्रमुखाः शस्यन्ते यस्मिन्सवनविशेषे सोऽयं नराशंसस्तत्र देवैः पीतस्योमनामभिः पितृभिश्व भक्षितस्य मतिविदोऽस्मदभि मायाभिवस्य ते भक्षयामीत्यनेन मत्रेण प्रातःसपने नाराशंसचमससंबन्धी भला कर्तव्यः । इतरयोस्तु सवनयोस्तस्मिन्मत्र ऊमैरित्यस्य पदस्य स्थान ऊर्वैः काव्यैरिति पदद्वयं क्रमेण पठनीयम् ।

त्रिविषमवतात्पर्य दर्शयति

ऊमा वै पितरः प्रातःसवन ऊर्वा माध्यं दिने काव्यास्तृतीयसवने तदेतत्पितने

वामृतान्सवनभाजः करोति , इति । उमा अर्वाः कान्या इत्येते सवनत्रयगताः पितृविशेषा अतस्तच्छब्दप्रयो. गेण तान्पितन्सवनभाजः करोति । पितरश्च द्विविधा मृता अमृताश्च । इदानी मनुष्याः सन्तो मरणादूर्ध्व पितृलोकं माता मृताः । सृष्टिमारभ्य पितृलोकेऽव स्थिता अमृता उमादयः। तथाविधत्वादमृतशब्देन विशेष्यन्ते ।

अथ मनतात्पर्ये मतान्तरं दर्शयति

सर्वो हैव सोऽमृत इति ह स्माऽऽह प्रिय

व्रतः सोमापो यः कश्च सवनभागिति, इति । न केवलमूमादय एव पितरः प्रसिद्धा अमृताः। किंतु यः कोऽपि पिता सवनभाग्भवति स सर्वोऽप्यूमादिशब्दैरुपलक्षितत्वादमृत एव भवतीति सोमापा सोमपः प्रियव्रताख्यो महषिराह स्म ।

इदानी नराशंसचमसमक्ष प्रशंसति

अमृता ह वा अस्य पितरः सवनभाजो भव न्स्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानः, इति ।

११. पीत्वा। elegizes in Google

+-+11111++:

८९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३६पञ्चत्रि घ्याये

अस्य राज्ञो भक्षयितुः पितरः पितृपितामहादयः सर्वेऽपि सवनमाजः सन्तोऽमृता मरणरहिता देवा भवन्ति । उग्रमित्यादि पूर्ववत् ।

शं न इत्यादिमत्रेण स्वदेहस्पर्शनमाप्यायस्वेति मबयेन चमसपूरणं च प्रातःसवने यदुक्तं तदुत्तरयोः सवनयोरतिदिशति

समान आत्मनः प्रत्यभिमर्शः

समानमाप्यायनं चमसस्य, इति । फलचमसे विद्यमानं प्रयोगविशेषमभिधायावशिष्टं सोमचमसगतं प्रयोग सवनत्रयेऽप्यतिदिशति

प्रातःसवनस्यैवाऽऽता प्रातःसवने चरेयुर्माध्यंदि

नस्य माध्यंदिने तृतीयसवनस्य तृतीयसवने, इति । सोमविषयस्य मातःसवनस्यैवाऽऽवृता प्रकारेण फलचमसविषयमातःसवने चरेयुरनुतिष्ठेयुः । एवमितरत्रापि योज्यम् ।

उक्तं फलचमसभक्षमुपसंहरति

तमेवमेतं भक्षं प्रोवाच रामो मार्ग

वेयो विश्वंतराय सौषद्मनाय, इति । अथ विश्वंतरस्य वाक्यं दर्शयति

तस्मिन्होवाच प्रोक्त सहस्रमु ह ब्राह्मण तुभ्यं

दद्मः सश्यापर्ण उ मे यज्ञ इति , इति । तस्मिबाजभक्षे रामेण मोक्ते सति स राजा रामं प्रत्येवमुवाच । हे ब्रामण राम तुभ्यं वयं सहस्रमु ह गवां सहस्रं संपूर्ण दनः। पुरा मे यज्ञो विश्यापर्ण आसीत् । इदानीं तु सश्यापर्ण एवास्तु । भवदीयाः श्यापर्णनामकाः सर्वे ब्रामणा अस्मिन्यज्ञे वसन्त्विति ।

इदानीं संभदायकथनेन भक्षं प्रशंसति

एतमु हैव प्रोवाच तुः कावषेयो जनमेजयाय पारिक्षितायैतमु हैव प्रोचतुः पर्वतनारदौ सोम काय साहदेव्याय सहदेवाय साञ्जयाय बधवे

१ ख. ‘प्राशो में । २ . ति रा | ed rogle.

८ अष्टमः खण्डः] ऐतरेयबामणम् ।

८९३ देवावृधाय भीमाय वैदर्भाय नमजिते गान्धा रायैतमु हैव प्रोवाचामिः सनश्रुतायारिंदमाय क्रतुविदे जानकय एतमु हैव प्रोवाच वसिष्ठः सुदासे पैजवनाय ते ह ते सर्व एव महजग्मुरेतं भक्षं भक्षयित्वा सर्वे हैव महाराजा आसु रादित्य इव ह स्म श्रियां प्रतिष्ठितास्त

पन्ति सर्वाभ्यो दिग्भ्यो बलिमावहन्तः, इति । एतं पूर्वोक्तमेव भक्ष कवषस्य पुत्रस्तुरनामको महर्षिः परिक्षित्पुत्राय जनमे. जयसंझकाय प्रोवाच । अयमेक: संप्रदायः। तथैतमेव भक्ष पर्वतनारदाख्या वृषी सहदेवस्य पुत्राय सोमकाय पोचतुः । सोमकवान्यस्मै सहदेवाय मोवाच । सहदेवश्च सार्जयाय मोवाच साञ्जयश्च बभ्रवे मोवाच । बभ्रुश्च दैवावृधाय मोवाच । दैवावृधश्च भीमाय प्रोवाच । भीमश्च वैदर्भाय मोवाच । वैदर्भश्च नमजिते मोवाच । नमजिव गान्धाराय मोवाच । अयं द्वितीयः संप्रदायः । तयैतमेव भक्षममिनामको महर्षिः सनश्रुताय प्रोवाच । सनश्रुतश्चारिंदमाय प्रोवाच । अरिंदमश्च ऋतुविदे मोवाच । ऋतुविध जानकये मोवाच । अयं तृतीयः संप्रदायः । तथैतमेव भक्षं वसिष्ठो महर्षिः सुदासे महर्षये प्रोवाच । मुटु धनं दासतीति मुदाः । अथवा मुटु शत्रून्दस्यत्युपक्षयतीति सुदाः। सच पेजवनाय प्रोवाच । यद्वा सहदेवाय सार्ज या] येत्यादिषु वाक्येषु सहदेवादि. नान्नां साञ्जयादिपदानि विशेषणतया योज्यानि । द्वितीयस्तच्छब्द एतच्छ ब्दार्थः। ते हैते तुरादयः पैजवनान्ताः सर्व एव पुरुषा एतं फलचमसमक्ष भक्षयित्वा महज्जग्मुर्महत्वं प्राप्ताः । महत्त्वस्यैव सर्वे हेत्यादिकं विवरणम् । सर्वेऽप्येते महाराजाः सार्वभौमा आसुः । यथाऽऽदित्यो धुलोके प्रतिष्ठित. स्वपति एवमेते श्रियां गजाश्चादिकायां संपदि प्रतिष्ठिताः सन्तस्तपन्ति शत्रूणां तापं कुर्वन्ति । तथा सर्वाभ्यो दिग्भ्यः सर्वदिगवस्थितेभ्यो राजभ्यः सका. शालिमावहन्तः करमाददानाः स्वामिनो भवन्ति । नराशंसभक्षं पुनरपि फलकथनेन प्रशंसति

आदित्य इव ह वै श्रियां प्रतिष्ठितस्तपति सर्वाभ्यो दिग्भ्यो बलिमावहत्युग्रं हास्य राष्ट्र: rogfe

mp.

८९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१९पञ्चत्रि०व्यायः]

मव्यथ्यं भवति य एवमेतं भक्षं मक्षयति

क्षत्रियो यजमानो यजमानः ॥ ३४ ॥ इति । पूर्ववयाख्येयम् । अभ्यासोऽध्यायसमाप्त्यर्थः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयब्रामण.

भाष्ये पञ्चत्रिंशाध्यायेऽष्टमः खण्डः॥८॥ (१४) [१५७] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्रा ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये

पञ्चत्रिंशोऽध्यायः ॥ ३५॥ इत्यैतरेयब्राह्मणे सप्तमपञ्चिका समाप्ता ॥७॥

(पश्चिकाङ्का:-५ । अध्यायात्रा:-३५ । खण्डानाः-१५७)

puguizen in Google