३०

श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्- [३०विशाध्या

अथ त्रिंशोऽध्यायः ।

स्तोत्रियस्यानुरूपत्वं संपाताच प्रगाथकाः।

त्रिष्टुभोऽथाहीनयुक्तिमोको शिल्पं च वर्णितम् ॥१॥ अथ पृष्ठयषडहस्य षष्ठेऽहनि शिल्पनामकानि शस्त्राणि विधत्ते

शिल्पानि शंसन्ति, इति । शिल्पत्वं लौकिकनिदर्शनेन प्रशंसति

देवशिल्पान्येतेषां वै शिल्पानामनु कृतीह शिल्पमधिगम्यते हस्ती कंसो

वासो हिरण्यमश्वतरीरथः शिल्पम्, इति । शिल्पशब्दश्वाऽऽश्चर्यकरं कर्म शूते । तच शिल्पं द्विविधं देवशिल्पं मानुष शिल्पं चेति । नाभानेदिष्ठादीनि यानि शिल्पानि सन्ति तानि देवानां भीति हेतुत्वादेवशिल्पानीत्युच्यन्ते । एतेषामेव देवशिल्पानामनुकति सहशामिह मनुष्यलोके शिल्पमधिगम्यते प्रतीयते । हस्तीत्यादिना तदेवोदाहियते । लोके शिल्पिनः कर्मकारा सहादिभिर्हस्तिसदृशमाकारं निर्मिमते । तथाऽन्यः शिल्पिभिः कंसो दर्पणादि निर्मीयते । अपरैर्वासो विविध निर्मीयते । अपरैः मुवर्णमयं कटकमुकुटादि निर्मीयते । अपरैश्वाश्वतरीरयो निर्मीयते । गर्दभ्या मन्यादुत्पमाऽश्वतरजातिस्तधुक्तो रथोऽश्वतरीरयः। तदेतत्सर्वमस्माभिरषिग म्यमानं मानुषशिल्पमेतदृष्टा नाभानेदिष्ठादिशिल्पमाचर्यकरमिति निबेतव्यम् ।

बेदनं प्रशंसति

शिल्प हास्मिनधिगम्यते य एवं वेद, इति । . असिन्वेदितरि शिल्प कौशलं नानाविधं प्राप्यते । सानुनासिकप्लुतेन शिल्पानां पूज्यत्वं दर्शयति -

यदेव शिल्पानी, इति । यस्मानापानेदिष्ठादीनि शिल्पशन्दवाच्यानि तस्मात्सुवर्णाभरणादिवत्यू ज्यानीत्यर्थः।

प्रकारान्तरेण शिल्पानि प्रशंसति

आत्मसंस्कृतिवि शिल्पानि च्छन्दोमयं

१क. मकरा। gried by, ६.00

१. प्रथमः खण्डः] . ऐतरेयबामणम् । … १५

वा एतैर्यजमान आत्मानं संस्कुरुते, इति । पक्ष्यमाणानि नामानेदिष्ठादिशिल्पान्यात्मसंस्कृतिर्जीवात्मनः संस्कारकार गानि । तस्मादेतैर्यजमानो जीवात्मानं छन्दोमयं वेदमयो यया भवति तथा संस्कुरुते।

होतुः शिल्पं विधत्ते

नाभानेदिष्ठं शंसति, इति । नाभानदिष्ठाख्येन महर्षिणा दृष्टमिदमित्थेत्यादिसूक्तं नाभानेदिष्ठं तदोता शंसेत् । . तत्पशंसति .. रेतो वै नाभानेदिष्ठो रेतस्तत्सिञ्चति, इति ।

· एतैः सूकैर्यजमानस्याऽऽत्मसंस्कारो वेदमयजन्मरूपो योऽभिहितः स एव क्रमेणोपवर्ण्यते । तत्र नाभानेदिष्ठाख्यः सूक्तविशेषो यजमानोत्पादकरेतस्था नीयः । तत्वेन सूक्तेन होता रेतः सिञ्चति । ___ तस्मिन्सूक्ते देवताविशेषवाचिनः पदस्य विस्पष्टपतीत्यभावाबदनिरुक्तत्व

मस्ति तत्मशंसति

तमनिरुक्तं शंसत्यनिरुक्तं वै

रेतो गुहायोन्यां सिच्यते, इति । नाभानेदिष्ठं सूक्तविशेषमनिरुक्तमस्पष्टदेवताकं शंसेत् । लोके ततोऽनिरु कमस्पष्टमेव [रतो] गुहागोप्येऽन्तस्थाने योन्या सिच्यते ।।

नाभानेदिष्ठाख्येन सिक्तरेतसा यजमानस्य संबन्ध मवलिङ्गदर्शनेन यति . स रेतोमिश्रो भवति क्ष्मया रेतः संज- .

ग्मानो निषिञ्चदिति रेतःसमृदया एव, इति । स यजमानो नाभानेदिष्ठेन रेतसा मिश्रितो भवति । तस्मिमर्थे मयेत्या दिकस्तत्सूक्तगतः कश्चिदृक्पादः प्रमाणम् । प्रजापतिर्यदा स्वां दुहितरं दिव पुषसं चाविष्कमध्यस्कन्दत्तदानीमेव क्ष्मया भूम्या स्वदुहिता संजग्मानः सई प्राप्तोऽस्मिल्लोके रोहितं भूतामृश्यो भूतो रेतो निश्चित, रेतो निषिक्तवानिति । अतः सूक्ते रेत सेकलिङ्गमस्ति तस्मादिदं सूक्तं रतःसमुख्यर्थमेव संपद्यते ।

१२. ‘सं वाऽधि। rites isy igle.

७६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१०त्रिंशाध्याये

तस्य नाभानेदिष्ठस्य सूक्तान्तरसाहित्यं विधत्ते

तं सनाराशंसं शंसति प्रजा वै नरो वाक्शंसःप्रजास्वेव तहाचं दधाति तस्मा

दिमाः प्रजा वदत्यो जायन्ते, इति । तं नाभानेदिष्ठाख्यं सूक्तविशेष नाराशंसाख्यसूक्तसहितं होता शंसेत् । नरा अशिरसो महर्षयो मनुष्यजातावुत्पमत्वात्ते शस्यन्ते यस्मिन्ये योनोवि सूक्तविशेष सोऽयं नाराशंसस्तेन सहितमिदमित्या रौद्रमित्येतमामानेदिई सूक्तं शंसेत् । तत्र मनुष्यरूपाः मजा एव नराशब्देनाभिधीयन्ते शंसशब्देन च वागुच्यते । तथा सति नराशंसशब्देन प्रजास्वेव वाचमवस्थापयति । तस्मा कारणादिमाः मजा वदत्यो वाग्व्यवहारं कुर्वत्य उत्पद्यन्ते । अत्रेदं चिन्तनी यम् । किमिदं नाराशंससूक्तं नाभानेदिष्ठसूक्तस्य पुरस्तात्पठनीयम् । उतोप रिष्टात् । अथवा मध्य इति ।

तत्र प्रथमपक्षं दर्शयति

तं हैके पुरस्ताच्छंसन्ति पुरस्ता

दायतना वागिति वदन्तः, इति । मनुष्यशरीरस्य पुरस्तात्पूर्वभाग आयतनं स्थानं यस्या वाचः सेयं वाक्पु रस्तादायतना, इत्येवमुपपचिं वदन्तः केचिद्यानिका नाभानेदिष्ठस्य पुरस्ता भाराशंसं शंसन्ति ।

द्वितीय पक्षं दर्शयति

उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः, इति । शरीरस्य पूर्वभागेऽप्युपरिष्टान्मूर्धन्यायतनं वक्त्रादिरूपं स्थानं यस्या वाचा सेयमुपरिष्टादायतना वागिति युक्तिं वदन्तः केचिदन्ये यात्रिका नाभानेदिष्ट स्योपरिष्टामाराशंसं शंसन्ति । तृतीयं पलं दर्शयति

मध्य एव शंसेन्मध्यायतना वा इयं वाक्, इति । शरीरस्याधोभागः पादरूपोऽपि वाच आयतनं न भवति । ऊर्श्वभागो ललाटादिरपि वाचो नाऽऽयतनं किंत्वाधारादिर्वक्त्रान्तो मध्यभाग आयतन यस्या वाचः सेयं मध्यायतना । तस्मामाभानेदिष्ठसूक्तस्य मध्य एव नारा ससूक्तं शंसेत् । एवकारेण पूर्वोक्तौ पक्षो व्यावचैते। Coorfe

२ द्वितीयः खण्डः] ऐतरेयब्रामणम् ।

७६७ मध्यभागेऽपि स्थानविशेष दर्शयति

उपरिष्टानेदीयसीवोपरिष्टानेदी

यसीव वा इयं वाक् , इति । उपरिष्टामाभानेदिष्ठसूक्तस्यावसानभागो नेदीयानत्यन्तसमीपवर्ती यस्य सूक्तस्य मध्यमागस्य स मध्यभाग उपरिष्टाबेदीयान् । इवशब्द एवकारार्यः । तवा विष एव मध्यभागे नाराशंसं शंसेत् । इदमित्थेत्येतनाभानेदिष्ठं सूक्तं सप्तविंशत्युगात्मकं तत्रावसाने द्वे ऋचाववशिष्य पञ्चविंश्या ऊर्ध्वमेव नाराशंसं सूकं शंसेत् । तथा चाऽऽश्वलायन आह-इदमित्या रौद्रमिति प्रागुपोच. माया ये यझेनेत्यावपत इति । वागप्युपरिष्टाभेदीयस्यत्यन्तसमीपवर्तिन्येव शरी रमध्यभागे ताल्लोष्ठादौ वर्तते । तस्मात्सूक्तस्योक्तस्थानं युक्तम् ।

· होतुः शंसनमुपसंहरन्मैत्रावरुणशस्त्रं मस्तौति

तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय संप्रय

च्छत्येतस्य वं प्राणान्कल्पयेति ॥२७॥ इति । उक्तशंसनेन होता तं यजमानं रेतोभूतो रेतःमाप्तो यथा भवति तया सिक्त्वा तस्मै मैत्रावरुणाय संप्रयच्छति । तदा केनाभिप्रायेणेति सोऽभिधी पते । हे मैत्रावरुण त्वमेतस्य यजमानस्य रेतोरूपस्य प्राणान्संपादयेत्यनेनाभि प्रायेण यजमानं तस्मै प्रयच्छति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण

भाष्ये त्रिंशाध्याये प्रथमः खण्डः ॥ १॥ (२७)[ ११४ ]

होतुः शिल्पशस्त्रमुक्त्वा मैत्रावरुणस्य शिल्पशस्त्रं विधत्ते

वालखिल्याः शंसति प्राणा वै वाल

खिल्याः प्राणानेवास्य तत्कल्पयति, इति । वालखिल्याख्यैर्मुनिभिष्टा अभि प्र वः सुराधसमित्यादिकेऽष्टके स्थिता ऋचो वालखिल्याभिषाः । ता एव वालखिल्याख्ये ग्रन्ये समानाताः। ता: सर्वा मैत्रावरुणः शंसेत् । वालखिल्यानां शिल्यानां प्राणरूपत्वेन तच्छंसने सत्यस्य रेतोरपस्य यजमानस्य माणानेव संपादयति ।

१७. “स्य म।

७६८

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३०त्रिंशाध्याये इतरशत्रवदत्रापि ययाशंसनप्रसक्तौ विशेष विधत्ते

ता विहृताः शंसति विहृता वा इमे

· प्राणाः प्राणेनापानोऽपानेन व्यानः, इति । ता वालखिल्या ऋचो विहृताः परस्परव्यतिपक्ताः शंसेत् । प्राणामे शरीरे विहता वै परस्परव्यतिषता एव वर्तन्ते । ऊर्ध्वगामिना प्राणवायुना निरोधादपानवायुय॑तिषक्तः । तेन वापानवायुना तद्वायुद्वयमध्यवर्ती ब्यानो व्यतिषक्तः । अथ या प्राणापानयोः संधिः स व्यान इति श्रुत्यन्तरात् । . . व्यतिषामकारं विषचे

स पच्छः प्रथमे सूक्ते विहरत्यर्ध

शो द्वितीये ऋक्शस्तृतीये, इति । बालखिल्यानामष्टसु सूक्तेषु सप्तमाष्टमे सूक्ते परित्यज्य यान्यवशिष्टानि पद् सूतानि तेषु त्रीणि युग्मानि । तत्र प्रथमगते द्वे सूक्ते मैत्रावरुणः पच्छो विह रेत् । प्रथमसूक्तगतं पादं द्वितीयसूक्तगतेन पादेन योजयेत् । द्वितीययुग्मगते दे सूक्ते अर्धर्चशो विहरेत् । तस्मिन्युग्म एकसूक्तगतमर्च द्वितीयसूक्तगतेना. पर्चेन योजयेत् । तृतीययुग्मगते द्वे सूक्ते ऋक्शो विहरेत् । तस्मिन्युग्म एकसू. लगतामृचं द्वितीयसूक्तगतयर्चा योजयेत् । तदुक्तमा पलायनेन–‘अय वाल खिल्या विहरेत्तदुक्तं पोळशिना सूक्तानां प्रथमद्वितीये पच्छस्तृतीयचतुर्थे अर्ध चंश ऋक्शः पश्चमषष्ठे’ इति । यद्यपि पूर्वाध्याये पच्छः प्रथमं षड्वालखि ल्यानां सूक्तानि विहरत्यपर्चशो द्वितीयमुक्शस्तृतीयमिति विहारोऽभिहितः।। तथाऽप्यत्रास्ति विशेषः । तत्र हि षण्णामपि सूक्तानां पादविहारोऽर्षविहार ऋग्विहार इति त्रिरावृत्तिरभिहिता । अत्र तु प्रथमयुग्मे पादविहारो द्विती ययुग्मेऽधविहारस्तृतीययुग्म ऋग्विहार इति । तत्रापि सकृदेव पादादिवि हारः । न त्वावृत्तिः । तथा वाचस्य भावाभावाभ्यामप्यस्ति विशेषः । अत एवोभयत्र नामभेदोऽस्ति महावालभिद्विहार इति पूर्वस्य नामधेयं हौण्डिनो विहार इत्येतस्य नामधेयम् । अत एव सूत्रकारो नामधेयद्वयं दर्शयति-‘इति नु हौण्डिनावथ महावालभित्’ इति । हुण्डिनाख्येन महर्षिणा दृष्टौ द्वौ विहारौ। महावालभिदाख्येन महर्षिणा दृष्ट एको विहारः।

अत्रोक्तहौण्डिनविहारौ प्रशंसति

स यत्पथमे सूक्ते विहरति प्राणं च तदाचं च

__* व्यतिमर्शस्यैत्यपेक्षितम् । pres by२ द्वितीयः खण्डः] ऐतरेयब्रामणम् । - विहरति यद्वितीये चक्षुश्च तन्मनश्च विहरति - यतृतीये श्रोत्रं च तदात्मानं च विहरति, इति । .. पूर्ववण्याख्येयम् । योऽयमत्रोक्तो हौण्डिनविहारस्तस्यापि मतभेदेन दौ

प्रकारौ।

तत्र प्रथमप्रकारमुपन्यस्य तत्र किंचिदपरितोषं दर्शयति . ते हैके सह बृहत्यौ सह सतोबृहत्यौ विहरन्ति

तदुपाप्तो विहारे कामो नेतु प्रगाथाः कल्पन्ते, इति । या पत्रिंशदक्षरा बृहती चत्वारिंशदक्षरा सतोबृहती वालखिल्यसूक्तेषु प्रयमा बृहती द्वितीया सतोबृहती तृतीया बृहती चतुर्थी सतोबृहतीत्येवं मणि प्रवालन्यायेनैकान्तरिताः पठिताः । तत्र प्रथमाधयुजो बृहत्यो द्वितीयरया) चतुर्थ्यादियुजः सतोबृहत्यः । एवं सति प्रथमसूक्ते द्वितीयसूक्ते चाऽऽदिभूते देहत्यौ सह विहरेत् । तदनन्तरभाविन्यौ द्वे सतोबृहत्यौ सह विहरेत् । इत्यं विहारं ते प्रसिद्धा याशिकाः केचिदिच्छन्ति । तस्मिन्पक्षे विहारस्य विधमानत्वाद्विहारनिमित्तो यः कामः स उपातो भवेदेव । किंतु भगाया नेत्कल्पन्ते ते नैव संपद्यन्त इति परिभव(य)योतनार्थो नेच्छन्दः। छन्दोद्वयं मिलित्वैका अगायो भवति । स्वाध्यायपाठे प्रगाथानां विद्यमानत्वाद्विहारोऽपि प्रगाथान्त एवापेक्षितः । ते न केवलवृहतीभ्यां केव. लसतोबृहतीभ्यां वा संपद्यन्ते । किंतु च्छन्दोद्वयेन संपद्यन्ते । मप्रथनेन यो

चोर्वा बहतीत्वसंपादनार्य प्रगाथाश्रयणम् । तच च्छन्दोद्वये सुकरम् । तथा हि। प्रथमा बृहती ययापाठमेव पठितव्या। ततोऽष्टाक्षरचतुर्थपादं दिरावर्त्य च सतोबृहत्याः प्रथमाधगतेन द्वादशाक्षरपादेनाष्टाक्षरपादेन च द्वितीया बृहती संपद्यते । तमप्यष्टाक्षरपादं द्विरभ्यस्य सतोबृहत्या उत्तरार्धगतेन द्वादशातर पादेनाष्टाक्षरपादेन च तृतीया बृहती संपद्यते । अतः प्रगाथेषु च्छन्दोद्वयमपे सितं केवलयोवृहत्योः सतोबृहत्योर्वा यथोक्तमप्रथनासंभवात् ।

इत्यं हौण्डिनविहारे प्रथमप्रकार निराकृत्य द्वितीयपकारं विधत्ते

’ अतिमर्शमेव विहरेत्तथा वै प्रगाथा:

कल्पन्ते प्रगाथा वै वालखिल्यास्तस्माद तिमर्शमेव विहरेवदेवातिमश्म् ि , इति । 32sfe ,

७७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् – [३०त्रिंशाध्याये

अतिमर्शमतिमृश्यातिमृश्य प्रथमसूक्तस्य प्रथमायाभूचि प्रथमपादमुक्त्वा तदनन्तरभावि सर्वमतिलङ्घ्य द्वितीयसूक्ते द्वितीयस्याचि द्वितीयपादेन योज येत् । सोऽयमतिलय मुश्यमानत्वादतिमर्श इत्युच्यते । तत्र बृहतीपादसतो. बृहतीपादयोमिश्रणरूपो विहारो भवति । एवकारेण पूर्वोक्तविहारो व्याव य॑ते । स तु केवलबृहत्योः केवलसतोबृहत्योः संपद्यते । न तु मिलितयोः। अतो न तत्र प्रगाथभावः । इह तु तथा सत्यतिमृश्य मेलने सति च्छन्दोदयसं. बन्धात्मगाथा: संपद्यन्ते । या वालखिल्या ऋच आनातास्ताः प्रगाथरूपादय एव । तस्माद्विहारेऽपि प्रगाथरूपत्वं युक्तम् । तस्मादित्युपसंहारः । यदेवावि मृश्य विहरणं तत्पूज्यमिति प्लुतेरर्थः।

अथ च्छन्दोद्वयं तदीयमतिमर्शनं [च] प्रशंसति

आत्मा वै बृहती प्राणाः सतोबृहती स बृहती मशंसीत्स आत्माऽथ सतोबृहती ते प्राणा अथ बृहतीमथ सतोबृहती तदात्मानं प्राणैः

परिबृहन्नेति तस्मादतिमर्शमेव विहरेत्, इति । पूर्वोदाहृतं यदेवेति वाक्यमत्र योजनीयम् । अतिमृश्यातिमृश्य पूज्यं विह रणं यदस्ति तस्मिन्विहरणे सा बृहत्यात्मैव मध्यदेह एव । या तु सतोबृहती सा माणाः । तथा सति स मैत्रावरुणो यदादौ बृहतीमशंसीच्छंसनं कृतवान् । स बृहतीशंसनरूप आत्मा मध्यदेहः संपद्यते । अथानन्तरं सतोबृहतीमशंसीत् । ते सतोबृहतीरूपाः प्राणाः संपद्यन्ते । अथ पुनरपि बृहती तत ऊर्च सतो. हती बहुकृत्वः शंसति । तत्तेन व्यतिषक्तशंसनेनाऽऽत्मानं मध्यदेहं प्राणैर्वा युविशेषैः परिवृहन्परितो वर्धयति गच्छति ।

पुनरंप्यतिषामनूध प्रकारान्तरेण प्रशंसति

यद्देवातिमर्शा३म् । आत्मा वै बृहती पशवः सतोबृहती स बृहतीमशंसीत्स आत्माऽथ सतोबृहती ते पशवोऽथ बृहतीमथ सतो बृहती तदात्मानं पशुभिः परिबृह वेति तस्मादतिमर्शमेव विहरे , इति ।

१ . ‘रपि व्यति। edeoals Google .

३ तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।

उ, अपि पुनरपि यदेवातिमृश्यातिपृश्य पूज्यं शंसनमस्ति तत्र बृहती यज- .. मानः सतोबृहती पशुरूपा । अन्यत्सर्वे पूर्ववद्याख्येयम् ।

इत्यं षण्णां सूक्तानां विहरणमुक्त्वा सप्तमाष्टमयोविपर्यासं विधवे

ये(हे ए)वोत्तमे सूक्ते पर्यस्यति

स एव तयोविहारः, इति । अष्टमं सूक्तमादौ पठित्वा पश्चात्सप्तमं सूक्तं पठेदित्येवमन्तिम सूक्तं विप र्यस्येदेव । न तु पादार्धादिव्यतिष कुर्यात् । स विपर्यास एव तयोविहार इत्युच्यते।

मैत्रावरुणस्य शस्त्रमुपसंहरन्ब्रामणाच्छंसिनः शखं प्रस्तौति

तस्य मैत्रावरुणःप्राणान्कल्पयित्वा ब्राह्मणाच्छं

सिने संप्रयच्छयेतं त्वं प्रजनयेति ॥२८॥ इति । तस्य होदशस्त्रेण निष्पन्नस्य रेतोपस्य यजमानदेहस्य मैत्रावरुणः खकी येन शस्त्रेण प्राणवायूसंपाच तं प्राणविशिष्टं यजमानदेहं ब्राह्मणाच्छंसिने संभयच्छति । हे ब्रामणाच्छसिभेतं यजमानदेई स्वं प्रजनयोत्पादयेति तस्याभिप्रायः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयबामण

भाष्ये त्रिंशाध्याये द्वितीयः खण्डः ॥२॥ (२८) [११५]

बामणाच्छंसिनः शखं विधत्ते

सुकीर्ति शंसति देवयोनि सुकीर्तिस्तद्य

ज्ञादेवयोन्य यजमानं प्रजनयति , इति । अप पाच इत्यादिसूक्तं सुकीर्तिशब्देनोच्यते । तत्सूक्तं प्रामणाच्छंसी शंसेत् । सुकीतैर्देवप्रियत्वाइवयोनित्वम् । तस्य दे(स्माद्दे)वयोनिरूपात्सुकी. यात्मकत्वा(का)धज्ञावयवायजमानं ब्रामणाच्छंसी प्रजनयति उत्पादयति ।

तस्यैव सूक्तान्तरं विधत्ते

वृषाकपि शंसत्यात्मा वै वृषाकपि

रात्मानमेवास्य तत्कल्पयति , इति । विहि सोतोरसक्षतेत्यादिकं सूक्तं वृषाकपिना दृष्टत्वात्तच्छब्देनाभिधीयते ।

७७२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३०त्रिंशाध्याये तस्य हृषाकपिसूक्तस्य जीवात्मस्थानीयत्वाचेनास्य यजमानदेहस्य जीवात्मा नमेव संपादयति ।

तस्य सूक्तस्य मध्ये न्यू विधत्ते

तं न्यूखययनं वै न्यूखस्तदस्मै जातायानाचं

प्रतिदधाति यथा कुमाराय स्तनम् , इति । तं वृषाकपि न्यूजयति न्यूक्युक्तं कुर्यात् । हस्वैस्त्रयोदशभिरोकारैर्युक्ता दीर्घात्रय ओकारा मिलित्वा न्यूझा भवन्ति । एतच पूर्वमेवोक्तम् । न्यूज स्यानसाधनत्वेनामरूपत्वात्तेन न्यूछनास्मै यजमानायोत्पमायामाचं समर्पयति ययोत्पबाय कुमाराय माता स्तनं प्रयच्छति तद्वत् ।

मूक्तगतं छन्दः प्रशंसति

स पाङ्क्तो भवति पाङ्क्तोऽयं पुरुषः पञ्चधा विहितो लोमानि त्वङ्मांसमस्थि मजा स यावा

नेव पुरुषस्तावन्तं यजमानं संस्करोति, इति । स वृषाकपिनामकः सूक्तविशेषः पलिच्छन्दोयुक्तो भवति । पुरुषोऽपि लोमादिभिः पञ्चधा सृष्टत्वात्पञ्चसंख्यायोगेन पातः । तथा सति स पुरुषः स्वकीयैरवयवैर्यावानेव भवति तावन्तं सर्वमपि यजमानमनेन संस्करोति ।

ब्राह्मणाच्छंसिनः शस्त्रमुपसंहरबच्छावाकस्य शस्त्रं प्रस्तौति

तं ब्राह्मणाच्छंसी जनयित्वाऽच्छावाकाय संप्रय

च्छत्येतस्य वं प्रतिष्ठां कल्पयेति ॥ २९ ॥ इति । तं यजमानं ब्रामणाच्छंसी स्वकीयेन शस्त्रेणोत्साय प्रतिष्ठासंपादनार्थमच्छा. पाकाय संप्रयच्छति । हेऽच्छावाकैतस्य यजमानस्य त्वं प्रतिष्ठा संपादयेति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णभाष्ये त्रिंशाध्याये तृतीयः खण्डः ॥ ३ ॥ (२९)[ ११६]

अथाच्छावाकस्य शस्त्रं विधत्ते

एक्यामरुतं शंसति प्रतिष्ठा वा एक्या

मरुत्प्रतिष्ठामेवास्य तत्कल्पयति , इति । प्र वो महे मतय इत्यादिकं सूक्तमेवयामरुच्छब्देनोच्यते । तत्सूक्तमच्छा.

४ चतुर्थः खण्डः] ऐतरेयब्राह्मणम् ।

७१ पाका शंसेत् । तच्च प्रतिष्ठायै प्रतिष्ठारूपत्वात् । तेन यजमानस्य प्रतिष्ठामेव संपादयति।

तस्मिन्सूक्ते न्यूझं विधत्ते

तं न्यूजयत्यन्नं वै न्यूयोऽ

नाद्यमेवास्मिंस्तद्दधाति, इति । पूर्ववव्याख्येयम् । सूक्तगतं छन्दः प्रशंसति

स जागतो वाऽतिजागतो वा सर्व वा

इदं जागतं वाऽतिजागतं वा, इति । मूक्तविशेषो द्वादशाक्षरपादत्वाज्जगतीछन्दस्को भवति । चतुर्थपादे पोह शाक्षरत्वादतिच्छन्दा[अतिच्छन्दस्कोऽपि भवति । सर्वमप्येतत्माणिजातं जग. च्छन्दाभिधेयखाज्जागतमतिजागतं वा भवति । अतः सर्वरूपत्वेन च्छन्दोदयं प्रशस्तम् ।

देवताद्वारेण सूक्तं प्रशंसति

सउ मारुत आपो वै मरुत आपोऽनम

भिपूर्वमेवास्मिंस्तदनाचं दधाति, इति । __स उ सोऽपि सूक्तविशेषो मरुद्देवताकः । मरुतश्च दृष्टिद्वारेणाऽऽपो वा

माप एव । अपां चाबहेतुत्वादनत्वम् । अभिपूर्वमेवोक्तानुपूव्र्यैव वायुसंपा. दितजलद्वारा यजमानेऽमाचं स्थापयति ।

होत्रादिभिः प्रयोज्यानामुक्तानां चतुर्णा शिल्पानामेकस्मिनहनि प्रयोगस हमावं विषचे

तान्येतानि सहचराणीत्याचक्षते नाभाने दिष्टं वालखिल्या वृषाकपिमेवयामरुतं तानि

सह वा शंसेत्सह वा न शंसेव , इति । नामानेदिष्ठादीनि चत्वारि शिल्पानि यान्युक्तानि तानि सहचराग्येक स्मिनहनि सह वर्तन्त इत्येवमभिक्षा आचक्षते । तस्माद्यस्मिनहनि शंसनी यानि तस्मिश्चत्वार्यपि शंसेत् । यस्मिन्न शंसनीयानि तस्मिंश्चत्वार्यपि परि त्यजेत् ।

Pigsizes in Google

७७४

७७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३०त्रिंशाध्याये

विपक्षे बाधकमुक्त्वा स्वपक्षमुपसंहरति

यदेनानि नाना शंसेद्यथा पुरुषं वा रेतो वा विच्छिन्द्यात्तादृक्तत्तस्मादेतानि सह

वा शंसेत्सह वा न शंसेत् , इति । त (योदेकस्मिनहन्येवानि चत्वारि शिल्पानि नाना शंसेनाना विच्छिद्य विच्छिद्यावशिष्टमहरन्तरे शंसेत् । तदानीं लोके यथा संपूर्णगर्भादुत्पनं पुरुष वा तत्कारणं रेतो वा विच्छिन्द्याद्विवासयेत्तादृशं तद्भवेत् । तस्मात्कारणादेतेषां चतुर्णा साहित्यमेव न तु परस्परवियोगः कर्तव्यः ।

अथ शिल्पेष्वेव कंचिद्विशेषं वकुमाख्यायिकामाह

स ह बुलिल आश्वतर आश्विश्वजितो होता सन्नीक्षांचक्र एषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके हे मध्यंदिनम भिप्रयेतोर्हन्ताहमित्थमेवयामरुतं शंसया

• नीति तद्ध तथा शंसयांचकार , इति । हशब्द ऐतिखद्योतनार्थः । स प्रसिद्धो बुलिलनामको महर्षिरावतरः । अश्वतरनान्नो महर्षेः समुत्पनः । आश्विरधनान्नो महर्षेः पुत्रः कदाचिद्वैव जितो विश्वजियागसंबन्धी होता सन्स्वमनसीक्षांचक्रे विचारितवान् । सांव त्सरिके गवामयनाख्यसंवत्सरसत्रसंबन्धिनि विश्वजिति विषुवतो ऊर्ध्वमु. त्तरपक्षगते विश्वजिनामके चतुर्थेऽहन्येषां होटमैत्रावरुणादीनां संबन्धीनि शस्त्राणि शिल्पनामकानि चत्वारि सन्ति । एषां शिल्पाना मध्ये द्वि(दे)शिल्प मैत्रावरुणब्राह्मणाच्छसिनोः संबन्धिनी मध्यंदिनसवनमभिलक्ष्य प्रत्येतो प्रत्येतुं कुशलोऽस्मीति शेषः । हन्त हृष्टोऽहमेवयामरुतं शंसयानीत्येवं महर्षिर्वि चारितवान् । अयमर्थः । तृतीयसवनगतान्येतानि शिल्पशस्त्राणि तान्यन्येष्व हामु संभवन्ति । विश्वजिति त्वनिष्टोमसंस्थत्वादग्निष्टोमे तृतीयसवने होत्रकाणां शस्त्राभावान्मत्रावरुणब्राह्मणाच्छसिनोः संबन्धि शस्त्रद्वयं माध्यंदिने सवने समानेतुं तावदच्छावाकमस्मिन्मध्यंदिन एवयामरुतं शंसयानि । तथा सवि ततः पूर्वभाविनोमैत्रावरुणब्राह्मणाच्छंसिशस्त्रयोरान्माध्यंदिने सक्ने समाक र्षणं भवतीति । इत्यं बुलिलः स्वमनसि विचार्य तद्ध तस्मिन्नेव माध्यंदिने

१ स. हर्षेोत्रे स। tirliens, CGeogle

१. चतुर्थः खण्डः] ऐतरेयब्रामणम् ।

७७५ सवने तथा स्वविचारितक्रमेणैवयामरुतं सूक्तमच्छावाकं शंसयांचकार । बला दाज्ञाप्य शंसनं कारितवान् ।

तत्र दोषं कथामुखेनोद्भावयति

तद्ध तथा शस्यमाने गौश्ल आजगाम स होवाच

होतः कथा ते शस्त्रं विचक्र प्लवत इति, इति । तद तस्मिन्नेव माध्यंदिने सवने तथा तेन क्रमेण बुलिलप्रेरितेनाच्छावाके नैवयामरुनामके शस्त्रे शस्यमाने सति तदानीं गौश्लनामकः कश्चिन्महर्षिरागत्य बुलिलनामकं होतारं प्रत्येवमुवाच । हे होतस्ते त्वदीयमच्छावाकमयुक्तमेवया मरुमामकं शस्त्रं प्लवते विनश्यति । तत्र दृष्टान्तः । विचक्रं चक्ररहितं शकट मिव । अश्रूयमाणोऽपीवशब्दोऽत्राध्याहर्तव्यः । अतः कथा तदेतत्सर्वं कथं घटत इत्याक्षेपः।

तत ऊर्ध्वं बुलिलस्य वचनं दर्शयति

किं ह्यभूदिति, इति । अत्राच्छावाकेन शस्यमाने सति किं वा दूषणमभूनास्ति कश्चिदपि दोष

इत्यर्थः।

वत अर्ध्वं गौश्लेनोक्तं दोष दर्शयति

एवयामरुदयमुत्तरतः शस्यत इति स होवाचैन्द्रो

वै मध्यंदिनः कथेन्द्र मध्यंदिनानिनीषसीति, इति । होतुधिष्ण्यादुत्तरतो बच्छावाकस्य विष्ण्यम् । तत्समीपेऽवस्थितेनाच्छावा केनैवयामरुनामकः शस्त्रविशेषः पठनीय इति तस्याऽऽशय इत्युक्त्वा पुन रपि स गौश्ल एवमुवाच । माध्यंदिनसवन ऐन्द्र इन्द्रदेवताकः । तथा सति हे होतस्तमेतमिन्द्रमस्मान्माध्यंदिनसवनात्कथा निनीषसि केन प्रकारेणापने. तुमिच्छसि । सैवमपनयनेच्छैव त्वदीयाच्छावाकशंसने दोष इति गौश्वस्या भिमायः।

तमभिप्रायमजानतो धुलिलस्य वाक्यं दर्शयति

नेन्द्रं मध्यंदिनानिनीषामीति होवाच, इति । अस्मान्माध्यंदिनसवनात्तत्स्वामिनमिन्द्रमपनेतुमहं नेच्छामि तद्विरुद्धस्य कस्यचिदप्यननुष्ठितत्वादित्येवं बुलिल उक्तवान् ।

क. स. स. ट. ‘मको यः । isarge is FROME

…..

७७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३०त्रिंशाध्याये

ततो विरुद्धार्थानुष्ठानमदर्शनार्थ गौश्लस्य वाक्यं दर्शयति

छन्दस्विदममध्यंदिनसाच्ययं जागतो वाऽ तिजागतो वा सर्व वा इदं जागतं वाऽतिजा

गतं वा स उ मारुतो मैव शंसिष्टेति, इति । हे होतस्त्वं स्वमनसेन्द्रमपनेतुं नेच्छसि किंत्विदं छन्दोऽच्छावाकेन प्रयुज्य. मानं शस्त्रगतममध्यंदिनसाचि मध्यंदिनसवनसंबन्धाई न भवति । कथमिति चेत् । तदुच्यते । अयं सूक्तविशेषो जागतो वाऽतिजागतो वा । द्वादशाक्षरपा. देन षोडशाक्षरपादेन चोपेतत्वात् । सर्वे चेदं जागतमतिजांगतं च मबजावं जागते तृतीयसवने योग्यं न तु त्रैष्टुभे मध्यंदिने सवने । स उ सोऽपि सूक विशेषो मारुतो मरुदेवताको न चैन्द्रः । अतोऽपि कारणात्तृतीयसवन एवं योग्यम् । तस्मादयमच्छावाको मैव शंसिष्ट शंसनं सर्वथा मा करोत्विति दो दर्शितवान् ।

तत अर्ध्वं बुलिलकृतं दर्शयति

स होवाचाऽऽरमाच्छावाकेत्यथ

हाऽस्मिन्ननुशासनमीषे , इति । हेऽच्छावाक त्वमारम शंसनादुपरतो भवेत्येवं बुलिल उवाच । अथानन्तर मिदमप्युवाच । हा कष्टं संपनम् । इतःपरमस्मिन्गौश्ले गुरावा(व)नुशास. नमनुष्ठेयोपदेशनमीष इच्छामि । एतस्मादवगत्य सर्वमनुष्ठास्यामीति तस्या भिमायः।

अथ गौश्लस्योपदेशवाक्यं दर्शयति

स होवाचैन्द्रमेष विष्णुन्यङ्गं शंसत्वथ खमेतं होतरुपरिष्टाद्रौद्रयै धाय्यायै पुर

स्तान्मारुतस्याप्यस्याथा इति, इति । स गौश्ल एवमुवाच । एषोऽच्छावाक ऐन्द्रमिन्द्र]देवताको(क) विष्णुन्या विष्णुलिकोपेतं शंसतु। एक्यामरुतं त्यक्त्वा द्यौर्नय इन्द्रेत्येवयामरुनामकं यदैन्द्र सूक्तमस्ति तस्मिन्सूक्ते द्वितीयस्यामृचि चतुर्थपाद एवमानायते-हजीपि विष्णुना सचान इति । अत इदं विष्णुचिहोपेतं सूक्तं शंसतु । हे होतईलिल त्वमेतमेवयामरुतं त्वदीयशस्नेऽस्यायाः पक्षिः। तत्र स्थानविशेष उच्यते ।

७७७

१ पञ्चमः खण्डः] ऐतरेयबामणम् । तृतीयसबने शं नः करतीति रुद्रदेवताका येयं धाय्या तस्या उपरिष्टान्मारुत सूक्तस्य पुरस्ताचयोरुभयोर्मध्ये प्रक्षेपस्थानम् । एवं गौश्लोपदेशः।

अयानुष्ठानं दर्शयति

तद्ध तथा शंसयांचकार तदिदमप्ये

तर्हि तथैव शस्यते ॥३०॥ इति ।

• सद गौश्लेन यदुक्तं तत्सर्वं तथैव बुलिला शंसयांचकार । मध्यंदिनसक्नेऽ.

छागकं प्रत्येवयामरुच्छंसने प्रेषितवान् । स्वयं तृतीयसवन आमिमारुतशत्र मध्ये पाय्यामारुतसूक्तयोर्मध्य एवयामरुतं प्रक्षिप्य शंसनं कृतवान् । तस्मादि. दानीमपि तदिदं सर्व होत्रकैस्तथैव शस्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

भाष्ये त्रिंशाध्याये चतुर्थः खण्डः ॥ ४॥ (१०) [११७]

संवत्सरसत्रे यदहरमिष्टोमसंस्थं विश्वजिदाख्यमस्ति तत्र शिल्पानां शस्त्राणां कृप्तिः पूर्वत्राभिहिता।

तत्र किंचिचोधपुद्भावयति

तदाहुर्यदस्मिन्विश्वजित्यतिरात्र एवं षष्ठेऽहनि कल्पते यज्ञः कल्पते यजमानस्य प्रजातिः कथ मत्राशस्त एव नाभानेदिष्ठो भवस्यथ मैत्राव रुणो वालखिल्याः शंसति ते प्राणा रेतो वा अग्रेऽथ प्राणा एवं ब्राह्मणाच्छंस्यशस्त एवं नाभानेदिष्ठो भवत्यथ वृषाकपि शंसति स आत्मा रेतो वा अग्रेऽथाऽऽत्मा कथमत्र यजमानस्य

प्रजातिः कथं प्राणा अविलुप्ता भवन्तीति, इति । द्विविधो हि विश्वजित् । अतिरात्रसंस्थोऽमिष्टोमसंस्थश्च । तत्रातिरात्रस्व तत्र एकाहः । तत्र तृतीयसवने होत्रकाणां शस्त्राणि विद्यन्ते । तथा सति पूर्वो कक्रमेण होता नामानेदिष्ठं शस्त्वा रेतः सिञ्चति । मैत्रावरुणो वालखिल्याः शस्त्वा प्राणानवस्थापयति । ब्राह्मणाच्छंसी सुकीर्ति शस्त्वा प्रजनयति । अच्छावाक एवयामरुतं शस्त्वा प्रतिष्ठां करोतीत्ययं क्रम उपपन्नः । एवं पृष्ठप

७७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३०त्रिंशाध्याये पडहस्य पदहः षष्ठमस्ति तस्याप्युक्तसंस्था(स्योत्वेन तृतीयसबने होत्रकशास भावात्पूर्वोक्ता यजमानोत्पत्तिरुपपद्यते । यया विश्वजिदतिरात्रे षष्ठेऽहनि च शस्त्ररूपो यसः कल्पत उपपद्यते तदनुसारेण यजमानस्य प्रजाविर्जननमप्युप पद्यते । तथा संवत्सरसत्रगतेऽमिष्टोमसंस्थे विश्वजित्यहनि तदुपपादयितुं न शक्यते । तथा हि तत्रामिष्टोमसंस्थे विश्वजिति होत्रा नाभानेदिष्ठो माध्यंदिन सवनेऽशस्त एव भवति । तृतीयसवने वैश्वदेवशस्त्रे शस्यमानत्वात् । अयैवं सति मैत्रावरुणो वालखिल्याः प्रथमं शंसति तृतीयसवने होत्रकाणां शत्रा भावेऽपि माध्यंदिने सवने तेषां शस्त्राणां बुलिलाख्येन महर्षिणा समाष्ट त्वात् । ते च वालखिल्यात्मकाः प्राणा इत्युक्तम् । लोके तु रेत एवाग्रे प्रथम सिक्तं भवति । पश्चारिसक्ते रेतसि माणानां प्रवृत्तिरिति क्रमः । इह तु नामा. नेदिष्ठराहित्येन रेतःसेको नास्ति । वालखिल्यानां सद्भावेन पाणा विधन्ते । कथमेतदुपपद्यत इत्येकं चोधम् । एवं चोद्यान्तरमस्ति । ब्राह्मणाच्छंसी मध्यं दिने वृषाकपि शंसति । स वृषाकपिर्यजमानस्य प्रजायमानस्याऽऽत्मा देहः । अत्रापि नाभानेदिष्ठोऽशस्त एव भवति । अतो रेतो नास्ति । लोके तु रखे एवाग्रे सिच्यते । अथ पश्चादात्मदेहो जायते । अतो लोकवैपरीत्ये सति कय मत्र यजमानस्य प्रजातिजेन्मेति द्वितीय चोयम् । यजमानस्य जन्मसंभवे वालखिल्यरूपाः माणा अविलमा विशेषेण स्थानकृतिरहिताः कयं भवन्ति केन प्रकारेण वर्तन्त इत्येवं ब्रह्मवादिनचोधमाहुः।

तस्य परिहारं दर्शयति

यजमानं ह वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति स यथा गर्भो योन्यामन्तरेवं संभवञ्छेते न वै सकृदेवाग्रे सर्वः संभवत्ये

कैकं वा अङ्गं संभवतः संभवतीति, इति । यसक्रतुशब्देन तत्साधनभूतः शिल्पसमूहो विवक्षितः। एतेन सर्वेणापि शिल्पसमूहेन यजमानं संस्कुर्वन्ति । प्राणप्राप्त्यर्हता संस्कारः। स एव चात्र क्रियते । ननुतु) यजमानस्य मरणं जन्म [वा]। बहुभिः शिल्पैः क्रमेण संस्कारे दृष्टान्तः । यथा योन्यामन्तर्मध्ये स प्रसिद्धो गर्भो भवति । एवमयं यजमानः क्रमेण संभवन्संस्कारेणोत्पधमानः शेतेऽवतिष्ठते । लोकेऽपि गर्भोऽने प्रथमं रेत सेककाल एव सर्वः संपूर्णाङ्गः सकृदेव न वै संभवति नैवोत्पयते । किंतु संभवत उत्पद्यमानस्य पुरुषस्यैकैकमॉ क्रमेण संभवति निष्पयते । तथा१ षष्ठः खण्डः] ऐतरेयब्रामणम् ।

७७९ च गर्मोपनिषद्यानातम्-‘एकरात्रोषितं कललं भवति । समराबोषितं बुख़ुदं भवति’ इत्यादि । अतो गर्भवत्क्रमेण संस्कारो युक्त इत्यर्थः ।

उक्तमेवोत्तरं पुनरपि विस्पष्टयति

सर्वाणि चेत्समानेऽहन्क्रियेरन्कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिरथत होतैवयामरुतं तृतीयसवने शंसति तथाऽस्य प्रतिष्ठा तस्या

मेवैनं तदन्ततः प्रतिष्ठापयति ॥३१॥ इति । सर्वाणि शिल्पशस्त्राण्येकस्मिन्नेवाहनि क्रियेरन् । तदानीं तावतैवायं यत्रो यजमानसंस्कारे हेतु: शिल्पसमूह उपपद्यते । यजमानस्य प्रजाति ननोपचार उपपद्यते । अतः सर्वशस्त्रानुष्ठानमेव संस्कारसाधनम् । ननु(तु) होतुः शस्त्रस्य प्रथमभावित्वादिक्रमविशेषः संस्कारोपयोगी । न त्व(न्व)त्र सर्वशस्त्रानुष्ठानं नास्ति माध्यंदिनसवन एवयामरुभानः सूक्तस्याच्छावाकेनाननुष्ठानात् । नार्य दोषः । तत्र तदभावेऽपि तृतीयसवने होतुरेवयामरुच्छखमस्ति । तसथा सति यजमानस्य सवेशस्त्रानुष्ठानेन या प्रतिष्ठाऽपेक्षिता तस्यामेव प्रतिष्ठायामेनं यज मानं तदन्ततः शस्त्राणामन्ते प्रतिष्ठापयति ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवास णभाष्ये त्रिंशाध्याये पञ्चमः खण्डः॥५॥ (११) [११८]

पूर्वत्र बामणाच्छंसिनः शिल्पे शसे सुकीर्ति शंसति वृषाकपि शंसतीति यत्सूक्तद्वयं विहितं तत अर्ध्व कुन्तापाख्यं सूक्तं खिले कुन्तापनामके ग्रन्ये समा नातं त्रिंशहचं वक्तव्यमिति [तदितिहासमाह

छन्दसां वै षष्ठेनाहाऽऽप्तानां रसोऽत्यनेदत्स प्रजा पतिरविभेत्परायं छन्दसां रसो लोकानत्येष्य तीति तं परस्ताच्छन्दोभिः पर्यगृहाबाराशंस्या गायत्र्या रैभ्या त्रिष्टुभः पारिक्षिया जगत्याः कार व्ययाऽनुष्टुभस्तत्पुनश्छन्दम्सु रसमदधात् , इति । पृष्ठचषडहस्य संबन्धिनां षष्ठेनाहा मासानां गायत्र्यादीनां छन्दसा रसः

.. १ ख. ‘चं सूकं तमि। piece isy; 4Gragic.

७४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३०त्रिंशाध्याये सारोऽत्यनेददतिक्रम्यागच्छत् । तदानी स प्रजापतिरविभेद्रीतवान् । केनामि. प्रायेणेति सोऽभिधीयते । अयं छन्दसा रसः परापरावृत्तिरहितोऽत्येष्यति अतिक्रम्य गमिष्यतीत्यनेनाभिप्रायेण । ततो भीतः प्रजापतिस्तं रसं परस्ता परभागे छन्दोभिर्गायत्र्यादिभिः पर्यगृहात्परितो निरुद्धवान् । गायत्र्यादीनां मध्ये कस्याः संबन्धिरसं कया पर्यग्रहादिति तदुच्यते । गायत्र्याः संबन्धिरसं नाराशंस्या पर्यगृहात् । नराशंसशब्दो यस्यामृगजातावस्ति सेयं नाराशंसी। तथा त्रिष्टुभः सारं रैभ्या रेभशब्दोपेतयर्जात्या पर्यगृह्णात् । जगत्याः सारं पारिलित्या परिक्षिच्छब्दोपेतयर्जात्या पर्यगृह्वात् । अनुष्टुभः सारं कारन्यया कारशन्दोपेतयर्जात्या पर्यगृवात् । तत्तस्मात्परिग्रहादूर्ध्वं पुनश्छन्दामु गाय ज्यादिषु तं रसमदधादवस्थापितवान् ।

वेदन प्रशंसति

सरसैहास्य च्छन्दोभिरिष्टं भवति सरसै

श्छन्दोभिर्यज्ञं तनुते य एवं वेद, इति । अस्य वेदितुर्दर्शपूर्णमासादिकं सारयुक्तैर्गायत्र्यादिभिरिष्टं भवति । अथा मिष्टोमादिकं प्रौढया वेदिता सारयुक्तैश्छन्दोभिस्तनुते विस्तारयति ।

इदानी कुन्तापसूक्तगता ऋचो विपत्ते

माराशंसी शंसति प्रजा वै नरो वाक्शंसःप्रजा स्वेव तहाचं दधाति तस्मादिमाः प्रजा वदत्यो

जायन्ते य एवं वेद यदेव नाराशंसी३, इति । इदं जना इत्याचास्तित्र ऋचो नाराशंस्यः । तत्र नराशंसस्तविष्यत इति मरासशब्दस्य श्रुतत्वात् । तास्तिस्त्र ऋची ब्रामणाच्छसी शंसेत् । तत्र नर इत्यनेन प्रजा विवक्षिताः ।शंस इत्यनेन वाविवक्षिता। अतस्वच्छंसनेन प्रजा स्वेव वाचमवस्थापयति । तस्मात्कारणादिमा मजा लोके वदत्यो वारव्यवहा रयुक्ता उत्पद्यन्ते । य एवं वेद तस्य वारव्यवहारक्षमा प्रकाश(जा जा)यन्त इति शेषः । नाराशंसीरिति यदेवास्ति तत्पूज्यमिति प्लुतेरभिभायः।

ता ऋचा पुनः प्रशंसति

शंसन्तो वै देवाश्च ऋषयश्च स्वर्ग लोकमायेस्तथैवै तयजमाना शंसन्त एवं स्वर्ग लोकं यन्ति, इति ।

१ क. स. ट. ‘क्षिता । Parties Googfe.

१ षष्ठः खण्डः] ऐतरेयब्रामणम् ।

स्पष्टोऽर्थः। तच्छंसने कंचिद्विशेषं विधत्ते

ताः प्रयाहं शंसति यथा वृषाकपि वार्षा

कपं हि वृषाकपेस्तन्यायमेति, इति । ता नाराशंसीस्तित्र ऋचः अग्राहं प्रख पादे पादेऽवसाय शंसेत् । यथा वृषाकपिसूकं पादे पादे विगृह शंसति तदेतत् । वृषाकपिसूक्ते प्रग्रहविधिरर्थ सिदो द्रष्टव्यः। हि यस्मात्कारणादिदमृचां शंसनं वार्षाकपं वृषाकपिसंबन्ध कर्तव्यम् । तत्तस्मात्कारणाषाकपेरेतनामकस्य सूक्तस्य न्याय प्रकारमेति मामोति । विग्रह एवात्र तध्यायः।

वृषाकपिसूक्ते न्यूनिनवपि विद्यते । अतोऽत्रापि तदुभयमाप्तौ न्यूई निराकृत्येतरं विधत्ते

तासु न न्यूलयेनी वीव नर्देस

हि तासां न्यूलः, इति । सासु नाराशंसीषु न्यूई न कुर्यात् । किंतु नी वीव नर्देदेव विशेषेण निनर्द मेव कुर्यात् । स एव निनर्दस्तासां नाराशंसीनां न्यूजस्थानीयः । तृतीयपादस्य द्वितीयखरे त्रयोदशभिरोकारैस्तत्र चावसानं कृत्वा त्रयाणां त्रिमात्राणामोका. राणामुचारणं न्यूजः। तृतीयपादस्य प्रथमातरमनुदाचत्वेन द्वितीयानरमुदाच लेनोचारयेदिति यदस्ति सोऽयं निनर्दः।

ऋगन्तराणि विधत्ते

रेभीः शंसति, इति । रेभशब्दोपेता ऋचो भी:(भ्यो) वच्यस्वरेभवच्यस्वेत्याचास्तिस्रः। ताः शंसेत् ।

वा ऋचः प्रशंसति

रेमन्ती वे देवाश्च ऋषयश्च स्वर्ग लोकमायंस्तथैवै तद्यजमाना रेभन्त एव स्वर्ग लोकं यन्ति, इति । रेभन्तः शब्दं कुर्वन्तः कीर्ति कुर्वन्त इत्यर्थः । विनादिकं विधत्ते

ताः प्रनाहं शंसति यथा वृषाकपि वार्षाकपं हि वृषाकपेस्तच्यायमेति तासु न न्यून.gle

"



..

–. …–.-

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्– [३०त्रिंशाध्याये येत्री वीव नर्देस हि तासां न्यूखः, इति । पूर्ववत् । ऋगन्तराणि विषचे

पारिक्षितीः शंसति, इति । परिक्षिच्छन्दोपेता राम्रो विश्वजनीनस्येत्याचावतस्रः पारिक्षित्यस्तासु परि सितः क्षेममकरदिति परिक्षिच्छब्दस्य श्रुतत्वात् । ता ऋचः शंसेत् ।

ताः प्रशंसति

अनि परिक्षिदग्निीमाः प्रजाः परि

क्षेयमिं हीमाः प्रजाः परिक्षियन्ति, इति । तास्तुक्षु परिक्षिच्छब्देनामिरेवाभिधीयते । अमिहींपाः सर्वाः प्रजा दाहपा कादिना परिपालयन्क्षेति निवसति । प्रजाश्चेमा अनि परितः सेवमाना: लियन्ति निवसन्ति । अतः कर्तरि कर्मणि वा व्युत्पत्याऽयममिः परिसिद्भवति ।

वेदनं प्रशंसति

अमेरेव सायुज्यं सरूपता सलो

कतामश्रुते य एवं वेद, इति । सहवाससमानरूपसमानलोकत्वानि वेदिता मामोति । तासाचा लुतेन पूज्यत्वं दर्शयति

यदेव पारिक्षिती३ः, इति । प्रकारान्तरेण ताः प्रशंसति

संवत्सरो वै परिक्षिसंवत्सरो हीमाः प्रजाः परि

क्षेति संवत्सरं हीमाः प्रजाः परिक्षियन्ति, इति । अमिवाक्यवव्याख्येयम् । बेदनप्रशंसां ग्राहविधि च दर्शयति

संवत्सरस्यैव सायुज्यं सरूपता सलोकतामश्नुते य एवं वेद ताः प्रग्राहं शंसति यथा वृषाकपि वाकिपं हि वृषाकपेस्तन्यायमेति तासु न न्यूखयेची वीव नर्देस हि तासां न्यूखा, इति ।

KA

१ षष्ठः खण्डः] ऐतरेयबामणम् ।

७८३ पूर्ववयाख्येयम् । ऋगन्तराणि विषते

__कारख्याः शंसति, इति । कारुशब्दोपेता कारख्या इन्द्रः कारुमबुधदित्यायाश्चतस्त्रः शंसेत् । ताप्रशंसति

देवा वै यत्किंच कल्याणं कर्माकुर्वस्तकारव्या भिरवाप्नुवंस्तथैवैतयजमाना यत्किच कल्याणं

कर्म कुर्वन्ति तत्कारव्याभिराप्नुवन्ति, इति । कल्याण काम्यफलाथै कर्म कृतवतां कारव्याभि+ग्भिस्तत्फलमातिर्भवति। विग्रहादिकं विधत्ते

ताः प्रग्राहं शंसति यथा वृषाकपि वार्षाकर्ष हि वृषाकपेस्तन्यायमेति तासु न न्यूयेत्री

वीव नर्देस हि तासां न्यूङ्खः, इति । पूर्ववयाख्येयम् । ऋगन्तराणि विधत्ते दिशांक्लप्तीः शंसति दिश एव तत्कल्पयति , इति। ।

यः सभेयो विदथ्य इत्याचा ऋचो दिशांकृतीः शंसेत् । प्राच्यादिदिग्व त्पश्चसंख्योपेतत्वात् । ते देवाः प्रागकल्पयमिति कृपिधातुश्रवणाच दिशा कृतित्वम् । तच्छंसनेन दिश एवं कल्पयति खप्रयोजनक्षमाः करोति ।

तासासूचा संख्यां दर्शयति

ताः पञ्च शंसति पञ्च वा इमा दिश

श्चतस्रस्तिरश्य एकोा , इति । दिशांकृप्तिसंज्ञकास्ता ऋचः पञ्च शंसेदर्यमा उपलभ्येत्यायाः। दिशः पश्च. संख्याका एव । ऐन्द्री यामी वारुणी सौमी चेत्येवं तिरश्श्यस्तिर्यगवस्थिता दिशश्चतस्त्र ऊर्ध्वं चैका । इत्थं पञ्चसंख्योपपद्यते ।

न्यूनिनौ निषेधति

तासु न न्यूजयेनैवैव च निनर्देब्रे दिमा दिशो न्यूखयानीति, इति । Google

७८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३०त्रिंशाध्याये

तामु दिशांकृतिषु न्यूझं न कुर्यात् । तथा निनर्दमपि नैव कुर्यात् । एव चेति पदद्वय(याविषययोः समुच्चयार्थम् । न्यूजवर्जने कोऽभिमायः सोऽभिधी यते । इमा दिशो नेब्यूझ्यानि नैव चालयानीत्यनेनाभिमायेण । न्यूानिनर्द योर[न]भिधानादेव वर्जनसिद्धौ निषेधो नित्यानुवादः। पूर्वमन्त्रदृष्टान्तेन शद्धि तयोनिषेधार्थो वा।

शंसने निषेध(विशेष) दर्शयति

ता अर्धर्चशः शंसति प्रतिष्ठाया एव, इति । पूर्वासामृचा पादे पादेऽवसाय शंसनमुक्तम् । तास्तु दिशांकृतीरपर्चेऽव साय सेत् । अर्धर्चस्य प्रत्यूचं द्वित्वात्तच्छंसनं प्रतिष्ठायै संपद्यते ।

ऋगन्तराणि विषत्ते

जनकल्पाः शंसति प्रजावै जनकल्पा दिश एव

तत्कल्पयित्वा तासु प्रजाः प्रतिष्ठापयति, इति । योऽनाकाक्ष इत्याद्याः षड्ऋचो जनकल्पाभिधाः शंसेत् । अनाक्ताक्ष इत्यादिना पुरुषविशेषानु(षणान्यु)पन्यस्यते(न्ते)। ताः कल्पेषु कल्पशन्दामि धानादेव जनकल्पास्तासां मजारूपत्वात् । पूर्वोक्तदिगपाभिरिभर्दशदिशः) संपाच तासु दिक्षु प्रजाः प्रतिष्ठापयति ।।

पूर्ववम्यूचनिनर्दनिषेधमर्धर्वेऽवसानं [च दर्शयति -

तासु न न्यू येनैवैव च निनर्देने दिमाः प्रजा न्यूखयानीति ता अर्ध

र्चशः शंसति प्रतिष्ठाया एव, इति । ऋगन्तराणि विधत्ते

इन्द्रगाथाः शंसतीन्द्रगाथाभिर्वे देवा असुरानभि गायाथैनानन्यायंस्तथैवैतद्यजमाना इन्द्रगाथाभि

रेवाप्रियं भ्रातृव्यमभिगायाथैनमतियन्ति, इति । यदिन्द्रादो दाशराज इत्याद्याः पञ्चर्च इन्द्रगाथाभिधाः शंसेत् । इन्द्रो गाध्यते कथ्यते यास्तुक्षु ता इन्द्रगाथाः । ताभिर्देवा असुरानभिगाय योद्धमा भिमुख्येन प्राप्य युद्धनैनानत्यायन्, अतिक्रान्तवन्तो जयं प्राप्ता इत्यर्थः। देववयजमाना अप्येताभिरिणं जयन्ति । nese fOOffc

७८५

७ सप्तमः खण्डः] ऐतरेयबामणम् ।

पूर्ववदर्षऽवसानं विधते

ता अर्धर्चशः शंसति प्रतिष्ठाया एव ॥३२॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम ___णभाष्ये त्रिंशाध्याये षष्ठः खण्डः ॥६॥ (३२) [११९]

कुन्तापनामकं त्रिंशचं सूक्तं विधायैतशमलापनामकं सप्ततिसंख्याकं पदस. मूह विषते

ऐतशप्रलापं शंसति, इति । ऐतशाख्येन मुनिना दृष्टा ऐतशमलापाः । अनन्वितानामर्थाना पचसा संलापः प्रलापः । तं ब्रामणाच्छंसी शंसेत् । तमैतशमलापं स्तोतुमाख्यायिकामाह

ऐतशो ह वै मुनिरग्नेरायुर्ददर्श यज्ञस्यायात याममिति हैक आहुः सोऽब्रवीत्पुत्रान्पुत्रका अनेरायुरदशं तदभिलपिष्यामि यत्किं च वदामि तन्मे मा परिगातेति स प्रत्यपद्यतैता

अश्वा आप्लवन्ते प्रतीपं प्रातिसत्वनमिति, इति । ऐतशनामकः कश्चिन्मुनिरग्नेरायुरित्येतनामकं मन्त्रकाण्डं ददर्श । पूर्ववदने मियत्वात्तस्य काण्डस्यामेरायुरिति नाम संपनम् । एके यात्रिका यज्ञस्याया तयाममिति तस्य मत्रकाण्डस्य नामधेयमाहुः । पुनः पुनः पठितैः सार्थकैमंत्र जातैरलसो यज्ञो गतसारोऽभूत् । तस्य यज्ञस्याऽऽलस्यपरिहारेण सारोत्पा दनादसंबन्धमलापरूपस्य मन्त्रकाण्डस्यायातयाममिति नाम संपनम् । स मुनि. रैतशः स्वकीयान्पुत्रान्मत्येवमब्रवीत् । हे पुत्रकाः कुत्सिताः पुत्रा अहममेरायु रियेतनामकं मत्रकाण्डं दृष्टवानस्मि । तदहं भवतामग्रेऽभिलपिष्यामि । तस्मि न्संगतार्थस्य कस्याप्यभावायत्किचिद्वामात्रं वदामि । तन्मे वचनं यूयं मा परिगातास्य वचनस्य निन्दा मा कुरुत । एवं पुत्रान्मत्रयित्वा स मुनिः प्रत्य पद्यत प्रलापं प्रारब्धवान् । सप्ततिसंख्याकपदसमूहरूपे तस्मिनेता अश्वा आठ बन्त इति प्रथमं पदम् । प्रतीपं प्रातिसत्वनमिति द्वितीयं पदम् । इतिचन्दः प्रदर्शनार्थ इत्यादिकं सप्ततिपदसमूहमुक्तवान् ।

७८५ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३०त्रिंशाध्याये

तदीयपुत्रवृत्तान्तं दर्शयति

तस्याभ्यग्निरैतशायन एत्याकालेऽभि-.

हाय मुखमप्यगृहादपनः पितेति, इति । तस्य मुखमित्यन्वयः । ऐतशस्य पुत्र ऐतशायनः । स चाभ्यमिरित्येतना मकः । एतादृश एत्य प्रलपन्तं पितरं दृष्ट्वा सहसा समेत्य तदानीमकाले मला. पसमाप्तिकालाभावेऽप्यभिहायाऽऽभिमुख्येनोत्थाय तस्य पितुर्मुखमप्यगृहाद स्तेनाऽऽच्छादितवान् । केनाभिप्रायेणेति सोऽभिधीयते । नोऽस्माकं पिवेदानी महपद प्राप्त उन्मस इत्यभिप्रायेण ।

अथ मुनेत्तान्तमाह

तं होवाचापेद्यलसोऽभूर्यो मे वाचमवधीः शतायुं गामकरिष्यं सहस्रायुं पुरुषं पापिष्ठां ते

प्रजां करोमि यो मेस्थमसक्था इति, इति । तमभ्यमिनामकं पुत्रं मुखपिधाने प्रवृत्तं पितैवं तमुवाच । हे पुत्र त्वमपेक्ष स्मादेशादपागच्छालसोऽभूर्मद्वाक्यं श्रोतुमालस्ययुक्तस्त्वमभूः । यस्त्वं मे मदीयां वाचमवधीर्मुखपिधानेन विनाशितवानसि । अहमुन्मत्त इति तव बुदिर्न वहमुन्मत्तः किंतु मत्रकाण्डमीदृशम् । सामर्थ्य तु मदीयं शृणु। अल्पायुष्या) गां शतायुं शतसंवत्सरायुष्कमकरिष्यं कर्तुं शक्रोमि । तथा शतायुं पुरुष सहस्रायुं सहस्रसंवत्सरायुष्कं कर्तुं शक्रोमि । अतो मामवजानतस्ते प्रजा पुत्रा. दिरूपां पापिष्ठामतिशयेन दारियादिहेतुयुक्तां करोमि । यस्त्वं मामित्थमसक्या

अभिभूतवानसि । तस्मात्तव शापो युक्त इत्येवं पितोवाच ।

पितुः शार्प लोकासिद्धया द्रढयति

तस्मादाहुरभ्यमय ऐतशायना

और्वाणां पापिष्ठा इति, इति । यस्मारिपत्रा शापो दत्तस्तस्मात्कारणात्तवृत्तान्ताभिज्ञा जना एवमाहुः । और्वाणामौर्वगोत्रोत्पन्नानां पुरुषाणां मध्य ऐतशायना एतशस्य मुनेः संबन्धि. नोऽभ्यमयोऽभ्यमियमुखाः पुरुषाः पापिष्ठा अत्यन्तपापयुक्ता इति ।

ऐतशमलापस्य बाहुल्यं विपत्ते

तं हैके भूयांसं शंसन्ति, इति । Hogle

७८७

७ सप्तमः खण्डः] ऐतरेयबामणम् ।

तमैतमलापमभिशाः केचिद्यामिका अतिशयेन बहुलं शंसन्ति । तथा चाऽऽश्वलायन आह-‘सप्ततिं पदान्यष्टादश वा’ इति ।

तत्र कंचिनियमं विधत्ते

स न निषेधेद्यावत्कामं शंसेत्येव

ब्रूयादायुर्वा ऐतशमलापः, इति । स यजमान औत्सुक्येनैतशमलापं शंसन्तं ब्राह्मणाच्छसिनं न निषेषेत् । मा भूदयं प्रलाप इति निषेध न कुर्यात् । किंतु यावत्कामं तदीयेच्छानुसारेण शंसेत्येवं ब्रूयात् । अयमैतशमलाप आयुःस्वरूपस्तस्मादत्र प्रवर्तमानस्य निषे. धनं न युक्तम् ।

वेदनं प्रशंसति

आयुरेव तद्यजमानस्य प्रतारयति य एवं वेद, इति । हतेन पूज्यत्वं दर्शयति

यदेवैतशप्रलापा३:, इति । प्रकारान्तरेण प्रशंसति

छन्दसां हैष रसो यदेतशमलाप

श्छदःस्वेव तद्रसं दधाति, इति । योऽयमैतशमलापः स एष च्छन्दसां वेदानां मध्ये रसः सारः। अत एत. च्छसनेन च्छन्दासु वेदेष्वेव रसमवस्थापयति ।

वेदनं प्रशंसति

सरसैहास्य च्छन्दोमिरिष्टं भवति सरसै

श्छन्दोभिर्यज्ञं तनुते य एवं वेद, इति । पूर्ववव्याख्येयम् । पुनरपि प्लुतेन पूज्यत्वं दर्शयति

. यद्देवैतशप्रलापा३, इति । उ अपि चेत्यर्थः। प्रकारान्तरेण प्रशंसति

अयातयामा वा अक्षितिरैतशमलापोऽयात यामा मे यज्ञेऽसदक्षितिम यज्ञेऽसदिति, इति ।sule

७८४

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३०त्रिंशाध्याये योऽयमैतशमलापः सोऽयातयामः । यातयामत्वमसारत्वं तद्वैपरीत्यादया. तयामः सारयुक्त इत्यर्थः । अत एवाक्षितिरक्षय्यफलहेतुः । तस्मान्मे यो प्रयोगोऽयमयातयाँमोऽसत्सरसोऽस्तु । तथा मे यज्ञे प्रयोगोऽयमतितिरसदि. त्यक्षय्यफलहेतुत्वमभिप्रेत्य शंसेत् । तत्रैकस्मिन्पदेऽवसानं विधत्ते

तं वा एतमैतशप्रलापं शंसति

पदावग्राहं यथा निविदम्, इति । पदे पदेऽवगृह यथा निविदं शंसति तथैवैतशमलापं पदे पदेऽवयवावरत शंसेत् ।

अन्ते प्रणवं विधत्ते

. तस्योत्तमेन पदेन प्रणौति यथा निविदः, इति । निविदः पदानां शंसने चरमे पदे यथा प्रणवं करोति तद्वदत्राप्युत्तमे पदे प्रणवं कुर्यात् ।

ऐतशमलापं विधाय प्रवाहकाख्या ऋचो विधत्ते

प्रवहालिकाः शंसति प्रवहालिकाभिर्वे देवा असुरान्प्रवहल्याथैनानत्यायंस्तथै वैतद्यजमानाः प्रवलिकाभिरेवाप्रियं

भ्रातृव्यं प्रवल्याथैनमतियन्ति, इति । विततौ किरणौ द्वावित्याचाः षडनुष्टुभः प्रवहिकाख्याः। पुरा किलैताभि ग्भिर्देवा असुरान्मवड्यामनस्कं प्रियमुक्त्वा ततस्तानसुरानतिक्रम्यागच्छन् । प्रवडनं निर्हदयं सान्त्ववचनमित्युक्तवान् । अमनःपूर्वकेण प्रियवचनेन विरो पिनोऽसुरान्वश्चयित्वा तदीयदेशमतिक्रम्य गतवन्त इत्यर्थः । देवदृष्टान्तेन यजमानानामपि तथैव भवति ।

तास्वृक्षवर्धर्चेऽवसानं विधते

ता अर्धर्चशः शंसति प्रतिष्ठाया एव, इति । अर्धयोदित्वात्पादद्वयसाम्येन प्रतिष्ठात्वम् ।

क. स. स. ट. याम । २ स. ट. ‘क्षयफ ।३ क. ‘यामाः स्वतः सरसास्तु।र. ‘यामाश्वतः सारसास्तु ।स. यामस्वतः सरसास्तु । ८. यामाश्रतः सरसास्तु । Opic७८९

७ सप्तमः खण्डः] ऐतरेयब्रामणम् ।

शाखान्तरगताः प्रवडिकाख्या ऋचो विधाय तथैव शाखान्तरगता आजि हासेन्या ऋचो विधत्ते

आजिज्ञासेन्याः शंसत्याजिज्ञासेन्याभिः देवा असु रानाज्ञायाथैनानत्यायंस्तथैवैतद्यजमाना आजि ज्ञासेन्याभिरेवाप्रियं भ्रातृव्यमाज्ञायाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एव, इति । आकारोऽत्रावशब्दार्थे वर्तते । आज्ञातुमवज्ञातुमिच्छाऽऽजिज्ञासा तामई न्तीति तत्साधनीभूता ऋच आजिज्ञासेन्या: । आज्ञायासुराणामवहां कृत्वे. त्यर्थः । अन्यत्पूर्ववयाख्येयम् । इहेत्य मागपागुदगिति शाखान्तरपठिताथ तत्र ऋच आजिज्ञासेन्याः।।

तासां शंसनं विधाय प्रतिराधाख्यस्य मवस्य शंसनं विधत्ते

प्रतिराधं शंसति प्रतिराधेन वै देवा असुरान्प्रति राध्याथैनानन्यायंस्तथैवैतद्यजमानाः प्रतिराधेनै वाप्रियं भ्रातृव्यं प्रतिराध्याथैनमतियन्ति, इति । सूत्रे भुगित्यभिगत इति त्रीणि पदानीत्यादिना यो मन्त्र उक्तः सोऽयं प्रति राषः। विरोधिनां राधं समृद्धि प्रतिबध्ना ती]ति प्रतिराधत्वम् । असुरान्मति राध्य तदीयां समृद्धि प्रतिबध्येत्यर्थः ।

प्रतिराधाख्यं शाखान्तरगतं मन्त्रं विधायातिवादाख्यं शाखान्तरगतमेव मत्रं विधचे

अतिवादं शंसत्यतिवादेन वै देवा असुरानत्यु द्याथैनानन्यायंस्तथैवैतद्यजमाना अतिवादेनैवा प्रियं भ्रातृव्यमत्युद्याथैनमतियन्ति तमर्धर्चशः

शंसति प्रतिष्ठाया एव ॥ ३३ ॥ इति । वीमे देवा अक्रंसतेत्याधनुषुप्शाखान्तरपठिताऽतिवाद इत्युच्यते। विरोधिना सत्कारमतिलध्याधिक्षेपरूपो वादोऽतिवादः। तत्सामर्थ्यसाधनत्वाहगप्यति. बाद इत्युच्यते । अत्युद्यातिकम्योक्त्वाऽधिक्षिप्येत्यर्थः । अन्यत्पूर्ववव्याख्येयम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण .. भाष्ये त्रिंशाध्याये सप्तमः खण्डः ॥७॥ (३३) [ १२०]gle.

-”

….–.–.- -..

.

७९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३०त्रिंशाध्याये

अथ देवनीयाख्यं सप्तदशानां पदानां समूह विधत्ते

देवनीथं शंसति, इति । सूत्रकारेणाऽऽदित्या ह जरितरतिरोभ्यो दक्षिणामनयमिति सप्तदश पदा नीति योऽयं पदसमूहोऽभिहितः स देवनीयो देवलोकनयनहेतुत्वात् ।

तं प्रशंसितुमाख्यायिकामाह

आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्प धन्त वयं पूर्व एण्यामो वयमिति ते हानिरसः पूर्वे श्वः मुत्यां स्वर्गस्य लोकस्य ददृशुस्तेऽमिं प्रजिष्युरङ्गिरसां वा एकोऽग्निः परे ह्यादित्येभ्यः श्वः सुत्यां स्वर्गस्य लोकस्य प्रबूहीति ते हाऽऽ दित्या अग्निमेव दृष्ट्वा सद्यःसुत्यां स्वर्गस्य लोकस्य ददृशुस्तानेत्याब्रवीच्छुः सुत्यां वः स्वर्गस्य लोकस्य प्रबूम इति ते होचुरथ वयं तुभ्यं सद्यःसुत्यां स्वर्गस्य लोकस्य प्रब्रूमस्त्व यैव वयं होत्रा स्वर्ग लोकमेष्याम इति स

तथेत्युक्त्वा प्रत्युक्तः पुनराजगाम, इति । अदितेः पुत्रा आदित्या देवा अङ्गिरसो महर्षयः । ते द्विविधाः स्वर्गे लोके सति परस्परमस्पर्धन्त । तत्राऽऽदित्या एवमुक्तवन्तः । वयमेव पूर्वे प्रवर्म महत्वाः सोमयागमनुष्ठाय स्वर्गमेष्याम इति । तथादिरसोऽपि वयमेव पूर्वे प्रथमं प्रवृत्ताः स्वर्ग गमिष्याम इत्यवोचन् । तदानीं तेविरसो महर्षयः पूर्वे प्रथमं प्रवृत्ताः सन्तः स्वर्गस्य लोकस्य निमिचभूतां मुत्यां सोमाभिषवं यो दशुः परेषुः करिष्याम इति निश्चितवन्तः। निश्चित्य च तेऽनिरस आदित्याना समीपे स्वकीयमप्रिं प्रजिघ्युः महितवन्त इत्यर्थः । अहिरसामेव महर्षीणां मध्येs मिनामको महषिरेकोऽस्ति तं प्रत्येवमुक्तवन्तः । हेऽमे त्वं परेहि परागच्छ । आदित्यानां समीपे गत्वा यः मुत्या परेपुरस्माभिः करिष्यमाणं सोमयागे स्वर्गस्य लोकस्य निमित्तभूतमादित्येभ्यः प्रहि । हे आदित्याः परेपुरबिरसा . मुत्सां करिष्यन्ति । यूयमागत्याऽऽविज्यं कुरुति कवयेत्यर्थः । ते सादिला

८ अष्टमः खण्डः] ऐतरेयब्रामणम् ।

७९१ दूरादागच्छन्तमर्मि राष्दैव तदभिमायमवगत्य भविष्यतस्तदीययज्ञात्पूर्वमेव स्वर्गस्य लोकस्य साधनभूतां सद्यःमुत्यामधतनसोमयागं दहशुः कर्मविशेष निश्चितवन्तः । तदानीमनिस्तानादित्यानेत्य प्राप्येदं वचनमब्रवीत् । हे आदित्याः स्वर्गस्य लोकस्य साधनभूतां श्वः मुत्यामनिरोभिः करिष्यमाणां वो युष्मभ्यं प्रथमोऽहं प्रब्रवीमि । यूयमागत्याऽऽत्विज्यं कुरुतेति । ततस्त आदित्या अमिमूचुः । अथ त्वद्वचनश्रवणानन्तरं वयं तुभ्यं ब्रमः । स्वर्गस्य लोकस्य साधनभूता मुत्याऽस्माभिः सद्यः क्रियते । तस्मादिदानीमागतेन स्वयैव होत्राऽऽत्विज्यं कुर्वता सह वयं प्रथमतः स्वर्ग लोकमेष्याम इति । सोऽमिस्तयेत्युक्त्वा प्रत्युक्तस्तैरादित्यैरुक्तं प्रतिवचनं प्राप्तः स्वकीयानामनि रसां समीपमाजगाम ।

अहिरसाममेव परस्परं संवादं दर्शयति

ते होचुः प्रावीचा३ः, इति प्रावोचमिति होवाचाथों मे प्रतिप्रावोचनिति नो हि न प्रत्यज्ञास्था३, इति प्रति वा अज्ञासमिति होवाच, इति । ते चाहिरसस्तममिमूचुः। हेऽने त्वमादित्यानामने किमस्मदीयमभिप्राय मावोच इति । ठुतिः प्रश्नार्या । सोऽमिस्तमभिप्रायं मावोचमित्युक्त्वा पुनरप्ये. तदुवाच । अयो अनन्तरं मे मम प्रतिभावोस्त आदित्याः प्रत्युत्तरमेवमुक्त धन्त इति तदीयामुक्तिमनूदितवान् । तामुक्तिं श्रुत्वा तेऽगिरस एवं पप्रच्छुः । हेऽमे नो हि न प्रत्यज्ञास्याः प्रतिद्वानमात्विज्याङ्गीकार(र.)। तनिषेधोऽनही. कारः। तस्यापि निषेधोऽवश्याङ्गीकारः । किं त्वदीयमात्विज्यं परिहत्यागी कृतवानसि । लुतिः प्रश्नार्या । ततोऽपिरहं तत्सत्यज्ञासमेव प्रतिज्ञामडीकार कृतवानेवेत्युक्तवान् ।

अहिरसामनभीष्टस्यापि स्वकीयात्विज्यस्याङ्गीकारे युक्तिं दर्शयति यशसा वा एषोऽभ्यति य आविज्येन तं यः प्रति रुन्धेयशः स प्रतिरुन्धेत्तस्मान प्रत्यरौत्सीति, इति । यः पुमानात्विज्येन चरति एष पुरुषो यशसैव युक्तोऽभ्यति अभितः संचरति । आत्विज्यमत्यन्तं यशस्करमित्यर्थः । यः पुमान्परेण प्रार्थितमा. त्विज्यं परित्यज्य तं तदीययागं प्रतिरुन्धेयागस्य प्रतिरोधं कुर्यात्स पुमान्स्व कीयं यश एव प्रतिरुन्धेविनाशयेत् । तस्मात्कारणादहं न प्रत्यरौसि तदी. ययास्प प्रतिरोपं न कृतवानस्मि । किंचाऽऽत्विज्यं मयाजीकृतमिति ।

'’

"

"

७९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्– [३०त्रिंशाध्याये

तहि कीडशे विषये परिहर्तव्यमात्विज्यमित्याशय परिहारयोग्यं विषर्य दर्शयति

यदि स्वस्मादपोजिगांसेद्यज्ञेनास्मादपोदियात् ।

यदि त्वयाज्यः स्वयमपोदितं तस्मात् ॥३४॥ इति । पूर्वाऽऽत्विज्यं परिहर्तुमशक्यमित्युक्तं तद्वैलक्षण्यार्यस्तुशब्दः । यदि कर्य चिदस्मादाविज्यादपोजिगांसेदपेत्योद्गन्तुमिच्छेत्तदानीं यझेन स्वकीयेन निमित्तभूतेनास्मादात्विज्यादपोदियादपक्रम्योद्गच्छेत् । यस्मिन्दिने त्वं यां करिष्यसि तस्मिन्नेवाहमपि करिष्यामीत्युक्त्वा तदात्विज्यं परिहर्तुं शक्यम् । एककालीनस्वकीयानुष्ठानमेकं परिहारनिमित्तम् । निमित्तान्तरमप्युच्यते । यदि तु यदि कथंचिदयाज्यो यागार्थी पुरुषः शास्त्रनिषेधायधुमयोग्यः स्याचा. रशादयाज्यात्पुरुषात्स्वकीयमात्विज्यं स्वयमपोदितं शास्त्रेणैव निषिदम् । ताशे विषये नास्त्याविज्यपरिहारदोष इत्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण

भाष्ये त्रिंशाध्यायेऽष्टमः खण्डः ॥८॥ (१४) [१२१]

योऽयं देवनीयः पूर्वमुक्तस्तस्य स्तुत्यर्थ कथाऽपि पूर्व कियत्यपि दशिता । तत्कथाशेषं देवनीथप्रतिपाद्यावकामा(धारणा)य दर्शयति

ते हाऽऽदित्यानङ्गिरसोऽयाजयस्तेभ्यो याजयद्भय इमां पृथिवीं पूर्णा दक्षिणानामददुस्तानियं प्रति गृहीताऽतपत्तान्यवृञ्जन्सा सिंही भूत्वा विजृभन्ती जनानचरत्तस्याः शोचत्या इमे प्रदराः प्रादीर्यन्त

येऽस्या इमे प्रदराः समेव हैव ततः पुरा, इति । अहिरसा मध्ये य एकोऽमिः सोऽयमादित्यानां याग आत्विज्यमही चकार । तमङ्गीकारमनुसरन्तस्ते सर्वेऽशिरसो गत्वा तानादित्यानयाजयन् । याजययस्तेभ्योऽगिरोभ्य ऋत्विग्भ्य आदित्या इमां पृथिवीं पूणों चतुःसा गरपरिवेष्टितामददुर्दत्तवन्तः । कदा दक्षिणा[नां] काल इति शेषः । मध्यंदिने हि सवने दक्षिणा नीयन्ते । तस्मिन्काले दक्षिणार्थ दत्ता चेयं पृथिवी तैर

  • पुस्तकेषु तु आविज्यदोषपरिहार इति दृश्यते तदुपक्रमानुरोधान समीचीनम् ।

11

९ नवमः खण्डः] ऐतरेयत्रामणम् ।

७९३ हिरोभिः प्रतिगृहीता सती तान्परिग्रहीतनतपत्तापयुक्तानकरोत् । तदानी महिरसस्तां पृथिवी न्यवृञ्जनितरां वर्जितवन्तः । तैरगिरोभिः परित्यक्ता सा पृथिवी सिंहरूपयुक्ता भूत्वा विजुभन्ती शिरः कम्पयन्ती वेगेन धावन्ती पुर तोऽवस्थिताञ्जनानचरदभक्षयत् । तदानीं भीत्या सर्वेषु जनेषु पलायितेषु शोचत्याः क्षुधामिना संतापयुक्तायास्तस्या भूमेरिमेऽस्माभिदृश्यमानाः मदरा रेखाकारा विदारणविशेषाः प्रादीर्यन्त प्रकर्षणाभवन् । अस्या भूमेः संब पिनो य इमे मदराः सर्वैर्जनस्तत्र तत्र दृश्यन्ते ते सर्वे परितो भूमेरुपरि विदारणेन निष्पनाः। ततः शोकात्पुरा भूमिः समतलैवाऽऽसीत् । इव हैवेति निपातत्रयसमूहोऽवधारणार्थः । तदानीं समतलत्वेन प्रदरो विदारणरूपश्चि

द्रविशेषो न कोऽप्यासीदित्यर्थः।

अरिसा भूमिपरित्यागमसान किंचिच्छास्त्रज्ञानां वचनमुदाहरति

तस्मादाहुर्न निवृत्तदक्षिणां प्रतिगृह्णीया

नेन्मा शुचा विद्धा शुचा विध्यादिति, इति । यस्मादहिरोभिर्भूरूपदक्षिणा सर्वात्मना परित्यक्ता तस्मादन्येऽपि शास्त्रज्ञा एवमाहुः । निवृत्तदक्षिणां केनापि कारणेन परित्यक्तां दक्षिणां पुनर्न प्रतिय दीयात् । गोभूहिरण्यरूपा(प्या)दिदक्षिणत्विग्भिः स्वीकृता सती यदि कंचि दोष दृष्ट्वा परित्यज्येत तदानीं पुनरपि द्रव्यलोभेन तत्मतिग्रहं न कुर्यात् । केना भिमायेणेति सोऽभिधीयते । इयं दक्षिणा शुचा शोकोपलक्षितेन दोषेण विद्धा सती मामपि शुचा शोकोपलक्षितदोषेण विध्यात्सैव विध्यत्विति भीतो न प्रति गृहीयात् ।

ममादात्पुनः प्रतिग्रहे कर्तव्यं दर्शयति

यदि वेनां प्रतिगृह्णीयादप्रियायैनां भ्रातृ

व्याय दद्यात्परा हैव भवति, इति । पुनःप्रतिग्रहपक्षे प्रतिगृहीतां दुष्टां दक्षिणामत्यन्तविरोधिने शत्रवे छाना दद्यात् । ततः शत्रुः पराभवत्येव ।

भासनिक परिसमाप्य दक्षिणान्तरं दर्शयधुपाख्यानस्य देवनीयोपयो गमाह

अथ योऽसौ तपती एषोऽश्वः श्वेतो रूपं कृत्वाऽ श्वाभिधान्यपिहितेनाऽऽत्मना प्रतिचक्रम इमं वोfe

१.

७९४

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३०त्रिशाध्याये नयाम इति स एष देवनीथोऽनूच्यते, इति । अथाङ्गिरोभिः पृथिवीरूपदक्षिणायां परित्यक्तायां ततोऽनन्तरमदितिपुत्राणां यजमानानां संकल्पवशायोऽसौ मण्डलमध्ये सूर्यस्तपति एष प्रतिचक्रमे संमुख माजगामेत्यर्थः । सानुनासिका प्लुतिः पूजार्था । असौ मण्डलवर्ती पुरुषस्तेजसा तपमपि भूमिवश्चित्तपीडातुल्यं संतापं न करोति । तस्मादस्य पूज्यत्वम् । सूर्यः केन रूपेणाऽऽगच्छतीति तपमुच्यते । लोके श्वेतोऽश्वो यादृग्रूपवास्ता रूप कृत्वा ततोऽश्वाभिधान्यपिहितेनाश्वस्य बन्धनार्थी रज्जुरवाभिधानी तयापि हित आच्छादित आत्माऽश्वदेहस्तेन देहेन युक्तः समागत इत्यर्थः । स्वसंक ल्पितं तमश्वरूपं सूर्य दृष्ट्वा त आदित्या एवमब्रुवन् । हेऽशिरसो वो युष्माक मिममचं नयामो दक्षिणात्वेन समर्थयाम इति यस्यां कथाया वृत्तान्तोऽभिहिता स एष देवनीयो भूत्वा वेदेनानूच्यते ।

तस्य देवनीयस्य सप्तदश पदानि तेषु प्रथमं पदमाह

आदिया ह जरितरङ्गिरोभ्यो दक्षिणामनयन्, इति । आदित्याख्या यजमानाः पुरा जरितर्जरितृभ्यः स्तोतृभ्योऽशिरोभ्यो भूरूपां दक्षिणामनयन्दत्तवन्तः। द्वितीयं पदमनूध व्याचष्टे

तां ह जरितर्न प्रत्यायन्निति

न हि त इमां प्रत्यायन्, इति । जरितर्जरितारः स्तोतारोऽशिरसस्ता ह तां तु पृथिवीरूपां दक्षिणां न प्रत्यायव प्रतिगृहीतवन्तः । अस्मिन्पदे मोक्तास्तेऽगिरस इमां भूमि न प्रति गृहीतवन्त इत्यर्थः प्रसिद्ध इति हिशन्देन योतयति ।

तृतीयं पदमनूच ध्याचष्टे

तामु ह जरितः प्रत्यायबिति

प्रति हि तेऽमुमायन्, इति । तामुह तामादित्यरूपां दक्षिणां जरितः प्रत्यायन्स्तोतारः प्रतिगृहीतवन्तः। अस्मिन्पदे मोक्तास्तेऽशिरसोऽमुमादित्यं प्रत्यायन् । [+निषेधोऽर्थः प्रसिदः।

  • धनुविहान्तर्गतं पुस्तकेषु दृश्यते तदसंबद्धम् ।।

१ क.अ. अ. स. यां यो । sries foogle

९ नवमः खण्डः] ऐतरेयबामणम् ।

द्वितीयपदार्थवैशवाय प्रवृत्तं चतुर्थ पदमन्ध व्याचष्टे

तां ह जरितर्न प्रत्यगृभ्णनिति

न हि त इमां प्रत्यगृभ्णन्, इति । पदव्याख्यानयोरर्थः स्पष्टः। तृतीयपदार्थवैशवाय पञ्चमं पदमनूध व्याचष्टे

तामुह जरितः प्रत्यगृभ्णनिति

प्रति हि तेऽमुमगृभ्णन्, इति । पदव्याख्यानयोरों विस्पष्टः । पठं पदमन्य व्याचष्टे

अहा नेत सन्नविचेतनानीयेष

ह वा अह्नां विचेतयिता, इति । हेऽरिसोऽयं सूर्यः सन्युष्माकं समीपेऽस्ति तस्मादविचेतनानि विशेषप्रका. भरहितान्यहा तमोयुक्तान्यहानि नेत न गच्छत । एष आदित्योको विचे. सयिता विशेषेण प्रकाशयिता। ससमपदमनूध व्याचष्टे

जज्ञा नेत सनपुरोगवास इति दक्षिणा वै यज्ञानां पुरोगवी यथा ह वा इदमनोऽपुरोगवं रिष्य. त्येवं हैव यज्ञोऽदक्षिणो रिष्यति तस्मादाहुत

व्यैव यज्ञे दक्षिणा भक्त्यत्यल्पिकाऽपि, इति । हे जसा ज्ञानयुक्ता अनिरसोऽयमादित्यः सन्भवत्समीपे वर्तते । तस्माद. पुरोगवासो मार्गप्रदर्शकेन पुरोगामिना रहिता यूयं नेत न गच्छत । अस्मि पदे पुरोगपेक्षा दर्शिता। यज्ञानां तु दक्षिणैव पुरोगवी । अत्र दृष्टान्तः । यथा ह वा इदमनोऽपुरोगवं बलीवर्दरहितं शकट रिष्यति विनश्यति एवं हैवानेनैव प्रकारेणादक्षिणो दक्षिणारहितो यज्ञो रिष्यति विनश्यति । तस्मा. कारणाचालिका एवमाहुर्द्रव्यहीनेन यजमानेनोत्सल्पिकाऽप्यत्यन्तस्वल्पाऽपि दक्षिणा यो दातव्या भवति ।

१. ग. घ. . च. छ. स. र. ‘त्यप्यल्पि। २ क.स. ट. ‘नाप्यपि ।

७९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३०त्रिंशाध्याये

अष्टमं पदमाह

उत श्वेत आशुपत्वा, इति । उतापि तु हेऽशिरसो युष्माकमयं घेतरूपोऽश्व आदित्य आधुपत्वा शीघ्र गामी । तस्मादस्ति पुरोगन्तेत्यर्थः ।

नवमं पदमाह

उतो पद्याभिर्जविष्ठः , इति । उतो अपि च पधाभिः पादविक्षेपैहेतुभिर्जविष्ठोऽयं मूर्योऽतिशयेन वेगवान् ।

दशमं पदमाह

उतेमाशु मानं पिपति, इति । उतापि च, ईमीदृशं मान सत्कारमाशु पिपर्ति असौ सूर्यः शीघ्र पूरयति । एकादर्श पदमाह

आदित्या रुद्रा वसवस्त्वेळते, इति । हे सूर्याऽऽदित्याचा देवगणास्त्वा त्वामीळते स्तुवन्ति । द्वादशं पदमनूध न्याचष्टे

इदं राधः प्रतिगृभ्णीद्यगिर इति प्रति

ग्रहमेव तद्राधस ऐच्छन् , इति । हेरिः । जातावेकवचनम् । अङ्गिरोभिधमहर्षिजात इदमस्माभिदीयमान राधः सर्वमुखसाधकमादित्यरूपं धनं प्रतिगृभ्णीहि दक्षिणारूपेण प्रतिगृहाणेति यदस्ति तेन पदेन रापसा सुखसाधनस्याऽऽदित्यस्य प्रतिग्रहमेव स्वीकारमेवै पछबाहिरस इच्छन्ति स्म । प्रयोदर्श पदमाह

इदं राधो बृहत्पृथु, इति । इदमस्माभिर्दीयमानं राधः मुखसाधकमादित्यरूपं बृहद्गुणैः महदं पृथुस्वारः पेण विस्तृतम् ।

चतुर्दशं पदमाह-~~

देवा ददत्वावरम्, इति । देवा इन्द्राधा आ समन्तादरं श्रेष्ठमादित्यरूपं ददतु प्रयच्छन्तु ।gic

१० दशमः खण्डः] ऐतरेयबामणम् ।

पञ्चदर्श पदमाह

तहो अस्तु सुचेतनम्, इति । हेऽशिरसो वो युष्माकं तदादित्यस्वरूपं मुचेतनं मुष्ठु प्रकाशकमस्तु । षोडशं पदमाह

युष्मे अस्तु दिवे दिवे, इति । हेऽदिरसो दिवे दिवे प्रतिदिनं तदादित्यस्वरूपं युष्मास्वेव विष्ठताम् । सप्तदशं पदमनूध व्याचष्टे

प्रत्येव गृभायतेति प्रत्येवैनमेतदजग्रभैषम्, इति । हेऽदिरसः प्रतिगृभायतैवावश्यमादित्यरूपां दक्षिणां प्रतिरहीतेति यत्पदम स्त्येतदेतेन पदेनाङ्गिरस एनमादिलं दक्षिणारूपं प्रत्य[ज] प्रभैषो मे )वा वश्यं प्रत्यग्रहीषुः।

देवनीयाख्यस्य पदसमूहस्य सप्तदश पदानि व्याख्याय तच्छंसनप्रकारवि घोषं विधते

तं वा एतं देवनीथं शंसति पदाव ग्राहं यथानिविदं तस्योत्तमेन पदेन

प्रणौति यथा निविदः ॥ ३५॥ इति । सेवा आदित्या ह जरितरित्यादिकं प्रत्येव गृभायतेत्यन्तमेतमिदानीमुक्त देवनीय निविद्दष्टान्तेन पदावग्राहं शंसति । यथा निविदः पदे पदेऽववार एख शंसनं तद्वदत्राप्यवगन्तव्यम् । यथा च निविद उत्तमेन पदेन प्रणव

ओंकार एवमत्राप्यन्तिमे पदे प्रणवो द्रष्टव्यः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण ___ भाष्ये त्रिंशाध्याये नवमः खण्डः ॥९॥ (३५)[१२२]

अथ त्वमिन्द्र शर्मरिणेत्याचास्तिस्रोऽनुष्टुभो विधत्ते

भूतेच्छदः शंसति, इति । भूतं भूति तिं वै)रिणामैश्वर्य छादयन्ति तिरस्कुर्वन्तीत्युदाहता अनुष्टुभो भूतेच्छदः।

ताः प्रशंसति

भूतेच्छद्रि देवा असुरानुपासचन्तोतेव युद्धे (Kagle

७९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३०त्रिंशाध्याये

नोतेव मायया तेषां वै देवा असुराणां भूते च्छद्रिरेव भूतं छादयित्वाऽथैनानत्यायंस्तथै वैतद्यजमाना भूतेच्छद्भिरेवाप्रियस्य भ्रातृ

व्यस्य भूतं छादयित्वाऽथैनमतियन्ति, इति । भूतेच्छमामधेयाभिरनुष्टुभिर्देवा असुरान्युद्धेन च मायया चोपासचन्त समीपे समवेताः। उतेवेति निपातसमूहः समुथयार्थः। छअयुद्धनासुरान्विना शयितुं समागता इत्यर्थः । आगत्य च देवास्तेषामसुराणां भूतमैश्वर्यमेताभि. ऋग्भिराच्छाद्यानन्तरमेनानतिक्रम्यागच्छन् । तथैवैतद्यजमाना अपि कुर्वन्ति ।

तासामचामर्धावसानं विधत्ते

ता अर्धर्चशः शंसति प्रतिष्ठाया एव, इति । अथ शाखान्तरे समान्नाता यदस्या अंहु इत्याचा ऋचो विधत्ते

आहनस्याः शंसति, इति । आहनस्याऽऽहननं स्त्रीपुरुषयोः परस्परसंयोगः । तद्वत्मजोत्पत्तिहेतुत्वारः चोऽप्याहनस्याः।

ता ऋचः प्रशंसति

आहनस्याई रेतः सिच्यते रेतसः प्रजाः

प्रजायन्ते प्रजातिमेव तद्दधाति, इति । आहनस्य मिथुनमित्युक्तम् । स्पष्टमन्यत् । ऋक्संख्यां प्रशंसति

ता दश शंसति दशाक्षरा विराळवं विराळनाद्रेतः सिच्यते रेतसः प्रजाः

प्रजायन्ते प्रजापतिमेव तद्दधाति, इति। स्पष्टोऽर्थः। षोडशौकारान्विषते

ता न्यूखयत्यन्नं वै न्यूखोनाद्रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति, इति । ता ऋचो न्यूयति ओकारविशिष्टाः कुर्वन्ति । न्यूजस्थानहेतुत्वादनत्वम् ।७२९

१० दशमः खण्डः] ऐतरेयबामणम् ।

ऋगन्तरं विधचे

दधिकाव्णो अकारिषमिति दाधिकी शंसति देवपवित्रं वै दधिका इदं वा इदं व्याहनस्यां

वाचमवादीत्तद्देवपवित्रेण वाचं पुनीते, इति । दधिक्रेतिशब्दयुक्तत्वादियं दाधिक्री । दधिक्राख्या देवता । देवपवित्र देवानां शोधकं वाक्यम् । तथा सति व्याहनस्यां वाचं विशिष्टमैथुनयुक्तां तद. प्रभूतां वाचं यदवादीत् । इदं वा इदमिति तस्यै ग्राम्यवाक्यजातस्य विस्पष्ट त्वेनाभिधानम् । तत्सर्व ग्राम्यवाक्यजातमसत्यमपि वाचं वाचोचारितमनेन देवपवित्रेण पुनीते शुदं करोति । तस्याभूचि च्छन्दः प्रशंसति

साऽनुष्टुब्भवति वाग्वा अनुष्टुप्तत्स्वेन

च्छन्दसा वाचं पुनीते, इति । वाग्देवताया अनुषुप्छन्दोभिमानित्वाद्वाचोऽनुष्टुप्त्वम् । अतस्वच्छन्दोवाच: स्वकीयं तेन वाचं शोषयति । ऋगन्तराणि विधत्ते

सुतासो मधुमत्तमा इति पावमानी शंसति, इति । मुतास इत्याचास्तिस्रः शुदिहेतुत्वात्पावमान्यः । वा ऋच: प्रशंसति

देवपवित्रं वै पावमान्य इदं वा इदं व्याह नस्यां वाचमवादीत्तदेवपवित्रेणैव वाचं पुनीते ता अनुष्टुभो भवन्ति वाग्वा अनु

ष्टुप्तत्स्वेनैव च्छन्दसा वाचं पुनीते, इति । . पूर्ववब्याख्येयम् ।

अन्यासामचा ज्यूचं विधत्ते

अव द्रप्सो अंशुमतीमतिष्ठदियै दधिक्राच्यो अकारिषं०-४-४०-६ । सुतासो मधुमत्तमा०-९-१०१-४। अव द्रप्सो अंशुमतीमतिष्ठत्०-८-९९-१३। . . signize is ६.

८००

८०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३०त्रिंशाध्याये

न्द्राबार्हस्पत्यं तृचं शंसति, इति । इन्द्राबृहस्पतिदेवताकत्वं दर्शयितुं चस्यान्तिममर्धर्च पठति

विशो अदेवीरभ्याचरन्तीबृहस्प

तिना युजेन्द्रः ससाह इति, इति । अदेवीदेवविरुदा अभि सर्वत आचरन्तीविश आसुरी: मजाः सर्वा युजा सहकारिणा बृहस्पतिना युक्त इन्द्रः ससाहे तिरस्कृतवानित्यर्थः ।

अस्यार्चिस्यार्थ प्रशंसति

असुरविशं ह वै देवानभ्युदाचार्य आसीत्स इन्द्रो बृहस्पतिनैव युजाऽसुर्य वर्णमभिदास न्तमपाहंस्तथैवैतद्यजमाना इन्द्राबृहस्पतिभ्या

मेव युजाऽसुर्य वर्णमभिदासन्तमपन्नते, इति । .. असुरविशमसुरमजा सैन्यरूपा देवानिन्द्रादीनभिलक्ष्योदाचार्योल्लङ्घनक पमाचरणं कृत्वा तिरस्कृत्याऽऽसीदेवसमीपेऽवस्थिता । तदानीं स इन्द्रो वृह स्पतिनैव युजा सहकारिणा युक्तः सबसुर्यमसुरसैन्यं वर्ण विचित्रपताका. दियुक्तमभिदासन्तं देवोपक्षयहेतुमपाइन्विनाशितवान् । देववधजमाना अपि भ्यूचप्रतिपाद्याभ्यामिन्द्राबृहस्पतिभ्यामेव सहायेन युक्ता असुये वणे बाधक विचित्रमुपायहेतुं पापं विनाशयन्ति ।

अथात्र प्र मंहिष्ठायेत्यादिना माकृतेन वैकृतानां संभूय शंसनं विचार्य पूर्वो सरपक्षाभ्यां निश्चिनोति

तदाहुः संशंसेक्षष्ठेऽहाइन्, न संशंसेश्व, इति । संशंसेदित्याहुः कथमन्येष्वहःसु संशंसति कथमत्र न संशंसेदित्यथो खल्लाहु व संशंसेत्स्वर्गो वै लोकः षष्ठमहरसमायी वै स्वर्गों लोकः कश्चिदै स्वर्गे लोके समेतीति स यत्संशंसेत्समानं तत्कु र्यादथ यन्त्र संशंसती तत्स्वर्गस्य लोकस्य

रूपं तस्मान संशंसेद्यदेव न संशंसती, इति । पूर्वाध्यायस्यान्तिमखण्डवव्याख्येयम् । . idieis. Saaogle

१० दशमः खण्डः] ऐतरेयत्रामणम् ।

संशंसनपले दोषान्तरं दर्शयति

एतानि वा अत्रोक्थानि नामानेदिष्ठो वालखिल्या वृषाकपिरेषयामरुत्स यत्सं

शंसेदपैव स एतेषु कामं राध्नुयात्, इति । नामानेदिष्ठादीनि चत्वारि शिल्पानि यानि सन्ति एतान्येवात्र षष्ठेह न्युक्यानि प्रधानशस्त्राणि । तथा सति स पुमान्यदि माकृतेन प्रमंहिष्ठायेत्य. नेन संभूय शंसेत्तदानीं स पुरुष एतेषु प्रधानशस्त्रेषु कामं फलमपराध्नुयाद्वि नाशयेत् ।

एवं तहिं प्रमंहिष्ठायेत्येतस्मिन्द्रे लभ्यः कामोऽत्र न लभ्यत इत्या शड्याऽऽह

ऐन्द्रो वृषाकपिः सर्वाणि च्छन्दांस्यैतशप्रलाप- . स्तत्र स काम उपाप्तो य ऐन्द्रे जागतेऽथेदमै न्द्राबार्हस्पत्यं सूक्तमैन्द्राबार्हस्पत्या परिधानीया

तस्मान संशंसेन संशंसेत् ॥३६॥ इति । प्रामणाच्छसिना सितव्यो योऽयं वृषाकपिः सोऽयमैन्द्रः । ऐतशमला पश्च सर्वच्छन्दस्थानीयः। तथा सति प्रमंहिष्ठायेत्यादिक इन्द्रदेवताके जगतीछ न्दस्के यः कामोऽस्ति स कामस्तत्र वृषाकपावैतशमलापे च प्राप्तो भवति । अथापि चेदमवद्रप्स इत्यादिकं सूक्तमैन्द्राबाईस्पत्यम् । तत्रत्याऽन्तिमा परि पानीया चैन्द्राबाईस्पत्या । तत्रोभयत्रेन्द्रनिमित्तः काम उपाप्तो भवति । तस्मा. कारणात्माकृतमत्र संभूय न संशंसेत् । अभ्यासोऽत्राध्यायसमाप्त्यर्थः ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्ये त्रिंशाध्याये दशमः खण्डः॥ १०॥ (३६)[१२३] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्रा ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये

त्रिंशोऽध्यायः ॥३०॥ इत्यैतरेयब्राह्मणे षष्ठपश्चिका समाप्ता ॥६॥ (पविकाङ्काः-६ । अध्यायाङ्काः-३ । खण्डाङ्का:-१२३)

pielizes in Google

१.१