अथ द्वात्रिंशोऽध्यायः।
सत्रिणां वणितं कार्य प्रायश्चितं ब्रवीत्यथ ।।
चोचोचरमकारेण सुस्पष्टमिति गृह्यताम् ॥ १॥ तत्र प्रथमचोद्योत्तरे दर्शयति
तदाहुर्य आहिताग्निरुपवसथे म्रियेत कथ मस्य यज्ञः स्यादिति नैनं याजयेदिया.
हुरनभिप्राप्तो हि यज्ञं भवतीति, इति । तत्र यावैकल्यविषये केचिद्रह्मवादिनः पृच्छन्ति । यः पुमानाहिताशिः सधुपवसथाख्ये सुत्यादिनात्पूर्वदिने म्रियेतास्य यज्ञः कथं प्रवर्तत इति प्रश्नः। तस्येदमुत्तरमेनं मृतं न याजयेदित्यभिज्ञा आहुः । तत्रेयमुपपत्तिः । मुत्सावा
अनुपक्रान्तत्वादयं यज्ञमनभिमाप्त एव भवति । तस्माद्यागो न युक्तः।
द्वितीयप्रश्नोत्तरे दर्शयति
तदाहुर्य आहिताग्निरधिश्रितेऽग्निहोत्रे सानाय्ये वा हविःषु वा म्रियेत का तत्र प्रायश्चित्तिरित्यत्रैवैनान्यनुपर्यादध्यायथा
सर्वाणि संदोरन्सा तत्र प्रायश्चित्तिः, इति । अग्निहोत्रे तत्साधनभूते पयसि कार्यार्थ बहावधिश्रिते सति तथा सामाव्ये दर्शपूर्णमासाथै क्षीरेऽधिश्रिते सति तथा हविष्णु पुरोडाशादिष्वषिश्रितेषु यज मानस्य मरणे किं प्रायश्चित्तमिति प्रश्नः । पायो नाशस्तस्य चिचं समाधानम्। अत्रैव यजमानदहनदेश एवैनानि क्षीरादीन्यनुपर्यादध्यात् । यजमानमनु परिवः
—..
–.
.
…-
-.-
—-…-
.
…-
-.-
–….-
RAT
‘T
.-
ATA.–
–.
.
…-
-.-
—-…-
.
…-
-.-
.-..
१ प्रथमः खण्डः] ऐतरेयब्रामणम् ।
८०७ क्षिपेत् । येन प्रकारेण सर्वाणि तानि यजमानेन संभूय दोरंस्तया प्रक्षिपेत् ।
सा ताहची क्रिया तत्र दोषे प्रायश्चिचिर्भवति ।
तृतीये प्रभोत्तरे दर्शयति
तदाहुर्य आहितामिरासनेषु हविःषु म्रियेत का तत्र प्रायश्चित्तिरिति याभ्य एव तानि देवताभ्यो हवींषि गृहीतानि भवन्ति ताभ्यः स्वाहेत्येवैनान्या हवनीये सर्वहुन्ति जुहुयात्सा तत्र प्रायश्चित्तिः, इति । हविःषु पुरोडाशादिषु वेद्यामासभेषु यजमानमरणे याभ्यो देवताभ्यः पूर्व तानि हवींष्युपक्रान्तानि ताभ्यस्तदेवतानामानि चतुर्दान्तान्युचार्य खात्यने. नैव मत्रेणैतानि हवींषि सर्वहुन्ति निःशेषेण यथा सर्वाणि हुतानि भवन्ति वयाऽऽहवनीये जुहुयात् ।
चतुर्ये प्रश्नोत्तरे दर्शयति
तदाहुर्य आहितामिः प्रक्सम्रियेत कथम स्यामिहोत्रं स्यादित्यभिवान्यवत्सायाः पयसा जुहुयादन्यदिवैतत्पयो यदभिवान्यवत्साया
अन्यदिवैतदग्निहोत्रं यत्प्रेतस्य, इति । अग्रिहोत्रं भार्यासमीपे [सं]स्थाप्य प्रामान्तरे प्रवसन्गतः सन्यदि म्रियेत वंदानी स्वगृहे पुत्रादिरभिवान्यवत्सायाः पयसाऽग्निहोत्रं जुहुयात् । वा गति गन्धनयोरिति धातोरभिपूर्वस्याभिवा इति रूपम् । अन्यथासौ वत्सश्चान्य. वत्सः । अभिमाप्तोऽन्यवत्सो यस्या गोः सेयमभिवान्यवत्सा पोषणादिप्रकारे णोपस्थितेत्यर्थः । एतादृश्या अभिवान्यवत्साया यत्पयोऽस्त्येतदन्यदिव दैनं दिनानिहोत्रीपयसः सकाशादन्यदेवैतद्रव्यम् । प्रेतस्यापि यदग्निहोत्रमेतदन्यदि वैतभित्यामिहोत्रादन्यदेव कर्मान्तरं तत्समानधर्मकं पुत्रादिकर्टकम् । अतः प्रेत स्याधिकाराभावेऽपि पुत्रादेरधिकारसद्भावादनुष्ठानमुपपद्यत इत्यर्थः ।
तत्रैव पक्षान्तरमाह
अपि वा यत एव कुतश्च पयसा जुहुयुः, इति । अभिवान्यवत्साया इति नियमो नास्ति किंतु यतः कुतो यस्याः कस्या बिहोः पयसा पुत्रादयो जुहुयुरिति ।
८०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३२द्वात्रि ध्याये . पुनरपि पक्षान्तरमाह
अथाप्याहुरेवमेवैनानजस्रानजुह्वत इन्धी
रना शरीराणामाहर्तोरिति , इति । अपि चान्ये याशिकाः पक्षान्तरमाहुः । देशान्तरे मृतस्य प्रेतस्य शरीराणा. मस्थ्यादिमेतावयवानामाहाराहरणपर्यन्तमेनानाहवनीयादीत्रीनग्रीनजस्रानुप. अमरहितानजुहतो होमरहितानेवमेवासमासेनैव प्रकारेणेन्धीरन्मज्वालयेयुरिति । होमाभावेऽपि प्रयोऽप्यमयो नोपशाम्यन्ति । तथा प्रेतास्थिसमालयनपर्यन्त मज्वालयेदित्यर्थः। . प्रेतास्थिविनाशे किं कर्तव्यमित्याशझ्याऽऽह
यदि शरीराणि न विद्यरन्पर्णशरः षष्टि स्त्रीणि च शतान्याहृत्य तेषां पुरुषरूपक मिव कृत्वा तस्मिंस्तामावृतं कुर्युरथैना
छरीरैराहतैः संस्पर्योहासयेयुः, इति । यदि कविच्छरीराणि अस्थ्यादीनि न विधेरन्विनश्येयुस्तदा पर्णशरः पलाशहास्य च्छिमान्न्तान्पष्टयुत्तरशतत्रयसंख्याकानाहृत्य तेषां वृन्तानां संबन्धि पुरुषरूपकमिव कृत्वा मनुष्यसदृशं किंचिद्रूपं निर्माय तस्मिन्पे तामा. वृतं प्रेतशरीरोचितं प्रकारं दहनपिण्डदानादिरूपं कुर्युः । अथ तदानी कृत्रिम रूपदहनकाल एनानाहवनीयाधमीश्मशाने नीत्वा समाहतैस्तैः पलाशवन्तनि. मितैः शरीरावयवैः संस्पर्श संस्पष्टं कृत्वोद्वासयेयुः। . पुरुषरूपनिर्माणकारं दर्शयति . अध्यर्धशतं काये सक्थिनी दिपञ्चाशे च विशे
चोरू विपञ्चविंशे शेषंतु शिरस्युपरि दध्याद, इति । आनीवाना पलाशन्तानामध्यर्धशतमधिकेनान पञ्चाशपेण युक्तं अवं काये मध्यशरीरस्थाने दध्यात्परितः प्रक्षिपेत् । पञ्चाशत्संख्याकानां हृन्तानां समूहरूपं पञ्चाशं द्विशंख्याके [पञ्चाशे] द्विपश्चाशे विंशतिसंख्याकानां समूहरूपं विशं दिपथाशे च विंशे च सक्थिनी दध्यात्। चत्वारिंशदधिकेन शतेन सक्थि इयं निष्पादयोदित्यर्थः । पञ्चविंशतिसंख्याकानां समूहरूपं पञ्चविंशं दिसंख्या पञ्चविंशे ते अरू दध्यात्पश्चाशत्संख्याकैर्वृन्तैरुरूदयं निष्पादयेदित्यर्थः । एवं7
.
२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।
८०९ नवत्य(चत्वारिंशदाधिकशतद(त्र)ये गते सति शेष सप्त(विंशतिसंख्याक शिर स्युपरि प्रसिपेत् ।
प्रवसतो मृतस्यामिहोत्रवैकल्यप्रायश्चित्तं निगमयति
सा तत्र प्रायश्चित्तिः ॥२॥ इति । सा प्रोक्तक्रिया वत्र वैकल्ये प्रायश्चित्तिः समाधानकरणम् ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण
भाष्ये द्वात्रिंशाध्याये प्रथमः खण्डः ॥ १॥ (२) [१२५] पञ्चमे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्यामिहोत्र्युपावसृष्टा दुद्यमानोपविशेका
तत्र प्रायश्चित्तिरिति तामभिमन्त्रयेत , इति । अमिहोत्रहविरथ दोग्धव्या धेनुरनिहोत्री यस्यामिहोत्रिणः संवन्धिनी सा धेनुरुपावसृष्टा वत्सेन संयोजिता दुखमाना सती दोहनस्य विघ्नं कृत्वा यधुप विशेचदानी वक्ष्यमाणेन मवेण तामभिमत्रयेत । यद्यप्येतत्पश्चविंशाध्यायस्य द्वितीयखण्डे वणितं तथाऽपि तत्र बुदिस्यसंगतिः । अत्र तु मायश्चित्तमाधान्ये. नोपक्रमात्साक्षादेव संगतमित्यभिप्रेत्य पुनरप्यान्नातम् ।।
वत्रोचरशेषं दर्शयति
यस्माद्रीषा निषीदसि ततो नो अभयं कृधि । पशून्नः सर्वान्गोपाय नमो रुद्राय मीहळुष इति तामुत्थापयेदुदस्थादेव्यदितिरायुर्यज्ञपतावधाद । इन्द्राय कृण्वती भागं मित्राय वरुणाय चेत्य थास्या उदपात्रमूधसि च मुखे चोपगृह्णीयाद
थैनां ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिः, इति । एतत्सर्वं पूर्वत्रैव व्याख्यातम् । षष्ठे प्रश्नोतरे दर्शयति
तदाहुर्यस्यामिहोब्युपावसृष्टा दुधमाना वाश्येत का तत्र प्रायश्चित्तिरित्यशनायां ह वा एषा यजमानस्य प्रतिख्याय वाश्यते तामन्नमप्या-ogle
………
…
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१२द्वात्रि ध्याये दयेच्छान्स्यै शान्तिर्वा अनं सूयवसादगवती
हि मूयादिति सा तत्र प्रायश्चित्तिः, इति । एतदपि पूर्वत्र व्याख्यातम् । सप्तमे प्रश्नोतरे दर्शयति
तदाहुर्यस्यामिहोन्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति सा यत्तत्र स्कन्द येत्तदभिमृश्य जपेद्यदध दुग्धं पृथिवीमसृप्त यदोषधीरत्यसपबदापः। पयो गृहेषु पयो अध्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति तत्र यत्परिशिष्टं स्यात्तेन जुहुयायधलं होमाय स्याद्ययु वै सर्व सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयादा खेव श्रद्धायै
होतव्यं सा तत्र प्रायश्चित्तिः ॥३॥ इति । एतदपि पूर्वत्र ब्याख्यातम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णभाष्ये द्वात्रिंशाध्याये द्वितीयः खण्डः ॥२॥ (३) [१२६]
अष्टमे प्रश्नोचरे दर्शयति
तदाहुर्यस्य सायं दुग्धं सांनाय्यं दुष्येहाऽ पहरेदा का तत्र प्रायश्चित्तिरिति प्रातर्दुग्धं वैधं कृत्वा तस्यान्यतरां भक्तिमातच्य
तेन यजेत सा तत्र प्रायश्चित्तिः, इति । दर्शपूर्णमासयोर्दध्यर्थे सायंकाले दुग्धं पयः सानाय्यरूपं केशकीटादिभिई ध्येयः कश्चिदपहरेदा तदानीं परेषुः मातग्धं पयो भागद्वयं कृत्वा तत्रैकमा गमातच्य तेन संस्कृत्य दधिस्थानीयेन तेन यजेत ।
१. ‘त्रै भा। easies, fagic
१ तृतीयः खण्डः] ऐतरेयबामणम् ।
मवमे प्रश्नोतरे दर्शयति
तदाहुर्यस्य प्रातर्दुग्धं सांनाय्यं दुष्येहाऽ. पहरेदा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वा पुरोळाशं तस्य स्थाने निरुप्य
तेन यजेत सा तत्र प्रायश्चित्तिः, इति । भातर्दुग्धरूपस्य सानाय्यस्य दोषापहाराभ्यां बैकल्ये सति तस्य दुग्धस्य स्थान इन्द्रदेवताकं महेन्द्रदेवताक वा पुरोग्यशं कृत्वा तेन यजेत । इन्द्रयाजि महेन्द्रयाजिमेदादेवताव्यवस्था ।
दशमे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्य सर्वमेव सांनाय्यं दुष्येदाऽपह रेडा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं
वेति समानं सा तत्र प्रायश्चित्तिः, इति । सायं दुग्धं प्रातदुग्धं चेत्युभयं सर्वम् । एकादशे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयुर्वाs. पहरेयुर्वा का तत्र प्रायश्चित्तिरियाज्यस्यै नानि यथादेवतं परिकल्प्य तयाऽऽज्यहवि षेष्टया यजेतातोऽन्यामिष्टिमनुल्बणां तन्वीत
यज्ञो यज्ञस्य प्रायश्चित्तिः ॥४॥ इति । … पुरोडाशदधिपयोल्माणि हवींषि सर्वाणीत्युच्यन्ते । आज्यस्य संबन्धीन्ये. मानि त्रीणि हवींषि तत्तदेवतामनतिक्रम्य तदनुसारेण परिकल्प्याऽऽज्यहवि युक्ततया तयेला यजेत । इष्ट्वा च तत्तदूर्ध्वमन्यामिष्टिमनुल्वणामन्यूनानपिका पयाशासं तन्वीत निस्तारयेत् । यथाशास्त्रमनुष्ठितो यहः पूर्वस्य विकलस्य पास्य मायश्चितिः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेगनासन
भाष्ये द्वात्रिंशाध्याये तृतीयः खण्डः ॥३॥(४) [१२७]
to presenting Google
८११ श्रीमत्सायणाचार्यविरधितभाष्यसमेतम्-[१रद्वात्रि ध्याये–
द्वादशे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्यामिहोत्रमधिश्रितममध्यमापोत का तत्र प्रायश्चित्तिरिति सर्वमेवैनत्युच्यभिपर्या सिच्य प्राङदेत्याऽऽहवनीये हैतां समिधम भ्यादधायथोत्तरत आहवनीयस्योष्णं भस्म निरुद्य जुहुयान्मनसा वा प्राजापत्यया वर्चा तब्रुतं चाहुतं च स योकस्मिन्बुनीते यदि इयो रेष एवं कल्पस्तच्चेद्यपनयितुं शक्नुयानिषि च्यैतदुष्टमदुष्टमभिपर्यासिच्य तस्य यथोनीती
स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिः, इति । अमिहोबार्य पयो गार्हपत्ये पाकार्य यदपिश्रितं तद्यदि किंचिदमेध्यं यदा नई केशकीटादिकमापयेत प्रामुयातदानीमेतदविः सर्वमप्यमिहोत्रहवण्या सुचि साकल्येन सिक्त्वा प्रामुख उदेयोत्थायाऽऽहवनीयं प्रति गत्वा तसि अतां नित्यां समिधमादध्यात् । अथानन्तरमाहवनीयस्योचरभागे किंचितु भस्म ततो निःसार्य तस्मिन्मनसा नित्याग्रिहोत्रमचमनुस्मृत्य वाचा वा प्रजा. पते न त्वदेतानीति मचमुचार्य जुहुयात् । तदेतद्भस्मन उष्णत्वादुतमपि भवति । अमिराहित्यादहुतमपि भवति । न केवलमषिश्रित एवामध्यपात एक स्मायश्चित्तं किं तहिं चतुरुभयनावस्थायां ययेकस्मिधुनीते यदि वा योरथी तयोरमेध्यपातस्तदानीमेष एव कल्पः प्रकारः । उनयनं नामाग्रिहोत्रहवण्यां सेचनम् । तत्केशकीयादिक्षितममिहोत्रहवण्यामुनीतं यद्यपनेतुं शकुयाचदानी. मेतदुष्टं निःषिच्य निःसार्य स्थाल्यामवस्थितमदुष्टं क्षीरममिहोत्रहवण्यामभिप
सिच्य यथोभीती स्यात्, उनीती येन प्रकारेण भवति तेन प्रकारेण मुहु. पात् । अदुई द्रव्यान्तरमषिश्रयणादिना संस्कृत्य जुहुयादित्यर्थः ।
प्रयोदचे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्याग्निहोत्रमधिश्रित स्कन्दति वा विष्यन्दते वा का तत्र प्रायश्चित्तिरिति तद द्विरुपनिनयेच्छान्त्यै शान्तिवा आपोऽथेन इक्षिणेन पाणिनाऽभिमृश्य जपति, इति ।
८१३
१ चतुर्थः खण्डः] ऐतरेपनामणम् । ___ अमिहोत्रद्रव्यं गाईपले पाकार्यमषिश्रितं सत्कदाचित्स्कन्दति स्खलति सीरविन्दुरषः पततीत्यर्थः। विष्यन्दते विशेषेण स्यन्दनं दाहाधिक्येन स्थाली मुखस्योपर्युद्वमनम् । तत्स्कर्ण विष्यन्दितं वा द्रव्यं दक्षिणेन पाणिना स्पृष्ट्वा वक्ष्यमाणं मचं जपेत् ।
तं दर्शयति
दिवं तृतीयं देवान्यज्ञोऽगात्ततो मा द्रवि णमाष्टान्तरिक्ष तृतीयं पितॄन्यज्ञोऽगात्ततो मा द्रविणमाष्ट पृथिवीं तृतीयं मनुष्या
न्यज्ञोऽगात्ततो मा द्रविणमाष्ट , इति । अस्य समस्य विष्यन्दितस्य वा पयसस्तृतीयमंशस्वरूपं दिवं स्वर्गलोक ममालामोतु । तेन यहोऽपि देवान्मामोतु । प्रापणाद्वैकल्यपरिहारे सति माम. बिहोत्रिणं द्रविणमाष्ट धनं मामोतु । तथैवापरं तृतीयं द्रव्यांशस्वरूपमन्तरिम ममात् । तेन यशोऽपि पितृन्मामोतु । ततः मापणान्मां धन प्रामोतु । पुनर. प्यपरं तृतीयं द्रव्यांशस्वरूपं पृथिवीमगात् । तेन यज्ञोऽपि मनुष्यानगात् । तत स्तदुभयमापणान्मां द्रविणं धनमाष्ट पामोतु ।
मवान्तरजपं विधत्ते
ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणी मृचं जपति विष्णुर्वे यज्ञस्य दुरिष्टं पाति
वरुणः स्विष्टं तयोरुभयोरेव शान्यै , इति । ययोरोजसेत्याक्सूत्रे पठिता। तस्याश्चतुर्यपादे विष्णू अगन्वरुणा पूर्व इताविति श्रुतत्वादियं विष्णुवरुणदेवताका यस्य यदुरिष्टमक्वैकल्यं वच्छ. मयित्वा विष्णुः पाति । यज्ञस्य यत्स्विष्टं यथाशास्त्रमनुष्ठितमहं तदरुणः पाति । फलमविषेषनिवारणं तत्मतिपालनम् । तस्मादयं जपस्तयोरुभयोर्दुरिष्टस्विष्ट योर्ययोक्ताकारण शान्त्यर्य संपद्यते ।
उत्तरवाक्यमुपसंहरति
सा तत्र प्रायश्चित्तिः, इति । चतुर्दचे प्रश्नोतरे दर्शयति
तदाहर्यस्याग्रिहोत्रमधिश्रितं प्राङदायन्स Goric
८१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३२द्वात्रि०ध्याये
लते वाऽपि वा भ्रंशते का तत्र प्रायश्चित्ति रिति स यद्युपनिवर्तयेत्स्वर्गाल्लोकाचजमा नमावर्तयेदत्रैवास्मा उपविष्टायतमामिहो उपरीशेषमाहरेयुस्तस्य यथोनीती स्यात्तथा
जुहुयात्सा तत्र प्रायश्चित्तिः, इति । ममिहोत्रद्रव्यं गार्हपत्येऽधिश्रित पाकादूर्ध्वमादाय प्राङ्मुख आहवनीयं प्रत्युदायक्षुद्रच्छमध्वर्युर्यदा भवति तदानीं तव्यं स्खलते यद्वा भ्रंशते। बिन्दु. पतनं स्खलनं साकल्येन द्रव्यपतनं भ्रंशः। पुनरप्यग्निहोत्रस्याल्या द्रव्यं ग्रहीत सोऽध्वर्युर्यदि पश्चिमामुखी निवृत्तो भवेत्तदानीं स्वर्गमाप्तं यजमानं तस्माल्लो. कादावर्तयेत् । अतो निवृत्तिमकृत्वा स्खलनभ्रंशदेश एवोपविष्टायास्मा अध. वे स्थालीगतममिहोत्रद्रव्यशेषमन्ये पुरुषा आहरेयुः । तस्य द्रव्यस्य स्वीका रेणाध्वर्युर्ययोबीती स्यात्तथा जुहुयात् । उनीतमुनयनं स्थालीगतस्य द्रव्य स्पामिहोत्रहवण्यां चतुर्वारं प्रक्षेपश्चतुरुनयतीति श्रुतत्वात् । उभयनादिसंस्का रपूर्वकं जुहुयादित्यर्थः।
पञ्चदशे प्रश्नोत्तरे दर्शयति
तदाहुरथ यदि खुम्भिद्येत का तत्र प्रायश्चि त्तिरित्यन्यां सुचमाहृय जुहुयादथैनां मुचं भिन्नामाहवनीयेऽभ्यादध्यात्याग्दण्डां प्रत्य
पुष्करां सा तत्र प्रायश्चित्तिः, इति । सुगमिहोत्रहवणी । तद्भेदे चुगन्तरेण हुत्वा मिना सुचमाहवनीये प्रक्षिपेत् । तदानीं तदीयो दण्डःमाच्यामवस्थितस्तदीयं पुष्करं बिलं प्रतीच्यामवस्थिर्व यथा भवति तथा प्रक्षिपेत् ।
पोडचे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्याऽऽहवनीये हामिविद्येताथ गाह पत्य उपशाम्येका तत्र प्रायश्चित्तिरिति स यदि प्राश्चमुद्धरेत्पाऽऽयतनाच्यवेत यत्पत्यश्व मसुरवद्यज्ञं तन्वीत यन्मन्थेद्धातृव्यं यजमाः
१ पञ्चमः खण्डः] ऐतरेयबामणम् ।
८१५ नस्य जनयेद्यदनुगमयेत्प्राणो यजमानं जह्यात्सर्वमेवैनं सह भस्मानं समोप्य गाई पत्यायतने निधायाथ प्राश्चमाहवनीयमु.
द्वरेत्सा तत्र प्रायश्चित्तिः ॥५॥ इति । प्रतिदिनमाहवनीयामिोमोर्ध्वमुपशाम्यति । गाईपत्यानिस्तु सर्वदा धार्यते। तस्मादाईपत्याचत्तदोमकाल आहवनीयार्थममिं विहरेदित्येषोऽनुष्ठानक्रमः । एवं सति यदि कदाचिदाहवनीयस्य स्थानेऽगिरनुपशान्तो विधेत तदानीं गाईपत्ययोपशाम्येत् । तत्र तस्य वैकल्यस्य परिहाराय पक्षाः पञ्चविषाः संभ. पन्ति । विद्यमानमाहवनीयं गार्हपत्यतया संभाव्य ततोऽपि पूर्वदेश आहव. नीयं कर्तुं तस्मात्पूर्वसिद्धाहवनीयात्माश्चमनिमुद्धरेदिति प्रथमः पक्षः। तस्मिन्पो यजमान आयतनात्स्वकीयस्थानात्मच्यवेताऽऽहवनीयस्थानात्मच्युतत्वात् । अथ गाईपत्यार्थ पूर्वसिद्धादाहवनीयात्प्रत्यञ्चमनिमुद्धदिति द्वितीयः पक्षः । तस्मिन्द्रितीयपक्षे यज्ञ एषोऽसुरयज्ञसमानः स्यात् । असुरयज्ञश्च शाखान्तरे सानसुरान्मकृत्यैवमानायते-‘त आहवनीयमन आदधत । अथ गार्हपत्यम् । अथान्वाहार्यपचनम्’ इति । तदीयदोषोऽपि तत्रैवाऽऽन्नात:–‘भद्रा भूत्वा परा. भविष्यन्ति’ इति । गाईपत्यार्थममिमथनं कर्तव्यमिति तृतीयः पक्षः । तदानी विद्यमान आहवनीये तद्विरोधिनोऽन्यन्तरस्य मथनायजमानस्य शत्रुमुत्पाद येत् । पुनराधानं कर्तुं विद्यमानमाहवनीयमनुगमयेदुपशमयेदिति चतुर्यः पक्षः। तस्मिन्पक्षे विद्यमानस्य विनाशनात्माणो यजमानं परित्यजेत् । आहवनीय. गतं भस्मसहितं सर्वमप्यानं कस्मिंश्चित्पात्रे प्रक्षिप्य नीत्वा गाईपत्यस्थाने प्रति. प्यानन्तरं ततो गाईपत्यात्माश्चमाहवनीयमुद्धरेदिति पञ्चमः पक्षः । अस्मिन्पले दोषाभावात्सैव प्रायश्चितिर्भवति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबाम __ . भाष्ये द्वात्रिंशाध्याये चतुर्थः खण्डः ॥४॥ (५) [१२८]
सप्तदशे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्यामावनिमुद्धरेयुः का तत्र प्रायः श्चित्तिरिति स यद्यनुपश्येदुदूह्य पूर्वमपरं
क.ह. भ. क्षः। भास्म।
1.11111
८१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३२द्वात्रि भ्याये
निदध्यायद्य(योनानुपश्येत्सोऽनयेऽनिव
तेऽटाकपालं पुरोळाशं निर्वपेत्तस्य याज्या नुवाक्ये अग्रिनाऽग्निः समिध्यते त्वं ह्यने अग्मिनेत्याहुतिं वाऽऽहवनीये जुहुयादग्नयेऽ
निवते स्वाहेति सा तत्र प्रायश्चित्तिः, इति । सायंमातराहवनीयेऽनौ स्थित एव सति पुनरपि गाईपत्याहिं य उद्धरेयुस्त दानीमुदतस्याने प्रक्षेपात्पूर्वमेव विद्यमानस्यामेर्दर्शने से पूर्व विधमानमणिमु पूस तस्मादाहवनीयस्थानादुखत्य तस्मिन्स्थाने पुनरपरमिदानीमानीतमर्षि निदध्यात् । यद्यदि तु* विद्यमानं नानुपश्येत्तदानीमानीतममिं तत्र प्रक्षिप्य पश्रादमिद्वयमवगत्यामिवतेऽयये देवतायै पुरोळाशे निरुप्य तस्यैते याज्यानु पाक्ये कुर्यात् । अमिनाऽमिरिति पुरोनुवाक्या । त्वं समे अभिनेति याज्या। सोऽयमेक: पक्षः। दर्विहोमवधाज्यानुवाक्ये परित्यज्यामयेऽपिवते स्वाहेति मोणाऽऽहवनीय आज्यं जुहुयादिति द्वितीयः पक्षः।
अष्टादशे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्य गार्हपत्याहवनीयो मिथः संस ज्येयातां का तत्र प्रायश्चितिरिति सोऽनये वीतयेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्या नुवाक्ये अन्न आयाहि वीतये यो नि देव वीतय इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये
वीतये स्वाहेति सा तत्र प्रायश्चित्तिः, इति । अग्न्युदरणादूर्ध्व व्यवस्थितयोराहवनीयगार्हपत्ययोः सतोर्यदि गार्हपत्य गतोशार आहवनीये प्रमादात्पतेदाहवनीयगतो वा गार्हपत्ये पतेत्सोऽयं मियः संसर्गः । तत्र मायश्चित्वार्थस्य पुरोडाशस्य थीतिगुणयुक्तोऽभिर्देवता । अन्य त्पूर्ववयाख्येयम् । __ भमिनाऽग्निः समिध्यते०-१-१२-६ । त्वं हमे अमिना०-८-१३-१४ । अन्न आयाहि वीतये०-१-१६-१० । यो अनि देववीतये०-१-१२-१०।
- मूलस्थवेत्सम्ययार्थप्रदर्शकस्तुशब्दः । - Hogle.
१ षष्ठः खण्डः] ऐतरेयबामणम् ।
एकोनविंशे प्रश्नोचरे दर्शयति
तदाहुर्यस्य सर्व एवाग्रयो मिथः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽनये विविचयेऽष्टाक पालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये स्वर्णवस्तोरुषसामरोचि खामग्ने मानुषीरीळते विश इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये
विविचये स्वाहेति सा तत्र प्रायश्चित्तिः, इति । माहवनीयगाईपत्यदक्षिणामीनां सर्वेषां परस्परसंसर्गे सति विविचिगुणयु कोमिः पुरोडाशदेवता । अन्यत्पूर्ववव्याख्येयम् ।
विशे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्यानयोऽन्यैरनिभिः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये क्षामवतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अक्रन्द दग्निस्तनयनिव धौरधा यथा नः पितरः परास इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये क्षामवते
स्वाहेति सा तत्र प्रायश्चित्तिः ॥ ६ ॥ इति । यस्यामिहोत्रिणः संबन्धिन आहवनीयाघमयोऽन्यदीयैराहवनीयादिमिर्ग किकामिभिर्वा संसृज्येरंस्तस्य प्रायश्चिचीये पुरोडाशे क्षामवाणयुक्तोऽभिर्देवता।
मन्यत्पूर्ववद्याख्येयम् ॥ .
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण भाष्ये द्वात्रिंशाध्याये पञ्चमः खण्डः ॥५॥(१) [१२९]
एकविंशे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्यानयो ग्राम्येणामिना संदोरन्का स्वर्णवस्तोरुषसामरोचि०-७-१०-२ । वामने मानुषीरीळते विशः०-५ ८-३ | अक्रन्ददमिस्तनयन्निव चौः०-१०-१५-१ । भषा यथा नः पितरः परासः-४-१-१९।
Piştizen in Google
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३२द्वात्रि ध्याये तत्र प्रायश्चित्तिरिति सोऽग्नये संवर्गायाष्टाक पालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये कुवित्सु नो गविष्टये मा नो अस्मिन्महाधन इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये संव
र्गाय स्वाहेति सा तत्र प्रायश्चित्तिः, इति । प्राम्योऽनिर्महानसादिगतः। स कदाचित्पमादेन प्रवृद्धो ग्रामगतानि गृहाणि दहममिहोत्रशालागतानाहवनीयादीनमीन्सम्यग्दहति तदानी प्रायश्चित्स्य पुरोडाशस्य संवर्गगुणयुक्तोऽभिर्देवता । अन्यत्पूर्ववत् । ..
द्वाविंशे प्रश्नोचरे दर्शयति
तदाहुर्यस्यानयो दिव्येनामिना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽनयेऽप्सुमतेऽष्टाक पालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अप्स्वने सघिष्टव मयो दधे मेधिरः पूतदक्ष इत्याहुतिं वाऽऽहवनीये जुहुयादग्नयेऽप्सु.
मते स्वाहेति सा तत्र प्रायश्चित्तिः, इति । दिव्यामिवैद्युतः । अशनिपाते सति तदीयेनामिनाऽऽहवनीयादीनां संसर्ग मायवित्तपुरोडाशस्याप्सुमानमिर्देवता । अन्यत्पूर्ववत् ।
प्रयोविंशे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्यामयः शवाग्निना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये शुचयेऽष्टाकपालं पुरो काशं निर्वपेत्तस्य याज्यानुवाक्ये अग्निः शुचिव्रत तम उदने शुचयस्तवेयाहुतिं वाऽऽहवनीये जुहु
यादग्नये शुचये स्वाहेति सा तत्र प्रायश्चित्तिः,इति । कुवित्सु नो गविष्टये०-८-७९-११ । मा नो अस्मिन्महाधने०-८-७५ १२ । अप्खने सपिष्टव०-८-४३-९ । मयो दधे मेधिरः पूतदक्षः०-३-१ ५। अनिः शुचिततमः०-८-४९-२१ । उदने शुचयस्तव० —१४-१७ ॥७ सप्तमः खण्डः] ऐतरेयबामणम् ।
प्रेतदहनाय प्रवृत्तोऽमिः शवामिस्तसंसर्गे पुरोडाशस्य शुचिगुणयुक्तोऽभिर्दे बता । अन्यत्पूर्ववद्याख्येयम् ।
चतुर्विशे प्रश्नोत्तरे दर्शयति
तदातुर्यस्यामय आरण्येनामिना संदोरन्का तत्र प्रायश्चित्तिरिति समेवाऽऽरोपयेदरणी वोल्मुकं वा मोक्षयेद्यद्याहवनीयाद्यदि गार्हपत्याद्यदि न शक्नुयात्सोऽनये संवर्गायाष्टाकपालं पुरोळाशं निर्वपेत्तस्योक्ते याज्यानुवाक्ये आहुतिं वाऽऽ हवनीये जुहुयादग्रये संवर्गाय स्वाहेति
सा तत्र प्रायश्चित्तिः ॥ ७ ॥ इति । दावामिररण्यादागत्याग्निहोत्रशाला दहबाहवनीयादीन्यदा सम्यग्दहति सदानी तहहनात्पूर्वमेवामीनरणी द्वयोररण्योः सह समारोपयेदेव । तदशको गाईपत्याहवनीयादुल्मुकं मोक्षयेत् । सहसोल्मुकमादाय परितो गच्छेत् । समा रोपणं वोल्मुकमोचनं वेति पक्षदयस्यामिदाइत्वरया यदा न शक्तिस्तदा संवर्ग: गुणयुक्तोऽमिः पुरोडाशदेवता । तदीययाज्यानुवाक्ये च पूर्वमेवाभिहिते ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण
भाष्ये द्वात्रिंशाध्याये षष्ठः खण्डः ॥ ६ ॥(७) [१०]
पञ्चविंशे प्रश्नोत्तरे दर्शयति
तदाहुर्य आहिताग्निरुपवसयेऽश्रु कुर्वीत का तत्र प्रायश्चित्तिरिति सोऽनये व्रतभृतेऽष्टाक पालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये खममे व्रतभृच्छुचितानि बिभ्रव्रतपाजदब्ध इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये व्रत
भृते स्वाहेति सा तत्र प्रायश्चित्तिः, इति । उपवसथे यजनीयदिनात्पूर्वदिने शिरोव्ययादिना मृतबन्धुस्मरणादिना
…
-…–
.–.
..-.
८२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१२द्वात्रि ध्याये वा नेत्रयोरभुमोचने पुरोडाशस्य व्रतभृगुणकोऽनिर्देवता । त्वममे अवभृदिया दिके सूत्रकारेण पठिते।
पदिशे प्रश्नोत्तरे दर्शयति
तदाहुर्य माहिताग्निरुपवसथेऽवत्यमापयेत का तत्र प्रायश्चित्तिरिति सोऽग्नये व्रतपतयेऽष्टाक पालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये खममे व्रतपा असि यद्दो वयं प्रमिनाम व्रता नीयाहुति वाऽऽहवनीये जुहुयादग्नये व्रतप.
तये स्वाहेति सा तत्र प्रायश्चित्तिः, इति । व्रतविरुदै निषिदाचरणमनत्यं दिवास्वापादिकमापधेत मामुयात् । तत्र प्रतपतिगुणयुक्तोऽमिः पुरोडाशदेवता।
सप्तविंशे प्रश्नोतरे दर्शयति
तदाहुर्य माहितागिरमावास्यां पौर्णमासी वाड तीयाका तत्र प्रायश्चित्तिरिति सोऽनये पथि कृतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानु वाक्ये वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्मेत्याहुति वाऽऽहवनीये जुहुयादग्नये
पथिकृते स्वाहेति सा तत्र प्रायश्चित्तिः, इति । आहितामिरमावास्येष्टिं पौर्णमासेष्टिं वा यदि कदाचिदतिकामेत्तदा पकि कहुणयुक्तोऽमिः पुरोडाशदेवता। अष्टार्विशे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्य सर्व एवामय उपशाम्येरन्का तत्र प्रायश्चितिरिति सोऽनये तपस्वते जनहते
पावकवतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य त्वममे व्रतपा असि०-८-११-१ । यद्वो वयं प्रमि०-१०-२-४ । वेत्या हि वेधो अध्वनः०-६-११-३ । आ देवानामपि पन्यां०-१०-२-1
__८२१
८ अष्टमः खण्डः] ऐतरेयबामणम् ।
याज्यानुवाक्ये आयाहि तपसा जनेष्वा नो याहि तपसा जनेष्वित्याहुतिं वाऽऽहव नीये जुहुयादग्रये तपस्वते जनहते पावकवते
स्वाहेति सा तत्र प्रायश्चित्तिः ॥८॥ इति । आहवनीयगाईपत्यदक्षिणामीनां सर्वेषामुपशान्तौ तपस्वजनदत्पावकबहु णत्रययुक्तोऽमिः पुरोडाशदेवता ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण
भाष्ये द्वात्रिंशाध्याये सप्तमः खण्डः ॥७॥(८) [११०]
. एकोनत्रिशे प्रश्नोत्तरे दर्शयति
तदाहुर्य आहिताग्निराग्रयणेनानिष्ट्वा नवानं प्राश्रीयाका तत्र प्रायश्चित्तिरिति सोऽनये वैश्वानराय द्वादशकपालं पुरोळाशं निर्व त्तस्य याज्यानुवाक्ये वैश्वानरो अजीजन स्पृष्टो दिवि पृष्टो अग्निः पृथिव्यामित्या हुतिं वाऽऽहवनीये जुहुयादग्नये वैश्वान
राय स्वाहेति सा तत्र प्रायश्चित्तिः, इति । गृहेषु नवधान्ये समागते सत्याग्रयणेष्टिं कृत्वा पश्चामवानं भोक्तव्यं तस्या इष्टरकरणे वैश्वानरगुणयुक्तोऽमिः पुरोडाशदेवता ।
त्रिशे प्रश्नोत्तरे दर्शयति
तदाहुर्य आहिताग्निर्यदि कपालं नश्येका तत्र प्रायश्चित्तिरिति सोऽश्विभ्यां दिकपालं पुरोळाशं . निर्वपेत्तस्य याज्यानुवाक्ये अश्विना वर्तिरस्मदा गोमता नासत्या रथेनेत्याहुतिं वाऽऽहवनीये जुहु.
यादश्विभ्यां स्वाहेति सा तत्र प्रायश्चित्तिः, इति । पृष्टो दिवि पृष्टो अग्निः०-१-९८-२।अश्विना वर्तिः०-१-९१-१९॥
२१ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२२द्वात्रि०ध्याये
य आहितामिर्यस्याऽऽहिताः पुरोगनिष्पादक कपालं यदि नश्येत दानीमचिनौ पुरोडाशदेवता।
एकत्रिशे प्रश्नोत्तरे दर्शयति
तदाहुर्य आहितामियदि पवित्रं नश्यत्का तत्र प्रायश्चित्तिरिति सोऽग्नये पवित्रवतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं विततं दिव स्पद इत्याहुति वाऽऽहवनीये जुहुयादमये पवि
त्रवते स्वाहेति सा तत्र प्रायश्चित्तिः, इति । आहितामे पवित्रनाचे पवित्रवगुणयुक्तोऽमिः पुरोटाशदेवता । द्वात्रिंशे प्रश्नोत्तरे दर्शयति
तदाहुर्य आहिताग्निर्यदि हिरण्यं नश्येका तत्र प्रायश्चित्तिरिति सोऽग्नये हिरण्यवतेऽथाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये हिरण्य केशो रजसो विसार आ ते सुपर्णा अमिनन्त एवैरित्याहुतिं वाऽऽहवनीये जुहुयादग्नये हिर
ण्यवते स्वाहेति सा तत्र प्रायश्चित्तिः, इति । आहिताहिरण्यनाशे हिरण्यवगुणयुक्तोऽमिः पुरोडाशदेवता । प्रयस्त्रिंशे प्रश्नोत्तरे दर्शयति
तदाहुर्य आहिताग्निर्यदि प्रातरस्नातोऽग्निहोत्रं जुहुयात्का तत्र प्रायश्चित्तिरिति सोऽग्नये वरू णायाष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानु
UCE
पवित्रं ते विततंब्रह्मणस्पते०-९-८४-१।तपोष्पवित्रं विततं०-९-८४-२॥ हिरण्यकेशो रजसो विसारे०-१-७९-१ । आ ते सुपर्णा अमिनन्त एवैः १-७९-२॥
Arties shoogle
< अष्टमः खण्डः] ऐतरेयबामणम् ।
वाक्ये वं नो अग्ने वरुणस्य विद्वान्स त्वं नो अनेऽवमो भवोतीत्याहुतिं वाऽऽहवनीये जुहुयाद
नये वरुणाय स्वाहेति सा तत्र प्रायश्चित्तिः, इति । आहिताः स्नानमन्तरेणामिहोमे वरुणगुणकोऽग्निः पुरोडाशदेवता । चतुस्त्रिंशे प्रश्नोत्तरे दर्शयति
तदाहुर्य आहिताग्निर्यदि सूतकानं प्राश्रीयाका तत्र प्रायश्चित्तिरिति सोऽग्नये तन्तुमतेऽष्टाक पालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये तन्तुं तन्वत्रजसो भानुमन्विद्यक्षानहो नद्यत नोत सोम्या इत्याहुति वाऽऽहवनीये जुहुयाद
मये तन्तुमते स्वाहेति सा तत्र प्रायश्चित्तिः, इति । आहितामे सूतकानमाशने तन्तुमगुणकोऽमिर्देवता। पञ्चत्रिशे प्रश्नोत्तरे दर्शयति
तदाहुर्य आहिताग्निर्जीवे मृतशब्दं श्रुत्वा का तत्र प्रायश्चित्तिरिति सोऽग्नये सुरभिमतेऽष्टा कपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्निर्होता न्यसीदयजीयान्साध्वामकर्देववाति नो अद्येत्याहुतिं वाऽऽहवनीये जुहुयादग्नये
सुरभिमते स्वाहेति सा तत्र प्रायश्चित्तिः, इति । __ आहितामिः स्वस्मिञ्जीवत्येव स्वकीयमरणशब्दं यदा देषिमुखावृणुया.
पदानी मुरभिमगुणयुक्तोऽभिर्देवता ।
त्वं नो अग्ने वरुणस्य विद्वान्०-४-१-४ । स त्वं नो अग्नेऽवमो भवोतिः ४-१-५ । तन्तुं तन्वबजसो भानुमन्विहि०-१०-१३-६ । अक्षानहो नात नोत सोम्याः०-१०-१३-७ । अमिर्होता न्यसीदयनीयान्०-१-१-१। साध्वीमकर्देववीर्ति नो अब०-१०-१३-३। piglized in Google
८२१ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२२द्वात्रि०ध्याये
पत्रिंशो प्रश्नोत्तरे दर्शयति
तदाहुर्य आहिताग्निर्यस्य भार्या गौर्वा यमी जनयेका तत्र प्रायश्चित्तिरिति सोऽग्नये मरु खते त्रयोदशकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये मरुतो यस्य हि क्षयेऽरा इवेदच. रमा अहेवेत्याहुति वाऽऽहवनीये जुहुयादग्नये
मरुत्वते स्वाहेति सा तत्र प्रायश्चित्तिः, इति । माहितामिर्योऽस्ति तस्येत्यस्मिन्नर्थे यस्येति शब्दः प्रयुक्तः । तस्याऽऽहि वामेर्भार्या वा तगृहावस्थिता गौर्वा यमावपत्यद्वयं सह जनयेचदानी मरुत्व. हुणयुक्तोऽग्निर्देवता।
सप्तत्रिंशे पर्याये कंचिद्विचारमुद्भावयति
तदाहुरपत्नीकोऽप्यग्निहोत्रमा
हरे३० । नाऽऽहरे३८ , इति । पुरुषे जीवति सति यदा भार्या म्रियते तदानीमाहितैरमिभिर्भार्याया दाह इत्येक पक्षः । तथा च मनु:
“भार्यायै पूर्वमारिण्यै दत्त्वाऽमीनन्त्यकर्मणि ।
पुनरक्रियां कुर्यात्पुनराधानमेव च” इति ॥ आहितेभ्योऽमिभ्योऽन्येनामिना भार्या दहेदिति द्वितीयः पक्षः । तथा चाऽऽश्वलायन:-‘आहार्येणानाहितामिं पत्नी च’ इति । भारद्वाजोऽप्योह ‘निर्मन्थ्येन पत्नीम्’ इति । अस्मिन्पक्षे पुनरपि विवाहेच्छारहितत्वादयमपत्नीक एव वर्तते सोऽमिहोत्रमाहरेदनुतिष्ठेन वेति प्लतिद्वयं विचारार्थम् ।
वत्र निर्णयं दर्शयति
आहरेदित्याहुः, इति । अननुष्ठाने पाषं दर्शयति
यदि नाऽऽहरेदनद्दा पुरुषः, इति । मरुतो यस्य हि क्षये०-१-८६-१ । अरा इवेदचरमाः०-५-१९-५ ।
१ क. ब. ‘प्याहानि । २ स. म. मथ्येन ॥ POfe.
< अष्टमः खण्डः] ऐतरेयब्राह्मणम् ।
८२५ अद्धति सत्यनाम । तद्वैपरीत्यादऋतः पुरुषोऽनदा पुरुषोऽननुष्ठानेनानृतो भवेदित्यर्थः।
प्रश्नोत्तराभ्यां शब्दार्थ निश्चिनोति
कोऽनद्वा पुरुष इति न देवान
पितृन मनुष्यांनिति, इति । . अनदाशब्देन को विवक्षित इति प्रश्नः । यः पुमान्देवान पूजयेदिति शेषः । पितॄनपि न पूजयेत् । मनुष्यानतिथीनपि न पूजयेत् । तादृशः पुमान. नदा पुरुष इत्युत्तरम् ।
अग्रिहोत्रस्याननुष्ठाने सत्यनदा पुरुषो भवेदिति विपक्षे बाधमुक्त्वा स्वप समुपसंहरति
__ तस्मादपत्नीकोऽप्यनिहोत्रमाहरेद, इति । उक्तार्यदाया॑य शाखान्तरगतां गाथामुदाहरति–
तदेषाऽभि यज्ञगाथा गीयते, इति । तचस्मिन्नवश्यानुष्ठानरूपेऽर्थ एषा वक्ष्यमाणा यज्ञमभिलक्ष्य सर्वैर्गीयमाना पागाथा याजिकैर्गीयते पठ्यते ।
वां गायां दर्शयति
यजेत्सौत्रामण्यामपत्नीकोऽप्यसोमपः । माता पितृभ्यामनृणार्थाद्यजति वचनाच्छतिरिति, इति । अपत्नीकोऽपि पुमान्सौत्रामण्यां यजेत्सौत्रामणीयागमपि कुत्किमुतामि होत्रादिकं हविर्यद्वेष्वस्याधिकारोऽस्तीत्यर्थः । तद्वत्सोमयागेष्वधिकारशहायां सध्यावृत्यर्थमसोमप इत्युच्यते । यथा पत्नीरहितोऽपि मात्रे पित्रे चाशना च्छादनादिकं ददाति तद्वदग्निहोत्रमपि कुर्यादिति शेषः । अत्र हेतुरणार्या दिति ऋणपरिहारनिमित्तम् । तथा च शाखान्तरे भूयते-जायमानो वै ब्राम प्रस्त्रिभित्रंणवों जायते ब्रह्मचर्येणर्षिभ्यो यझेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वासीति(?) । अनेनैवाभिमायेण श्रुतिः। श्रुतेर्यजेति वचनमस्ति यज देवानधीष्व वेदान्मजामुत्पादयति शाखान्तरे वच नमस्ति । तस्माद्वचनादनुष्ठानपक्ष एवं युक्त इति गाथाया अर्थः।
१ ग. घ. क. प. छ. ‘ध्या इति । २ क. ‘वामआय | dhata boy fe
+-+11111++:
१.४
"
८२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३२द्वात्रि०ध्याये
तथा च विष्णुः स्मरति
“मृतायामपि भार्यायां वैदिकं न त्यजेद्विजः।।
उपाधिनाऽपि यत्कर्म यावज्जीवं समापयेत्” इति ॥ उपाधिः कुशमयादिपत्नीकल्पना । तथा च स्मृत्यन्तरम्
“अन्ये कुशमयी पत्नी कृत्वा तु गृहमेधिनः ।
अग्निहोत्रमुपासन्ते(ते) यावज्जीवमनुव्रताः” इति ॥ तथा च मैत्रायणीयश्रुतिर(ताव)प्यानायते- .
“यस्तु स्वैरमिभिर्भायों संस्करोति कथंचन ।
असौ मृतः स्त्री भवति स्त्री चैवास्य पुमान्भवेत्” । तस्मान्मृतमार्योऽपि स्वकीयाननीनवस्थाप्यामिहोत्रमाहरेत् । तदेतदभिप्रेत्योपसंहरति
तस्मात्सौम्यं याजयेत् ॥ ९॥ इति । ऋणापाकरणार्थी दोषराहित्यात्सौम्यः। तादृशमवश्यममिहोत्रावनुष्ठापयेत्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण.
भाष्ये द्वात्रिंशाध्यायेऽष्टमः खण्डः ॥८॥ (९)[१२]
अत ऊर्ध्व खण्डद्वयं देशविशेषेण केचिदामनन्ति कोचमाऽऽमनन्ति । अत एव पूर्वनिबन्धकाराः पाठरहितदेशानुसारेण तव्याख्यानमुपेक्षितवन्तः । अस्मा. भिस्तु पाठोपेतदेशानुसारेण तव्याख्यायते । तद्वतनिमित्तमुपवासं विषते
तदाहुर्यदर्शपूर्णमासयोरुपवसति न ह वा अव्रतस्य देवा हविरश्रन्ति तस्मादु
पवसत्युत मे देवा हविरश्रीयुरिति, इति । सत्चस्मिनिष्यनुष्ठानविषये ब्रह्मवादिन एवमाहुः । यः कोऽप्यनुष्ठाता दर्श पूर्णमासयोरुपवासं कुर्यात् । यागरूपं व्रतं निश्चित्य गाईपत्याद्यनिसमीपे यो वा[स] स उपवासः । यदि(द्वा) देवा अस्यापि यज्ञे समीपे वसन्तीत्येतदी योऽनुष्ठानसंकल्प उपवासः । अग्न्युपस्तरणादिना तदीयोऽनुष्ठाननिश्चयोऽव गन्तव्यः । अत एव शाखान्तरे श्रूयते-उपास्मिञ्छो यक्ष्यमाणे देवता
म. ना । प्रन्थान्तरे-“मृतची(निः) कतिचित्कालं कर्मातीतो भवेद्यदि । अष्टौ नावोस गोयुग्म दत्त्वा भार्या समुद्हेत् । विरको वा वयोतीतः कथंचिनोदहेद्यदि । भार्या स्वर्णमयीं कृत्वा कोशी(कौशी) वाऽऽधानमाचरेत्” इति । त।
resizes in Google
९ नवमः खण्डः] ऐतरेयबामणम् ।
८२७ वसन्ति । य एवं विद्वानमिमुपस्तृणा[ती]ति । अव्रतस्य नियमविशेषस्वीकार रूपव्रतरहितस्य पुरुषस्य हविर्देवा नैवानन्ति । तस्मात्कारणादुत मे ममापि हविर्देवा अश्नीयुरित्यभिप्रेत्य नियम स्वीकृत्यामिसमीप उपवसेत् । एतदेवामि प्रेत्याऽऽपस्तम्ब आह-आहवनीयागारे गाईपत्यागारे वा शेते’ इति । यदा ग्राम्याशनपरित्याग उपवासः । तत्परित्यज्याऽऽरण्याशनरूपं नियमं स्वी कुर्यात् । अत एव शाखान्तरीया आहुः-‘यद्राम्यानुपवसति तेन ग्राम्यान परुन्धते यदारण्यस्यानाति तेनारण्यान्यदनाश्वानुपवसेपितृदेवत्यः स्यादार ज्यस्यानाति’ इति।
अत्रोपवासतिथिविषये शाखाभेदवचनमाश्रित्य विकल्प दर्शयति
पूर्वी पौर्णमासीमुपवसेदिति पैङ्यमुत्त रामिति कौषीतकं या पूर्वी पौर्ण
मासी साऽनुमतिर्योत्तरा सा राका, इति । खण्डतिथिवशायदा दिनदये पौर्णमासी तिथिः संपद्यते तदानीं पूर्वी पौर्ण. मासीमुपवसेत्पूर्वदिन उपवासं कृत्वा परेधुर्यजेतेति सामशाखापवर्तकस्य पैड़े. महर्मतम् । उत्तरी पौर्णमासीमुपवसेदुत्तरस्मिन्दिन उपवासं कृत्वा ततोऽपि परेधुर्यजेतेत्यृक्शाखामवर्तकस्य कौषीतकिमहर्मतम् । पतदेव मतद्वयमुपजीव्य स्मार्ता एवं वर्णयन्ति
“पर्वपतिपदोः संधिर्मध्याहे पूर्वतोऽपि वा। अन्वाधानं पूर्वदिने तदिने याग इष्यते ॥
परतश्चेत्परेऽहीष्टिस्तहिनेऽन्वाहितिर्भवेत्” इति ।। न च पौर्णमासीद्वयसद्भावे वेदितव्यम् । अनुमतिराकाशब्दाभ्यां पौर्ण मासीभेदस्य सर्वत्र व्यवहृतत्वात् । तयोः स्वरूपमभिधानकार आह-“कला हीने साऽनुमतिः पूर्णे राका निशाकरे” इति । चतुर्दशीसंयोगाचन्द्रमसि कलाहीने सत्यनुमतिरित्युच्यते । तत्संयोगाभावेन चन्द्रमण्डले पूर्णे सति राकेत्युच्यते।
पौर्णमासीन्यायममावास्यायामपि दर्शयति
या पूर्वाऽमावास्या सा सिनी
वाली योत्तरा सा कुहूः, इति । अत्रापि चतुर्दशीसंयोगाचन्द्रदर्शने सत्यमावास्या सिनीवाल्युच्यते । तयो
८२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३२द्वात्रि ध्याये गराहित्येन चन्द्रदर्शनामावे कुहूरिति । तदप्यभिधानकारेणोक्तम्-‘सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुछः’ इति । अत्राप्युपवासयागनिश्चये मतभेदः पूर्ववद्रष्टव्यः ।
अत्र पूर्वोत्तरविभागनिर्णयाय कर्मोपयोगिन्यास्तियेः स्वरूपं दर्शयति
यां पर्यस्तमियादभ्युदियादिति सा तिथिः, इति । अमावास्यां पौर्णमासी वा यां परिमाप्य सूर्योऽस्तमियात् । तथा यामभि लक्ष्य सूर्य उदियात्सेयमुदयास्तमयव्यापिनी कर्मोपयुक्ता तिथिः । ताश्यां सिथा उदयास्तमययोर्मध्ये पूर्वोत्तराभ्यां चतुर्दशीप्रतिपयां मिश्रणे सति पर्वणो
दैविध्यं भवति । तस्मिन्द्वैविध्ये पूर्वोक्तमतद्वयं द्रष्टव्यम् ।
तदेतदुपसंहरति
पूर्वी पौर्णमासीमुपवसेदनियि पुरस्तादमा वास्यायां चन्द्रमसं यदुपैति यद्यजते तेन सोमं क्रीणन्ति तेनोत्तरामुत्तरामुपवसेदुत्तराणि ह वै सोमो यजते सोममनु दैवतमेतदै देवसोमं यच्च
न्द्रमास्तस्मादुत्तरामुपवसेत् ॥ * ११ ॥ इति । पूर्वामिति पैत्रिमतस्योपसंहारः । अमावास्यादिने पुरस्तात्पूर्वस्यां दिशि चन्द्रमसमनिाय च शास्त्रमार्गेण चन्द्रमदृष्ट्वा चन्द्रोदयोन भविष्यतीति निश्चित्य यदुपति उपवसति प्रारभत इति यदस्ति यद्यजते परेधुर्यागं करोतीति यदस्त्रि तेनोपवासेन यागेन चोत्तरामुत्रामागामिपक्षगतां पौर्णमासीममावास्यां चोपव. सेत् । उत्तराण्युपवासदिनादुत्तरेषु दिनेषु यजते । स यागः सोमो भवति । सोमयागसहशो भवति । तं सोममनु सर्वमपि दैवतं तृप्यतीति शेषः । योऽयं चन्द्रमा अस्त्येतदेव सोमं देवानामपेक्षितं सोमद्रव्यसदृशं वस्तु । यमाचन्द्रम ण्डलं देवानां प्रियं तस्मान्मण्डलं संपूर्णमभिलक्ष्योत्तरां पौर्णमासीमुपवसेदिवि कौषीतकिमतस्योपसंहारः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेपबामण. ___ भाष्ये द्वात्रिंशाध्याये नवमः खण्डः ॥९॥ (११)[१३३]
१ ख. म. “मस
।
- मलानुरोधेनायमेकादशोऽङ्कः । भाष्यकारेण तु अर्थानुरोधेनायं खण्डः पूर्व गृहीतः। अप्रि मस्त मूलानुरोधेन दशमः ।
saxsirection :१० दशमः खण्डः] ऐतरेयबामणम् ।
८२९ पूर्वमपत्नीकस्यामिहोत्रादिहविर्यज्ञानुष्ठानं प्रतिपादितम् । अथ तस्यैवापत्नी कस्य वाचिकं मानसं च द्विविधममिहोत्रं प्रतिपादनीयम् । तत्र वाचिकविषय मनमुद्भावयति
तदाहुर्वाचाऽपत्नीकोऽग्निहोत्रं कथमेव जुहोति, इति । योऽपत्नीकः पुरुषस्तस्य वाचा निष्पाचं यद्यमिहोत्रं तत्केन प्रकारेणानुष्ठा तव्यमिति प्रश्नः।
तमेव प्रश्नं पुनर्विस्पष्टयति
निविष्टे मृता पत्नी नष्टा वाऽग्नि
होत्रं कथमग्निहोत्रं जुहोति, इति । नैष्ठिकब्रह्मचर्यादावप्यपत्नीकत्वमस्ति तत्राग्निहोत्रप्रसङ्ग एव नास्ति विध्य भावात् । अतोऽपत्नीकत्वं विशेष्यते । विवाहादूर्ध्वमग्निहोत्रे निविष्टेऽनुष्ठातुमुप क्रान्ते सति पश्चात्पत्नी मृता भवति । तादृशोऽत्रापत्नीकः । तस्यामिहोत्रं नष्टा पा नष्टमेव भवति पूर्वसिद्धैरमिभिः पत्नीदाहपक्षे पुनरग्रिहोत्रहेतूनाममीनाममा. धात् । अतोऽपत्नीकः कथमग्निहोत्रं जुहोतीति प्रश्नः ।
तस्योत्तरमाह
पुत्रान्पौत्रानप्तनियाहुरस्मिंश्च लोकेऽमुष्मिश्चा स्मिल्लोकेऽयं स्वर्गोऽस्वर्गेण स्वर्ग लोकमारुरोहेय मुष्यैव लोकस्य संततिं धारयति यस्यैषां पत्नी
नैच्छेत्तस्मादपत्नीकस्याऽऽधानं कुर्वन्ति, इति । योऽपत्नीकोऽमिरहितः स्थविरत्वेनानुष्ठातुमशक्तश्च तादृशः पुमान्पुत्रादीन्म येवं ब्रूयात् । आहुरिति बहुवचनं छान्दसम् । हे पुत्रपौत्रप्रपौत्राः शृणुत । अस्मिल्लोकेऽमुष्मिन्स्वर्गे लोके च श्रेयः संपादनीयम् । अस्मिल्लोके तु स्थितैः पुरुषैर्योऽयं स्वर्गः शास्त्रेण श्रुत इति शेषः । तं स्वर्गलोकमस्वर्गेण स्वर्गविलक्ष
न कामकर्मानुष्ठानेनाऽऽरुरोहाऽऽरोहेदित्येवं पुत्रादीन्मति वाचोपदिशति । पतदेव वाजसनेयिभिर्विस्पष्टमानायते-‘तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः । तस्मादेनमनुशासति’ इति । अनेन पुत्रायनुशासनेनामुष्यैव लोकस्य संततिमवि च्छेदं धारयति संपादयति । कुलपरम्परयाऽमिहोत्रानुष्ठानेन सर्वेषां स्वर्गमाप्ती तद्विच्छेदाभावात् । यस्य यः पुमानेषां पत्नी नैच्छेत् । स्वस्थानुष्ठातुमशक्त स्वेन पुनर्विवाहसाध्यामेतां पत्नी नापेक्षेत । तस्मात्तस्यापत्नीकस्य वाचा
८३० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३२द्वात्रि ध्याये परिताः पुत्रपौत्रादय आषानं कुर्वते । तदाधानपूर्वकममिहोत्रमपत्नीकस्य याचिकमित्युच्यते ।
अथ मानसमग्निहोत्रं प्रश्नोत्तराभ्यां दर्शयति
अपत्नीकोऽग्निहोत्रं कथमग्निहोत्रं जुहोति श्रद्धा पत्नी सत्यं यजमानः श्रद्धा सयं तदित्युत्तमं मिथुनं श्रद्धया सत्येन मिथुनेन
स्वर्गाल्लोकाञ्जयतीति ॥ १० ॥ इति । पूर्वोक्तस्यविरोऽपत्नीकोऽमिहोत्रं स्वयमेव मनसा जुहोमीति यदीच्छेदिति शेषः । तदानीं केन प्रकारेण तस्य मानसो होम इति प्रश्नः श्रद्धेत्यादिकं तदु. तरम् । येयं कर्मश्रद्धा सैव पत्नी। यतु सत्यं सत्यवाक्यं वैदिकमत्रोचारणं स एव यजमानः । श्रद्धा सत्यं चेति यदुभयमस्ति तवुक्तेन प्रकारेण भावितं सदु. पमं मिथुनं भवति । तादृशेन श्रद्धासत्यरूपेण मिथुनेन मानसमनुष्ठानं निष्पाय स्वर्गाल्लोकाञ्जयतीत्येवमुत्तरं संपनम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राम णभाष्ये द्वात्रिंशाध्याये दशमः खण्डः ॥ १० ॥ (१०) [११४]
इत्यमनिहोत्रप्रायश्चित्तप्रसादागतमपत्नीकामिहोत्रादिकं परिसमाप्य प्रकृत मेव प्रायश्चित्तमनुसरन्मश्नमुत्थापयति
तदाहुर्यस्यानिमनुद्धृतमादित्योऽभ्युदियाद्दाऽ भ्यस्तमियादा प्रणीतो वा प्राग्योमादुप
शाम्येका तत्र प्रायश्चित्तिरिति, इति । सायंकाल आदित्यस्यास्तमयात्पुराऽमिहोत्रार्थ गाईपत्यादमिमुद्धरेत् । माता काले तु सूर्योदयात्पुरोद्धरेदित्यानातम् । एवं सति यस्यामिहोत्रिणोऽनुवृतम मिमभिलक्ष्याऽऽदित्य उदियाद्वाऽस्तमियाद्वाऽग्न्युद्धरणात्मागेवोदयास्तमयो भवत इत्यर्थः । अथवा स्वस्वकाले प्रणीतोऽमिराहवनीयदेशे स्थित्वा होमात्यू
मुपशाम्येत् । तेषु त्रिषु विषयेषु प्रायश्चित्रं पृच्छति ।
तस्योत्तरमाह
हिरण्यं पुरस्कृत्य सायमुद्धरेज्ज्योतिः शुक्र
११ एकादशः खण्डः] ऐतरेयबामणम् ।
॥ हिरण्यं ज्योतिः शुक्रमसौ तदेव तज्योतिः शुक्रं पश्यत्रुद्धरति रजतमन्तर्धाय प्रातरुद्धरेदे तद्रात्रिरूपं पुरा संभेदाच्छायानामाहवनीयमु द्वरेन्मृत्यु तमश्छाया तेनैव तज्ज्योतिषा मृत्यु
तमश्छायां तरति सा तत्र प्रायश्चित्तिः, इति । पदा सूर्यास्तमयादूर्ध्वमुद्धरणीयं तदानी हिरण्यं पुरस्कृत्योपर्यवस्थाप्य पडिमुद्धरेद। यदेतदिरण्यमस्ति तदेतच्छुकं ज्योतिर्वा अत्यन्तभास्वरः प्रकाश
असावादित्योऽपि शुक्रं ज्योतिरत्यन्तं भास्वरः प्रकाशः । तथा सति तदेव हिरण्यमेव तज्ज्योतिरादित्यप्रकाशः । अतः शुक्र दीप्तिमद्धिरण्यं पश्यवामि मुद्धरेत् । मातःकाले तु रजतमन्तर्धायोपर्यवस्थाप्यानिमुद्धरेत् । एतच रजतं रात्रेः स्वरूपम् । रात्रौ हि चन्द्रतारादिकं रजतसमानं दृश्यते । अतो रजतेन सूर्योदयात्माचीनो रात्रिकाल एव संपद्यते । यदाऽप्येतावतैव विविधमनोचरं संपमं तथाऽपि तत्प्रसङ्गामित्यमुद्धरणं पुरेत्यादिना अदृश्य(दय)ते । छायानां संभेद एकीभावः । सूर्यास्तमये सत्येषा मनुष्यच्छाया एषा वृक्षच्छायेति विभागो न जायते सोऽयं संभेदः। तस्मात्पुरा सूर्यप्रकाशवशाच्छायाविशेषो विज्ञायते । तस्मिमेव काले सायंहोमार्थमाहवनीयमुद्धरेत् । तत्रोपपत्तिर्मत्युरि त्यादिः । यदिदं तमो या च च्छाया तदुभयं मृत्युस्वरूपमेव । अतः सत्या दित्यमकाशे तेनैव ज्योतिषा मृत्युरूपं तमस्तद्रूपां छायां च तरति उल्लङ्घ यति । सेयमुक्ता तत्र वैकल्ये प्रायश्चित्तिः । नित्योद्धरणस्यापि वैकल्यविरो पित्वादुपचरितं प्रायश्चित्तत्वम् । पूर्वत्र सप्तत्रिंशे पर्याये पत्नीरहितस्यामिहोत्रं विषायाष्टात्रिंशे पर्याये दर्शपूर्णमासयोरुपवासनिर्णय एकोनचत्वारिंशे पर्याये बाचिकं मानसं वाऽमिहोत्रमपत्नीकस्य विधाय चत्वारिंशे वयुद्धरणकाला तिक्रमे प्रायश्चित्तमुक्तम् ।
अर्यकचत्वारिंशे प्रश्नोत्तरे दर्शयति
तदाहुर्यस्य गार्हपत्याहवनीयावन्तरेणानो वा .रथो वा श्वा वा प्रतिपद्येत का तत्र प्रायश्चि त्तिरिति नैनन्मनसि कुर्यादित्याहुरात्मन्यस्य हि ता भवन्तीति तच्चेन्मनसि कुर्वीत गाह
met Google
४१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३२द्वात्रिंशाध्याये
पत्यादविच्छिन्नामुदकधारां हरेत्तन्तुं तन्वत्रजसो भानुमन्विहीत्याहवनीयात्सा तत्र प्रायश्चित्तिः, इति । गार्हपत्याहवनीययोर्मध्ये शकटं वा रयो वा वा वा यदा गच्छेचदानी. मेतच्छकटादिकं मनसि न कुर्यात् । अस्यानुष्ठातुरात्मनि स्वकीये पारमाथि. कस्वरूपे वेदान्तमतिपाद्य वस्तुनि हि ता भवन्ति तानि शकटादीन्यवतिष्ठन्ते । अतः शकटादिरूपबुद्धिं परित्यज्य परमात्मबुद्धिं कुर्यात् । यद्यात्मविवेका. भावेन तच्छकटादिकं मनसि कुर्वीत शकटादिबुद्धिं न परित्यजेसदानी गाई पत्यादारभ्याऽऽहवनीयपर्यन्तमविच्छिमामुदकधारी हरेत् । तत्र तन्तुं तन्व मिति मत्रः।
अथ द्विचत्वारिंशे पर्याये कंचिद्विचारमुद्भावयति
तदाहुः कथमग्नीनन्वादधानोऽन्याहार्यपच.
नमाहारये ३व, नाऽऽहारयेश्व, इति, इति । अन्वाहार्यनामक ओदनः पच्यते यस्मिन्दक्षिणानौ सोऽयमन्वाहार्यपचनः । तस्याऽऽहरणमभिज्वलनम् । इष्टेरादावन्वाधानकाले दक्षिणामेरभिज्वलन कुर्यात्र वेति विचारार्थ लुतिद्वयम् ।
तत्र निर्णय दर्शयति
आहारयेदित्याहुः प्राणान्वा एषोऽभ्यात्म धत्ते योनीनाधते तेषामेषोऽनादतमो भवति यदन्वाहार्यपचनस्तस्मिन्नेतामाहुति
जुहोत्यमयेऽनादायानपतये स्वाहेति, इति । आहारयेत्मज्वलयेदित्येवमभिज्ञा आहुः । तत्रेयमुपपत्तिः । यः पुमानग्रीना. पत्त एष एव पुमानध्या(भ्या)त्मं स्वात्मस्वरूपे प्राणानेव धारयति । योऽयम. न्वाहार्यपचनोऽस्ति एष तेषामाहितानां चामीनां मध्येऽतिशयेनाबादः । तस्मात्माणधारिणामत्रभक्षणसिद्धये सोऽयं प्रज्वलनीयः। प्रज्वलिते तस्मि न्दक्षिणामावमयेऽबादायेत्यादिमवेणैतामाहुतिं जुहुयात् ।।
तन्तुं तन्वननसो भानुमन्विहि०-१०-५३-६ । .क.स. म. ‘पत्व।
Partians £5NDgfe
११ एकादशः खण्डः] ऐतरेयबामणम् ।
वेदनं प्रशंसति
अनादो हानपतिर्भवत्यश्नुते प्रज
याऽनाचं य एवं वेद , इति । वेदिता स्वयमभादो रोगराहित्येन भोक्तुं समर्थोऽभपतिरमस्वामी च भवति । तथा प्रजया हि पुत्रादिरूपया सहाबाचं मामोति । पूर्व गाईपत्या हवनीययोर्मध्ये शकटादिगमनं निषिद्ध तयागकर्तुरपि मध्ये संचारनिषेध शायां तबावर्तयितुमाह
अन्तरेण गार्हपत्याहवनीयौ होष्यन्संचरेतैतेन ह वा एनं संचरमाणममयो विदुरयमस्मासु होष्य. तीत्येतेन ह वा अस्य संचरमाणस्य गार्हपत्या हवनीयो पाप्मानमपहतः सोऽपहतपाप्मोलः
स्वर्ग लोकमेतीति वै ब्राह्मणमुदाहरन्ति, इति । यः पुमान्होष्यति स पुमानगाईपत्याहवनीयावन्तरेण तन्मध्यगतेन मार्गेण संचरेत । एतेन मार्गेण संचरमाणमेनं होमकारममयः स्वमनसैवं विदुः । अय मस्मामु होष्यतीति । तस्मादशीनामभीष्टत्वात्तस्य संचारो युक्तः । किंच होमार्य संचरमाणस्य पाप्मानमुभावमी विनाशयतः । स च पापरहित अर्व गामी स्वर्ग लोकं पामोति । अस्मिन्नर्थे शाखान्तरगतं बहुविधं ब्रामणम मिशा उदाहरन्ति ।
अथ त्रिचत्वारिंशे प्रश्नोत्तरे दर्शयवि
तदाहुः कथममीन्प्रवत्स्यन्नुपतिष्ठेत प्रोष्य वा प्रत्येयाहरहर्वेति तूष्णीमित्याहुस्तूष्णीं वै श्रेयस आकाक्षन्तेऽथाप्याहुरहरहर्वा एते यजमान स्याश्रद्धयोहासनात्मप्लावनाद्विभ्यति तानुपति ठेतैवाभयं वोऽअयं मेऽस्त्वित्यभयं हैवास्मै
भवत्यभयं हैवास्मै भवति ॥ १२॥ इति । यदामिहोत्री स्वगृह एवानीनवस्थाप्य स्वयं ग्रामान्तरं प्रति प्रवसति वदानी प्रवत्स्यभनिहोत्री प्रवासकाले कयममीनुपतिष्ठेत । अथवा प्रोष्य प्रामा
८१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१३त्रयनि ध्यावे न्तरे गत्वा प्रत्येत्य पुनरागत्य कथमुपतिष्ठेत । अथवा स्वगृहे तिष्ठनप्यहरहा प्रतिदिनं कथमुपतिष्ठेत । इत्येतस्य प्रभत्रयस्य तूष्णीमित्यादिकमुत्तरम् । नात्र मत्रपाठः कश्चिदस्ति । किंतु तूष्णीमेवाजल्यादिना विनयं प्रदर्भयभुपतिष्ठेत । लोकेऽपि सेवकास्तूष्णीभूता एवं सन्तो विनीताः श्रेयसः श्रेष्ठावाजगुर्वादी. पुरुषानाकालन्त आगत्य स्वाभीष्टं मार्थयन्ते । तस्मातूष्णीमुपस्थानमित्येका पक्षः । अथाप्याहुः । अपि चाभिज्ञाः केचिदेवं पक्षान्तरं वदन्ति । अहर प्रतिदिनमेवैतेऽमयो बिभ्यति । भवकारणं यजमानस्येत्यादिनोच्यते । होमे निष्पने सति पश्चादुपयोगाभावाघजमानस्यामिष्वश्रद्धा भवत्यतोऽयममीनु: दासयेदित्येको भयहेतुः। मलावयेल्लौकिकपाकार्थ नीत्वा प्रप्लावनं कुर्या दिति द्वितीयो भयहेतुः । अतो भयपरिहाराय तानेतेन मत्रेण सर्वत्रोपतिष्ठेव । हेऽप्रयो मत्तः सकाशाद्वो युष्माकममयमस्तु । युष्मत्सकाशान्ममाप्यमयम. स्त्विति मवार्यः। एवमुपस्थानं कुर्वतेऽस्मै यजमानायाभयमेव भवति ।
अभ्यासोऽध्यायसमात्ययः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण . भाष्ये द्वात्रिंशाध्याय एकादशः खण्डः ॥११॥ (१२) [१३५] . इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य
धुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये
द्वात्रिंशोऽध्यायः ॥ १२॥
.
.. .