३३

अथ त्रयस्त्रिंशोऽध्यायः।

आहितामेर्पतावनिहोत्राने विकले तथा ॥ प्रायश्चित्मपत्नीकहोम इत्यादि वणितम् ॥ १॥ उक्तं द्वात्रिंशदध्यायैः कर्म वर्णत्रयान्वितम् ॥ अथ त्वष्टभिरध्यायैर्वर्ण्यते राजकर्तृकम् ॥ २॥ तत्र क्रतो राजसूये बहिष्टिपशुसोमके ॥ मध्येऽभिषेचनीयेऽहि शौनापं श्रुतं श्रुतौ ॥३॥ प्रयस्त्रिंशोऽयमध्यायः शौनाशेपेतिनामवान् । हरिश्चन्द्रकया तत्र कथिता बहुपुत्रदा ॥४॥

१ क. स. म. ये हि भौं hease ty, CG00gfe. . .

१ प्रथमः खण्डः] ऐतरेयबामणम् ।

तदेतदुपाख्यानं दर्शयति

हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजाऽपुत्र आस तस्य ह शतं जाया बभूवुस्तासु पुत्रं न लेभे तस्य ह

पर्वतनारदौ गृह ऊपतुः स ह नारदं पप्रच्छ, इति । .. हरिश्चन्द्रो नाम राजर्षिः ‘मस्कण्वहरिश्चन्द्रावषी’ इति पाणिनिना सूत्रित स्वात् । स च वेषसो नृपतेः पुत्र इक्ष्वाकुवंशोद्भवो राजा पुत्रहीन भास। स च शतसंख्यानां जायानां मध्ये कस्यांचिदपि जायायां पुत्रं न लेभे । तस्य राशो गृहे पर्वतनारदनामानौ यावषी तौ निवासं चक्रतुः। तयोर्मध्ये नारदमुषिमेतया गायया राजा पप्रच्छ ।

वां गायां दर्शयति - यं विमं पुत्रमिच्छन्ति ये विजानन्ति ये च न । : किंस्वित्पुत्रेण विन्दते तन्म आचक्ष्व नारदेति, इति ।

ये देवमनुष्यादयो विजानन्ति विवेकज्ञानयुक्ताः । ये च पश्चादयो न विजानन्ति विवेकज्ञानरहिताः । ते सर्वेऽपि नु शिमं यमिमं पुत्रमिच्छन्ति तेन पुत्रेण किंस्विद्विन्दते किंनाम फलं पिता लभते हे नारद मे महं तत्फलमाच स्वेति रामः प्रश्नः।

तस्योचरमवतारयति

स एकया पृष्टो दशभिः प्रत्युवाच, इति । . स नारद एकया गावया पृष्टः सन्दशभिर्गाथाभिः प्रत्युत्तरमुक्तवान् ।

तत्र प्रयमा गाथामाह

ऋणमस्मिन्संनययमृतत्वं च गच्छति । पिता

पुत्रस्य जातस्य पश्येच्चेजीवतो मुखम्, इति । उत्पनस्य मुखेन जीवतः पुत्रस्य मुखं पिता यदि पश्येत्तदानीमस्मिन्पुत्रे स्वकीयमृणं लौकिकं वैदिकं च संनयति । सम्यगवस्थापयति । लौकि कस्यावस्थापनात्पुत्रपौत्रादिभिर्ऋणं प्रत्यर्पणीयमिति स्मृतिकारा आहुः । वैदिकं तु त्रिभिर्कणवा जायत इत्यादिश्रुत्युक्तं पूर्वमेवोदाहृतम् । तस्य च पुत्रा वस्थापन संपचिनामकेन कर्मणा संपद्यते । तच्च कर्म वाजसनेयिभिरान्नातम् अथातः संपचिर्यदा भैष्यन्मन्यतेऽथ पुत्रमार त्वं ब्रम त्वं यास्त्वं

८३६ , श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्-[३३त्रयनिं ध्याये लोक इति । स पुत्रः प्रत्याहाहं अमाहं यशोऽहं लोक इति । ब्रम मया कर्तव्य वेदाध्ययनं मयाऽनुष्ठेया यज्ञाश्च मया संपाचा उत्तमा लोकाश्त्येतत्सर्व पुत्रेण त्वयैव संपादनीयमिति पितृवाक्यस्यार्थः । सर्वमहं संपादयिष्यामीति पुत्रवा क्यस्यार्थः। अत्राप्यारण्यककाण्डे संक्षिप्य संदर्शयिष्यते–‘सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते’ इति । एवमर्ण पुत्र समर्पयति । तथैवास्तत्वं मरणरहितं मुक्तिपदं च गच्छति । पुत्रार्पितलौकिकवैदिकमारस्याविनेन वव. बानसंपादनात् ।

द्वितीयां गाथामाह

यावन्तः पृथिव्यां भोगा यावन्तो जातवेदसि । यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः, इति । पृथिव्यां भोगाः सस्यनिवासादयः। जातवेदस्यमौ भोगा दहनपचना दयः । अप्सु भोगाः स्नानपानादयः। प्राणिनामेते सर्वे भोगा यावन्तः सन्ति सतस्तावयः सर्वेभ्यो भोगेभ्यो भूयानभ्यषिका पितुः पुत्रे भोगो विद्यते ।

अत्यन्तसुखहेतुत्वात् । तथा चाऽऽहु:

‘पुत्रोत्पचिविपतिभ्यां नापरं मुखदुःखयोः’ इति । तृतीयां गाथामाह

शश्वत्पुत्रेण पितरोऽत्यायन्बहुलं तमः । आत्मा

हि जज्ञ आत्मनः स इरावत्यतितारिणी, इति । पितरो जनका उत्पनेन पुत्रेण शश्वत्सर्वदा लोकदयेऽपि बहुलमभ्यषिक तम ऐहिकमामुष्मिकं च दुःखमत्यायमतिकामन्ति । तथा च बौधायन आहे

‘पुदिति नरकस्याऽऽख्या दुःखं च नरकं विदुः ।

पुत्तस्त्राणाततः पुत्रमिहेच्छन्ति परत्र च’ इति । किंच हि यस्मात्कारणापितुः पुत्र उत्पन इत्युक्ते सति पिता स्वस्मात्स्वय मेव जब उत्पन इत्युक्तं भवति । ततः पिता यथा स्वयं स्वकीयं दुःखं बिना. शायति तथा पुत्रोऽप्येतदुःखं विनाशयतीति द्रष्टव्यम् । तस्मात्स पुत्र इराव त्यमयुक्ताऽसितारिणी नदीसमुद्रादेरतितरणहेतुनौरिति शेषः । यया नौदुर्घट नचादिकं तारयत्येवं पुत्रोऽप्यहिकमामुष्मिकं च दुःखं तारयतीत्यर्थः ।

चतुर्थी गाथामाह

किं नु मलं किमजिनं किमुश्मशूणि किं तपः।

1601111447

८१७

१ प्रथमः खण्डः ] ऐतरेयबामणम् ।

पुत्रं ब्रह्माण इच्छध्वंस वैलोकोऽवदावदः, इति। अत्र मलाजिनश्मश्रुतपःशब्दैराश्रमचतुष्टयं विवक्षितम् । मलरूपाभ्यां शुक्ल(क)शोणिताभ्यां संयोगान्मलशब्देन गाईस्थ्यं विवक्षितम् । कृष्णाजि नसंयोगादजिनशब्देन ब्रह्मचर्य विवक्षितम् । क्षौरकर्मराहित्याच्छमधुशब्देन वानप्रस्थ्यं विवक्षितम् । इन्द्रियनियमसद्भावात्तपाशब्देन पारिवाज्यं विव क्षितम् । मलं गार्हस्थ्यं किं नु किं नाम मुखं करिष्यवि न किंचिदित्यर्थः। एवमुत्तरत्रापि योज्यम् । हे ब्रमाणो विमा विपक्षत्रियायाः सर्वे यूयं मुख. हेतुत्वात्पुत्रमिच्छध्वम् । स वै स एव पुत्रोऽवदावदो लोकः। वदितुमयो. ग्यानि निन्दावाक्यान्यवदास्तैवाक्येर्नोधते न कथ्यत इत्यवदावदः। (एवं अंपदेन तेन कथ्यत इति ।) अवदावदो दोषराहित्याभिन्दानई इत्यर्थः । ताडो लोको भोगहेतुः पुत्रः । तस्मादाश्रमेभ्योऽप्याधिक्येन पुत्रेच्छा कर्तव्या । यद्यपि हरिश्चन्द्र एवात्र मष्टा तथाऽपि तेन सह ऋषीणां बना सभायामवस्थानाद्रमाण इति संबोधनम् ।

पश्चर्मी गायामाह

अनं ह प्राणः शरणं ह वासो रूपं हिरण्यं पशवो विवाहाः । सखा ह जाया कृपणं ह ।

दुहिता ज्योतिर्ह पुत्रः परमे व्योमन् , इति। . अमादयो लोके सुखहेतुत्वेन प्रसिदाः । तथा हि शरीरे पाणावस्थिति. हेतुत्वादअमेव प्राणः । वासः शीतोपद्रवादक्षकत्वेन शरणं गृहसमानम् । हिरण्यं कर्णाभरणादिकं दृष्टिमियत्वाद्रूपसंपादकम् । पशवो गवावादयो विवा हविशेषेण निर्वाहकाः। जाया भोमे सहकारित्वात्सखा । सखिस्वरूपैव । एवमेते मुखहेतुत्वेन प्रसिदा अपि तात्कालिकमल्पमेव सुखं प्रयच्छन्ति । दुहिता ह पुत्रीति कृपणं केवलदुःखकारित्वादन्यहेतुः । तथा च स्मर्यते

“संभवे स्वजनदुःखकारिका संपदानसमयेऽर्थहारिका।

यौवनेऽपि बहुदोषकारिका दारिका हृदयदारिका पितुः” इति । पुत्रोह पुत्रस्तु ज्योतिःस्वरूपं तमोनिवारकत्वेन स हि पितरं परमे व्योमधु. स्कृष्ट पाकाशे परब्रह्मस्वरूपेऽवस्थापयति। आकाशस्तल्लिकादित्यनेन व्याससू.

• + धनुचिहान्तर्गतमसंगतम् ।

म. एवमवदें। २. प्रघोन। ३ क. ख. म. ‘न प्रकाशरूपत्वेन स ।

1601111447

१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३३त्रयति ध्याये: प्रेणाऽऽकाशव्योमादिशब्दानां ब्रह्मपरत्वं निर्णीतम् । पुत्रस्य च ब्रममानहे तुत्वं पूर्वमेवामृतत्वं च गच्छतीत्यत्र प्रतिपादितम् ।

षष्ठी गाथामाह

पतिर्जायां प्रविशति गर्भो मूत्वा स मातरम् ।

तस्यां पुनर्नवो भूत्वा दशमे मासि जायते, इति । - पत्युराकारद्वयमस्ति । वर्तमानपुरुषाकार एको रेतोरूपेण गर्भाकारो दितीयः । जायाया अप्याकारद्वयमस्ति । पतिरूपमाकारं प्रति जाया भवति । गर्मरुपमाकारं प्रति माता भवति । अतः स तादृशः पतिः स्वयं रेतोरूपेण गर्मो भूत्वा पूर्वमवस्थितां जायां भविष्यदाकारेण मातरं सती प्रविशति । तस्यां मातरि पुनर्नवो भूत्वा पूर्वमन्यस्यां मातर्युत्पमो जरठः । इदानीं पुन: सनवालो भूत्वा तस्यामिदानीतन्यामस्यां मातरि गर्भपाके सति दशमे मास्यु. त्पयते । तस्मात्पुत्रः स्वस्मादन्यो न भवति ।

सप्तमी गाथामाह

तजाया जाया भवति यदस्यां जायते पुनः।

आभूतिरेषा भूति/जमेतविधीयते, इति । पद्यस्मात्कारणादस्यां गर्भधारिण्यामयं पिता पुत्ररूपेण पुनर्जायते तत्तस्मा कारणाल्लोकमसिद्धा या जायाऽस्ति सा जायतेऽस्यामिति व्युत्पत्त्या जावा शब्दवाच्या भवति । किं चैषा भूत्याभूतिशब्दाभ्यामभिधीयते । भवत्यस्यां पुत्ररूपेण पतिरित्येषा भूतिशब्दवाच्या रेतोरूपेणाऽऽगत्यास्यां पुत्ररूपेण भवतीत्याभूतिशब्दवाच्या। एतदेतस्यां त्रियां बीजं रेतोरूपं निधीयते प्रति प्यते तस्मादुक्ताः शन्दा उपपद्यन्ते । - अष्टमी गाथामाह

देवाश्चैतामृषयश्च तेजः समभरन्महत् । देवा

मनुष्यानब्रुवन्नेषा वो जननी पुनः, इति। : एतामेतस्यां योषिति देवाश्च महर्षयश्च स्वकीय महत्तेजो रेतोरूपं सारं समभरन्पुत्रोत्पादनाय संपादितवन्तः । स्वयमेव संपाच ततो मनुष्यानित सुवन् । हे मनुष्या येयमिदानी जायारूपेण वर्तते सेयं पुनर्वो युष्माकं पुनको जन्मनि जननी भवति । नवी गाथामाह

नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः।।१ द्वितीयः खण्डः] ऐतरेयब्रामणम् ।

तस्मातु पुत्रो मातरं स्वसारं चाधिरोहति, इति। । लोको लोकजन्यं सुखमपुत्रस्य नास्ति । न हि पुत्रदर्शनेन यत्सुखं तदन्य दर्शनेन कचिदपि दृश्यत इति यदस्ति तत्सर्वे गोमहिष्यादयो जानन्ति यस्मा चस्मादेव कारणात्पभुजातौ जातः पुत्रो वत्सः स्वकीयां मातरं भगिनी वा पुत्रोत्पादनार्थमधिरोहति ।

दशमी गाथामाह- .

एष पन्था उरुगायः सुशेवो यं पुत्रिण आक्र मन्ते विशोकाः । तं पश्यन्ति पशवो वयांसि

च तस्मात्ते मात्रापि मिथुनी भवन्ति , इति । पुत्रिणः पुत्रवन्तो देवमनुष्यादयो विशोकाः शोकरहिताः सन्तो यं पन्यानं मुखानुभवरूप मार्गमाक्रमन्ते मामुवन्त्येष पन्थाः पुत्रसुखानुभवरूपो मार्ग उह गाय उरुभिहद्भिः शासक राजामात्यादिभिश्च गीयते । तथा सुशेवः मुटु सेवितुं योग्यः सुखाधिक्यस्य विद्यमानत्वात् । तं पुत्रसुखानुभवरूपं पशवो गवादयो वांसि पक्षिणा संपश्यन्ति जानन्ति । तस्माचे पशुपक्ष्यादयः पुत्र मुखार्थ मात्रा सह मिथुनी भवन्ति किं किमुतान्यथा स्त्रिया सहेत्यर्थः।

नारदेनोको दशमी गायां निगमयति . इति हास्मा आख्याय ॥ १३॥ इति । __ हानेनैव प्रकारेणास्मै तस्मै हरिश्चन्द्रायाऽऽख्यायोचरमभिधायावस्थित

इति शेषः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण

भाष्ये त्रयस्त्रिंशाध्याये प्रथमः खण्डः॥१॥ (१३) [१३६] पुत्रनिमित्तलाभप्रतिपादिका नारदोक्ता दश गाथा उदाहत्य पुत्रजन्मोपा. पोपदेशपरं नारदवाक्यमवतारयति

अथैनमुवाच वरुणं राजानमुपधाव पुत्रो . मे जायतां तेन वा यजा इति , इति । अथ पुत्रेच्छानिमित्तकथनानन्तरमेनं पुत्रार्थिनं हरिश्चन्द्रं नारद उवाच । है परिबन्द्र वरुणं राजानमुपधाव मार्थयस्व । येन प्रकारेण निश्चयः सोऽभिधी

क. ग. घ. स. च. छ. अ. म. “ति ह स्मा। Coonfe

.

.

.

.

.

.

४४. श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१३त्रयस्त्रि ध्याये यते । हे वरुण त्वत्प्रसादान्मे पुत्रो जायतां ततस्तेन पुत्रेण त्वां यजै त्वामु दिश्य यहं करवाणीति ।

प्रार्थनामकारं नारदोपदेशमुक्त्वा हरिश्चन्द्रवृत्तान्तं दर्शयति

तथेति स वरुणं राजानमुपससार पुत्री मे जायतां तेन त्वा यजा इति तथेति

तस्य पुत्रो जज्ञे रोहितो नाम , इति । नारदोपदेशमङ्गीकृत्य हरिश्चन्द्रो वरुणमुपससार प्रार्थयामास । स बरु णोऽपि तथाऽस्त्विति तदीयपुत्रोत्पत्त्यै वरं दत्तवान् । तेन च वरेणोत्पत्रस्य

रोहित इत्येतमामाभूत् ।

अथ बहुभिः पर्यायैर्वरुणस्योक्तिहरिश्चन्द्रस्य प्रत्युक्तिवेत्युभयं प्रतिपाद्यते । बत्र प्रथमं पर्यायं दर्शयति

तं होवाचाजनि वै ते पुत्रो यजस्व माऽ नेनेति स होवाच यदा वै पशुनि देशो भवत्यथ स मेध्यो भवति निर्दशो

न्वस्त्वथ त्वा यजा इति तथेति, इति । तं हरिश्चन्द्रं वरुण उवाच । हे हरिश्चन्द्र ते पुत्रोऽजनि वा उत्पन एवानेन पुत्रेण मामुहिश्य यागं कुर्विति । एवं वरुणेनोक्ते हरिश्चन्द्रः पुनः मत्युवाच । यागार्थः पशुर्यदा निर्देशो भवति तदा स पधुर्मेध्यो यागयोग्यो भवति । निर्ग वान्यशौचदिनानि दशसंख्याकानि यस्मात्पशोः सोऽयं निर्दशः। तस्मादर्य नु क्षिप्रं निर्दशोऽस्तु । अथानन्तरं ला प्रत्यहं यजा इत्येतदाक्यं वरुणस्वथाs. स्त्वित्यही चकार ।

द्वितीयमुक्तिमत्युक्तिपर्यायं दर्शयति

सह निर्दश आस तं होवाच निर्दशो न्वभूद्य जस्व माऽनेनेति स होवाच यदा वै पशो दन्ता जायन्तेऽथ स मेध्यो भवति दन्ता वस्य

जायन्तामथ त्वा यजा इति तथेति , इति । दशदिनाशौचापगमे शुद्धत्वाधया यागयोग्यत्वं तथा दन्तोत्पनत्वादवयव. संपूर्त्या यागयोग्यत्वमित्यभिप्रायः । स्पष्टमन्यत् । drian sy gfe

२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

तृतीयं पर्याय दर्शयति

तस्य ह दन्ता जज्ञिरे तं होवाचाज्ञत वा अस्य दन्ता यजस्व माऽनेनेति स होवाच यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति दन्ता

न्वस्य पद्यन्तामथ त्वा यजा इति तथेति, इति । अबत बै जाता एव । पद्यन्ते पतन्ति । प्रथमोत्पमानादन्तानामस्थायित्वेन मुख्यपषवयवत्वाभावात्तत्पाते सति पशोर्मेध्यत्वम् । ___ चतुर्थ पर्याय दर्शयति

तस्य ह दन्ताः पेदिरे तं होवाचापत्सत वा अस्य दन्ता यजस्व माऽनेनेति स होवाच यंदा वै पशोर्दन्ताः पुनर्जाय न्तेऽथ स मेध्यो भवति दन्ता न्वस्य पुन

र्जायन्तामथ खा यजा इति तथेति, इति । - अपत्सत वै पतिताः । पुनरुत्पनाना दन्तानां स्थिरत्वेन संपूर्णावयवत्वात्प घोर्मेध्यत्वम् ।

पश्चम पर्याय दर्शयति

तस्य ह दन्ताः पुनर्जज्ञिरे तं होवाचाज्ञत वा अस्य पुनर्देन्ता यजस्व माऽनेनेति स होवाच यदा वै क्षत्रियः सांनाहुको भवस्यथ स मेध्यो भवति संनाहं नु प्राप्नोत्वथ त्वा यजा इति तथेति, इति । अहत वै जाता एव । पश्चन्तरस्य पुनर्दन्तोत्पत्तिमात्रेण मेध्यत्वेऽप्यस्य पक्षोः क्षत्रियत्वात्स्वजात्युचितधनुर्बाणकवचादिसंनाहसीलित्वे सति जात्युचि व्यापारसंपूर्ती मेध्यत्वं तस्मानु क्षिप्रमेवासी संनाहं मामोत्वनन्तरमेव यजा इत्युत्तरं वरुणोजी चकार ।

पष्ठं पर्याय दर्शयति

सह संनाहं प्रापत्तं होवाच संनाहं नु ।

प्रामोद्यजस्व माऽनेनेति स तथेत्युक्त्वा Google १०६

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२३त्रयस्त्रिंशाध्याये, पुत्रमामन्त्रयामास ततायं वै मह्यं त्वाम

ददादन्त त्वयाऽहमिमं यजा इति, इति । संनाहमालय स हरिश्चन्द्रो वरुणोक्तिमजीकृत्य पुत्रमामध्यैवमुवाच । उप. लालनार्थ पुत्रे पितृवाचिततशब्दप्रयोगः । हे तत हे पुत्रायमेव वरुणो महं त्वां पुत्रवरेण दत्तवानन्त दुष्टोऽहमिमं वरुणं यखया पुत्रेण यजै यागरूपां पूजा करवाणीति हरिश्चन्द्रस्योक्तिः।।

अथ रोहितनानः पुत्रस्य कृत्यं दर्शयति

स ह नेत्युक्त्वा धनुरादायारण्यमुपातस्थौ

.स संवत्सरमरण्ये चचार ॥ १४ ॥ इति । - स ह स खलु रोहिताख्यः पुत्रः पितुर्वाक्यं निषिध्य खरक्षणार्य धनुः स्वीकृत्यारण्यं प्रत्युपगतोऽभूत् । कस्मिंश्चिदरण्ये नैरन्तर्येण स रोहितः संवत्सरं चचारेति ।

इति श्रीमस्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयनाम ___णभाष्ये प्रयस्त्रिंशाध्याये द्वितीयः खण्डः ॥२॥ (१४)[१३७]

रोहितस्यारण्ये संवत्सरचरणानन्तरं(र)भाविनं हरिश्चन्द्रादीनां वृत्तान्त दर्शयति

अथ हैवाकं वरुणो जग्राह तस्य होदरं जज्ञे तदुह रोहितः शुश्राव सोऽरण्याद्वाममेयाय तमिन्द्रः पुरुषरूपेण पर्येयोवाच .: मामाश्रान्ताय श्रीरस्तीति रोहित शुश्रुम। :: पापो नृषहरो जन इन्द्र इचरतः सखा चरैवेति, इति । - अथ रोहितस्यारण्ये संवत्सरवासानन्तरमेवैक्ष्वाकमिक्ष्वाकुवंशोत्पनं हरि चन्द्रं वरुणो देवो रोगरूपेण जग्राह । वरुणेन गृहीतस्य हरिश्चन्द्रस्योदरं जड़े जलेन पूरितमुच्छूनं महोदरनामकं रोगस्वरूपमुत्पनम् । तदुह तदपि समरण्ये स्थितो रोहितः पुत्रो मनुष्यमुखाच्छुश्राव । श्रुत्वा च स रोहितः पितरं द्रष्टुम रण्याद्रामं प्रत्याजगाम । आगच्छन्तं रोहितं मागेमध्य इन्द्रः केनचिद्राह्मणपु.

.

. . . … १ ग. प. उ. प. छ. स. म. ण्यमपा | sis. ६.

gic

.

. .

३ तृतीयः खण्डः ] ….. ऐतरेयबामणम् ।

४४१ रुपरपेण पाप्येदमुक्तवान् । आ समन्ताच्छ्रान्त आश्रान्तः सर्वत्र पर्यटनेन प्रान्ति प्राप्तस्तविपरीतोऽनाश्रान्त एकत्रैव निवासशीलस्तादृशाय तथाविधस्य पुरुषस्य श्रीर्वदुविधा संपमास्ति । यद्वा नानति पदच्छेदः । श्रान्ताय सर्वत्र पर्यटनेन श्रान्तस्य नाना श्रीर्वदुविधा संपदस्तीत्यनेन प्रकारेण रोहित वयं नीतिकुशलानां पुरुषाणां मुखाच्छुश्रुम । वरो जनो विद्यादिभिः श्रेष्ठोऽपि पुरुषो नृषत्पापो नृषु मनुष्येषु सीदतीति नृपत् । श्रेष्ठोऽपि बन्धुगृहेषु सर्वदाऽ पस्थितस्तैरवज्ञातः पापस्तुच्छो भवेत् । अतस्तव पितृगृहे वासो न युक्तः । न चारण्ये चरतो मम सहायो नास्तीति शनीयम् । इन्द्र एव परमेश्वर एव .परतस्तव सखा भविष्यति । तस्माचरैव सर्वथाऽरण्ये चरस्वत्येवमुवाच । एवं

पाष्वपि पर्यायेषु द्रष्टव्यम् ।

तवेन्द्ररोहितयोः संवादे प्रथमं पर्याय दर्शयित्वा द्वितीय पर्यायं दर्शयति–

चरैवेति वै मा ब्राह्मणोऽवोचदिति ह द्वितीयं :

संवत्सरमरण्ये चचार सोऽरण्यावाममेयाय .. . तमिन्द्रः पुरुषरूपेण पर्येयोवाच पुष्पिण्यौ चरतो जङ्के भूष्णुरात्मा फलग्रहिः । शेरेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हतश्चरैवेति, इति । ब्रामणरूपस्येन्द्रस्य वाक्यं श्रुत्वा ब्राह्मणोऽयमरण्ये चरैवेत्येवं मामुक्तवा निति मनसि ब्राह्मणवाक्ये महान्तमादरं कृत्वा पुनरप्येकं संवत्सरमरण्ये चरित्वा पश्चापितरं द्रष्टुं ग्रामं तमागच्छन्तं पुनरपीन्द्रो ब्राह्मणरूपेणाऽऽगत्यैव मुवाच । चरतः पर्यटनं कुर्वतः पुरुषस्य जङ्घे पुष्पिण्यौ भवतः । यथा पुष्पयुक्तो वृक्षः शाखा लता वाऽथवा मुगन्धोपेता सेव्या भवति । एवं चरतो जो श्रमजयेन सेव्ये भवतः । तथैवाऽऽत्मा मध्यदेहो भूष्णुर्विष्णुः फलपहिरोराग्यरूपफलयुक्तो भवति । यथा वर्धमानो वृक्षः कालेन फलानि गृहाति एवं. चरतः पुरुषस्य बीजादिदीपनादिपाटवेन मध्यदेह आरोग्यरूपं फलं गृहाति । तथैवास्य चरतः पुरुषस्य सर्वे पाप्मानः सर्वपापानि अपये प्रकृष्टे तीर्थक्षेत्रादिमार्गे श्रमेण तत्तदेवतादिदर्शने तीर्थयात्रादिप्रयासेन हता विनाशिताः सन्तः शेरे शेरते शयाना इव भवन्ति । यथा शयानाः पुरुषाः स्वकाये कृषिवाणिज्यादिकं कर्तुमशक्ता एवं पुण्येन विनष्टाः पाप्मानो नरक दातुमसमर्था इत्यर्थः । तस्मात्सर्वथाऽरण्ये चर न पितुर्रहेऽवतिष्ठस्व ।

१ क. ख. श. म. ‘धा संपदस्ति । Bizscrips Of

४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-३३त्रयसिंशाध्याये

तृतीयं पर्याय दर्शयति

चरैवेति वै मा ब्राह्मणोऽवोचदिति ह तृतीयं संवत्सरमरण्ये चचार सोऽरण्याद्वाममेयाय तमिन्द्रः पुरुषरूपेण पर्ययोवाच आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः । शेते निपद्यमानस्य चराति चरतो भगश्चरैवेति, इति ।। भगः सौभाग्यमासीनस्योपविष्टस्याऽऽस्ते तथैव तिष्ठति न तु वर्षते । अभि. दिहतोरुयोगस्याभावात् । तिष्ठत उपवेशनं परित्यज्योत्यापनं कुर्वतः पुर पस्य भग जोऽभिवदेरुन्मुखस्तिष्ठति । कृषिवाणिज्यामुयोगस्य संभावित स्वात् । निपधमानस्य भूमौ शयानस्य भगः शेते निद्रां करोति विधमानधनर सादिचिन्ताया अप्यभावात्सर्वथैव विनश्यति । चरतस्तेषु तेषु देशेवर्जना पर्यटनं कुर्वतः पुरुषस्य भगः सौभाग्यं चरति दिने दिने वर्धते । तस्मात्वं चरै वेति न त्वेकत्र तिष्ठ।

चतुर्थ पर्याय दर्शयति

चरैवेति वै मा ब्राह्मणोऽवोचदिति ह चतुर्थ संवत्सरमरण्ये चचार सोऽरण्यावाममेयाय

तमिन्द्रः पुरुषरूपेण पर्येयोवाच कलिः शयानो भवति संजिहानस्तु द्वापरः। उत्तिष्ठनेता भवति कृतं संपद्यते चरंश्चरैवेति , इति । चतस्रः पुरुषस्यावस्थाः । निद्रा तत्परित्याग उत्थानं संचरणं चेति । साधोत्तरोत्तरश्रेष्ठत्वात्कलिद्वापरत्रेताकृतयुगैः समानाः। ततधरणस्य सर्वोच. मत्वाचरैवेति ।

पञ्चम पर्यायं दर्शयति

चरैवेति वै मा ब्राह्मणोऽवोचदिति ह पञ्चमं संवत्सरमरण्ये चचार सोऽरण्यादाममेयाय तमिन्द्रः पुरुषरूपेण पर्ययोवाच 500gle.

३ तृतीयः खण्डः] ऐतरेयनामणम् ।

८४५ चरन्वै मधुविन्दति चरन्स्वादुमुदुम्बरम् । सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरंश्चरैवेति, इति । घरमेव पुरुषः कचिवृक्षाने मधु माक्षिकं लभते । कचित्स्वादु मधुरमुदुम्ब रादिफलविशेष लभते । एतदुभयमुपलक्षणम् । तत्र तत्र विद्यमानं भोगविशेष लभते । तत्र सूर्यो दृष्टान्तो यः सूर्यः सर्वत्र चरमपि न तन्द्रयते कदाचिदप्य. लसो न भवति । तस्य सूर्यस्य श्रेमाणं श्रेष्ठत्वं जगदन्यत्वं पश्य । तस्माचरैव ।

इत्यमिन्द्रकृतेन रोहितोपदेशेन चरतो रोहितस्य स्वजीवने पितुरारोग्ये च कारणभूतं श्रेयोलाभ दर्शयति

चरैवेति वै मा ब्राह्मणोऽवोचदिति ह षष्ठं संवत्सरमरण्ये चचार सोऽजीगत सौयव

सिमृषिमशनया परीतमरण्य उपेयाय, इति । षष्ठे संवत्सरे पूर्ववदरण्यसंचारी स ह रोहितः कचिटर्षि तस्मिनरण्य उपे पाय प्राप्तवान् । कीदृशमृषिमजीगर्तनामक सूयवसस्य पुत्रमशनया परीतममा. लाभेन भुत्पीडितम् ।

अयाजीगतरोहितयोः संवादं दर्शयति

तस्य ह त्रयः पुत्रा आसुः शुनःपुच्छः शुनः शेपः शुनोलागूल इति तं होवाच ऋषेऽहं ते शतं ददाम्यहमेषामेकेनाऽऽत्मानं निष्क्रीणा इति स ज्येष्ठं पुत्रं निगृहान उवाच नन्विम मिति नो एवेममिति कनिष्ठं माता तौह मध्यमे संपादयांचक्रतुः शुनःशेपे तस्य ह शतं दत्त्वा

स · तमादाय सोऽरण्यादाममेयाय, इति । तस्याजीगतस्य शुनःपुच्छादिनामकाखयः पुमा आमुः। पुत्रवन्तमूर्षि रोहित उवाच । हे ऋषे ते तुभ्यमई गवां शतं ददामि । (दत्त्वा चाहमेषां पुत्राणां मध्य एकेन केनचित्पुत्रेणाऽऽत्मानं महेहं वरुणानिष्क्रीणै मूल्यं दत्वाऽऽत्मानं मोचयामीति । एवमुक्तः सोऽजीगों) ज्येष्ठपुत्रं भुनापुच्छनामकं हस्तेन निगृ बानः स्वसमीपे समाकर्षवोहितं प्रत्येवमुवाच । तुभ्यमेका पुत्रो दीयत इम

  • भनुचिहान्तर्गता पतिः सर्वपुस्तकेषु नोपलभ्यते परं चापेक्षितत्वाद्विरचिता 100gle.

४६ भीमत्सायणाचार्यविरचितभाष्यसमेतम्-त्रयसिंशाध्याये तुबुनापुच्छ तु न ददामि मम मियत्वादिति । ततो माता कनिष्ठं हस्तेन गृहीत्वैवमुवाच । इमं शुनोलालं तु मम प्रियं नो एव सर्वथा न ददामीति। ततस्तावुभौ मातापितरौ मध्यमे पुत्रे शुनाशेपे दानं संपादयांचऋतुरतीकव पन्तौ । ततस्तस्याजीगर्तस्य स रोहितो गवां शतं दत्वा तं भुनःशेपमादायाव स्थितः । ततः स रोहितस्तेन शुनाशेपेन सहारण्यात्स्वकीयं ग्राम प्रत्याजगाम ।

तदागमनापूर्वकालीनं वृत्तान्त दर्शयति

स पितरमेयोवाच तत हन्ताहमनेनाऽऽ. स्मानं निष्क्रीणा इति स वरुणं राजानमुप ससारानेन त्वा यजा इति तथेति भूयान्वै ब्राह्मणः क्षत्रियादिति वरुण उवाच तस्मा एतं राजसूयं यज्ञक्रतुं प्रोवाच तमेतमभिषे

चनीये पुरुष पशुमालेभे ॥१५॥ इति । स रोहितः पितरमागत्यैवमुवाच । हे तत पितर्हन्ताऽऽवयोर्हषः संपनः । अहमनेन धुनम्शेपरपेण मूल्येनाऽऽत्मानं महेहं वरुणामिष्क्रीणै मूल्यं दवा त्मानं मोचयामीत्यर्थः। तथोक्ते स हरिश्चन्द्रो वरुणमुपेत्यानेन शुनःोपेन ब्रामणेन त्वा त्वां यक्ष्यामीत्युक्तवान् । स वरुणोऽपि तयेत्यङ्गीकृत्यैवमुवाच । क्षत्रियात्तव पुत्राद्रोहितादप्ययं ब्राह्मणो भूयानभ्यधिक एवं मम प्रिय इति । उक्त्वा तस्मै हरिश्चन्द्राय कर्तव्यत्वेन राजसूयमुपदिदेश च। स हरिश्चन्द्रो राज सूर्य प्रक्रम्य तस्य मध्ये योऽयमभिषेचनीयाख्य एकाहः सोमयागस्तस्मि स्तमेतं शुन शेपं पुरुषं पशुमालेभे सवनीयपशुत्वेनाऽऽलन्धुं निश्चितवान् ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण. __ भाष्ये त्रयस्त्रिंशाध्याये तृतीयः खण्डः॥३॥(१५) [ १३८] - हरिश्चन्द्रस्य राजसूयानुष्ठानं दर्शयति

तस्य ह विश्वामित्रो होताऽऽसीजमदगिरध्वर्यु वसिष्ठो ब्रह्माऽयास्य उद्गाता तस्मा उपाकृताय नियोक्तारं न विविदुः स होवाचाजीगतः सौय वसिमबमपरं शतं दत्ताहमेनं नियोक्ष्यामीति

४ चतुर्पः खण्डः] ऐतरेयबामणम् । . ८५७

तस्मा अपरं शतं ददुस्तं स निनियोज, इति । विश्वामित्रादयो महर्षयस्तस्य हरिश्चन्द्रस्य यागे राजसूये होत्रादयश्चत्वारो महत्विज आसन् । तत्र जमदग्निरध्वर्युरभिषेचनीये सोमयागे तं श्रुनाशेपं सवनीयपक्षुत्वेनोपाकृतवान् । बहिर्युक्तया प्लक्षशाखया मनपुरःसरं समुपस्पृश्य स्वीकार उपाकरणम् । तत ऊर्च यूपबन्धनं नियोजनं तस्य क्रूरकर्मत्वादध्वर्युर्न नियोजने मवृत्तः । तत उपाकतायास्मा उपाकरणेन संस्कृतस्य शौ(अ)नम्शे पस्य नियोक्तारं यूपे बन्धनकर्तारं क्रूर कंचिदपि पुरुषं न विविदुर्न लेभिरे । वदानी सूयवसस्य पुषः शुनाशेपस्य पिता सोऽजीगत [उवाच] मझ पूर्व स्माच्छतादपरं गोशतं हे यजमानविजो दत्त ततोऽहमेनं शुनाशेपं यूपे नियोक्ष्यामि रशनया कव्यां शिरसि पादयोर्बद्ध्वा रशनाग्रस्य यूपे बन्धन नियोजनं तदहं करिष्यामीति । तस्मा अजीगायापरं गोशतं ददुः । तं च शुनाशेपं सोऽजीगतॊ निनियोज । धातोर्भािवं परित्यज्योपसर्गस्य द्विर्भाव इछान्दसः। … अथ विशसनप्रवृत्ति दर्शयति

तस्मा उपाकृताय नियुक्तायाऽऽप्रीताय पर्य निकृताय विशसितारं न विविदुः स होवा चाजीगतः सौयवसिमद्यमपरं शतं दत्ता हमेनं विशसिष्यामीति तस्मा अपरं

शतं ददुः सोऽसि निशान एयाय, इति । उपाकरणनियोजने पूर्वमुक्ते । आमीसंहिताभिरेकादशभिः प्रयाजयाज्या मिर्यधजनं तदामीणनम् । दर्भरूपेणोल्मुकेन त्रिमदक्षिणीकरणं तत्पर्यमिकर णम् । तथाविषसंस्कारचतुष्टययुक्ताय तस्मै तस्य शुनःशेपस्य विज्ञसितारं हिंसितारं पुरुषं क्रूरात्मानं कंचिदपि पुरुषं न लेभिरे। ततोऽजीगतः पूर्ववद परं गोशतं गृहीत्वा मारयितुमसिं खरं निशानो निशितं तीक्ष्णं कुर्वमेवे. याय जगाम ।

पितुरजीगतस्य(शुनाशेपस्य) वृत्तान्त दर्शयति

अथ ह शुनःशेप ईक्षांचकेऽमानुषमिव वै मा विशसिष्यन्ति हन्ताहं देवता उपधावामीति .

स. “शाने नि।

……..

४४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१३त्रयविशाध्याये

स प्रजापतिमेव प्रथमं देवतानामुपससार कस्य

नूनं कतमस्यामृतानामित्येतयर्चा , इति । - अथ पितुः पुत्रमारणोद्योगानन्तरं शुनाशेपा पुत्रो मनस्येवमीक्षांचके विचारितवान् । अन्यत्र पर्यमिकृतं पुरुषमारण्यांश्चोत्सृजन्त्यहिंसाया इतिश्रुतेः पर्यमिकरणार्च मनुष्यं परित्यजन्ति । एते तु माममानुषमिव मनुष्यन्यति रिक्तमजादिपभुमिव विशसिष्यन्ति मारयिष्यन्ति इन्त हा कष्टमेतत्संपनम् । अहमितःपरं रक्षार्थ देवता उपधावामि भजामीति विचार्य देवानां मध्ये प्रवर्य मुख्यं प्रजापतिमेव कस्य नूनमित्यूचोपससार सेवितवान् । .. तस्य प्रजापतेः सहकारित्वेनामे सेवां दर्शयति

तं प्रजापतिरुवाचाग्नि देवानां नेदिष्ठ स्तमेवोपधावेति सोऽमिमुपससारामे

वयं प्रथमस्यामृतानामियेतयर्चा, इति । त सेवकं शुनाशेपं प्रजापतिरेवमुक्तवान् । अमिः सर्वेषां देवानां नेदिष्ठो हविर्वहनेनातिसमीपर्वर्ती । अतस्वमेवोपास्स्वेत्युक्तः शुनाशेपोऽमेर्वयमित्यूचाs. मिमुपासितवान् ।

तस्य चामे सहकारित्वेन सविनुरुपासनं दर्शयति

तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति स सवितारमुपससाराभि

खा देव सवितरियेतेन तृचेन, इति । प्रसवानां सर्वेषु कार्येषु प्रेरणास्पाणामनुज्ञानात्सवितेशः स्वामी भवति । तस्मात्तमेवोपधावेत्यमिनोपदिष्टोऽभि त्वेति तृचेन सवितारमुपासितवान् ।

तस्य च सवितुः सहकारित्वेन वरुणस्योपासनं दर्शयति

तं सवितोवाच वरुणाय वै राज्ञे नियु तोऽसि तमेवोपधावेति स वरुणं राजा

नमुपससारात उत्तराभिरेकत्रिंशता, इति । ___ कस्य नूनं कतमस्यामृतानाम्-१-२४-१ | अमेर्वयं प्रथमस्यामृतानाम्

१-२४-२ । अमि त्वा देव सवितः०-१-२४-३ Google४ चतुर्थः खण्डः] ऐतरेयब्रामणम् ।

८४९ हे शुनाशेप वरुणार्थ त्वं यूपे बद्धोऽस्यतो वरुणमुपास्स्वेति सवित्रोक्तः पूर्वस्मात्सवितृविषयाञ्युचादुत्तराभिरेकत्रिंशत्संख्याकामिक्ररिभवरुणमुपासित वान् । न हि ते क्षत्रम् [१-२४-६ ] इत्याद्याः सूक्तशेषभूता दशों यचिद्धि ते विशः [१-२९-१] इत्यादिकमेकविंशत्यूचं सूक्तमित्येवमेकत्रिंश

संख्या द्रष्टव्या।

तस्य च वरुणस्य सहकारित्वेन पुनरप्यमेरुपासनं दर्शयति

तं वरुण उवाचाग्नि देवानां मुखं सुह दयतमस्तं नु स्तुह्यंथ त्वोत्स्रक्ष्याम इति

सोनिं तुष्टावात उत्तराभिर्वाविंशत्या , इति । अयममिः सर्वेषां देवानां मुखं मुखस्थानीयः । अग्निद्वारेणैव सर्देवैहवि: स्वीकारात् । अत एव प्रीत्या हविर्वहनादतिशयेन सुहृदयः । सुहृदयतमं तमर्मि नु क्षिप्रं स्तुहीति वरुणेनोक्तः पूर्वोक्ताभ्य ऋग्भ्य उत्तराभिाविंशतिसंख्या काभिऋग्भिरमिं तुष्टाव । वसिष्वाहीत्यादिकं [१-२६-१] दशचे सूक्तमश्वं नत्वा [ १-२७-१] इत्यादिकं त्रयोदश सूक्तम् । तत्रान्त्यां परित्यज्य पसिष्वसूक्तद्वयगता ऋचो द्वाविंशतिसंख्याकाः।

अमे सहकारित्वेन विश्वेषां देवानामुपासनं दर्शयति

तमग्निरुवाच विश्वान्नु देवान्स्तुयथ खोल क्ष्याम इति स विश्वान्देवांस्तुष्टाव नमो

महभ्यो नमो अर्भकेभ्य इत्येतयर्चा , इति । यद्यपि वरुणपाशेन बद्धत्वावरुण एव शुनःशेषमुत्स्रष्टुं समर्थस्तथाऽप्यग्न्या दीनां सहकारित्ववचनं दाार्थ द्रष्टव्यम् । विश्वे देवा गणरूपा न भवन्ति किंतु सर्वे देवास्तानमो महम इत्येतयर्योपासितवान् ।

तेषां च विषेषां देवानां सहकारित्वेनेन्द्रस्योपासनं दर्शयति

तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुत मस्तं नु स्तुद्यथ त्योत्स्रक्ष्याम इति स .

नमो महग्यो नमो अर्भकेभ्यः०-१-२७-१३. | SCIE

८५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३३त्रयनि ध्याये

इन्द्रं तुष्टाव यचिद्धि सत्य सोमपा इति

चैतेन सूक्तेनोत्तरस्य च पञ्चदशमिः, इति । ओजोवलादिशन्दाः पूर्वाचार्यैरेवं व्याख्याता:

“ओजो दीप्तिर्वलं दाक्ष्यं प्रसखकरणं सहः॥

सुजनः सन्पारयिष्णुरुपक्रान्तसमाप्तिक” इति । इष्टमत्ययतमप्यत्ययाभ्यां तत्र तत्रातिशय उच्यते । तादृशमिन्द्रं यचिदि सत्य सोमपा इत्यनेन सप्तर्चेन सूक्तेनोत्तरमिभप्याव इन्द्रमित्यादिके द्वाविंश त्यूचे सूक्ते पञ्चदशभिर्ऋग्भिश्च तुष्टाव । पूर्वमप्यनुग्रहेण चरैवेत्येवमिन्द्रो रोहित मत्युपदिदेश। ___ तस्योपदेवस्य फलपर्यवसायित्वमनुस्मरतस्तस्येन्द्रस्य शुनःशेषस्तुतौ मीत्य. तिशयं दर्शयति

तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्य रथं ददौ तमेतया प्रतीयाय शश्वदिन्द्र इति, इति । शुनःपेनेन्द्रः स्तूयमानः प्रीतो भूत्वा तस्मै शुनाशेपाय सुवर्णमयं दिवं रथमारोहणार्थ स्वकीयेन मनसैव ददौ । शुनःशेषोऽपि तदीयमनुग्रहमवगत्त पूर्वोक्ताभ्यः पञ्चदशभ्य उत्तरया शपदिन्द्र इत्येतयर्चा तं रयं प्रतीयाय मन

सैव प्रतिजगाम ।

इन्द्रस्य सहकारित्वेनाचिनोरुपासनं दर्शयति

तमिन्द्र उवाचाश्विनौ नु स्तुद्यथ खोत्वक्ष्याम

इति सोऽश्विनौ तुष्टावात उत्तरेण तृपेन, इति । पूर्वोक्तायाः शश्वदिन्द्र इत्यस्या उत्तरेणाऽऽश्विनावश्चावत्या [१-३०-१७] इति तचेनाचिनौ स्तुतवान् ।

अधिनोः सहकारित्वेनोषस उपास्ति दर्शयति

तमश्विना ऊचतुरुषसं नु स्तुद्यथ खोत्यक्ष्याम

इति स उषसं तुष्टावात उत्तरेण तृचेन , इति । यविद्धि सत्य सोमपा०-१-२९-१ । शश्वदिन्द्रः पोषद्भिनिंगाय-1 ३०-११।

१ ख. सर्वेण । sixse in Engle

१ पञ्चमः खण्डः] ऐतरेयबामणम् ।

कस्त उषः [१-३०-२० ] इत्यादिक उत्तरस्तृचः ।

अथोक्तानां सर्वासा देवतानामनुग्रहेण शुनाशेपस्य बन्धमोक्ष हरिश्चन्द्र स्याऽऽरोग्यं च दर्शयति

तस्य ह स्मर्म्युच्युक्तायां वि पाशी मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्यु त्तमस्यामेवर्युक्तायां वि पाशो मुमु

चेगदऐश्वाक आस ॥ १६॥ इति । .. तस्य पूर्वोक्तस्य चस्य संवन्धिन्यामच्युच्येकैकस्यामृच्युक्तायां क्रमेण चुनाशेपस्य पाशो विमुमुचे विशेषेण मुक्तोऽभूत् । ऐक्ष्वाकस्य हरिश्चन्द्रस्य यन्महोदरं तदपि क्रमेण कनीयोऽत्यल्प भवति । उत्तमस्यामृच्युक्तायां पात्रो विमुमुच एव सर्वात्मना मुक्तोऽभूत् । ऐवाकोऽप्यगदो निःशेषेण रोगर हित आस ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राम

णभाष्ये त्रयस्त्रिंशाध्याये चतुर्थः खण्डः ॥ ४॥ (१६) [१३९]

बन्धनान्मुक्तस्य शुनाशेपस्योत्तरकालीनं वृचान्तं दर्शयति

तमृत्विज ऊचुस्त्वमेव नोऽस्याह्नः संस्थामधिग च्छेत्यथ हैतं शुनःशेपोऽनःसवं ददर्श तमेताभि श्वतसृभिरभिसुषाव यचिद्धि वं गृहे गृह इत्य थेनं द्रोणकलशमभ्यवनिनायोच्छिष्टं चम्बोर्भ रेत्येतय ऽथ हास्मिनन्वारब्धे पूर्वाभिश्चतसृभिः स स्वाहाकाराभिर्जुहवांचकारार्थनमवभृथमभ्य वनिनाय स्वं नो अग्ने वरुणस्य विद्यानित्येता भ्यामथैनमत ऊर्ध्वमग्निमाहवनीयमुपस्थापयां

चकार शुनश्चिच्छेपं निदितं सहस्रादिति, इति । यचिद्धि त्वं गृहे गृहे०-१-२८-५। उच्छिष्टं चम्वोर्भर०-१-२९-९॥ त्वं नो अमे वरुणस्य विद्वान्-४-१-४।शुनश्चिच्छेपं निदितं सहस्त्रात्०-५-२-७।

८५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३३त्रयस्त्रिं ध्याये

देवतानुग्रहयुक्तं सं शुनाशेपं विश्वामित्रादयः सर्व ऋत्विज एवमूचुः । हे शुनाशेप त्वमेव नोऽस्माकमस्याहोऽभिषेचनीयाख्यस्य संस्था समातिमाषि गच्छ मामुहि अनुष्ठापयेत्यर्थः । तैरेवमुक्ते सत्यनन्तरं भुनाशेप एतमभिषेच नीयाख्यं सोमयागमञ्जःसवं ददर्श । अञ्जसर्जुमार्गेण सवः सोमाभिषवो पस्मिन्यागे सोऽजःसवस्तादृशं प्रयोगमकारं निश्चितवान् । निश्चित्य च सोमं यषिद्धीत्यादिभिश्चतमृभिरिभरभिषुतं कृतवान् । अथैनमभिधुतं सोम मेतयोच्छिष्टं चम्बोरित्यूचा द्रोणकलशमभिलक्ष्यावनिनाय द्रोणकलशे प्रति सवान् । अथानन्तरमस्मिन्हरिश्चन्द्रेऽन्वारब्धे शुनःशेपदेहमुपस्पृष्टवति सत्यु. काभ्य ऋग्भ्यः पूर्वाभिर्यत्र ग्रावेत्यादिभिश्चतसृभिग्भिः स्वाहाकारसहि साभिः सोमं जुड़वांचकार । यत्र ग्रावेत्यादिकं सूक्तं नवर्च तत्र यषिदीति पश्चमी तामारभ्य चतसृभिरिभरभिषवः । उच्छिष्टमित्यादिका नवमी वया द्रोणकलशे प्रक्षेपः। यत्र ग्रावेत्यादिभिश्चतसृभिर्होम इत्येवं कृत्लस्य मूक्तस्य विनियोगः । अथ होमानन्तरमेव कर्तव्यमवभृथमभिलक्ष्यावनिनाय सर्वमक भृथसाधनं तद्देशे नीत्वा त्वं नो अन इत्यादिकाभ्यामृग्भ्यामवभृथयागं कृत बान् । अथ तथा कृत्वा तत ऊर्ध्वमेनमाहवनीयममिं शुनश्चिदित्यादिनोपस्था पयांचकार हरिश्चन्द्रमुपस्थाने प्रेरयामास । सोऽयमञ्जःसव इष्टिपशुसांकर्यमन्त रेणाञ्जसर्जुमार्गेणानुष्ठितत्वात् ।

विश्वामित्राजीगर्तयोः कंचित्संवादं दर्शयनि

अथ ह शुनःशेपो विश्वामित्रस्याकमास साद स होवाचाजीगतः सौयवसिषे पुनम पुत्रं देहीति नेति होवाच विश्वामित्रो देवा वा इमं मामरासतेति स ह देवरातो वैश्वा.

मित्र आस तस्यैते कापिलेयबाभ्रवाः, इति । अथाभिषेचनीयसमातेरनन्तरं हरिश्चन्द्रसहितेष्वृत्विक्षु विस्मितेषु स चुन: शेप इत ऊर्च कस्य पुत्रोऽस्त्विति विचारे सति तदीयेच्छैव नियामिकेति महर्षीणां वचनं श्रुत्वा शुनाशेपः स्वेच्छया विश्वामित्रपुत्रत्वमझीकृत्य सहसा तदीयमकमाससाद । पुत्रो हि सर्वत्र पितुरङ्के निषीदति । तदानीं सूयवस. पुत्रोऽजीग” विश्वामित्रं प्रत्येवमुवाच । हे महर्षे मदीयपुत्रमेनं पुनरपि मां

. अ. भपस्वव। drivas Google

५ पञ्चमः खण्डः] ऐतरेयब्राह्मणम् । देहीति स विश्वामित्रो नेति निराकृत्यैवमुवाच । प्रजापत्यादयो देवा एवेमं शुनाशेपं मनमरासत दत्तवन्तस्तस्मात्तुभ्यं न दास्यामीति । स च शुनाशेपो देवैर्दत्तत्वादेवरात इतिनामधारी विश्वामित्रपुत्र एवाऽऽस । तस्य च देवरात स्यैते कपिलगोत्रोत्पमा बभ्रुगोत्रोत्पनाश्च बन्धवोऽभवन् ।

अथ शुनाशेपाजीगर्तयोः संवादं दर्शयति

स होवाचाजीगतः सौयवसिस्त्वं वेहि विह्व यावहा इति स होवाचाजीगतः सौयवसि राङ्गिरसो जन्मनाऽस्याजीगतिः श्रुतः कविः । ऋषे पैतामहात्तन्तोर्माऽपगाः पुनरोहि मामिति स होवाच शुनःशेपोऽद स्वा शासहस्तं न यच्छूद्रेष्वलप्सत। गवां त्रीणि

शतानि त्वमणीथा मदगिर इति, इति । विश्वामित्रेण निराकृतः सोऽजीगतः शुनाशेपं प्रत्येवमुवाच । हे पुत्र त्वं वा त्वमेव विश्वामित्रादपगतः सन्निहि अस्मगृहे गच्छ । त्वदीयमाता चाई चोभावावां विहयावहै विशेषेण तवाऽऽहानं करवावहै । इत्युक्त्वा तूष्णीमव. स्थितं तं शुनम्शेपं प्रति पुनरपि कयाचिद्गाथयैवमुवाच । हे शुनाशेप त्वं जन्म नाऽऽशिरसोऽनिरोगोत्रोत्पन्न आजीगतिरजीगर्तस्य पुत्रः कविर्विद्वान्श्रुत इत्येवं सर्वत्र प्रसिद्धः । अतो हे महर्षे शुनाशेप पैतामहात्पितामहेन प्रजाप तिना संपादितात्तन्तोः संतानादगिरोवंशान्माऽपगा अपगतो मा भव । तस्मा त्पुनरपि मामेहि महे समागच्छेत्युक्तः शुनाशेपः स्वयमपि गाथया प्रत्युत्तरं ददौ । शासो विशसनहेतुः खगः । हेऽजीगर्त मद्धाय शासहस्तं खड़हस्तं त्वां सर्वेऽप्यद दृष्टवन्तः । यत्करं कर्म शूद्रेष्वत्यन्तनीचेष्वपि नालप्सत न लब्ध. वन्तो लौकिका जनास्तादृशं क्रौर्य त्वया कृतम् । हेऽहिर आशिरसगोत्रो. त्पभाजीगर्त मन्मां निमित्तीकृत्य त्वं गवां शतानि त्रीण्यखणीया वृतवानसि । तदिदमत्यन्तकष्टमित्युक्तवान्।

पुनरप्यजीगर्तशुन शेपयोरुक्तिमत्युक्ती दर्शयति

स होवाचाजीगतः सौयवसिस्तदै मा तात तपति पापं कर्म मया कृतम् । तदहं निहनुवे तुभ्यं

१ क. ग. घ. इ. च. छ. स म. निहवे । Agries is ६.

८५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३३प्रयस्त्रिं ध्याये

प्रतियन्तु शता गवामिति स होवाच शुन शेपो यः सकृत्पापकं कुर्यात्कुर्यादेनत्तत्तोऽपरम् । नापा

गाः शौद्रान्यायादसंधेयं त्वया कृतमिति, इति । शुनाशेपेनोपालन्धोऽजीगतः स्वकीयमनुतापं दर्शयितुं काचिद्राथामेवमु. पाच । हे तात पितृवदुपलालनीय शुनाशेप मया यत्पापं कृतं तदै मा सपति तदेव मां मनसि संतप्तं करोति । अहं तत्पापं निहनुवे परिहरामि । मा शतानि पूर्व मया गृहीतानि त्रीणि यानि तानि तुभ्यं त्वदर्य प्रतियन्तु प्रत्येक मेव मामुवन्तु । इतरयोः पुत्रयोर्गावो मा भूवंस्तवैव सर्वाः सन्विति । ततः स शुनाशेपो गायया प्रत्युत्तरं ददौ । यः पुमान्धर्मशास्त्रभीतिरहितः सकृत्पा पकं कुर्यात्स पुमांस्ततः पापादन्यदेनत्पापं तदभ्यासवशात्कुर्यादेव । त्वं तु शौद्राब्यायामीचजातिसंबन्धिनः क्रूरादाचरणामापागा अपगतो न भवसि । असंधेयं प्रतिसंधानरहितं पापं त्वया कृतमित्येषा चुनाशेपस्य प्रत्युक्तिः।

अथ विश्वामित्रकृत्यं दर्शयति

असंधेयमिति ह विश्वामित्र उपपपाद स होवाच विश्वामित्रो भीम एव सौयवसिः शासेन विशिशासिषुः । अस्थान्मतस्य

पुत्रो भूर्ममैवोपेहि पुत्रतामिति, इति । असंधेयमपतिसमाधेयं पापमिति शुनाशेपेन यदीरितं तदेतदप्रतिसमाधेयत्वं विश्वामित्र उपपपाद युक्तिभिरुपपादितवान् । तदुपपादनार्यमेव विश्वामित्र इमां गाथामुवाच । सूयवसस्य पुत्रोऽजीगतॊ भीम एव भयहेतुरेव समासेन हस्तगतखड्रेन स विशिशासिपुरस्थाद्विशसनकर्तुमिच्छुरवस्थितवान् । अतो है शुनाशेपेतस्य पापिष्ठस्य पुत्रो मा भूः किंतु ममैव पुत्रतामुपेहि ।

अथ शुनाशेषविश्वामित्रयोरुक्तिमत्युक्ती दर्शयति

स होवाच शुनःशेपः स वै यथा नो ज्ञपयाऽऽ राजपुत्र तथा वद । यथैवाऽऽङ्गिरसः सन्नुपेयां तव पुत्रतामिति स होवाच विश्वामित्री ज्येष्ठो मे खं पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यात् । उपेया

क. श. म. निहवे। agties on ROTTE

१ पञ्चमः खण्डः] ऐतरेयबामणम् ।

८५५ देवं मे दायं तेन वै खोपमन्त्रय इति, इति । विश्वामित्रेणैवं बोषितः शुनाशेपः पुनरपि गाथया विश्वामित्रं प्रत्येवमुवाच । अयं विश्वामित्रो जन्मना क्षत्रियः सन्स्वकीयेन तपोमहिना प्रामण्यं मासवा नित्येवं तवृत्तान्तं सूचयितुं हे राजपुत्रेति संबोधितवान् । स वै तथाविषो राज जातीय एव सन्यथा येन प्रकारेण नोऽस्माभिः सर्वैरा समन्तामपय ब्रामण. त्वेन शायसे तथैवास्मद्विषयेऽपि त्वं वद । कयं वदितव्यमिति तदुच्यते । अह मिदानीमनिरोगोत्रः संस्तत्परित्यागेन तव पुत्रत्वं येनैव प्रकारेणोपेयां तवैवा. नुगृहाणेति शेषः । एतद्वाक्याभिषायः पूर्वैः संक्षिप्य दर्शित:

“पुराऽऽत्मानं नृपं विप्र(प्र) तपसा कृतवानसि ।

एवमाहिरसं मा त्वं वैश्वामित्रसृषे कुरु” इति । ततो विश्वामित्रो गाथया प्रत्युत्तरमुक्तवान्। हे शुनःक्षेप त्वं मे पुत्राणां मध्ये ज्येष्ठः स्या ज्येष्ठो भव । तव पुत्रादिरूपा प्रजापीतरस्याः श्रेष्ठा स्यात् । मे महं विश्वामित्राय देवं देवैः प्रसाद दायं पुत्रत्वरूपं लाभमुपेयाः भामुहि । तेन वै सेनैव प्रकारेण त्वोपमन्वये त्वां पुत्रत्वेन व्यवहरामि ।

पुनरपि शुन पविश्वामित्रयोवृत्तान्तं दर्शयति

स होवाच शुनःशेपः संज्ञानानेषु वै ब्रूया सौहार्याय मे श्रियै। यथाऽहं भरतऋषभी पेयां तव पुत्रतामित्यथ ह विश्वामित्रः पुत्रा नामन्त्रयामास मधुच्छन्दाः शृणोतन ऋषभो रेणुरष्टकः। ये के च भ्रातरः स्थ नास्मै

ज्येष्ठयाय कल्पध्वमिति ॥ १७॥ इति । विश्वामित्रेण प्रलोभितः शुनाशेपः स्वकार्यदायार्थ गाययैवमुवाच । संहा. नानेषु मद्विषयैकमत्यं प्राप्तेषु त्वदीयपुत्रेषु [स]र्वोऽपि मां भूयात् । ज्येष्ठ भ्रातृत्वेन व्यवहरतु । तच्च मे मम सौहार्याय भ्रातृभिरितरैः स्नेहातिशयाय श्रियै धनलाभाय च संपद्यते । हे भरतऋषभ भरतवंशश्रेष्ठ विश्वामित्राहं तब पुत्रता यथोपेयां तथैवैतेषां पुत्राणामग्रेऽनुगृहाणेति शेषः। ततो विश्वामित्र इतरान्पुत्रानाडूय गाययैवमाज्ञापितवान् । यो मधुच्छन्दा नाम यश्चर्षभो योऽपि रेणुर्योऽप्यष्टक एते मुख्या हे पुत्रकाः शृणोतन मदीयामा शृणुत । ये केचि. पूर्व सर्वे भ्रातरः स्थ ते सर्वेऽप्यस्मै शुनाशेपादस्मादपि ज्यैष्ठचाय न कल्पवं

८५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३३त्रयस्त्रिं घ्याये ज्येष्ठत्वाभिमानं मा कुरुत । किंवसावेष युष्माकं मध्ये ज्येष्ठो भूत्वाऽवतिष्ठ तामिति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण __ भाष्ये त्रयस्त्रिंशाध्याये पञ्चमः खण्डः ॥५॥ (१७) [१४०]

अथ विश्वामित्रपुत्राणां वृत्तान्तमाह

तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः पञ्चाश.

देव ज्यायांसो मधुच्छन्दसः पञ्चाशत्कनीयांसः, इति । मधुच्छन्दोनामकः कश्चित्पुत्रो मध्यमस्ततोऽपि ज्येष्ठाः कनिष्ठाश्च प्रत्येक पञ्चासत्संख्याका इत्येवमेकशतं तस्य पुत्राः। तेषां मध्ये ज्येष्ठानां वृत्तान्तमाह

तो ज्यायांसो न ते कुशलं मेनिरे ताननु व्याज हारान्तान्यः प्रजा भक्षीष्टेति त एतेऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो वैश्वामित्रा दस्यूनां भूयिष्ठाः, इति । तत्तेष्वेकशतसंख्याकेषु पुत्रेषु मध्ये ये मधुच्छन्दसो ज्येष्ठाः पचासत्सं. ख्याकाः सन्ति ते शुनाशेपस्य विश्वामित्रपुत्रत्वं कुशलं न मेनिर इदं समी. चीनमित्येवं नाङ्गीकृतवन्तः । ताज्येष्ठान्पश्चाशत्संख्याकाननुलक्ष्य विश्वामित्रो व्याजहार व्याहरणं शापरूपं वाक्यमुक्तवान् । हे ज्येष्ठपुत्रा युष्माकं मदीया सातिलधिनां प्रजाः पुत्रादिका अन्तान्मक्षीष्ट चण्डालादिरूपानीचजातिवि शेषान्भजतामिति । त एते शप्ताः सन्तोऽन्ध्रत्वादिपञ्चविधनीचजातिविशेषा भवन्ति । इतिशब्दस्य तत्मदर्शनार्थत्वादन्येऽपि नीचजातिविशेषाः सर्वे विव क्षिताः । उद्गतोऽन्त उदन्तोऽत्यन्तनीचजातिस्तत्र भवा उदन्त्याः । ते बह घोऽनेकविधा वैश्वामित्रा विश्वामित्रसंततिजा दस्यूनां तस्करागां मध्ये भूयिष्ठा अत्यधिकाः।

ज्येष्ठानां वृत्तान्तमुक्त्वा मधुच्छन्दसस्तत्कनिष्ठानां च वृत्तान्तं गाथया दर्शयति

स होवाच मधुच्छन्दाः पञ्चाशता साध यत्रः पिता संजानीतेतस्मिस्तिष्ठामहे वयम्।पुरस्त्वा

BR

८५७

१ षष्ठः खण्डः] ऐतरेयबामणम् ।

सर्वे कुर्महे वामन्वञ्चो वयं स्मसीति, इति । कनिष्ठपुत्राणां पञ्चाशता सह मधुच्छन्दोनामकः स मध्यमः पुत्रः अना प्रत्येवमुवाच । हे शुनाशेप नोऽस्माकं पिता विश्वामित्रो यत्कार्य त्वदीयज्येष्ठ पुत्रत्वरूपं संजानीते सम्यग्जानात्यही करोति तस्मिन्कार्ये वयं तिष्ठामहे तत्कार्यमझी कुर्मः। सर्वे वयं त्वा शुनम्शेपनामानं त्वां पुरस्कुर्महे पुरस्कृत्य ज्येष्ठ कृत्वा वर्तामहे । त्वामन्वचः शुनाशेपमनुगच्छन्तः स्मसि भवाम इत्युक्तवान् ।

विश्वामित्रवृत्तान्तं दर्शयति

अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव, इति । अय मधुच्छन्दःसहितानां पञ्चाशत्कनिष्ठपुत्राणां शुनाशेपविषयज्येष्ठपुत्र स्वाङ्गीकारानन्तरं स विश्वामित्रः प्रतीतस्तेषु प्रत्ययं मदनुकूला इति विश्वास प्रातः प्रीत्या पुत्रान्गायाभिस्तुष्टाव ।

तत्र प्रथमां गाथामाह

ते वै पुत्राः पशुमन्तो वीरवन्तो भविष्यथ ।

ये मानं मेऽनुगृह्णन्तो वीरवन्तमकत मा, इति । हे मधुच्छन्दःप्रमुखाः कनिष्ठपुत्रा ये यूयं मे मानं मदीयं मतमनुगृहन्त आनु कूल्येन स्वीकुर्वन्तो मा विश्वामित्रं वीरवन्तं स्वधर्मशूरपुत्रयुक्तमकतं कृतवन्तः । से वै तादृशा यूयं बहुविधपुत्रयुक्ता बहुविधानुकूलपुत्रयुक्ताश्च भविष्यय ।

द्वितीयां गायामाह

पुर एत्रा वीरवन्तो देवरातेन गाथिनाः।

सर्वे राध्याः स्थ पुत्रा एष वः सहिवाचनम्, इति । गायिनशब्दो विश्वामित्रस्य पितरमाचष्टे । हे गायिना गाथिपौत्राः पुर एत्रा युष्माकं पुरतो गत्रा मुख्येन देवरातेन सह यूयं सर्वे वीरवन्तः श्रेष्ठपुत्र. युक्ता राध्याः स्थ सर्वैः पुरुषारापनीयाः पूज्या भवय । हे पुत्रा मधुच्छन्द: मभृतय एष देवरातो वो युष्माकं सद्विवाचनं सन्मार्गस्य विशेषतोऽध्यापनं करि व्यतीति शेषः।

तृतीयां गाथामाह

एष वः कुशिका वीरो देवरातस्तमन्वित । युष्मांश्च दायं म उपेता विद्यां यामु च विद्मसि, इति ।।

८५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३३त्रयस्त्रिं ध्याये

हे कुशिकाः कुशिकनानो मत्पितामहस्य संबन्धिनो मधुच्छन्दामभृतय एष देवरातो वो युष्माकं ज्येष्ठभ्रातेति शेषः । तं देवरातं यूयमन्वितानुगता भवत । मे मदीयं दायं धनं युष्मांश्थोपेता प्राप्स्यति । चकारादेवरातं च । यामु च यामपि काचिदेदशास्त्रादिरूपां विद्या विमसि वयं जानीमः साऽपि युष्मा. नुपेता प्राप्स्यति ।

चतुर्थी गाथामाह

ते सम्यश्चो वैश्वामित्राः सर्वे साकं सरातयः।

देवराताय तस्थिरे धृत्यै श्रेष्ठयाय गाथिनाः, इति । हे वैश्वामित्रा विश्वामित्रस्य मम पुत्रा ये गाथिना गाथिपौत्रास्ते यूर्य सर्वेऽपि सम्यञ्चः समीचीनबुद्धयो ये साकं देवरातेन साध सरातयो राति र्धनसंपत्तिस्तया युक्ताः सन्तो देवराताय मदीयश्रेष्ठपुत्रस्य देवरातस्य धृवै धारणं युष्मत्पोषणं श्रेष्ठयाय युष्माकं मध्ये श्रेष्ठत्वं च तस्थिरेशीकृतवन्तः ।

पञ्चमी गाथामाह

अधीयत देवरातो रिक्थयोरुभयोर्कषिः। जहनां

चाऽऽधिपत्ये देवे वेदे च गाथिनाम् , इति । इक्स्मरण इति धातुः । अधीयत स्मृतिकारैर्महर्षिभिः स्मर्यते । कथमिति तदुच्यते । अयं देवरातो व्यामुष्यायणत्वावुभयोरजीगतविश्वामित्रयोः संव. धिनी ये रिक्थे धने तयोर्कषिर्द्रष्टा तदुभयमहतीत्यर्थः। अजीगर्तस्य कूटस्थ ऋषिर्जहनुसंबकस्तस्य वंशे जाताः सर्वे जलवस्तेषां चाऽऽधिपत्ये स्वामित्वे देव रातो योग्यः। तथा दैवे देवसंबन्धिनि यागादिकर्मणि वेदे च मनसे समर्थः। गाथिनाममपितृवंशोत्पन्नानां च सर्वेषामाधिपत्ये योग्यः ।

उक्तमुपाख्यानमुपसंहरति

तदेतत्सरऋक्शतगाथं शौनःशेपमाख्यानम्, इति । कस्य नूनं निधारयेत्यन्ताः सप्ताधिकनवतिसंख्याका ऋचस्त्वं नः स त्वमित्यादिकास्तिस्त्र ऋच एवमुचा शतम् । पर शब्दोऽधिकवाची। पूर्वोक्ता हक्शतात्परोऽधिका एकत्रिंशत्संख्याका यं विममित्याचा गाथा यस्मिया ख्याने तदेतत्परऋक्शतगाथम् । शुनःशेपेन दृष्टाः सप्ताधिकनवतिसंख्या युक्ता ऋचो याः सन्त्यन्येन दृष्टास्तिस्त्र ऋचो याः सन्ति ब्रामणे मोक्ता एक त्रिंशदायाविशेषा ये सन्ति तैः सर्वैरुपेतं हरिश्चन्द्रो ह वैषस इत्यादिकं

सर्व चुनाशेपविषयमाख्यानम् ।

preguizen in Googleषष्ठः खण्डः] ऐतरेयब्रामणम् ।

८५९ तस्याऽऽख्यानस्य राजसूक्तौ विनियोग दर्शयति

तरोता राज्ञेऽभिषिक्तायाऽऽचष्टे, इति । राजसूयक्रतावभिषेचनीयाख्ये कर्मणि यदा राजाऽभिषिक्तो भवति तदानी तस्मै राजे तदाख्यानं होता कथयेत् ।

ततिकर्तव्यं दर्शयति

हिरण्यकशिपावासीन आचष्टे हिरण्य कशिपावासीनः प्रतिगृणाति यशो वै

हिरण्यं यशसैवैनं तत्समर्धयति, इति । होता यदोपाख्यानं कथयति तदानीं हिरण्यकशिपो सुवर्णनिर्मितसूत्रैनि पादिते कशिपौ स होतोपविशेत् । तदाख्यानमध्येऽध्वर्युश्च हिरण्यकशिपा वासीनो वक्ष्यमाणं प्रतिगरं भूयात् । हिरण्यस्य यशोहेतुत्वाचशस्त्वम् । तथा सत्येनं राजानं यशसैव समृद्धं करोति ।

अध्वर्युणा प्रयोक्तव्यं प्रतिगरविशेषं दर्शयति

ओमित्यूचः प्रतिगर एवं तथेति गाथाया ओमिति वै देवं तथेति मानुषं देवेन चैवैनं

तन्मानुषेण च पापादेनसः प्रमुञ्चति, इति । होत्रा प्रयुक्ताया एकैकस्या ऋचोऽन्तेऽध्वर्योरोमित्येतादृशः प्रतिगरो भवति। *ओमित्येतच्छन्दोरूपं दैवं देवैरङ्गीकारार्थे प्रयुज्यते । तत्तयेत्यन्तं (तथेति) मानुषं मनुष्या अङ्गीकारे तथेतिशब्दं प्रयुञ्जते । तत्वेन प्रतिगरेण देवेन मानु पेण चाध्वर्युरेनं राजानं पापादैहिकादपकीर्तिरूपादेनसो नरकहेतोश्च प्रमुञ्चति ममुक्तं करोति ।

ऋत्वर्थत्वेनोपाख्यानं विधाय क्रतुनिरपेक्षपुरुषार्थत्वेन विधत्ते

तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं न

हास्मिन्नल्पं चनैनः परिशिष्यते, इति । यस्मानुपाख्यानं पापप्रशमनहेतुस्तस्मादयजमानोऽपि राजसूयक्रतुरहितोऽपि राजा विजिती यदि विजयोपेतः स्यात्तदानीमेतच्छौन शेपमाख्यानमाख्याप

  • अत्र किंचित्रुटितम् । perizuo in Google

८६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३४ चतुर्खि ध्याये येत । तस्य राज्ञो यः कश्चिद्रामण उपाख्यानं झूयात् । तथा सति तस्मिवा. अनि अल्पं चन किंचिदप्येनः पापं न ह वै परिशिष्यते सर्व पापं नश्यतीत्यर्थः।

भाख्यानमयुक्तां दक्षिणां विधत्ते

सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते

चैवाऽऽसने श्वेतश्चाश्वतरीरथो होतुः, इति । योऽयमाख्याता होता तस्मै क्रत्वर्थदक्षिणामन्तरेणोपाख्यानप्रयुक्तां दक्षिणा गोसहस्ररूपां दद्यात् । प्रतिगरित्रेऽध्वर्यवे गोशतं दद्यात् । ये हिरण्यकश्चिपुरूपे दे आसने स्त एते अपि ताभ्यामेव दद्यात् । अश्वतरीभ्यां संकीर्णवातियु. काभ्यामधिकशक्तिभ्यां युक्तो रयोऽधतरीरयः । स च रजतेनालंकृतत्वा

छेतः । सोऽपि तादृशो होतुर्देयः ।

पूर्वमयज्ञसंयुक्तः कल्पो विजयिनो रामोऽभिहितः। इदानीं पुत्रकामानामपि (*सर्वेषामपि) विधचे

पुत्रकामा हाप्याख्यापयेरल्लभन्ते ह

पुत्राल्लँभन्ते ह पुत्रान् ॥ १८॥ इति । ये पुत्रकामाः सन्ति ते ह प्रसिद्धमेतदुपाख्यानमाख्यापयेरन्बामणमुखा युरित्यर्थः । ते पुत्राल्लँभन्ते । अभ्यासोऽध्यायसमाप्त्यर्थः ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण

भाष्ये त्रयस्त्रिंशाध्याये षष्ठः खण्डः ॥ ६॥ (१८)[ १४१] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्रा ज्यधुरंधरसायणाचार्यकृतावैतरेयबामणभाष्ये

त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥