३४

अथ चतुस्त्रिंशोऽध्यायः।

शौनाशेपासान या क्रिया राजकर्तृकाः ।

तद्विशेषविधानार्थमध्यायोऽत्र प्रवक्ष्यते ॥१॥ तत्राऽऽदौ किंचिदुपाख्यानमाह

प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्रे

  • धनुशिशान्तर्गतमधिकमिति प्रतिभाति ॥ 5 GOOgic.

१ प्रथमः खण्डः] . ऐतरेयब्राह्मणम् ।

अमृज्येतां ब्रह्मक्षत्रे अनु दय्यः प्रजा अमृ ज्यन्त हुतादश्चाहुताश्च ब्रह्मैवानु हुतादः क्षत्रमन्वहुताद एता वै प्रजा हुतादो यद्वाह्मणा

अर्थता अहुतादो यद्राजन्यो वैश्यः शूद्रः, इति । पुरा प्रजापतिज्योतिष्टोमाख्यं यज्ञ सृष्ट्वा तदनन्तरं ब्रामणक्षत्रियजातिद्वयं तत ऊर्ध्व हुतादशाहुतादश्चेत्युभयविधाः मजा असृजत । तत्र ब्राह्मणजातिमे बानु तव्यक्तिभूता हुतादः मृष्टाः । क्षत्रियजातिमनु तव्यक्तिसजातीया अहु तादः प्रजाः सृष्टाः । ये ब्राह्मणाः सन्त्येताः प्रजा आत्विज्यसद्भावाद्धतशेषम दन्ति भक्षयन्तीति हुतादः। ये राजन्यवैश्यशूद्रा एताः प्रजा आत्विज्याभावा चुतशेष न भक्षयन्तीत्यहुतादः । इत्यं यज्ञं चतुरो वर्णाश्च स प्रजापतिः सृष्टवान् ।

अथ सृष्टस्य यास्य वृत्तान्तमाह

ताभ्यो यज्ञ उदकामत्तं ब्रह्मक्षत्रे अन्वैतां यान्येव ब्रह्मण आयुधानि ब्रह्मान्वैद्यानि क्षत्रस्य तैः क्षत्रमेतानि वै ब्रह्मण आयु धानि यद्यज्ञायुधान्यथैतानि क्षत्रस्याऽऽयु

धानि यदश्वरथः कवच इषुधन्व, इति । स यास्ताभ्या प्रजाभ्योऽपरक्त उत्क्रम्य दूरेगच्छत् । तं गच्छन्तं यई ग्रामणजातिक्षत्रियजाती द्वे अन्वैतां पश्चादगच्छताम् । ब्राह्मणस्य योग्यानि यान्यायुधानि तैः सह क्षत्रियजातियज्ञमन्वगच्छत् । क्षत्रियस्य योग्यानि यान्यायुधानि तैः सह क्षत्रियजातियज्ञमन्वगच्छत् । यानि यज्ञायुधत्वेन शाखा न्तरे भूयन्ते-‘स्फचच कपालानि चामिहोत्रहवणी च शूर्प च कृष्णाजिनं च शम्यारम्या) चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै दश यहायुधानि’ इति, तान्येव प्रामणजातेरुचितान्यायुधानि । योऽयमश्वयुक्तो रथो यश्च कवचो यदपि वाणयुक्तं धनुरेतान्यपि क्षत्रियजातेरुचितान्यायुधानि ।

यामनुगच्छन्त्यो मणक्षत्रियजात्योर्मध्ये प्रामणजातेर्यक्षमाप्तिं दर्शयति

तं क्षत्रमनन्वाप्य न्यवर्तताऽऽयुधेभ्यो ह स्मास्य विजमानः परावैयथैनं ब्रह्मान्वैत्तमामोत्तमाप्वा.

1601111447

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३४चतुस्लिं ध्याये परस्तानिरुध्यातिष्ठत्स आप्तः परस्ताविरुदस्ति प्रज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत तस्मादा.

प्येतर्हि यज्ञो ब्रह्मण्येव ब्राह्मणेषु प्रतिष्ठितः, इति । क्षत्रं क्षत्रियजातिस्तं यज्ञमनन्वाप्यानुगमनेन प्राप्तिमलब्ध्वा तस्मादनुगमना ज्यवर्तत । यज्ञोऽस्य क्षत्रियस्याऽऽयुधेभ्यो धनुरादिभ्यो विजमानो भीति प्राम वन्पराव पुनरावृत्तिरहित एवैति स्म पलाय्य दूरे गतः । अथानन्तरमेन यां ब्रह्म ब्रामणजातिरन्वदन्वगच्छत् । अनुगम्य च तं यजमामोति स्म। आप्त्वा च तं यज्ञमतिक्रम्य परस्तात्परभागे निरुध्य यागमनं प्रतिबुध्यातिष्ठत् । अत्र या आप्तस्तथा ब्रामणजात्या मासः परस्तात्परभागे निरुदो गमनात्मतिबद स्तत्रैव तिष्ठन्ब्राह्मणस्य हस्ते स्फ्यकपालादीनि स्वकीयान्यायुधानि ज्ञात्वा बामणजाति प्रत्युपावर्तत समीप आगच्छत् । यस्मादेवं तस्मादिदानीमपि यज्ञो ब्रह्मण्येवाऽऽत्विज्ययोग्यायां ब्राह्मणजातावेव तत्रापि प्रयोगकुशलेषु ब्राह्मणेषु प्रतिष्ठितो वर्तते ।

अथ क्षत्रियस्य यसमाप्ति दर्शयति

अथैनक्षत्रमन्वागच्छत्तदब्रवीदुप माऽस्मि न्यज्ञे हयस्वेति तत्तथेत्यब्रवीत्तदै निधाय स्वान्यायुधानि ब्रह्मण एवाऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तस्वेति तथेति तत्क्षत्रं निधाय स्वान्यायुधानि ब्रह्मण एवाऽऽ युधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत तस्मादाप्येतर्हि क्षत्रियो यजमानो निधायैव

स्वान्यायुधानि ब्रह्मण एवाऽऽयुधैर्ब्रह्मणो रूपेण - ब्रह्म भूत्वा यज्ञमुपावर्तते ॥ १९ ॥ इति ।

अथ ब्रामणस्य यामारनन्तरमेनहम प्रामणजाति क्षत्रं : क्षत्रियजातिर न्वागच्छत् । आगत्य च तहम प्रत्येवमब्रवीत् । हे ब्राह्मण मा क्षत्रियमस्मि न्या उपहयस्वानुजानीहि मामाहूय यझेन संयोजयेत्यर्थः । तदुत्तो कार्य तथैवा. स्त्विति प्रामणोऽब्रवीत् । उक्त्वा च क्षत्रियायैवं बुद्धिमदानं कृतवान् । हे क्षत्रिय सबै तथा सति तव यामाप्तावपेक्षायां सत्यां स्वकीयानि धनुरादीन्या

२ द्वितीयः खण्डः ] ऐतरेयब्राह्मणम् । युधानि कचित्स्थापनीयानि। तान्यवस्थाप्य बामणस्यैव योग्यैः स्फ्यकपाला घायुधैामणस्य योग्येन शान्तिश्रद्धालुत्वयुक्तेन रूपेण वेषेण च युक्तो ब्रह्म भूत्वा ब्रामणसदृशो भूत्वा यज्ञं प्रत्युपावर्तस्वति । तत्क्षत्रं स च क्षत्रियस्तयेत्य. श्रीकृत्य स्वकीयानि धनुरादीन्यायुधानि परित्यज्य शान्तवेषेण यहं प्राप्तवान् । यस्मादादिसृष्टावेवं संपनं तस्मादिदानीमपि क्षत्रियो ब्रामणवेषेण धनुरादि रहितेन यज्ञमनुतिष्ठति ॥

इति श्रीमत्सापणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयत्रामण.

भाष्ये चतुर्विंशाध्याये प्रथमः खण्डः ॥१॥ (१९) [१४२]

.

y

क्षत्रियस्य यज्ञप्राप्तिमुक्त्वा देवयजनलाभं वक्तुं प्रश्नमुद्भावयति

अथातो देवयजनस्यैव याच्चस्तदाहुर्यद्वाह्मणो राजन्यो वैश्यो दीक्षिष्यमाणः क्षत्रियं देवय

जनं याचति के क्षत्रियो याचेदिति, इति । अथ क्षत्रियस्य यज्ञेच्छानन्तरं यतो देवयजनमपेक्षितमतः कारणादेवयजन स्यैव देवा इज्यन्ते यस्मिन्देशे स देवयजनस्तस्यैव याच्यो याचनमभिधीयत इति शेषः । तत्तत्र देवयजने ब्रह्मवादिनः प्रश्नमाहुः । यद्यस्मात्कारणाद्राम. णादयस्त्रयो वर्णाः क्षत्रियमभिषिक्तं राजानं प्रति देवयजनं याचन्ति तस्माद्रा शोऽपि देवयजनो याचितव्यः। क्षत्रियो राजा कमन्यं स्वामिनं याचे दिति प्रश्नः।

तस्योत्तरमाह

देवं क्षत्रं याचेदित्याहुरादित्यो वै देवं क्षत्र

मादित्य एषां भूतानामधिपतिः, इति । राजो मनुजेषु मध्ये स्वाम्यन्तराभावेऽपि देवसंबन्धिक्षत्रियजातेः स्वामि त्वाचव याचनमुचितमित्युत्तरमाहुः। योऽयमादित्योऽस्ति असावेव दैवं देवसंवन्धि क्षत्रं क्षत्रियजातिरयमादित्य एषां माणिनां तमोनिवारणेनाधि ठाता पालयिवा । ततः स्वामित्वात्तत्समीपे याचनमुचितम् ।

तस्य प्रकारं दर्शयति

-स यदहर्दीक्षिष्यमाणो भवति तदहः पूर्वाह्न

1601111447

सी.

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३४चतुस्लिं ध्याये एवोधन्तमादित्यमुपतिष्ठेतेदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमम् । देव सवितर्देवयजनं मे देहि

देवयज्याया इति देवयजनं याचति, इति । स राजा यस्मिन्नेवाहनि दीक्षितुमुयुक्तस्तस्याहः पूर्वाहकाल एवोधन्तमूर्ख गच्छन्तमादित्यमृग्यजुामुपतिष्ठेत । इदं श्रेष्ठमित्यृचः प्रतीकं देव सवितरि त्यादिकं यजुषः । हे देव सवितर्देवयज्यायै देवसंबन्धियागार्य मे महं देवय. जनं देवोचितयागदेशं देहीत्यनेन प्रकारेण देशं याचेत् । ऋचोपस्थानं यजुषा याचनमिति व्यवस्थया द्रष्टव्यम् ।

राजा याचितस्याऽऽदित्यस्य प्रत्युत्तरं संपादयति

स यत्तत्र याचित उत्तरां सर्पयों

तथा ददामीति हैव तदाह, इति । आदित्यो यदि तत्र तदानीमनेन राजा याचितः सनुत्तरी यत्र स्वयं तिष्ठति तस्मादनन्तरभाविनी दिशं प्रति सर्पति गच्छेत्तदानीं तत्वेन सर्पणेनों तथा ददामीत्येवमुत्तरमाह बूते । लोकेऽपि पृष्टः पुरुषो वाचा वा हस्तशिरथा. लनादि(दि)ना वोचरं प्रयच्छति तद्वदत्रापि सर्पणमेवोत्तरमस्तु । सर्पणस्याभि प्राय ओं तया ददामीत्यनेन कथितः । ओं त्वयुक्तमही करोमि तथा तेनैव प्रकारेण देवयजनं ददामि ।

तामेतां देवयजनयाच्या प्रशंसति

तस्य ह न काचन रिष्टिर्भवति देवेन सवित्रा प्रसुतस्योत्तरोत्तरिणी ह श्रियमश्नुतेऽश्नुते ह प्रजा नामैश्वर्यमाधिपत्यं य एवमुपस्थाय याचित्वा देव यजनमध्यवसाय दीक्षते क्षत्रियः सन् ॥२०॥ इति । यः पुमान्क्षत्रियः खयं राजा सभेवमृचाऽऽदित्यमुपस्थाय यजुषा याचित्वा ततो देवयजनं निश्चित्य दीक्षते दीक्षां मामोति तस्य रामः सवित्रा देवेन प्रसूतस्यानुज्ञातस्य रिष्टिहिंसा काचन काचिदपि न भवति । न केवलं हिंसा. राहित्यं किंतूत्तरोत्तरिणी दिने दिने वर्धमानां श्रियमभुते मामोति । किंच

इदं श्रेष्ठं ज्योतिषां न्योतिरुत्तमं०-१०-१७१-३।

‘.

"

३ तृतीयः खण्डः] ऐतरेयत्रामणम् ।

८६५ प्रजानां सर्वासामैश्वर्यमीश्वरत्वं नियमनसामर्थ्यमाधिपत्यमधिष्ठाय पालयि तत्वं तत्चद्योगक्षेमसंपादनमभुते पामोति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

णभाष्ये चतुर्विंशाध्याये द्वितीयः खण्डः ॥२॥(२०) [१४३] वस्यैव क्षत्रियस्य होमं विधत्ते

अथात इष्टापूर्तस्यापरिज्यानिः क्षत्रियस्य यजमा नस्य स पुरस्तादीक्षाया आहुतिं जुहुयाचतुर्ग्रही तमाज्यमाहवनीय इष्टापूर्तस्यापरिज्यान्यै, इति । अथ देवयजननिश्चयानन्तरं यस्मादनुष्ठेयस्येष्टापूर्तस्यापरिग्यानिर्विनाशा. भावोऽपेक्षितः । अतः कारणायजमानस्य क्षत्रियस्य राज इष्टापूर्तापरिज्यानि संज्ञको होमोऽभिधीयत इति शेषः ।

इष्टापूर्तशब्दार्यः पूर्वाचार्दर्शितः

“वर्णाश्रमान्वयी धर्म इष्टं पूर्तमथेतरन् ।

प्रपातटाकादिरूपं तच सर्वत्र दृश्यते ॥

स्मात पूर्त श्रौतमिष्टमिति केचिदिहोचिरे” इति । स राजा दीक्षायाः पूर्वमाहुतिं जुहुयात् । चतुर्ग्रहीतमाज्यं द्रव्यमाहवनीयो होमस्थानमनुष्ठेयस्येष्टापूर्तस्य फलपर्यवसायित्वलक्षणो विनाशाभावः प्रयो। जनम् ।

होमे मचं दर्शयति

पुनर्न इन्द्रो मघवा ददातु ब्रह्म

पुनरिष्टं पूर्त दात्स्वाहेति, इति । पुनर्न इत्यादिकमृचः प्रतीकं ब्रह्मेत्यादिकं यजुः । ब्रह्म वेदरूपो मन इष्टं पूर्व यथोक्तलक्षणं पुनीत, भूयो भूयो ददातु । तदर्थमिदं स्वाहा

1

.

हुतमस्तु।

दीक्षणीयेष्टेः पूर्वकालीनं होम विधायानुबन्ध्याख्यपशोरुचरकालीनं हो विषते

अानूबन्ध्याय समिष्टयजुषामुपरिष्टात्पुन! अमिर्जा

.क. . भ. बानुब Aptite is GOOgic.

८६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३४चतुषि ध्याये

तवेदा ददातु । क्षत्रं पुनरिष्टं पूर्त दात्स्वाहेति, इति । अथ भाचीनहोमकथनानन्तरमुच्यत इति शेषः । अनुवन्ध्याया अनुबन्ध्या. ख्यपशोः संबन्धीनि यानि त्रीणि समिष्टयपि सन्ति तेषामुपरिष्टाज्जुहुया. दिति शेषः । पुनर्न इत्युचः प्रतीकम् । इयं पूर्वोक्ता चेत्युग्द्वयं शाखान्तरगतम् । सत्रं क्षत्रियजातिरिष्टं पूर्व च पुनर्दान्यो ददातु तदर्य स्वाहुतमिदमस्तु ।

पूर्वोत्तरकालीनमाहुतिद्वयं प्रशंसति

सैषेष्टापूर्तस्यापरिज्यानिः क्षत्रियस्य यजमा

नस्य यदेते आहुती तस्मादेते होतव्ये ॥२१॥ योऽयं क्षत्रियो राजा यजमानस्तस्यैते पूर्वोत्तरकालीने आहुती विद्यते । सैषाऽऽहुतिक्रियेष्टस्य पूर्तस्य चापरिज्यानिरविनाशहेतुस्तस्मात्कारणादेते उमे आहुती होतव्ये ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयबामण ___ भाष्ये चतुस्विंशाध्याये तृतीयः खण्डः ॥३॥ (२१) [१४४]

अथ प्रकारान्तरेणाऽऽहुतिद्वयं विधचे

तदु ह स्माऽऽह सौजात आराहळिरजी तपुनर्वण्यं वा एतद्यदेते आहुती इति यथा ह कामयेत तथेते कुर्याद्य इतोऽनु

शासनं कुर्यादितीमे खेव जुहुयाव, इति । तदु ह तत्रैव पूर्वोक्तहोमस्थाने सौजातनामकः कधिषिः स चाऽऽराळ नामकस्य पुत्र एवमुवाच । कथमिति तदुच्यते । एते वक्ष्यमाणे आहुती इति यदस्ति तदेतदजीतपुनर्वण्यं वै नष्टमपात वा यद्वस्तु तदेतदजीतं तस्य पुनरपि बनसाधन प्राप्तिकारणमजीतपुनर्वण्यं वक्ष्यमाणमाहुतिद्वयमेतत्रामकमित्यर्थः । इति यदेतत्सौजातस्य मतं तदेव ययेत्यादिना प्रशस्यते । यः पुमानितः सौजा. तवाक्यादनुशासनमुपदिष्टमनुष्ठानं कुर्यात्स पुमान्यथा येनैव प्रकारेण कामयेत तथा तेनैव प्रकारेण सिदं फलमुदिश्यैते कुर्यात् । एतदनुष्ठानेन काम्यमानं फलं सिध्यति । तस्मात्कारणादिमे एवाऽऽहुती जुहुयाम तु पूर्वे ।

तत्र दीक्षणीयेष्टेः प्राचीनहोममचं दर्शयति

ब्रह्म प्रपद्ये ब्रह्म मा क्षत्रागो-kogle.

८६७

४ चतुर्थः खण्डः] ऐतरेयबामणम् ।

पायतु ब्रह्मणे स्वाहेति, इति । ब्रह्म ब्रामणजाति प्रपद्ये रक्षकतया प्रामोमि । ब्रम सा ब्रामणजातिौ सत्रात्क्षत्रियजाते!पायतु पालयतु । प्रमणे बामणजातये स्वाहुतमिदमस्तु ।

अनेन मणाऽऽहवनीये चतुर्गृहीतमाज्यं जुहुयात् ।

अस्याऽऽहुतेः पूज्यतां दर्शयति

तत्तदिती, इति। सर्वेऽपि याशिकाः पूज्यहोमप्रसके तदा तदा तत्तदित्येवमेतदेवानुष्ठानमुदा हरन्ति । पूजार्या सानुनासिका प्लुतिः। .

अथ मवतात्पर्य दर्शयति

ब्रह्म वा एष प्रपद्यते यो यज्ञं प्रपद्यते ब्रह्म वै यज्ञो यज्ञादु ह वा एष पुनर्जायते

यो दीक्षते तं ब्रह्म प्रपन्नं क्षत्रं न परिजि. नाति ब्रह्म मा क्षत्रानोपायखित्याह यथैनं ब्रह्म क्षत्राद्रोपायेद्ब्रह्मणे स्वाहेति तदेन

स्पीणाति तदेनत्प्रीत क्षत्रानोपायति, इति । पः पुमान्यङ्गं प्रपद्यते प्रारभत एष पुमान्ब्रह्म वै ब्राह्मणजातिमेव मारभते । ब्रह्म वै ब्राह्मणजातिरेव यस्तया जात्या साध्यत्वात् । एवं सति यः पुमान्दीक्षते दीक्षां पामोति एष पुमान्पूर्व जातोऽपि यज्ञादु ह वा अनुष्ठी यमानायज्ञादेव पुनरपि जायते । ब्रह्म प्रपत्रं यज्ञोपक्रमेण यज्ञरूपब्रामणजाति अपनं तं यजमान क्षत्रं क्षत्रियजातिर्न परिजिनाबि नैव हिनस्ति । एतावता ब्रम प्रपद्य इत्यस्य मत्रपादस्य तात्पर्य दर्शयति । यस्तु मध्यमो मचभागोब्रम मा क्षत्रागोपायत्वित्येवं ब्रूते तस्मिन्मागे ब्राह्मणजातिरेनं यजमानं क्षत्रियजा वेर्यथा गोपायेद्रक्षेत्तथा स मध्यमभागो ब्रूते । ब्रह्मणे स्वाहेत्येताहशो यस्तृती यंभागस्तत्वेन भागेन ब्रह्म ब्राह्मणजाति मीणाति तर्पयति । तदेतहम भीतं सघजमानं क्षत्रियजातेोपायति रतति ।

पूर्वकालीनं होमं विधायोत्तरकालीनं होमं विधत्ते

अानूबन्ध्यायै समिष्टयजुषामुपरिष्टाव, इति ।

१ क.अ. भ. पानुव । tirsaniy

C ogle

८६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३४चतुनि ध्याये

पूर्ववव्याख्येयम् । तस्मिन्होमे मत्रं तदीयतात्पर्य च दर्शयति

क्षत्रं प्रपद्ये क्षत्रं मा ब्रह्मणो गोपायतु क्षत्राय स्वाहेति तत्तदिती क्षत्रं वा एष प्रपद्यते यो राष्ट्र प्रपद्यते क्षत्रं हि राष्ट्रं तं क्षत्रं प्रपत्रं ब्रह्म न परिजिनाति क्षत्रं मा ब्रह्मणो गोपायखियाह यथेनं क्षत्रं ब्रह्मणो गोपायेक्षत्राय स्वाहेति तदे

नत्मीणाति तदेनत्पीतं ब्रह्मणो गोपायति, इति । पालनीयो देशो राष्ट्र तश्च क्षत्रियेण पालनीयत्वात्मनस्वरूपम् । अन्यत्सर्व ब्रमवाक्यवयाख्येयम् ।

तदेतदाहुतिद्वयं प्रशंसति

सैषेष्टापूर्तस्यैवापरिज्यानिः क्षत्रियस्य यजमानस्य यदेते आहुती तस्मादेते एव होतव्ये ॥ २२॥ इति । पूर्वोक्ताहुतिदयविषयवाक्यवव्याख्येयम् । एवकारः पूर्वोक्ताहुतिदयव्या त्यर्थः । एतदेव सौजाताख्यस्य महर्मतं प्रशस्तम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

भाष्ये चतुस्त्रिंशाध्याये चतुर्थः खण्डः ॥४॥ (२२)[ १४५]

सत्रियस्याऽऽहवनीयोपस्थानं विधातुं प्रस्तौति

अथैन्द्रो वै देवतया क्षत्रियो भवति त्रैष्टुभश्छ न्दसा पञ्चदशः स्तोमेन सोमो राज्येन राजन्यो बन्धुना स ह दीक्षमाण एव ब्राह्मणतामभ्यु. पति यत्कृष्णाजिनमध्यूहति यहीक्षितव्रतं चरति यदेनं ब्राह्मणा अभिसंगच्छन्ते तस्य ह दीक्षमाणस्येन्द्र एवेन्द्रियमादत्ते त्रिष्टुब्बीर्य पञ्चदशस्तोम आयुः सोमो राज्यं पितरो यश५ पञ्चमः खण्डः] ऐतरेयबामणम् ।

८६९ स्कीर्तिमन्यो वा अयमस्मद्भवति ब्रह्म वा अयं

भवति ब्रह्म वा अयमुपावर्तत इति वदन्तः, इति । अथ होमकथनानन्तरमुपस्थानमुच्यत इति शेषः। योऽयं क्षत्रियोऽस्ति सोऽयं देवतयैन्द्रोवाइन्द्रसंबन्ध एव भवति।देवतानां मध्य इन्द्रःक्षत्रियस्याभिमानिनी देवतेत्यर्थः। तथा छन्दसा त्रैष्टुभश्छन्दसां मध्ये त्रिष्टुवेतदभिमानिनी स्तोमानां मध्ये पश्चदश एतदभिमानी । राज्येन निमित्तेनायं सोमरूपः सोम एव तदी पराज्याभिमानी । बन्धुना पितृपितामहादिबन्धुवर्गेण राजन्यो राजजातीयः। एवं सति स ह स खलु क्षत्रियो दीक्षमाण एव दीक्षा स्वीकुर्वमेव ब्रामणत्व जाति मामोति । कथमिति तदुच्यते । ब्राह्मणयजमानवत्कृष्णाजिनमध्यूहत्या. च्छादयतीति यदस्ति तथा दीक्षितव्रतं मुष्टिबन्धनवानियमादिकं चरतीति यदस्ति तथा ब्रामणा ऋत्विजो भूत्वैनं क्षत्रियमभितः संगच्छन्ते संगता भव न्तीति यदस्ति तेन सर्वेण संस्कारेण क्षत्रियो ब्रामण्यं पामोति । तस्य ह तार शस्यैव क्षत्रियस्य दीक्षमाणस्य दीक्षां मामुवत इन्द्रियं चक्षुरादिपाटवमिन्द्र एवाऽऽदत्तेऽपहरति । तथा वीर्य युदादिसामर्थ्यं त्रिष्टुवपहरति । पञ्चदशस्तोम आयुरपहरति । सोमो राज्यमपहरति । पितरो यशस्कीर्तिमपहरन्ति । ऐहिक पुदादिविषयकं यशः । आमुष्मिकी यवदानविषया कीर्तिः । एवमपहरतामि न्द्रत्रिधुवादीनां कोऽभिमाय इति सोऽभिधीयते । अयं क्षत्रियोऽस्मदिन्द्रा दिभ्योऽन्य एव स्वतत्र एव भवति । पूर्वमस्मदधीनः साभदानी वागं कुर्व बम वै ब्रामण एवायं भवति । कयमिति तदुच्यते । अयं क्षत्रियो ब्रह्म वै ब्रामणजातिमेव कृष्णाजिनाच्छादनादिभिरुपेत्य वर्तते । तथा सत्यस्मदपेक्षा मन्तरेणैव सर्वपुरुषार्थसाधनसमर्थत्वादस्मदधीनता परित्यज्यान्य एव स्ववत्रो भवतीति स्वाभिमायं परस्परं वदन्तः सर्वमप्येतदीयमपहरन्ति ।

तस्योपद्रवस्य शान्त्यर्थमुपस्थानं विधत्ते

स पुरस्तादीक्षाया आहुति

हुत्वाऽऽहवनीयमुपतिष्ठेत, इति । दीक्षणीयेष्टेः पूर्वोक्तामाहुति हुत्वा तत्राऽऽहवनीयं वक्ष्यमाणेन मत्रेणो. पतिष्ठेत ।

तं मनं दर्शयति

नेन्द्रादेवताया एमि न त्रिष्टुभश्छन्दसो न oogle

श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्-[३४चतुनि ध्याषे पञ्चदशात्स्तोमात्र सोमाद्राज्ञो न पिण्याव धोर्मा म इन्द्र इन्द्रियमादित मा त्रिष्टुब्वीर्य मा पञ्चदशस्तोम आयुर्मा सोमो राज्यं मा पितरो यशरकीर्तिं सहेन्द्रियेण वीर्येणाऽऽ युषा राज्येन यशसा बन्धुनामि देवता मुपैमि गायत्री छन्दनिहतं स्तोमं सोमं

राजानं ब्रह्म प्रपद्ये ब्राह्मणो भवामीति, इति । क्षत्रियोऽहमिन्द्ररूपाया मदीयदेवताया नैमि पृथग्भूतो न गच्छामि । तथा मय्यभिमानिभ्यश्छन्दस्तोमराजबन्धुभ्यो नापगच्छामि । अपमिन्द्रो मदीय मिन्द्रियं माऽऽदित माऽपहरतु । तथा त्रिष्टुवादयो वीर्यादीन्मापहरन्तु । तेषामिन्द्रादीनामनुग्रहमिन्द्रियादिभिः सहावस्थितो भूत्वा वत्पालनसमर्थमधि देवतामुपैमि । तथा गायत्रीत्रिवृत्स्तोमवालणजाती: प्रपधे मामोमि। तेषाम ग्न्यादीनामनुग्रहाद्रामणो भवामि । __ अनेन मत्रेण यदुपस्थानं तत्मशंसति

तस्य ह नेन्द्र इन्द्रियमादत्ते न त्रिष्टुब्बीर्य न पञ्चदशस्तोम आयुर्न सोमो राज्यं न पितरो यशस्कीति य एवमेतामाहुति हुत्वाऽऽहवनी

यमुपस्थाय दीक्षते क्षत्रियः सन् ॥२३॥ इति । यः पुमान्क्षत्रियजातियुक्तः सधुक्तक्रमेण दीक्षायाः प्राचीनामाहुति हुत्ता नेन्द्रादित्यादिमत्रेणाऽऽहवनीयमुपस्थाय पश्चादीक्षा पामोति तस्य क्षत्रियस्ये. न्द्रियादीनिन्द्रादयो नापहरन्ति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण. भाष्ये चतुर्विंशाध्याये पञ्चमः खण्डः ॥५॥ (२३) [१४६]

पूर्वहोमानन्तरमुपस्थानं विधायोचरहोमादूर्ध्वमुपस्थानं विधातुं प्रस्तौति

अथाऽऽग्नेयो वै देवतया क्षत्रियो दीक्षितो मवति गायत्रश्छन्दसा त्रिवृत्स्तोमेन ब्राह्मणो

१ षष्ठः खण्डः] ऐतरेयबामणम् ।

बन्धुना सहोदवस्यनेव क्षत्रियतामभ्युपैति तस्य होदवस्यतोऽग्निरेव तेज आदत्ते गायत्री वीर्य त्रिवृत्स्तोम आयुर्ब्राह्मणा ब्रह्म यशस्कीर्ति मन्यो वा अयमस्मद्भवति क्षत्रं वा अयं भवति

क्षत्रं वा अयमुपावर्तत इति वदन्तः, इति । अथ पूर्वोपस्थानानन्तरमुत्तरोपस्थानं वक्ष्यत इति शेषः । अयं यजमान: पुरा क्षत्रियोऽपीदानी दीक्षितः सन्ब्रामण्यं प्राप्य देवतयाऽमिसंबद्धो भवति । अमिरस्य ब्राह्मणस्य स्वामी । एवं गायत्रीत्रिहामणजातिसंवन्धो द्रष्टव्यः । ताश इदानी ब्राह्मणः सचुदवस्यवोदवसानीयेष्ट्या सोमयागं समापयमेव ब्राह्मण्यं परित्यज्य क्षत्रियत्वं मामोति । तस्मादु(तस्यो)दवसानीयेष्टिं कुर्वतो यजमानस्य तेजामभृतीनग्न्यादयोऽपहरन्ति । ब्रह्म वेदस्तध्ययनमैहिकं यश स्तदनुष्ठाननिमित्ताऽऽमुष्मिकी कीर्तिः । अपहरतामग्न्यादीनां कोऽभिमाय: सोऽभिधीयते । अयमिदानी ब्रामणः सबस्मदन्यः स्वतत्रो भवति । अयं सत्रं वै क्षत्रिय एव भवति । तदपि कथमिति तदुच्यते । अयं यागकाले प्रामणः सन्यागादूर्व ब्रामण्यं परित्यज्य स्वकीयां क्षत्रियजातिमेवोपेत्य पर्वते । तस्मादस्यास्मयोऽन्यत्वमिति परस्परं वदन्तोऽग्न्यादयस्तेजआदी. नपहरन्ति ।

तच्छान्त्यर्थमुपस्थानं विधत्ते

सोऽनूबन्ध्याय समिष्टयजुषामुपरिष्टाढ

त्वाऽऽहुतिमाहवनीयमुपतिष्ठेत, इति । पूर्ववव्याख्येयम् । तत्रोपस्थाने मन्त्रमाह

नार्देवताया एमि न गायच्याश्छन्दसो न त्रिवृतः स्तोमान ब्रह्मणो बन्धोमी मेऽनिस्तेज आदित मा गायत्री वीर्य मा त्रिकृत्स्तोम आयुर्मा ब्राह्मणा ब्रह्म यशस्कीर्ति सह तेजसा वीर्येणाऽऽयुषा ब्रह्मणा यशसा कीत्येन्द्रं देवता

१. स. म. तोऽस्य यो। २ क. अ. सोऽनुव | Maize in Google

८७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[३४चतुनि ध्याये

मुपैमि त्रिष्टुमं छन्दः पञ्चदशं स्तोमं सोमं राजानं क्षत्रं प्रपद्ये क्षत्रियो भवामि । देवाः पितरः पितरो देवा योऽस्मि स सन्यजे। स्वं म इदमिष्टं स्वं पूर्व स्वं श्रान्तं स्वं हुतम् । तस्य मेऽयमग्निरुपद्रष्टाऽयं वायुरुपश्रोताऽसावादि

योऽनुख्यातेदमहं य एवास्मि सोऽस्मीति, इति । अत्र नामेर्देवताया इत्यादि क्षत्रियो भवामीत्यन्तं पूर्वमन्त्रवयाख्येयम् ।। देवा अग्न्यादयः पितरः पालका पूर्य शृणुतेति शेषः। पितरो देवा इति पुनर्वचनमादरार्थम् । भवदनुग्रहाकृष्णाजिनाच्छादनादिसंस्कारेण यो ब्राम णोऽस्मि यसमाप्तिपर्यन्तं स एव ब्राह्मणः सन्यजे यागं कुर्वे । मे ममेदमिष्ट श्रोतं कर्म स्वं स्वाधीनं जातम् । तथा पूर्त स्मार्तमपि कर्म स्वं स्वाधीन जातम् । तथा श्रान्तं श्रमरूपं तपोऽपि स्वं स्वाधीनं जातम् । हुतमन्यदपि काम्यहोमादिकं स्वं स्वाधीनं जातम् । तस्य ताशस्येष्टापूतोदियुक्तस्य मे ममायं भूलोकावस्थितोऽनिरुपद्रष्टा समीपे स्थित्वा साक्षित्वेनावलोकयिता। अयमन्तरिक्षावस्थितो वायुरुपश्रोता तस्यायेमुखादस्मवृत्तान्तं श्रोष्यति । असो पुलोकावस्थित आदित्यस्तं वायुमनु पश्चात्ख्याता स्वर्गलोके कथयिष्यतीदं कमोहं कृतवानिति । एवं फलपर्यन्तं कर्मणि समाते सति कर्मोपक्रमात्पूर्व व एव लत्रियोऽस्मि स एवोज़ क्षत्रियो भूत्वा तिष्ठामीति ।

अनेन मत्रेण यदुपस्थानं तत्मशंसति

तस्य ह नानिस्तेज आदत्ते न गायत्री वीर्य न त्रिवृत्स्तोम आयुर्न ब्राह्मणा ब्रह्म यश स्कीर्ति य एवमेतामाहुति हुत्वाऽऽहवनीयमुप

स्थायोदवस्यति क्षत्रियः सन् ॥ २४ ॥ इति । पूर्व तस्य ह नेन्द्र इन्द्रियमित्यादि यद्वाक्यमुक्तं तद्ब्याख्येयम् ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णभाष्ये चतुर्विंशाध्याये षष्ठः खण्डः ॥ ६ ॥ (२४) [१४७]

क. स. म. र्यन्तक

medias

७ सप्तमः खण्डः] ऐतरेयब्राह्मणम् ।

क्षत्रियस्य दीक्षितत्वावेदनमन्त्रे संदेहात्मश्नमुद्भावयति

अथातो दीक्षाया आवेदनस्यैव तदाहुर्यद्वाह्म णस्य दीक्षितस्य ब्राह्मणोऽदीक्षिष्टेति दीक्षा

मावेदयन्ति कथं क्षत्रियस्याऽऽवेदयेदिति, इति । अथ दीक्षानन्तरं देवानां मनुष्याणां चाग्रे यत एतदीयदीक्षा कथनीयाऽत: कारणाहीक्षाया आवेदनस्य प्रकटीकरणस्यैव कश्विनिर्णय उच्यते । तत्र तस्मि भावेदने संदिहाना ब्रह्मवादिनः प्रश्नमाहुः। ब्राह्मणस्य दीक्षाया अर्ध्वमदी शिष्टायं ब्राह्मण इति मन्त्रेण दीक्षा प्रख्यापनीया । तथा च तैत्तिरीया आम नन्ति–‘अदीक्षिष्टायं ब्रामण इति त्रिरूपांश्वाऽऽह देवेभ्य एवैनं प्राह त्रिरु

रुभयेभ्य एवैनं देवमनुष्येभ्यः प्राहेति । एवं सति क्षत्रियस्य दीक्षावेदने किमस्मिन्मने ब्राह्मणशब्दः क्षत्रियपरत्वेनोहनीय आहोस्विदविकृत एव पठ•

नीय इति प्रश्नाभिमायः।

वत्रोत्तरमाह

यथैवैतद्वाह्मणस्य दीक्षितस्य ब्राह्मणोऽदी शिष्टेति दीक्षामावेदयन्येवमेवैतत्क्षत्रिय

स्याऽऽवेदयेत्पुरोहितस्याऽऽयेणेति, इति । अत्र शब्दो नोहितव्यः। अविकृत एव ब्रामणशब्दः क्षत्रियदीक्षावेद नेऽपि प्रयोक्तव्यः । यदि ब्राह्मणप्रवरोऽपेक्षितस्तदानीं पुरोहितस्य ब्रामणस्य संबन्धिनाऽऽयेण प्रयोगः कर्तव्यः । तथा चाऽऽपस्तम्बः क्षत्रियवैश्ययोरपि ब्रामणशब्देनैवाऽऽवेदनं दर्शयति-‘अदीक्षिष्टायं ब्राह्मणोऽसावमुष्य पुत्रोऽ. मुष्य पौत्रोऽमुष्य नप्ताऽमुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नोति बामणो वा एष जायते यो दीक्षते तस्माद्राजन्यवैश्या अपि ब्राह्मण इत्येवाऽऽवेदयति’ इति ।

ईशस्याऽऽवेदनस्य पूज्यतां दर्शयति

तत्तदिती, इति । पूर्ववयाख्येयम् । प्रामणत्वेनाऽऽवेदनमुपपादयति

निधाय वा एष स्वान्यायुधानि ब्रह्मण एवाऽऽयु

धेब्रह्मणो रूपेण ब्रह्म भूखा यज्ञमुपावर्तत तस्मा gfe

१.

८७४ . श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३४चतुस्लिं ध्याये

त्तस्य पुरोहितस्याऽऽर्षेयेण दीक्षामावेदयेयुः पुरो

हितस्याऽऽर्षेयेण प्रवरं प्रवृणीरनु ॥ २५ ॥ इति । स्वान्यायुधानि धनुरादीनि ब्रमण आयुधानि स्फ्यकपालादीनि । यस्मा. स्वायुधपरित्यागपूर्वकं ब्रह्मायुधस्वीकारेण ब्राह्मणो भूत्वा यज्ञ पासवांस्तस्मा तस्य यजमानस्य पुरोहितसंबन्धिना गोत्रेण दीक्षावेदन तथा प्रवरोऽपि विशेयः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण __ भाष्ये चतुस्त्रिंशाध्याये सप्तमः खण्डः ॥७॥ (२५) [१४८]

दर्शपूर्णमासयोर्यजमानभागमाशनं विहितं तदत्र दीक्षणीयादीष्टिषु चोदक माप्त क्षत्रियस्य तत्माशने निर्णय वक्तुं विचारमवतारयति

अथातो यजमानभागस्यैव तदाहुः प्राश्रीयारक्षत्रियो यजमानभागा३म्, न प्राश्नीया३व, इति, इति । दीक्षावेदननिर्णयानन्तरं दीक्षणीयादीष्टयो यतो बुद्धिस्था अतः कारणाचत्र यजमानभागस्यैव प्रकारविशेष उच्यत इति शेषः । तत्तस्मिन्भागे ब्रह्मवादिनो विचारमाहुः । क्षत्रियो ब्रामणवत्कि यजमानभागं मानीयादुत नेति विचा.

राय मुतिद्वयम् ।

पक्षद्वये दोषमुद्भावयति

यत्माश्रीयादहुताद्भुतं प्राश्य पापीयान्स्यायन प्राश्री याद्यज्ञादात्मानमन्तरियाद्यज्ञो वै यजमानभागः, इति । हुतमत्तीति हुतात्तादृशो न भवतीत्यहुतात् । अर्थता अहुतादो यद्राजन्यो वैश्यः शूद्र इति पूर्वमुक्तम् । अतोऽयं क्षत्रियोऽहुतायोग्यतारहितो यदि हुत शेष प्राश्नीयात्तदानीं पापीयानत्यन्तपापयुक्तो भवेत् । अमासनपक्षे तु यज्ञा दात्मानमन्तरियाद्विच्छिन्द्याधजमानभागस्य यहहेतुत्वेन यास्वरूपत्वाचदाग

राहित्ये यज्ञात्स्वयं विच्छिनो भवति । उक्तदोषद्वयं परिहर्तुं पक्षान्तरमाह

स ब्रह्मणे परिहत्यः, इति । १ स. ‘के ब्राह्मणायु । २ म. ‘त्येन य | ees Opic

H

.

< अष्टमः खण्डः] ऐतरेयबामणम् ।

८७५ स यजमानभाग ऋत्विग्विशेषाय ब्रह्मणे परिहत्यः परितः सर्वात्मना समर्पणीयः।

तत्समर्पणे दोषद्वयराहित्यं दर्शयति

पुरोहितायतनं वा एतत्क्षत्रियस्य यद झाऽर्धात्मो ह वा एष क्षत्रियस्य यत्पुरो हित उपाह परोक्षेणैव प्राशितरूपमा

मोति नास्य प्रत्यक्षं भक्षितो भवति, इति । ऋत्विधूपो ब्रह्मेति यदस्त्येतत्क्षत्रियस्य पुरोहितायतनं पुरोहितस्थानम् । पुरोहितो योऽस्त्येष क्षत्रियस्यार्धात्मो ह वा अर्धदेह एव । उ ह वा इति निपा. तसमूहोऽवधारणार्थः । अर्धशरीरस्थानीयपुरोहितरूपेण ब्रह्मणा तस्मिन्भागे भलिते सति परोक्षेणैव व्यवधानेनैव पाशितरूपं माशितसादृश्यं प्रामोत्येव । अहशब्द उपशब्दच मिलित्वाऽवधारणाएँ । अस्य क्षत्रियस्य प्रत्यक्षमव्य. वधानेन स्वमुखे न] स भागो भक्षितो न भवति । एवं सति व्यवधानेन भक्षितत्वाधान्तरायो न भविष्यति स्वमुखेन भक्षणाभावादयं पापीयानपि न भविष्यति ।

ब्रह्मणस्वद्भागमाशनं प्रशंसति

यज्ञ उ ह वा एष प्रत्यक्षं यद्ब्रह्मा ब्रह्मणि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानो यज्ञ एव तद्यज्ञमप्यत्यर्जन्ति यथाऽप्स्वापो यथाऽयावनिं तदै नातिरिच्यते तदेनं न

हिनस्ति तस्मात्स ब्रह्मणे परिहत्यः, इति । पो ब्रह्मास्त्येष प्रत्यक्षमध्यवधानं यथा भवति तथा या उ ह वै यह स्वरूप एव तत्साधकत्वात् । किंच ब्रमण्येव सर्वो याः प्रतिष्ठितो वेदत्रयवै. कल्यपरिहर्तृत्वेन ब्रह्मणो भिषग्रूपत्वस्योक्तत्वात् । तस्मिश्च प्रतिष्ठिते यज्ञे यज मानोऽपि प्रतिष्ठितः । तत्फलभागित्वात् । एवं सति तत्तेन भागमासनेन या एव ब्रमरूपे भागरूपं यामप्यत्यजेन्ति सम्यक्प्रक्षिपन्ति । तत्र दृष्टान्तः । यथा लोकेऽप्सु प्रक्षिप्ता आप एकत्वेन संसृज्यन्ते यथा वाऽमौ प्रक्षिप्तममिमेकीभूत पश्यामस्तथा तद्वै ब्रह्मणा माशितं हविर्नातिरिच्यतेऽतिरिक्तं न भवति ।

८७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३५पञ्चत्रि०घ्याये किंतु यारूपेण ब्रमणा सहैकी भवति । तदेकीभूतं हविरेनं क्षत्रियं न हिनस्ति न बाधते । तस्मात्स यजमानभागो ब्रमणे समर्पणीयः ।

पक्षान्तरमुपन्यस्य दूषयति

अनौ हैके जुह्वति प्रजापतेर्विभानाम लोकस्त स्मिंस्त्वा दधामि सह यजमानेन स्वाहेति तत्तथा न कुर्याद्यजमानो वै यजमानभागो यज मानं ह सोऽग्नौ प्रवृणक्ति य एनं तत्र ब्रूयाद्यज मानमनौ प्रावासः प्रास्याग्निः प्राणान्धक्ष्यति मरिष्यति यजमान इति शश्वत्तथा स्यात्तस्मा

तस्याऽऽशां नेयादाशां नेयात् ॥ २६ ॥ इति । एके याजिकास्तं यजमानभागमनौ जहति । तत्र प्रजापतेरित्यादिको मनः। मजापतेः संबन्धी यो लोकस्तस्य विभानित्येतनामधेयं विशेषेण भातीति तद् व्युत्पत्तेः । यजमानभाग यजमानेन सह त्वां तस्मिल्लोके दधामि प्रतिपामि । तदर्थमिदं स्वाहुतमस्तु । अनेन मवेण यद्धोमानुष्ठानमस्ति तत्तया न कुर्यात् । यजमानभागस्य यजमानस्वरूपत्वेन तस्य भागस्य होमे स होमकर्ता यजमान मेवानौ प्रवणक्ति मक्तं दग्धं करोति । तत्र तदानीं यः शत्रुरागत्यैनं कर्तारं भूयाच्छपेत । कथमिति तदुच्यते । हे होमकर्तस्त्वं यजमानमयो प्रावाीः प्रवक्तवान्दग्धवानसि । अस्य यजमानस्य माणानमिः प्रक. र्षेण धक्ष्यति स यजमानो मरिष्यतीति स शापोऽवश्यं तथैव स्यात् । तस्मात्तस्य होमस्याऽऽशामिच्छामपि नेयान प्रानुयात् । अभ्यासोऽध्यायस. माप्त्यर्थः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण

भाष्ये चतुर्विंशाध्यायेऽष्टमः खण्डः ॥८॥ (२६) [ १४९ ] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्राज्य

धुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये

चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

1601111447

१ प्रथमः खण्डः]

ऐतरेयबामणम् ।