एकत्रिंशोऽध्यायः ।
वर्णितं शखजातं तु होत्होत्रकगोचरम् ।।
पशोरुपवतीयस्य विभागस्त्य कथ्यते ॥ १॥ आपलायनः सत्रिणां धर्मेष्वेवमाह-सुत्यासु हविरुच्छिष्टभक्षा एव स्युर्धानाः करम्भः परिवापः पुरोळाशः पयस्येति तेषां यद्यत्कामयेरंस्तत्चदुप विगुल्फयेयुरिति । प्राणधारणाय यथा पर्याप्यते तथा हविःशेषस्याऽऽधिक्येन संपादनमुपगुल्फनम् । एवं बहुविधान्हविःशेषभक्षानुक्त्वा पुनरप्यन्त एवमु. वाच-अपि वाऽन्यत्र सिद्धं गार्हपत्ये पुनरपिश्रित्योपव्रतयेरबन्यान्वा पथ्या न्मशानामूलफलेभ्य एतेन वर्तयेयुः पशुना चेति । अन्यत्र सिदं गृहे पकम पुनरपि गाईपत्ये सकदवस्थाप्योपव्रतयेरभुपभुञ्जीरन् । अन्यान्वा लड्डुकमण्ड कादीन्भक्षान्पथ्यानजीर्णादिदोषरहितान्मूलफलपर्यन्तमिच्छया स्वी कुर्यात् । एतेन सुत्यादिनेषु संनिहितेन सवनीयपभुना च वर्तयेयुजीवनमा वृद्धि संपादयेयुः । इत्येवं सवनीयपशुरूपस्य हविष: श्रेषभक्षणेन सत्रिणां जीवनम प्यभिहितम् । तस्मिन्पशौ कस्य को विभाग इति जिज्ञासायां तद्विभागकपनं भतिजानीते
अथातः पशोर्विभक्तिस्तस्य विभागं वक्ष्यामः, इति । अय होतहोत्रकशस्त्रनिर्णयानन्तरं यतः शस्खाधनुष्टायिनां सत्रिणां जीवनो पायोऽपेक्षितोऽतः कारणात्सवनीयस्य पशोविभक्तिः कथ्यते । विभक्तिशन्द स्यैव व्याख्यानं तस्येत्याह।
वक्ष्याम इति प्रतिसातो यो विभागस्तं दर्शयति
हनू सजिह्वे प्रस्तोतुः श्येनं वक्ष उद्गातुः कण्ठः काकुद्रः प्रतिहतुदक्षिणा श्रोणि)तुः सव्या ब्रह्मणो दक्षिणं सक्थि मैत्रावरुणस्य सव्यं ब्राह्मणाच्छंसिनो दक्षिणं पार्श्व सांसमध्वर्योः सव्यमुपगातॄणां सव्योंऽसः प्रतिप्रस्थातुर्दक्षिणा
१ प्रथमः खण्डः] ऐतरेयबामणम् ।
दोर्नेष्टुः सव्यं पोतुर्दक्षिण ऊरुरच्छावाकस्य सव्य आनीध्रस्य दक्षिणो बाहुरात्रेयस्य सव्यः सदस्यस्य सदं चानूकं च गृहपतेर्दक्षिणी पादौ गृहपतेव्रतपदस्य सव्यौ पादौ गृहपते भीर्यायै व्रतपदस्यौष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्याज्जापनी पत्नी भ्यो हरन्ति तां ब्राह्मणाय दद्युः स्कन्ध्याश्च मणिकास्तिस्रश्च कीकसा ग्रावस्तुतस्तिस्रश्चैव कीकसा अर्ध च वैकर्तस्यो।तुरधैं चैव वैक तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्याद्यद्य ब्राह्मणः स्याच्छिरः सुब्रह्मण्यायै यः श्वःसुत्यां
प्राह तस्याजिनमिळा सर्वेषां होतुर्वा, इति । जिहया सहितं हनूद्वयं प्रस्तोतुर्भागः । श्येनाकारं वक्ष उद्गातुर्विभागः । यः कण्ठो यश्च काकुद्रः काकुदं तदुभयं प्रतिहर्तुविभागः । श्रोणिरूरुमूलं तदु. भयं दक्षिणसव्यरूपं क्रमेण होतुब्रह्मणो विभागः। उर्वधोभागः सक्यि तचोभयं क्रमेण मैत्रावरुणब्रामणाच्छंसिनोविभागः । दक्षिणांसेन युक्तं दक्षिणं पार्थमध्वर्योर्भागः । सव्यं पार्थमात्रमुपगातॄणां भागः। सव्योंऽसः प्रतिम स्थातुर्भागः । दोर्बाहुस्तच्चोभयं क्रमेण नेतृपोत्रोर्भागः । ऊरुद्वयं क्रमेणाच्छा. पाकामीध्रयोर्भागः । सक्थिशब्देनाधोभागस्याभिहितत्वादूर्ध्वभाग उरुशब्देन विवक्षितः । बाहुद्वयं क्रमेणाऽऽयसदस्ययोर्भागः। दोर्बाहुशब्दयोरक्येऽ प्पधोभागोलभागाभ्यां भेदो द्रष्टव्यः । सदानूकशब्दौ पूर्वाचार्यैर्व्याख्याती
“अनूकं सूत्रबस्तिः स्यात्सास्नेत्येके वदन्ति च ।
सदं तु पृष्ठवंशः स्यादेतगृहपतेर्द्वयम्” इति । यः पुमान्गृहपतेर्वतमदो भोजनदायी तस्य दक्षिणी पादौ भागः। गृहप तेर्या भार्या तस्यै च व्रतमदो यः पुमांस्तस्यैव सव्यौ पादौ भागः । अत्र पुरो. तिनोः पादयो हुत्वेनाभिहितत्वात्पाश्चात्यावेव पादशब्देन विवक्षिती । तत्रैकस्मिन्नपि दक्षिणे पादे द्विवचनमवयवापेक्षम् । एवमुतरत्रापि । योऽयमोष्ठः सोयमनयोर्वतमदयोः साधारणो भागो भवति तं भागं गृहपतिरेव अशिष्या:
८०४ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्–[३१एकत्रि ध्याये सवायं तवायमिति विभज्य प्रदद्यात् । जापनी पुच्छ ता पत्नीभ्यो हरन्ति दधुः। ताच पल्यस्ता जापनी ब्रामणाय कस्मैचिायुः । स्कन्धे भवाः स्कन्ध्या मणिसदृशा मांसखण्डा मणिका एकस्मिन्पा स्थिता मांसकहा स्तिस्रः कीकसा मणिकाः कीकसाश्चेत्युभयं ग्रावस्तुतो भागः।इतरपार्षे स्थिता स्तिस्रः कीकसा वैकर्तः प्रौढो मांसखण्डस्तस्या पूर्वोक्तकीकसात्रयं चोमेनु र्भागः । यतु वैकर्तस्येतरद यश्च हृदयपावर्ती लोमान्दाभिषो मांसखर स्तदुभयं शमितुर्भागः । अयं शमिता यघबामणः स्याचदा स्वेन स्वीहवं तदुभयमन्यस्मै ब्राह्मणाय दद्यात् । यच्छिरोऽस्ति तत्सुब्रमण्यायै सुब्रमण्याभि धानतिजे दद्यात् । श्वःसुत्येति निगदनाम तां चाऽऽमीघ्रो छूते । तथा चाss. श्वलायन आह-‘आमीध्रः श्वःसुत्यां माह’ इति । अजिनं चर्म तस्याऽऽत्री ध्रस्य भागः । इळा सवनीयपशोः संवन्धी योऽयमिन्गभागः स सर्वेषां साषा रणः । यदा होतुरसाधारणः।
उक्तानां पशुविभक्तीनां संख्या प्रशंसति
ता वा एताः षत्रिंशतमेकपदा यज्ञं वहन्ति पत्रिंशदक्षरा वै बृहती बार्हताः स्वर्गा लोकाः प्राणांश्चैव तत्स्वर्गीश्व लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु
च लोकेषु प्रतितिष्ठन्तो यन्ति, इति । ता वै हन्वादय इनान्ताः श्रुत्योक्ता अस्माभिरपि दृश्यमानाः पति शतं पत्रिंशत्संख्याका एकपदा हेनुजिहेत्येवमेकैकेन पदेनाभिधीयमानाः पशुविभक्तयो यह वहन्ति यज्ञस्य निर्वाहं कुर्वन्ति । संख्या चेयं पूर्वाचार्य व्याख्याता
“तत्र(ऊरू) पादौ [च तो दो दावन्ये दात्रिंशदेव हि ।
हन्वादीलान्तमुक्तं ताः षट्त्रिंशंदक्तयः पशोः” इति । अतः संख्यासाम्यादियं विभक्तिवृहतीरूपा । स्वर्गलोकाच वृहत्या संपा दयितुं शक्यत्वाद्वाहताः । तत्तेन पशुविभागेन सत्रिणः प्राणान्स्वर्गलोकानपि प्रामुवन्ति पश्चक्यवानां प्राणाधारत्वात् । तेन विभागेन सत्रिणोऽस्मिञ्जन्मनि माणेषु प्रतिष्ठिता वर्तन्ते जन्मान्तरेषु बृहतीद्वारा स्वर्गेषु लोकेषु प्रतिष्ठिता वर्तन्ते।
म. हनू सजिथे । २ क. ख. म. शद्विभक्त ।। 500gle.
८०५
१ प्रथमः खण्डः] ऐतरेयबामणम् ।
८.५ पशुं प्रशंसति
। स एष स्वर्ग्यः पशुर्य एनमेवं विभजन्ति, इति ।
ये सत्रिण एनं पशुमेवमुक्तेन प्रकारेण विभक्तं कुर्वन्ति तेषां सविणा स एष पशुः खर्यः स्वर्गाय हितो भवति । प्रकारान्तरेण विभाग निन्दति
अथ येऽतोऽन्यथा तद्यथा सेळगा वा पाप
कृतो वा पशु विमनीरस्तादृक्तत् , इति । भयोक्तविभागप्रशंसानन्तरमितरनिन्दोच्यत इति शेषः । ये सत्रिणोऽत: पूर्वोक्तविभागादन्यथा प्रकारान्तरेण विभजन्त इत्यनुवर्तते तत्तेषां निदर्शन मुच्यते । इलाशब्देनाअमुच्यते । तेन सह वर्तत इति सेळमबहुलो देशस्त्र गच्छन्तीति सेळगा विहितकर्माननुष्ठायिनः केवलोदरपोषणपरायणा इत्यर्थः। पापकृतः प्रतिषिद्धकर्मकारिणः । ते च द्विविधा यथा पशुं विमथ्नीरन्केवळ मांसभक्षणार्यमेव इन्युस्ताहगेव तदन्यथाविभजनं द्रष्टव्यम् ।
उक्तं पशुविभागं तद्रष्टमहर्षिद्वारा प्रशंसति
तां वा एतां पशोर्विभक्ति श्रौतऋषिवभागो विदा चकार तामु हामोच्यैवास्माल्लोकादुचकामद, इति । तामेतां पूर्वोक्तां पशुविभक्तिं श्रुतनामकस्य मुनेः पुत्रो महषिर्देवभागाख्यो महर्षिविदांचकार मातवान् । तामुह तामेव स्वेन ज्ञाता विभक्तिममोच्यैव रहस्यविधेति मत्वा कमैचिदप्यकथयित्वैवास्माल्लोकायुवकामदुत्कान्तवापत इत्यर्थः।
कथं तर्हि तत्संप्रदाय इत्याशङ्कयाऽऽह
तामु ह गिरिजाय बाभ्रव्यायामनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयतेऽधीयते ॥१॥ इति । तामु ह तामेव पशुविभक्तिममनुष्यो मनुष्यव्यतिरिक्तः कश्चिद्गन्धर्वादिर्वा भ्रन्याय पञोरपत्याय गिरिजनामकाय महर्षये मोवाच । एतदर्वाग्मनुष्या एतस्मारिरिजाख्यान्महराचीनाः सर्वे मनुष्यास्ततस्तस्य गिरिजाल्यस्य
१ क. ग. प. . च. छ. म. म. सेलगा। २ क. म. इलाश। ३ क. म. सेलम । ४ स. ख.म. समभव ।५ क. म. सेलगा।
८०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३२द्वात्रि ध्याये सकाशादेनां पशुविभक्तिमधीयते । पदाभ्यासोऽध्यायसमाप्त्यर्थः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण
___ भाष्य एकत्रिंशाध्याये प्रथमः खण्डः ॥ १॥ [१२४] . . इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य
धुरंधरसायणाचार्यकृतावैतरेयबामणभाष्ये
एकत्रिंशोऽध्यायः ॥३१॥