२९

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनत्रि ध्याये

अथैकोनत्रिंशोऽध्यायः ।

उमीयमानसूक्तानि तथा प्रस्थितयाज्यकाः।

प्रश्नोत्तराभ्यां संमोक्तः प्रयोगस्य च निर्णयः ॥१॥ अयाहर्गणेषु होत्रकाणां माध्यंदिनीयशस्वकृप्तिर्वक्तव्या। तत्र प्रथमं तावत्सर्वत्र विहितमर्थमनूध प्रशंसति

यः श्वःस्तोत्रियस्तमनुरूपं कुर्व

न्ति प्रातःसवनेऽहीनसंतयै , इति । .. अहर्गणेषु श्वः परेपुर्यस्मिन्यूचे सामगाः स्तोत्रं कुर्वन्ति तं स्वोत्रियं पूर्वे पुोतारः शस्त्रेष्वनुरूपं कुर्वन्ति । एतच प्रात:सवन एव । तथानुरूपकरणम हीनस्य संतत्यै संपद्यते । अहां समूहरूपः ऋतुरहीनः । स चैकैकस्मिनहनि विच्छिमो मा भूदित्यहईयसंधानार्थ भविष्यत्यहनि स्वोत्रियस्य भूतेऽहन्य नुरूपत्वकरणम् । अहां भेदेऽपि फलैक्यात्समूहमयोग एक एव । ततः संत विरपेक्षिता । अयमर्यः सप्तविंशाध्याये व्याख्यातः-स्तोत्रियं स्वोत्रियस्यानु: रूपं कुर्वन्ति प्रातःसवनेऽहरेव तदहोऽनुरूपं कुर्वन्तीति । तस्य व्याख्यानमिदं वास्तोत्रिय इत्यभिप्रेतविशेषस्य विधानात् ।

अहर्मेदेऽपि प्रयोगैक्येन सातत्यं दृष्टान्तेनोपपादयति- .

यथा वा एकाहः सुत एवमहीनस्तद्यथैका हस्य सुतस्य सवनानि संतिष्ठमानानि यन्ये. वमेवाहीनस्याहानि संतिष्ठमानानि यन्ति तद्यच्छुःस्तोत्रियमनुरूपं कुर्वन्ति प्रातःसवनेs

हीनसंतत्या अहीनमेव तत्संतन्वन्ति , इति । एकस्मिमेवाहनि निष्पनो ज्योतिष्टोम एकाहः । स यथा सुतः सोमाभि. पवेण कृत्स्लो निष्पादित एवमहीनोऽहर्गणोऽपि सोमाभिषवेण निष्पायवे । तावेव दृष्टान्तदा_न्तिको तययेत्यादिना स्पष्टी क्रियेते । तत्तस्यैकाहस्य सुतस्य सोमाभिषवयुक्तस्यैव सतः क्रतोरवयवभूतानि माताध्यंदिनतृतीयसवनानि संतिष्ठमानानि पृथक्पृथक्समाप्तियुक्तानि सन्ति यजमाना अनुतिष्ठन्ति । एवमे वाहीनस्थाहर्गणस्यैकस्यैव सतः क्रतोरवयवभूतान्यहानि पृथक्पृथक्समातियुः

viepriesta.iy ६.3P Ofe७२९

२ द्वितीयः खण्डः] ऐतरेयब्रामणम् । कानि यजमाना अनुतिष्ठन्ति । तथा सति यधुत्तरदिनसंबन्धिनं स्तोत्रियं चं पूर्वदिने प्रातःसवनेऽनुरूपं त्र्यचं कुर्वन्ति तदानीमहर्गणस्यैकस्य क्रतोः संत तिमध्ये विच्छेदराहित्यं भवति । तस्मादन्यदिने गतस्यान्यदिने प्रयोगेणाहीनं ऋतुं संततं कुर्वन्ति । __ अब माध्यंदिनीयशस्वकृति विधातुमाख्यायिकामाह

ते वै देवाश्च ऋषयश्चाऽऽद्रियन्त समानेन यज्ञं संत नवामेति त एतत्समानं यज्ञस्यापश्यन्समानान्प्र. गाथान्समानीः प्रतिपदः समानानि सूक्तानि, इति । वे वै प्रसिद्धा वस्वादयो देवाच विश्वामित्रप्रभृतय ऋषयश्चाऽऽद्रियन्त मनस्येवमादरमकुर्वन्तः(स)। कीदृश आदरः सोऽभिधीयते । समानेन सर्वे. ब्वेकविधानेन प्रयोगेण यामहीनं संतनवाम संततं करवामेति मनसि विचार्य ते द्विविधा देवा ऋषयश्चैतद्वक्ष्यमाणं मन्त्रजातं यज्ञस्याहीनस्य समानं सर्वे वहामु सहमपश्यन् । किं किं सहमित्युच्यते । ये कद्वत्संबकाः प्रगाया पाच मतिपदः पारम्भणीवा ऋचो यानि चाहीनमूतानि तेषां सर्वेषामहस्सु सर्वेषु समानत्वमपश्यन् ।

साम्ये प्रयोजनं दृष्टान्तेन दर्शयति

ओक-सारी वा इन्द्रो यत्र वा इन्द्रः पूर्व गच्छत्यैव तत्रापरं गच्छति यज्ञस्यैव सेन्द्रतायै ॥१७॥ इति ।

ओकासि स्थानानि गृहाणि तेषु सरति सर्वदा संचरतीयोकासारी मार्जारः । वैशन्द उपमार्यः । यथा मार्जारः पूर्वस्मिन्दिने येषु गृहेषु संचरति तेष्वेव गृहेषु परेयुरपि संचरति एवमयमिन्द्रोऽप्यवगन्तव्यः । स चेन्द्रो यत्र वै येषु स्थानेषु पूर्वमहर्गच्छति तत्र तेष्वेव स्थानेष्वपरमहरागच्छत्येव । अतोऽही. नस्य यस्य सर्वस्यापि सेन्द्रत्वार्थ पूर्वोक्तं समानत्वमादरणीयम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण भाष्य एकोनत्रिंशाध्याये प्रथमः खण्डः॥१॥ (१७) [१०४]

अथ संपातनामकानि सूक्तान्याख्यायिकया दर्शयति

तान्वा एतान्संपातान्विश्वामित्रः प्रथममपश्य

क. ‘म्येन

। ख. ट. म्येनं प्र

स. “भ्येतं प्र

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२९एकोत्रि ध्याये तान्विश्वामित्रेण दृष्टान्वामदेवोऽसृजतैवा त्वा मिन्द्र वजिन्नत्र यन्न इन्द्रो जुजुषे यच्च वष्टि कथा महामवृधकस्य होतुरिति तान्क्षिप्रं समपतद्य

क्षिप्रं समपतत्तत्संपातानां संपातत्वम्, इति । . तान्दै शासप्रसिद्धानेवैतानत्रैवोदाहरिष्यमाणान्संपातनामकान्सूक्तविशेषा विषामित्रो महर्षिः प्रथम दृष्ट्यादावीश्वरानुग्रहेणापश्यन्मनसा वेदमध्ये शात. वान् । विश्वामित्रेण सृष्टा ये सूक्तविशेषास्तानधीत्य वामदेवो महर्षिरसृजत स्वकीयत्वेन लोके प्रकटीकृतवान् । ते सूक्तविशेषा उदाहियन्ते-एवा स्वामित्येकं सूक्तं यत्र इन्द्र इति द्वितीयं कया महामिति तृतीयं तांसी न्सूक्तविशेषान्वामदेवः शिमं समपतत् । कालविलम्बे सति विश्वामित्र आगत्य स्वकीयत्वं प्रकटी करिष्यतीति भीत्या स्वयं शीघ्रमेव समपतत्सम्यगध्येत छिष्यान्मासवान्स्वकीयत्वप्रसिद्ध्यर्थ बञ्छिष्यान्सहसाऽध्यापयामासेत्सर्वः । तचेषु सूक्तेषु यद्यस्मात्कारणासि समपतत्तत्तस्मात्कारणात्सम्यक्पतनं प्रक टीकरणमेषां सूक्तानामिति व्युत्पत्त्या संपातनाम संपनम् ।

अथ सूकान्तराणां सृष्टिं दर्शयति

स हेक्षांचक्रे विश्वामित्रो यान्वा अहं संपा तानपश्यं तान्वामदेवोऽसृष्ट कानि न्वहं मुक्तानि संपातांस्तत्प्रतिमान्सृजेयेति स एतानि सूक्तानि संपातांस्तत्पतिमानसृजत सद्यो ह जातो वृषभः कनीन इन्द्रः पूर्भिदातिरदास. मरिमामू षु प्रभृतिं सातये धा इच्छन्ति वा सोम्यासः सखायः शासहहिर्दुहितुर्न

एवा त्वामिन्द्र वनिन्०-४-१९-१ । यन इन्द्रो जुजुषे यच वष्टि-: २२-१। कथा महामवृधत्कस्य होतुः०-४-२३-१। सद्यो ह जातो वृषभ: ३-४९-१ । इन्द्रः पूर्भिदातिरदासम::०-३-३४-१ । इमामू षु प्रभृति सातये धा:०-३-३६-१ । इच्छन्ति त्वा सोम्यासः०-३-३०-१ । शासहि? हितुः०-१-११-१।

legizes in Google

'

'

२ द्वितीयः खण्डः] ऐतरेयबामणम् ।

७११ प्यादभि तष्टेव दीधया मनीषामिति, इति । घामदेववृत्तान्तमवगत्य स विश्वामित्र ईशांचक्रे मनस्येवं विचारितवान् । यान्संपातानहमीश्वरानुग्रहेण दृष्टवानस्मि तानयं वामदेवोऽपृष्ट गुरुद्रोहभीतिर. हितः सन्स्वकीयत्वेन लोके प्रकटीकृतवान् । इतःपरं केषांचित्सूक्तानां मदी यत्वषसिदिरपेक्षिता । अतोऽहं कानि नाम सूक्तानि तत्पतिमानपूर्वसूक्तसहशा संपातान्कृत्वा सृजेय लोके प्रकटी करवाणीति विचार्य विश्वामित्र एतानि पक्ष्यमाणानि सूक्तानि पूर्वसूक्तसशीन्संपातान्कृत्वाऽमृजत प्रकटीकृतवान् । तेषु सद्यो ह जात इत्येकं सूक्तम् । इन्द्रः पूभिदिति द्वितीयम् । इमामू विति तृतीयम् । इच्छन्ति त्वेति चतुर्थम् । शासद्वहिरिति पश्चमम् । अभि मोवेति पष्ठम् । एतानि सूक्तानि विश्वामित्रसंबन्धित्वेन प्रसिद्धान्यभवन् । . अथ भरद्वाजवसिष्ठनोषसां प्रयाणामुषीणां संबन्धीनि मूक्तानि दर्भयति

य एक इदव्यश्चर्षणीनामिति भरद्वाजो यस्तिग्म शृङ्गो वृषभो न भीम उदु ब्रह्माण्यैरत श्रवस्येति वसिष्ठोऽस्मा इदु प्र तवसे तुरायेति नोधाः, इति । भरद्वाजो य एक इदित्येकं सूक्तमसृजत । वसिष्ठो यस्तिग्मशृङ्ग उदु ब्रमा गीति मूक्तदयमसृजत । नोधा अस्मा इदु म तवस इत्येकं सूक्तमसजत । एतेषां सर्वेषां सूक्तानां तत्र तत्र विनियोगो वक्ष्यते ।

इदानीमहीनसूक्तानि विपत्ते- .

त एते प्रातःसवने पळहस्तोत्रियाञ्छस्वा

माध्यंदिनेऽहीनसूक्तानि शंसन्ति, इति । ते प्रसिद्धा एते प्रयोगकाले संनिहिता होत्रका अहर्गणेषु प्रातःसबने पळ हसंबन्धिनः स्तोत्रियांस्यूचाना नो मित्रावरुणा मित्रं वयमित्यादीन्सूत्रकार पठितालयचाभ्यस्त्वा माध्यंदिने सवने स्वहीनसूतानि शंसेयुः ।. __ अमि तष्टेव दीधया०-३-३८-१ । य एक इद्धव्यश्चर्षणीनाम्०-१-२२ १। यस्तिम्मको वृषभः०-७-१९-१ । उदु ब्रह्माण्यैरत श्रवस्य०-७-२४ १। अस्मा इदु प्र तवसे तुराय.–१-६१-१।

  • १ट. शान्।

legizes in Google

७१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२९एकोनत्रि ध्याये

कान्यहीनसूक्तानीत्याशङ्कयोदाहरति

तान्येतान्यहीनसूक्तान्या सत्यो यातु मघवाँ ऋजी पीति सत्यवन्मत्रावरुणोऽस्मा इदु प्र तवसे तुरा येन्द्राय ब्रह्माणि राततमा । इन्द्रब्रह्माणि गोत. मासो अक्रनिति ब्रह्मण्यवाह्मणाच्छंसी शासह ह्निर्जनयन्त वह्निमिति वह्निवदच्छावाकः, इति । तानि पूर्ववाक्ये विहितान्यहीनसूक्तान्येतान्युदाहियन्ते । आ सत्यो यात्विति सत्यवत्सत्यशब्दोपेतं सूक्तं मैत्रावरुणः शंसेत् । अस्मा इदिति सूक्तम् । इन्द्राय ब्रह्माणीति चतुर्थः पादः। तत्र ब्रमाणीति श्रुतत्वादिदं सूकं ब्रमण्वाशब्दोपेतम् । तथा तत्रैव सूक्त इन्द्रब्रह्माणीति श्रुतत्वादिन्द्रब्रम भवत्तदेतदुभयं ब्राह्मणाच्छंसी शंसेत् । शासहिरिति सूक्तं वहिवदनिशब्दो पेतं तस्मिन्मूक्ते जनयन्त वहिमिति श्रुतत्वात् । तदेतदच्छावाकः शंसेत् ।

अथाच्छावाकविषयं प्रश्नमुद्भावयति

तदाहुः कस्मादच्छावाको वह्निवदेतत्सूक्तमुभयत्र

शंसति पराश्चिषु चैवाहःस्वभ्यावर्तिषु चेति, इति । गवामयने हि द्विविधान्यहान्यावृत्तिरहितानि तत्सहितानि च । तत्र वस्य माणानि चतुर्विशादीन्यावृत्तिरहितान्यभिप्लवषडहगतानि पृष्ठयषडहगतानि चाऽऽवृत्तिसहितानि तयोः षडहयोरसकृदनुष्ठानस्य विहितत्वात् । एवं सति पराश्चिष्वावृत्तिरहितेषु चतुर्विशादिष्वहःमु वहिवत्सूक्तमच्छावाक: शंसति । तथैवाभ्यावर्तिषु षडहगतेष्वहःसु च तत्सूक्तं शंसति । तत्रोभयत्र शंसने कि कारणमिति प्रश्नः। तस्योत्तरमाह

वीर्यवान्वा एष बचो वह्निवदेतत्सूक्तं वहति ह वै वह्निधुरो मासु युज्यते तस्मा

दच्छावाको वह्निवदेतत्सूक्तमुभयत्र शंसति आ सत्यो यातु मघ०-४-१६-१ । अस्मा इदु प्र तवसे०-१-११-१। इन्द्र प्रमाणि गोतमासो०-१-११-१६ । शासद्वहिर्जनयन्त०-३-२१-१।

zeizer is Google

२ द्वितीयः खण्डः] ऐतरेयबामणम् । ७५

पराञ्चिषु चैवाहःस्वभ्यावर्तिषु च, इति । एषोऽच्छावाको बचो बहूनामचामनेनाधीतत्वात् । तादृशोऽच्छावा कत्वं पूर्वत्रैवमानातम्-‘तस्माद्यो ब्राह्मणो बचो वीर्यवान्स्यात्सोऽस्या च्छावाकीयं कुर्यात्’ इति । बढचत्वादेवायं वीर्यवाशक्तिमान्यज्ञभारं वोढुं शकः । सूक्तं चैतद्वाहिशब्दोपेतत्वात्तस्य योग्यम् । लोकेऽपि वहिर्वोढाऽवो बलीवर्दो वा यासु रयशकटसंबन्धिनीषु धूर्षु युज्यते बध्यते ता धुरो वहत्येव । वस्मायभारं वोढुं समर्थत्वादच्छावाक उभयत्र द्विविधेष्वप्यहासु वहिवत्सूक्तं शंसति।

सत्राऽऽवृत्तिरहितेष्वहःसु पूर्वोक्तसूक्तानां शंसनं प्रशंसति

तानि पञ्चस्वहःसु भवन्ति चतुर्विशेऽभिजिति विषुवति विश्वजिति महाव्रतेऽहीनानि ह वा एतान्यहानि न ह्येषु किंचन हीयते . पराञ्चीनि ह वा एतान्यहान्यनभ्यावर्तीनि

तस्मादेनान्येतेष्वहःसु शंसन्ति, इति । गवामयने चतुर्विशाख्यमारम्भणीयं द्वितीयमहः । महाव्रताख्यमुपान्त्यमहः। विषुवदाख्यं मध्यवर्ति प्रधानमहः । अभिजिद्विश्वजिदाख्ये विषुवत उभयभा गवर्तिनी दे अहनी । एतेषु पश्चस्वहःमु तानि पूर्वोक्तान्यहीनसूक्तानि होत्रकाः शंसन्ति । एतेषामहामहीनत्वात्तानि सूक्तानि तत्र योग्यानि । यमादेतेष्वहःसु किमप्यकं न हीयते तस्मादेतान्यहीनानि । किंचतान्यहीनानि पराधीनि सकदेव प्रयोज्यानि न त्वावृत्तियुक्तानि । तस्यैव पदव्याख्यानमन. भ्यावर्तीनीति । तस्मात्सकदेव प्रयोज्यत्वात्तेष्वहःसु सामर्थ्यातिशयाय तानि मूक्तानि शंसेयुः।

प्रकारान्तरेण सूक्तानि प्रशंसति

यदेनानि शंसन्त्यहीनान्स्वर्गाल्लोकान्स

वरूपान्सर्वसमृदानवाप्रवामेति, इति । ये स्वर्गलोका अहीना भोग्यैर्वस्तुभिहींना न भवन्ति । अत एव सर्वस सदा उत्तममध्यमाधमकर्मफलरूपत्वात्सर्वरूपा बहुविधा भवन्ति । ताल्लोकाः मामवामेत्यनेनाभिप्रायेण तानि सूक्तानि शंसेयुः।

legizes in Google

७१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२९एकोनत्रि न्याये

पुनरपि प्रकारान्तरेण प्रशंसति

यदेवैनानि शंसन्तीन्द्रमेवैतैर्निह्वयन्ते

यथ ऋषभं वाशितायै , इति । एतानि सूक्तानि यदा शंसन्ति तदानीमेतैरिन्द्रमेव नियन्ते नितरामा हयन्ति । गर्भग्रहणमिच्छन्ती धेनुर्वाचिता । तदर्थमृषभं पुंगवं यथाऽपति तदिन्द्राहानं द्रष्टव्यम् ।

पुनरपि प्रकारान्तरेण सूतानि प्रशंसति

यद्देवैनानि शंसन्त्यहीनस्य संतत्या अही

नमेव तत्संतन्वन्ति ॥ १८ ॥ इति । . यदेव यस्मादेव कारणादेनानि सूक्तानि सर्वेष्वहःसु शंसन्ति तस्मादेव कारणादेतच्छंसनमहीनस्थाहर्गणस्य संतत्यर्थं संपद्यते । तचेन शंसनेनाहीन मेवाहर्गणमेव संतन्वन्ति संततं कुर्वन्ति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम भाष्य एकोनत्रिंशाध्याये द्वितीयः खण्डः ॥२॥ (१०)[१०५]

अथ पूर्वोत्तानां संपातसूक्तानां विनियोग दर्शयति

ततो वा एतांस्त्रीन्संपातान्मत्रावरुणो - विपर्यासमेकैकमहरहः शंसति, इति । ततो वै तस्मादेव पूर्वोक्ताचतुर्विशादेरहम्पचकादन्यत्र पडहेष्विति शेषः । तेषु मैत्रावरुणस्त्रीन्संपाताख्यान्सूक्तविशेषान्विपर्यासं विपर्यस्य शंसेत् । स एष विपर्यास एकैकमहरह इत्यनेन स्पष्टी क्रियते प्रतिदिनमेकैकसूक्तमित्यर्थः।

तदेवोदाहत्य प्रदर्शयति

एवा स्वामिन्द्र पजिन्नति प्रथमेऽहनि यन्न इन्द्रो जुजुषे यच्च वष्टीति द्वितीये कथा

महामवृधकस्य होतुरिति तृतीये, इति । एवा त्वामिन्द्र वजिन्नत्र-४-१९-१। यन इन्द्रो जुजुषे यच वष्टि-1 २२-१। कथा महामवृधत्कस्य होतुः०-४-३३-१।

Flagsizes in Google

३ तृतीयः खण्डः] ऐतरेयत्रामणम् ।

७१५ मैत्रावरुणवडामणाच्छसिनोऽपि सूक्तत्रयस्य विपर्यासेन शंसनं दर्शयति

त्रीनेव संपातान्ब्राह्मणाच्छंसी विपर्यासमेकैक महरहः शंसतीन्द्रः पूर्भिदातिरदासमरिति प्रथमेऽहनिय एक इदव्यश्चर्षणीनामिति द्वितीय

यस्तिग्मशृङ्गो वृषभो न भीम इति तृतीये, इति । क्याऽच्छावाकस्यापि सूक्तत्रयस्य विपर्यासेन शंसनं दर्शयति

त्रीनेव संपातानच्छावाको विपर्यासमेकैकमहरहः शंसतीमामू षु प्रभृति सातये धा इति प्रथमेऽ हनीच्छन्ति वा सोम्यासः सखाय इति द्वितीये

शासहह्रिर्दुहितुर्नप्यादिति तृतीये, इति। उक्तानां मूक्तानां मिलित्वा संख्यां दर्शयति

तानि वा एतानि नव, इति । दिनविशेषेण सूक्तविशेषान्विधाय प्रतिदिनं शंसनीयानि सूक्तानि विषत्ते

त्रीणि चाहरहः शस्यानि, इति । यानि प्रतिदिनं शंसनीयानि त्रीणि सूक्तानि तान्युपरितनखण्डे सयो ह . जात इत्यादिना स्पष्टी करिष्यन्ते । .

दिनविशेषगतानि प्रतिदिनगतानि च मिलित्वा प्रशंसति

तानि द्वादश संपद्यन्ते हादश वै मासाः संव त्सरः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तत्संव त्सरं प्रजापतिं यज्ञमाप्नुवन्ति तत्संवत्सरे प्रजा

पतौ यज्ञेऽहरहः प्रतितिष्ठन्तो यन्ति, इति । तानि पूर्वोक्तानि नव त्रीणि च मिलित्वा द्वादश संपचन्ते । अतो माससं. .

इन्द्रः पूर्मिदातिरदासम:०-३-३४-१ । य एक इद्धव्यश्चर्षणीनाम् १-२२-१ । यस्तिग्मशृङ्गो वृषमः०-७-१९-१ । इमामू षु प्रभृति सातये धा:०-३-३१-१ । इच्छन्ति त्वा सोम्यासः०-३-३०-१ । शासहि हितः०

sakytice z Google

७१६ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्-[२९एकोनत्रि ध्याये-. वत्सरतनिर्माताजापतिद्वारा प्रजापतिसृष्टत्वेन प्रजापतिरूपो यो यास्तानं संवत्सरात्मकं प्रजापतिरूपं यज्ञमनुष्ठातारः मामुवन्ति । तत्तेन शंसनेन संव

सरात्मकमजापतिरूपे यझे प्रतिदिनं प्रतिष्ठिताः सन्तोऽनुतिष्ठन्ति । अथ पृष्ठयषडहस्योत्तरस्मित्यहे कासांचिहचामावापं विधत्ते

तान्यन्तरेणाऽऽवापमावपेरन्, इति । यानि विपर्यासेन शंसनीयानि नवसंख्याकानि सूक्तान्युक्तानि यानि च प्रतिदिनं शंसनीयानि श्रीयुक्तानि तान्यन्तरेण तेषामुभयविधानामन्तराले स्थाने किंचिदावपनीयमुक्समूहमावपेरन् । -

कस्मिन्दिने का ऋच आवपनीया इत्याशक्य तत्सर्व विविच्य दर्शयति

अन्यूङ्ख्या विराजो वैमदीश्च चतुर्थेऽहनि

पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे, इति । उच्चारणविशेषोपेता ओंकारा न्यूजाः । ते च पूर्वमेव मुखतो मध्यंदिने न्यूझ्यतीत्यत्राभिहिताः । तानहन्तीति न्यूयाः। तद्विपरीता अन्यूझ्याः। विराजो विराट्छन्दस्का ऋचः। ताः पृष्ठयषडहस्य चतुर्थेऽहन्यावपनीयाः। न ते गिरो अपि मृष्येत्याचाश्वतत्र ऋचः। वो महे महिषे भरध्वमित्या. चास्तिस्रः । एताः सप्त विराजः । प्रयाणां होत्रकाणां त्रयस्यूचा भवन्ति । प्रथममारभ्यैकत्यूचो मैत्रावरुणस्य । तृतीयमारभ्यैकस्यूचो ब्राह्मणाच्छंसिनः। पञ्चमीमारभ्यैकलचोऽच्छावाकस्य । तदेवं सप्तस्वृक्षु त्रयस्यूचा विभज्य प्रक्षे. पणीयाः। सोऽयं विराजा प्रक्षेप एकः पक्षः। वैमदीरावपेरनिति पक्षान्तरम्। विमदाख्येन महर्षिणा दृष्टा वैमधः । ताश्च यजामह इन्द्रमित्याद्याः समः। ता अपि पूर्ववत्त्रयस्यूचाः कर्तव्याः । पञ्चमेऽहनि यचिदि सत्य सोमपा इत्याचा परिच्छन्दस्काः सप्तः पूर्ववदावपनीयाः । तथा षष्ठेऽहनि परुच्छे. पेन दृष्टा इन्द्राय हि द्यौरित्याद्याः सप्तः पूर्ववदावपनीयाः ।

स्तोमवृद्धावतिशंसनार्थमावपनीयानि सूक्तानि दर्शयति

अथ यान्यहानि महास्तोमानि स्युः को अद्य नों देवकाम इति मैत्रावरुण आवपेत वने न

वा यो न्यधायि चाकनिति ब्राह्मणाच्छंस्या को अद्य नर्यो देवकामः०-४-२९-१ । वने न वा यो न्यधायि चाकन् १०-२९-१।

Preselites Google .

७१७

___४ चतुर्थः खण्डः] ऐतरेयबामणम् ।

याह्याकुप वन्धुरेष्ठा इत्यच्छावाकः, इति । अथ पूर्वोक्तविराडाघावापकथनानन्तरम् । अन्य आवाप उच्यत इति शेषः । यान्यहानि महास्तोमानि सप्तदशैकविंशादिस्तोमेभ्योऽधिकैश्चतुर्विशा. दिस्तोमैर्युक्तानि स्युस्तेष्वहःसु स्तोमसंख्यामतिक्रम्याधिकानामृचा शंसनं कर्तव्यम् । तत्र मैत्रावरुणः को अद्येति सूक्तमावपेत । ब्राह्मणाच्छंसी बने नेति सूक्तमावपेत । अच्छावाक आ याहीति सूक्तमावपेव ।

वेषां मूक्तानां प्रशंसां दर्शयति

एतानि वा आवपनान्येतैर्वा आवपनैर्देवाः स्वर्ग लोकमजयनेतैर्ऋषयस्तथैवैतधजमाना एतैराव

पनैः स्वर्ग लोकं जयन्ति ॥ १९ ॥ इति । को अयेत्यादीनि सूक्तान्यावपनान्यावापयोग्यानि। एतैर्देवानां स्वर्गजयाय. जमानानामपि तैः स्वर्गजयो भवति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

णभाष्य एकोनत्रिंशाध्याये तृतीयः खण्डः ॥२॥ (१९)[१०६] एवं तावत्मसक्तानुप्रसक्तं परिसमाप्याधुना प्रस्तुतमारभते

सद्यो ह जातो वृषभः कनीन इति मैत्राव

रुणः पुरस्तात्सूक्तानामहरहः शंसति, इति । पूर्वत्र त्रीणि चाहरदः शस्यानीति यदुक्तं तस्यैवैतव्याख्यानम् । सयो । जात इत्यादिकं मैत्रावरुणः स्वकीयस्य सूक्तस्य पुरस्तात्मतिदिनं चांसेत् । सूक्तानामिति बहुवचनं व्यत्ययेन द्रष्टव्यम् ।

उक्तसूक्तं प्रशंसति

तदेतत्सूक्तं स्वय॑मेतेन वै सूक्तेन देवाः स्वर्ग

लोकमजयनेतेन ऋषयस्तथैवैतद्यजमाना - एतेन सूक्तेन स्वर्ग लोकं जयन्ति, इति । स्वये खर्गाय हितम् । अन्यत्पूर्ववव्याख्येयम् ।

आ याह्यपि वन्धुरेष्ठाः०-३-४३-१ । सथो ह जातो वृषभः कनीनः० २-१९-१।

Poesie in Google

७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनविंशाध्याये

ऋषिसंबन्धेन पुनः प्रशंसति

तदु वैश्वामित्रं विश्वस्य ह वै

मित्रं विश्वामित्र आस, इति । तदु तन्तु सूक्तं विश्वामित्रेण इष्टत्वाद्वैश्वामित्रम् । विषस्य मित्रमिति निरुक्त्या विश्वामित्रशन्दोऽभूत् ।

वेदनं तत्पूर्वमनुष्ठानं च प्रशंसति

विश्वं हास्मै मित्रं भवति य एवं वेद येषां चैवं विद्या नेतन्मत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसति, इति । वृषभः कनीन इति योऽयं वृषभशब्दस्वदन्तर्गतं वकारव्यतिरिक्तरमा ग्दमुपजीव्य प्रशंसति

तहषभवत्पशुमद्भवति पशूनामवरुद्ध्यै, इति । तत्सूक्तमृषभशब्दोपेतम् । इषभस्य च पशुत्वात्सूक्तं पशुमद्भवति । भवः पशूनां प्राप्त्य संपद्यते।

ऋक्संख्यामुपजीव्य प्रशंसति

तत्पश्चर्च भवति पञ्चपदा पक्तिः पङ्

क्तिर्वा अनमनायस्यावरुद्ध्यै, इति । ऋग्गतया पञ्चसंख्यया पादपञ्चकोपेतपत्रिच्छन्दःस्वरूपत्वम् । अच पञ्चसंख्योपेतत्वात्पतिरेव । माश्यं पेयं खाचं लेखं निगीर्यमित्येवमनस्य पत्र संख्या । तस्मादिदममप्राप्त्यै संपद्यते । बामणाच्छंसिनः सूक्तं विधत्ते

उदु ब्रह्माण्यैरत श्रवस्येति ब्राह्मणाच्छंसी

ब्रह्मण्वत्समृद्धं सूक्तमहरहः शंसति, इति । ब्रमाणीति ब्रमशब्दयोगादिदं सूक्तं ब्रह्मण्वत् । समृदं समृदिकारणम् । तस्य प्रशंसां दर्शयति

तदेतत्सूक्तं स्वय॑मेतेन वै मुक्तेन देवाः स्वर्ग उद् ब्रह्माण्यैरत श्रवस्य०-७-२४-१।

१.म् । ऋष। saptizenis Google

———- ——-” चतुर्थः खण्डः] ऐतरेयबामणम् ।

७१९ लोकमजयनेतेन ऋषयस्तथैवैतद्यजमाना

एतेन सूक्तेन स्वर्ग लोकं जयन्ति, इति । पुनरप्यृषिसंबन्धेन प्रशंसति

तदु वासिष्ठमेतेन वै वसिष्ठ इन्द्रस्य प्रियं

धामोपागच्छत्स परमं लोकमजयव , इति । बेदन प्रशंसति

उपेन्द्रस्य प्रियं धाम गच्छति जयति

परमं लोकं य एवं वेद, इति । ऋक्संख्यामुपजीव्य प्रशंसति

तबै पकृचं षड्या ऋतव ऋतूनामाप्त्य, इति । तस्य सूक्तस्य स्थानं विधत्ते

तदुपरिष्टात्संपातानां शंसत्याप्दैव तत्स्वर्ग लोकं

यजमाना अस्मिलोके प्रतितिष्ठन्ति, इति । संपातसूक्तस्योपरिष्टात्तत्सूक्तं शंसेत् । तेन शंसनेन स्वर्ग लोकमाप्त्व देहपातादूर्ध्वभाविनी स्वर्गमाप्तिं संपाथैदानीमस्मिल्लोके यजमानाः प्रति. ठिवा भवन्ति ।

अच्छावाकस्य सूक्तं विधते

अभितष्टेव दीधया मनीषामित्यच्छावा

कोऽहरहः शंसत्यभिवत्तत्यै रूपम्, इति । अभितष्टेत्यादिकं सूक्तमच्छावाका प्रतिदिन शंसेत् । तच्चाभिवदभिशब्दोपे सम् । अभिशब्दस्य चाभितः सर्वत इत्यस्मिअर्थे वर्तमानत्वात्सूक्तं तत्यै संतरी विच्छेदराहित्यस्वरूपं भवति ।

तस्या ऋचस्तृतीयपादमनूध व्याचष्टे

अभि प्रियाणि मर्मशत्पराणीति यान्येव परा ण्यहानि तानि प्रियाणि तान्येव तदभिमर्मू शतो यन्यभ्यारभमाणाः परो वा अस्माल्लो

अभितष्टेव दीधया मनीषां०-३-३८-१ teens Strogle.

७४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनत्रिंशाध्याये

कात्स्वर्गों लोकस्तमेव तदभिवदति, इति।। अनयर्चा विश्वामित्रः प्रजापति तुष्टाव । तथा सत्यस्य पादस्यायमर्यः पराण्युत्तराणि कर्माणि प्रजापतेः प्रियाणि अभिमर्मशत्सर्वतः पुनः पुनः सूत्र महं वर्त इति । यान्येवेत्यादिकं तम्घाख्यानम् । वर्तमानादहः पराण्युत्तराणि पान्येवाहानि सन्ति तानि देवस्य प्रियाण्यतस्तेन पादपाठेन तान्येवाभिमर्य शतोऽभितः पुनः स्पृशन्तः । तस्यैव व्याख्यानमभ्यारभमाणा इति । तामा पजमाना यन्ति वर्तन्ते । किंचास्माल्लोकात्परः स्वर्गो लोकस्वमेव लोकं तपेन परशब्देनाभिवदति।

चतुर्थपादमनुवदति

कवीरिच्छामि संदृशे सुमेधा इति, इति । मुमेधाः शोभनया मेघया युक्तोऽहं संशे सम्यग्दर्शनाय कवीन्मानी निच्छामि ।

तमेतं पाद व्याचष्टे

ये वै ते न ऋषयः पूर्वे प्रेतास्ते में

कवयस्तानेव तदभ्यति वदति, इति । नोऽस्माकं संबन्धिनः पूर्व ऋषयो ये ते प्रसिद्धाः प्रेताः परलोकं गतात एवात्र कवयः कविशब्देन विवक्षिताः । अतस्तानेवाभिलक्ष्य तत्तेन पादेना भिवदति अतिशयेन ब्रूते।

ऋषिसंबन्धेन प्रशंसति

तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र

आस विश्व हास्मै मित्रं भवति य एवं वेद, इति । पूर्ववद्याख्येयम् । अस्पष्टदेवताकमुपजीव्य प्रशंसति

तदनिरुक्तं प्राजापत्यं शंसयनिरुक्तो

वै प्रजापतिः प्रजापतेराप्य, इति । तत्सूक्तमनिरुक्तं न हि तत्र काचिद्देवता विस्पष्टं निरूप्यते । अतः प्रजाप तिदेवताकं तच्छंसेत् । प्रजापतिश्च सृष्टेः पूर्व मूर्तिराहित्यादनिरुक्तोऽतः सूक्तं प्रजापतिमाप्त्यै संपद्यते ।

. geee is; ६.3 NOgfc

ऐतरेयबामणम् । मूक्तस्य प्राजापत्यत्वे सत्येन्द्रत्वं प्रच्यवतेत्याशङ्कयाऽऽह

सदिन्द्रं निराह तेनैन्द्रादूपान प्रच्यवते, इति । कस्यचिचि शुनं हुवेम मघवानमिन्द्रमिति सकुदिन्द्रं निबूते । तेन कार मेनेन्द्रसंवन्धिस्वरूपादपि पच्युतिर्नास्ति ।

ऋक्संख्यामुपजीव्य प्रशंसति

तडै दश दशाक्षरा विराळनं

विराळवावस्यावरुद्ध्यै, इति । पुनरप्यूक्संख्यामुपजीव्य मशंसति

यदेव दशाश्म्, दश वै प्राणाः प्राणा

नेव तदाप्नुवन्ति प्राणानात्मन्दधते, इति । यदेव यस्मादेव कारणादिदं सूक्तं दशर्चम् । लुतिः माणसारश्येनाss. योर्या । पञ्चशानेन्द्रियाणि पश्च कर्मेन्द्रियाणि । इन्द्रियरूपाः माणा दशैव । यदा प्राणापानादयः पञ्च वायवो नागकूर्मादयश्च पच वायव इति दश माणाः। अतस्तच्छंसनेन माणानेव प्राप्य तान्माणान्स्वात्मन्येव स्थापयन्ति ।

तस्य मूक्तस्य स्थानं विधत्ते

तदुपरिष्टात्संपातानां शंसत्याप्त्वैव तत्स्वर्ग लोकं

यजमाना अस्मिल्लोके प्रतितिष्ठन्ति ॥२०॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण

भाष्य एकोनत्रिंशाध्याये चतुर्थः खण्डः ॥४॥ (२०)[ १०७ ]

अथ त्रीन्मगाथान्विषत्ते

कस्तमिन्द्र स्वावसुं कनव्यो अतसीनां कदू न्वस्याकृतमिति कदन्तः प्रगाथा

आरम्भणीया अहरहः शस्यन्ते, इति । कस्तमित्यादिरेका प्रगाथः । कमव्य इति द्वितीयः कद्विति तृतीयः । यद्यपि प्रथमे कच्छन्दो नास्ति तथाऽपि च्छत्रिन्यायेन साहचयोद्वा सर्वे कद्वन्त: कस्तमिन्द्र त्वावसुं०-७-३२-१४ । कन्नव्यो अतसीनां०-८-३-१३।।

७४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनत्रिंशाध्याये प्रगाथा ऋग्वयात्मकाः । ते च वैकृतारम्भहेतुत्वादारम्भणीयाः। ते च प्रति दिनं बांसनीया।

प्रथमं प्रगाय [५]शंसति

को वै प्रजापतिः प्रजापतेराप्त्यै, इति । प्रथमस्याऽऽदौ भूयमाणस्य कशब्दस्य प्रजापतिरर्थः । अतोऽयं प्रजापति प्राप्यै संपद्यते।

सर्वान्मगायान्मशंसति

यदेव कहन्ता३ । अन्नं वै कमन्नाद्यस्यावरुद्ध्यै, इति ।

यदेव यस्मादेव कारणादेते प्रगाथाः कदन्ताः। प्लतिः प्रशंसा । कच्छन्दै कदेशरूपं यत्कं तदममेव कशब्दस्य मुखवाचित्वादनस्यापि मुखहेतुत्वात् । अतोऽममाप्त्यै तत्संपद्यते।

पुनरपि प्रकारान्तरेण प्रशंसति

यदेव कदन्ता३: । अहरहर्वा एते शान्तान्यहीन सूक्तान्युपयुञ्जाना यन्ति तानि कहद्भिः प्रगाथैः शमयन्ति तान्येभ्यः शान्तानि कं भवन्ति

तान्येनाञ्छान्तानि स्वर्ग लोकमभिहन्ति, इति । यदेव पुनरपि यस्मादेव कारणादेते प्रगाथा: कद्वन्तः शस्यन्ते । इतिः पूर्व वत् । तस्मादेव कारणात्मतिदिनमेते यजमानाः शान्तानि सर्वोपद्रवशमकार णान्यहीनसूक्तान्युपयुञ्जाना यन्ति वर्तन्ते । कथं सूक्तानां शान्तत्वमिति तदु. च्यते । तानि सूक्तानि कद्वद्भिः सुखवाचकशब्दोपेतैः प्रगाथैर्यजमानाः श्रम यन्ति शान्तानि कुर्वन्ति । तानि च सूक्तानि शान्तानि भूत्वैभ्यो यजमानेभ्यः के भवन्ति सुखकारणानि भवन्ति । तानि सूक्तानि शान्तानि भूत्वैनान्यजमा. नान्स्वर्ग लोकमभिवहन्ति प्रापयन्ति ।

कद्वत्मगायेभ्य ऊर्ध्वमप पाच इन्द्रेत्याचास्त्रिष्टुप्छन्दस्का ऋचः प्रतिदिन शंसनीयसूक्तादित्वेन विधत्ते

त्रिष्टुभः सूक्तप्रतिपदः शंसेयुः, इति । अत्र कंचित्पूर्वपक्षमुद्भावयति

___ता हैके पुरस्तात्मगाथानां शंसन्ति ple

५ पञ्चमः खण्डः] - ऐतरेयबामणम् ।

७४१ धाय्या इति वदन्तः, इति । यथा होतुनिष्केवल्यशख्ने प्रगाथात्पुरस्तादाय्या भवन्ति तद्वदप पाच इत्या. पालिष्टुभोऽपि धाय्यास्तस्मात्पूर्वोक्तानां कदत्मगाथाना पुरस्ताच्छसितुं योग्या इति वदन्तः केचिचालिकास्ता ऋचस्तेषां पुरस्ताच्छंसन्ति ।

तं पूर्वपक्षं निराचष्टे

__ तत्तथा न कुर्याद , इति । सस्मिन्पक्षे शे(दो)दर्शयति

क्षत्रं वै होता विशो होत्राशंसिनः क्षत्रायव

तदिशं प्रत्युद्यामिनी कुर्युः पापवस्यसम्, इति । निष्केवल्यस्य शंसको यो होताऽस्त्यसौ क्षत्रं वै क्षत्रियो राजैव । होवृत्वे समुत्पनाः क्रिया होत्रास्ताः शंसन्तीति मैत्रावरुणादयो होत्राशंसिनः। ते च विशो राष्ट्रवर्तिन्यः प्रजाः। तत्तथा सति होतृदृष्टान्तेन भगायेभ्यः पूर्व त्रिष्टुभः शंसने सति तां विशं प्रजा सत्रायैव राज एव प्रत्युद्यामिनी प्रतिकूलोयोगयुक्तां कुयुः । तच पापवस्यसमतिशयेन पापरूपं स्वामिना राज्ञा सह मात्सर्यस्य सामिद्रोहरूपत्वात् ।

परपसं दूषयित्वा स्वपक्षं निगमयति

त्रिष्टुमो म इमाः सूक्तप्रतिपद इत्येव विद्याद, इति । इमा अप प्राच इत्याचास्त्रिष्टुभ ऋचो मे मम शंसितुः सूक्तमतिपदोहरहा सनीयसूक्तभारम्भकपा इत्येव निश्चिनुयात् । न पुनः प्रगाथेभ्यः पुरस्तानि. धुभामवस्थान युक्तम् ।

सूताविपत्पले गुणं दर्शयति

तद्यथा समुद्रं प्रलवेरनेवं हैव ते प्रप्लवन्ते ये संवत्सरं वा द्वादशाहं वाऽऽसते तद्यथा सैरावती नावं पारकामाः समारोहेयु

रेवमेवैतास्त्रिष्टुभः समारोहन्ति , इति । तत्तस्मिमभिहितेऽर्थे दृष्टान्तोऽभिधीयते । यथा लोके समुद्रं प्रलवेरन् । अप्लवः परतीरगमनम् । स्वल्पेषु नदीतडागादिषु परतीरगमनं सुशकं भवति । समुद्रस्य तु तहुःशकम् । तथा संवत्सरसत्रस्य द्वादशाहस्य वाऽनुष्ठातॄणां मलका

|

|

७४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनत्रिंशाध्याये पारगमनं समापनमत्यन्तदुःशकं प्रयोगस्यातिबहुलत्वात् । तत्तथा सति यथा लोके समुद्रस्य परतीरगमनकामाः पुरुषाः सैरावती नावं समारोहेयुः । इराऽमं तत्समूह ऐरं तेन सह वर्तत इति सैरं नौस्थं वस्तुजातं तादृशं सैरं यस्यां नाव्यस्ति सेयं नौः सैरावती। समुद्रपारगमनस्य चिरकालसाध्यत्वात्तावत: कालस्य पर्याप्तेनामेन सह सर्वमपेक्षितं वस्तुजातं तस्यां नावि संपाद्य पथा. भाविकास्तां नावमारोहेयुः । एवमेवानुष्ठातारस्तथाविधनौसहशा एतात्रिष्टुमा समारोहन्ति । सर्ववस्तुसमुद्धा नौरिवैतास्त्रिाभः पारं नेतुं समर्या इत्यर्थः ।

वदेव सामर्थ्य स्पष्टी करोति

न ह वा एतच्छन्दो गमयित्वा स्वर्ग

लोकमुपावर्तते वीर्यवत्तमं हि, इति । समुद्र(द्र) बाहुभ्यामुडुपेन चाऽऽप्लवनं पारगमनक्षम न भवति । सैरावत्या तु नावा पारमवश्यं प्राप्यते । एवमेतत्रिष्टुप्छन्दो यजमानान्स्वर्ग लोकं गम यित्वा नैवोपावर्तते । किंतु सर्वथा स्वर्ग गमयत्येव । यस्मादेतच्छंसनातिशयेन वीर्यवत्तस्माधुक्तं पारगमयितृत्वम् । एवंविधास्त्रिष्टुभो यदि सूक्तमतिपदः स्युस्त. दानी मूक्तच्छन्दसोऽपि त्रिष्टुप्त्वात्तत्साहाय्येन वीर्यवत्तमत्वमुपपद्यते । प्रगा थानां तु त्रिष्टुप्त्वा]भावाते(ते)भ्यः पुरस्ताच्छंसने वीर्यवतमत्वं न सिध्ये. दित्यभिप्रायः।

एताभ्यनिष्टुभ्यः पूर्व शोसावोमिति व्याहावमितरदृष्टान्तेन प्रसक प्रति पति

ताभ्यो न व्याह्वयीत समानं हि

च्छन्दोऽथो नेहाय्याः करवाणीति, इति । ताभ्यस्त्रिष्टुब्भ्यः पूर्व शोसावोमिति व्याहावं न कुर्यात् । यस्मात्सूक्कैः सहैतासां छन्दः समानं तस्मात्सूक्तान्तर्भूतानामृगन्तराणामिवैतासां व्याहावो नास्ति । यदि धाय्यादृष्टान्तेन व्याहावः क्रियेत तदानीमेता अपि धाय्या: क्रियेरन् । अहं तु तासां धाय्यात्वं नेत्करवाणि सर्वथा न करवाणीत्यभिमेत्य

धाय्यारूपादीतः सन्व्याहावं न कुयोत् । उकास्त्रिष्टुप्छन्दस्का ऋचः प्रशंसति

यदेनाः शंसन्ति प्रज्ञाताभिः सूक्तप्रतिपद्भिः

१ श. ‘मेव त्रिष्टुं । ardens, LIKEDgle

१ षष्ठः खण्डः] ऐतरेयब्रामणम् ।

७४५ सूक्तानि समारोहामेति, इति । एता ऋचो यदा शंसन्ति तदानीं महानौस्थानीयानां त्रिष्टुप्छन्दस्कानां समारोहणमेताभिः सूक्तप्रतिपद्भिः प्रजाताभिर्भविष्यतीति शंसितूणामभिप्रायः। पथा प्रौढाया नावः समारोहणं यत्र कापि कर्तुं न शक्यते किंतु निःश्रेण्या दिसापनेनैव कर्तुं शक्यते तद्वदत्रापि द्रष्टव्यम् ।

पुनरपि प्रकारद्वयेन प्रशंसति

यदेवनाः शंसन्तीन्द्रमेवैताभिर्निह्वयन्ते यथ ऋषभं वाशितायै यद्देवैनाः शंसन्यहीनस्य

संतत्या अहीनमेव तत्संतन्वन्ति ॥२१॥ इति । अप पाच इन्द्रेति श्रुतत्वादिन्द्राहानं भवति । अन्यत्पूर्ववयाख्येयम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णभाष्य एकोनत्रिंशाध्याये पञ्चमः खण्डः ॥५॥ (२१) [१०८]

यदुक्तं त्रिष्टुभः सूक्तपतिपदः शंसेयुरिति तत्रस्थाबिधुम उदाहत्य प्रदर्शयति

अप प्राच इन्द्र विश्वाँ अमित्रानिति मैत्राव

रुणः पुरस्तात्सूक्तानामहरहः शंसति, इति । अपमाच इत्येतामचं मैत्रावरुणः प्रतिदिनं स्वकीयसक्तादौ सेत् ।। इन्द्र विश्वानमित्रान्सर्वानपि शन्याचः पाब्युखान्कृत्वाऽपनुदस्वेति वक्ष्यमाणे. नान्वयः । सोऽयं प्रथमपादस्यार्थः।

अवशिष्टं पादत्रयं पठति

अपापाचो अभिभूते नुदस्व । अपोदीची अप

शूराधराच उरौ यथा तव शर्मन्मदेमेति , इति । हेऽभिभूते अनभिभवितुं समर्थ, अपाचा शत्रून्दाक्षणा(मुखान्प्रत्यर मुखांष कृत्वाऽपनुदस्व । तथैवोदीच उद्ङ्मुखान्कृत्वाऽपनुदस्व । हे शूर, अपराचोऽधोमुखान्कृत्वाऽपनुदस्व । उरौ विस्तीर्णे तव शर्मन्, त्वत्सं. बन्धिनि गृहे यया मदेम येन प्रकारेण हृष्टा भवेम तथा कुर्विति शेषः ।

____ अप प्राच इन्द्र विश्वाँ अमित्रान्०-१०-१३१-१ hogic.

७१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२९एकोनत्रि०ध्याये

ऋचस्तात्पर्य दर्शयति

अभयस्य रूपमभयमिव हि यनिच्छति, एतन्मत्रवाक्यमभयस्य स्वरूपं शत्रुनिराकरणस्य स्वकीयहर्षस्य चात्र प्रार्थ्य मानत्वात् । अभयमिव भयरहितमेव स्थानमय मैत्रावरुणो यन्मामुवमिच्छति मासुमपेक्षते । तस्माद्योग्येयमुक् ।।

ऋगन्तरं ब्रामणाच्छसिनो विषत्ते

ब्रह्मणा ते ब्रह्मयुजा युनज्मीति ब्राह्मणा च्छंस्यहरहः शंसति युनज्मीति युक्तवती

युक्त इव बहीनोऽहीनस्य रूपम् , इति । अस्यामृचि युनज्मीति श्रवणादियमृग्युजिधात्वर्थवती।अहीनोऽहर्गणव युक्त इलाहां परस्परसंबन्धवानेव । अतो युभिधात्वर्थयुक्तमत्रवाक्यमहीनस्य रूपम् ।

अनुकूलमृगन्तरमच्छावाकस्य विषचे

उरुं नो लोकमनु नषि विद्यानित्यच्छावाकोऽहरहः शंसत्यनु नेषीयेतीव ह्यहीनोऽहीनस्य रूपम् , इति । अत्र यदेतदनुनेपीति पदमस्ति तस्यार्थ एतीव बहीन इत्यनेनोच्यते । अय महर्गण एतीव प्रवर्तत एव । अनुनेष्यनुक्रमेण नय प्रवर्तयेत्येवमुच्यमानत्वात्य. वर्तमानस्याहीनस्येदं वाक्यमनुरूपम् ।

अनुनेषीति पदस्याभिप्रायमुक्त्वा तन्मध्यगतस्य नेपीत्येतस्याभिप्रायान्त रमाइ

नेषीति सत्रायणरूपम् , इति । सत्रस्यायनमनुष्ठानं सत्रायणं नेषि नयानुष्ठापयति तस्यार्यः । अत एतत्पदं सत्रायणस्यानुकूलम् ।

उदाहृतास्तिस्र ऋच उपसंहरति

ता वा एता अहरहः शस्यन्ते, इति । अथ परिषानीया ऋचः स्तोतुमुपक्रमते

समानीभिः परिदध्युः, इति । ब्रह्मणा ते ब्रह्मयुजा युनज्मि०-३-३५-४ । उरुंनो लोकमनु नेषि विद्वान् १-४७-८॥

pielea sa Google

.

"

"

७. सप्तमः खण्डः] ऐतरेयबामणम् ।

७४७ समानीभिरेकविधाभिग्भिमैत्रावरुणादयो होषकाः परिदध्युः शन समासिं कुर्यः । न धुतेति मैत्रावरुणस्य परिषानीया । एवेदिन्द्रमिति प्रामणा. च्छसिनः परिधानीया। नूनं सा त इत्यच्छावाकस्य परिषानीया । अनेन सूक्तसामान्यादेताः समान्य इत्युच्यन्ते । दृष्टान्तदयेन परिषानीयाः शंसति

ओक-सारी हैषामिन्द्रो यज्ञं भवती३ यथ ऋषभो वाशितां यथा वा गौः प्रज्ञातं गोष्ठ

मेवं हैषामिन्द्रो यज्ञमैव गच्छति , इति । भोकासारी ह मार्जार इवेन्द्र एषां यजमानानां यहं भवति पुनः पुनः पामोति । सानुनासिका लुतिः पूजार्या । यथा वाशितां गर्भार्थिनी गामपभो गच्छति । यथा वा गौः प्रहातं प्रतिदिनगमनेनात्यन्तं परिहातं गोष्ठं मामोति । एवमेवायमिन्द्र एषां यजमानानां यामागच्छत्येव । अतस्तदागमनार्य समान्य: परिघानीया इत्यर्थः।

समानीभिः परिदध्युरिति यदुक्तं तत्राभितष्टेवेत्यच्छावाकस्याहरहः शस्व मूक्तं तस्मिनन्त्या चुने हुवेमेत्येषा तया परिघानमाप्तौ निषेषति

न शुनंहुवीययाऽहीनस्य परिदभ्याक्ष त्रियो ह राष्ट्राच्यवते यो हैव परो

भवति तमभिह्वयति ॥ २२ ॥ इति । अनं हुवेमेति यस्यामूचि श्रूयते सा शुनंदुवीया । अहर्गणस्य शस्त्रे तया न परिदध्यात् । परिधाने हि क्षत्रियो राजा स्वकीयाद्राष्ट्राच्यवते । यस्तु पर स्वदीयः शत्रुर्भवति तमभिलक्ष्य हयत्साहानं करोति । हुवेमेत्यन्याहानस्य प्रतीयमानत्वात् । अत एव सूत्रकारो बामणान्तरमाश्रित्य नूनं सात इत्येतां परिधानीमामुक्तवान् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयब्रामण

भाष्य एकोनविंशाध्याये पठः खण्डः ॥ ६ ॥ (२२) [१०९]

एवं सवत्रिणा होत्रकाणां माता सवने माध्यदिने च शस्त्रायुक्तानि । तेषां च परिषानीयाः पूर्वमेवोभय्यः परिधानीया इत्यत्रैकाहिका अहीनाथ विमृष्टाः।

preslizes in Google

.७४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनत्रि ध्याये

अयेदानी कतमास्ता इति विविनक्ति

अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च, इति । अथ परिधानीयाकथनानन्तरं यतस्तद्विवेकोऽपेक्षितोऽतः कारणादहीनस्याह गणस्य युक्तिश्च विमुक्तिश्च विवेकायोभे वक्ष्येते इति शेषः । युक्तिर्योगः स्वाधी नत्वेन क्रतो संपादनं विमुक्तिविमोचनं स्वाधीनतया निर्बन्धपरित्यागः। तदे. बदुभयं परिषानीयावशेन संपद्यते।

तत्र बामणाच्छंसिनः परिधानीयामुपजीव्य क्रतोर्योगविमोको दर्शयति

व्यन्तरिक्षमतिरदियहीनं युक्त

एवेदिन्द्रमिति विमुञ्चति , इति । प्रातःसवने ब्राह्मणाच्छंसिनो व्यन्तरिक्षमिति पर्यासस्य॒चः। तस्येन्द्रेण रोचना दिव इति ऋगुत्तमा तया यत्परिधानं तेनाहीनं क्रतुं युके स्वाधीन तया निवनाति । माध्यदिने सवने त्वेवेदिन्द्रमिति परिधानीयया ‘न विमु. शति । स्वाधीनतया निगृहीतमहीनक्रतुं विस्रम्भव्यवहाराय निग्रहपरित्यागेन विमुशति । स्वाधीनो हि क्रतुरवश्यं फलं दास्यतीति युक्तो बन्धविमोकः ।

अथाच्छावाकस्य परिधानीयया योगविमोको दर्शयति

आऽहं सरस्वतीवतोनं सा त इत्यहीनं युङ्क्ते, इति । अयं योगो विमोकस्याप्युपलक्षणार्थः। आऽहमिति प्रातःसवने परि घानीया। तया क्रतोर्योगो भवति । नूनं सा त इति माध्यंदिने सवने परि. घानीया । तया क्रतोविमोको भवति ।

अय मैत्रावरुणस्य परिधानीयया योगविमोकौ दर्शयति

ते स्याम देव वरुण नू ष्टुत इति विमुञ्चति , इति । अत्र विमोको योगस्याप्युपलक्षणार्थः । ते स्यामेति प्रातःसवने परिधानीया तयाऽहीनस्य क्रतोर्योगः । न धुत इति माध्यंदिनसवने परिषानीया। तया क्रतोविमोकः । यद्यपि तृतीयसक्ने विवे(मो)को वई युक्तस्तथाऽप्यमिष्टोम संस्थेऽहनि होत्रकाणां तृतीयसवने शस्त्राभावात्सर्वेष्वहस्स्वनुगत्यर्य माध्यं दिने सवने विमोकोऽभिहितः।।

ज्यन्तरिक्षमतिरत्०-८-१९-७ । एवेदिन्द्रं वृषणं०-७-२४-। आऽहं सरस्वस्तीवतोः०-८-३९-१० । ते स्याम देव वरुण-७-६६-९।

ALL

  • नेति मूलविरुद्धत्वालेखकप्रमादपतितम् ।.. Google७४२

• सप्तमः खण्डः] : ऐतरेयबामणम् । ___७४९ गयोक्तयोगविमोकज्ञान प्रशंसति

एष ह वा अहीनं तन्तुमर्हति य एनं

योक्तुं च विमोक्तुं च वेद, इति । यः पुमानुक्तभकारेणैनमहीनं प्रातःसवनपरिधानीयया योक्तुं माध्यंदिन परिषानीयया विमोक्तुंच जानाति । एष एव पुमानहर्गणं तन्तुं विस्तारयि तुमर्हति । यथोक्तपरिधानीयानभिज्ञस्य नास्ति तत्राधिकार इत्यर्थः । एवमे. कैकमहरपेक्ष्य योगविमोकावुक्तौ ।

अथाह समूहमपेक्ष्य योगविमोको दर्शयति

तद्यच्चतुर्विशेऽहन्युज्यन्ते सा युक्तिरथ यत्पुरस्तादुद यनीयस्यातिरात्रस्य विमुच्यन्ते सा विमुक्तिः, इति । गवामयनस्य संवत्सरसत्रस्याऽऽधन्ते अहनी अतिरात्रसंस्थे । तत्रोपक्रमग तस्य भायणीयातिरात्रस्यानन्तरभाविनि चतुर्विशाख्यमा(आरम्भणीयेऽहनि परिघानीयाभिः सर्वेऽहर्विशेषा युज्यन्ते सोऽयं गवामयनस्य योगः। अथोद. पनीयस्यातिरात्रस्य पुरस्ताद्वर्तमाने महाव्रतीयेऽहनि परिषानीयाभिः सर्वेऽप्य इविशेषा विमुच्यन्त इति यदस्ति सेयं गवामयनस्य विमुक्तिः।

सत्र योगविमोकहेतूनां परिधानीयानामेकैकविधत्वं निन्दित्वोभयविषयत्वं दर्शयति

. तद्यचतुर्विशेऽहन्नैकाहिकाभिः परिदध्युर

त्राहैव यज्ञं संस्थापयेयु हीनकर्म कुर्यु रथ यदहीनपरिधानीयाभिः परिदध्युर्यथा श्रान्तोऽविमुच्यमान उत्कृयेतैवं यज

माना उत्कृत्येरनुभयीभिः परिदध्युः, इति । अहमहनि चतुर्विशाख्ये यचैकाहिकाभिः प्रकृतिभूत एकाहे ज्योतिष्टोमे विद्यमानाभिः परिघानीयाभिः परिदध्युस्तदानीमत्रैव चतुर्विशाख्ये द्वितीय स्मिमहन्येव यह गवामयनं संस्थापयेयुः समाप्ति कुर्युः । अत्राहेत्याशब्दः खेदे कष्टमेतत् । अत्रैव समाप्तावहीनकर्म कृत्वाहर्गणकर्तव्यं न कुर्युः । एतदेव कष्टम् । अथ पूर्वोक्तवैपरीत्येनैकाहिकाः परिधानीयाः परित्यज्य यधहीनप रिवानीयाभिरेव सर्वे होत्रकार परिदध्युः । इदानीं यथा लोके रयशकटादौ

11

'

-..

.

1

७५० भीमत्सायणाचार्यविरचितभाष्यसमेतम्-२९एकोनात्र ध्याये युक्तोऽभवलीपर्दादिः कियडूरं गत्वा श्रान्तः सन्यदि न विपुच्येत तदानीपुत्छ स्येतोच्छिधेत तवैव यजमाना उत्कृत्येरन्विनश्येयुः। सर्वेषां होत्रकाणामैका हिकस्वीकारे समाप्त्यभावोऽहानगतस्वीकारे यजमानोच्छेद इति दोषट्यपरि हारार्थमुभयीभिरैकाहिकाभिरहीनगताभिश्च परिधानीयाभिः परिदध्युः । वत्र मकारविशेषः पूर्वमेवोक्तः। मैत्रावरुण ऐकाहिकाभिरेव सवनद्वये परिदध्यात् । अच्छावाकोऽहीनगताभिरेव सवनद्वये परिदध्यात् । बामणाच्छंसी तु माता सवनाहीनगताभिः परिदध्यात् । माध्यंदिनसवने चैकाहिकाभिरिति निर्णयः। अस्य निर्णयस्य पूर्वमेव सिद्धत्वेऽपि प्रकारान्तरेण प्रशंसाथमत्र पुनरभिधानम् ।

तदेतदुभयीभिः परिधानं दृष्टान्तेन प्रशंसति

तद्यथा दीर्घाध्व उपविमोकं यायात्ताहत, इति । लोके यथा वा दीर्घाध्वे दूरमार्गे गच्छन्पुरुष उपविमोकं रयशकटादौ योजितमश्चबलीवर्दादिकं तत्र तत्रोपविमुच्योपविमुच्य यायाच्छ्रान्तिपरिहारेण शनैर्गच्छेत्ताहगेव तदुभयविधपरिधानम् । यथा मार्गे वहनश्रमो विमोन निवर्तत एवमहीनगताभिरापादितश्रम ऐकाहिकाभिनिवर्तते ।

उभयविधपरिधाने दोष परिहत्य गुणं दर्शयति

संततो हैषां यज्ञो भवती३ व्यू मुञ्चन्ते, इति । एषामुभयविधपरिधानयुक्तानां पुरुषाणां याः संततो विच्छेदरहितो भवति । सानुनासिका प्लतिः प्रशंसार्या । विशन्द उपरितन उकार एवका. रार्थः । तस्य दीर्घश्छान्दसः । यजमानश्रमं विमुश्चत(न्त) एव ।

अथ स्तोमाविशंसने कंचिद्विशेष दर्शयति

एकां देन हयोः सवनयोः स्तोममतिशंसेव , इति । . यदा सामगैर्विवृद्धः स्तोमः क्रियते तदानी होत्रका)स्तोमसंख्यामतिल ज्य शंसनीयम् । तत्र यो प्रातमध्यंदिनयोः सवनयोरेकामृचं वा दे ऋची वाऽतिक्रम्य न सेत् । किंत्वेकया द्वाभ्यां वाऽतिशंसेत् । पूर्वकार्य नियमः पात: सवन एवोक्तः। उत्तरयोस्तु सवनयोरपरिमिताभिरतिशंसनमुक्तम् । तया.सवि माध्यंदिने सपने पूर्वोत्तरविरोधः प्रसज्यतेति चेत् । ताई तत्रैकया द्वाभ्यामर रिमिताभिर्विकल्पोऽस्तु ।

बहुभिरतिशंसने बाधमाह

दीर्धारण्यानि ह वै भवन्ति यत्र बहीभिः

८ अष्टमः खण्डः] ऐतरेयबामणम् ।

७५१ स्तोमोऽतिशस्यते, इति । यथा दीर्घष्वरण्येषु गच्छतः पुरुषस्य विश्रामस्थानाभावान्महामयासस्तथा पहीभिरतिशंसनं दुःखहेतुरित्यर्थः ।।

माध्यंदिनसवन इव तृतीयसवने पक्षान्तरमस्तीति शहां वारयितुं पूर्वोक्तमे वापरिमितत्वं पुनरप्यभिषते

अपरिमिताभिस्तृतीयसवनेऽपरिमितो वै स्वर्गों

लोकः स्वर्गस्य लोकस्याऽऽप्त्यै , इति । अपरिमिताभिनियतपरिमाणरहिताभिः। स्वर्गस्य भोगवाहुल्यादपरिमितत्वम् ।

वेदनपूर्वमनुष्ठानं प्रशंसति

संततो हास्याभ्यारब्धोऽविस्रस्तोऽहीनो भवति

य एवं विद्वानहीन तनुते ॥ २३ ॥ इति । यः पुमानुक्तमकारेणातिशंसनं जानबहीनमनुतिष्ठति । अस्य पुरुषस्यान्वा रन्ष आभिमुख्येनोपक्रान्तोऽहर्गणः संततो नैरन्तर्येण वर्तमानः कदाचिदप्य विसस्तो विनाशरहितो भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयबामण

भाष्य एकोनत्रिंशाध्याये सप्तमः खण्डः ॥७॥ (२३) [११०]

अथ पृष्ठचस्य षडहस्य षष्ठेऽहनि विष्ण्याख्यशनमृप्ति(ति) सूक्तं विधातुमा ख्यायिकामाह

देवा वै वले गाः पर्यपश्यस्ता यज्ञेनैवेप्संस्ताः षष्ठेनाहाऽऽप्नुवंस्ते प्रातःसवने नभाकेन वलम नभयंस्तं यदनभयाइन्, अश्रथयन्नेवैनं तत्त उ तृतीयसवने वजेण वालखिल्याभिर्वाच कूटेन

कपदया वलं विरुज्य गा उदाजन् , इति । वलो नाम कश्चिदसुरमभुस्तदीयभृत्या बृहस्पतिप्रमुखाना(णां) देवानां गा अपहत्य वलस्य रहे स्थापितवन्तः । देवाश्च केनचिहूतमुखेन वले वलस्य गृहेऽ. वस्थापिता गाः पर्यपश्यज्ञातवन्तः । ज्ञात्वा च सामभेदादील्लौकिकोपायान्प. रित्यज्य यझेनैवोपायेनैप्समासुमिच्छां कृतवन्तः । कृत्वा च पृष्ठयस्य परहस्य

७५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२९एकोनत्रि ध्याये यत्वष्टमहस्तदहरनुष्ठाय तत्सामर्थ्येन ता गाः प्राप्नुवन् । ते देवाः मातासवने नभाकनाना महर्षिणा तदृष्टेन मत्रेण वा वलनामकमसुरमनभयन् । नभति. घातुर्हिसार्थः। ताडितवन्त इत्यर्थः । तं प्रतिबन्धकारणं वलनामानमसुरं यब बनभयंस्ताडितवन्तः । छुतिस्ताडनप्रशंसा । तदानीमेव गोग्रहणमययमेव रक्षणार्थमाकारद्वारोद्घाटनेन निरोधं शिथिलीकृतवन्तः । यदा वलनामानमसु रमेव बलक्षयमापाद्य शिथिलीकृतवन्तः । त उ पुनरपि ते देवास्तृतीयसवने वज्ररूपेणावस्थिताभिलिखिल्याख्याभिरिभर्वाचाकूटेनैकपदया वलं विरज्य विशेषेण भगं कृत्वा स्वकीया गा उदाजस्तदीयाडुर्गादुद्गमितवन्तः । स च कूटशब्देन विहतो मनविशेष उच्यत इत्युपरिष्टादर्शयिष्यति । स एव वाच फूट एकपदा भवति ।

अथ नभाकेन दृष्टांस्यूचान्विधत्ते

तथैवैतद्यजमानाः प्रातःसवने नभाकेन वलं नभ यन्ति तं यन्नभयन्ती श्रथयन्येवैनं तत्तस्मादो

त्रकाः प्रातःसवने नाभाकांस्तृचाञ्छंसन्ति, इति । यथा देवा नभाकेन वलं हिंसितवन्तस्तथैवैतस्मिन्पष्ठेऽहनि यजमानाःमात: सवने नभाकनाम्ना महर्षिणा दृष्टेन मत्रेण वलं वलनामकासुरवत्मतिबन्धकं पाप्मानं नभयन्ति हिंसन्ति । तं वलं यद्यदा नभयन्ति । लुतिः पूर्ववत् । तत्त दैनं श्रथयन्ति शिथिलं कुर्वन्ति तस्मात्कारणान्मत्रावरुणादयो होत्रका प्राव: सवने नामाकाबमाकेन दृष्टांस्तृचाञ्शंसेयुः।

तांब्युचानुदाहरति

यः ककुभो निधारय इति मैत्रावरुणः पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी

ताहि मध्यं भराणामित्यच्छावाकः, इति । या ककुभ इत्यैकल्यचः । पूर्वीष्ट इति द्वितीयः। ता हीति तृतीयः । मैत्राव रुणादयः क्रमेण शंसेयुः।।

यः ककुभो निधारयः-८-४१-४ । पूर्वीष्ट इन्द्रोपमातयः-८-१०-९। ताहि मध्यं मराणाम्०-८-४०-३।

Pesteren in Google

८ अष्टमः खण्डः] ऐतरेयबामणम् । वास्यवान्विधाय शिल्पस्वरूपं विधचे

त उ तृतीयसवने वज्रेण वालखिल्याभिचाकू टेनैकपदया वलं विरुज्य गा आप्नुवन्ति, इति । त उ ते तु मैत्रावरुणादयो बलमतिबन्धकं पाप्मानं वैरिणं वजरूपेण बाल खिस्येन विनाश्य गोमासो विनरहिताः सन्तो गाः प्रामुवन्ति । पालखिल्याः पिर्वाचाकूटनैकपदयेति । एतावता शिल्पस्वरूपपभिहितम् ।

वदेवद्विशदयवि

पच्छः प्रथमं षड्वालखिल्यानां मुक्तानि विहरत्य धर्चशो द्वितीयमृक्शस्तृतीयं स पच्छो विहरन्प्र

गाथे प्रगाथ एवैकपदां दध्यात्स वाच कूटः, इति । बालखिल्यनामकाः केचन महर्षयस्तेषां संबन्धीन्यष्ट सूक्तानि विद्यन्ते । वानि बालखिल्यनामके प्रन्ये समानायन्ते । तेष्वादौ यानि पदसूक्तानि तानि प्रथमं पच्छा पादशो विहरेत् । ततो द्वितीयस्थामावृत्तावर्षशो विह रे । तृतीयस्यामानवाहक्शो विहरेत् । यदा पच्छो विहरति तदानीमेकैक सिन्भमाय एकैकामेकपदां दध्यात् । स प्रगाथैकपदयोः समूहो वाचाकूड इत्यनेन शन्देनाभिधीयते । तमिमं विहारपकारमाश्वलायन आह-पम कानि व्यतिम पच्छो विहरेत् । व्यतिमर्शमर्धर्चशो व्यतिमाएक्शा प्रगा थान्तेषु चानुपसन्तानसगावानमेकपदाः शंसेदिति । तेषु षसूक्तेषु प्रथमसूक्ता दाहग्यमेवमानातम् । अभि प्र वः मुराधसम्० सहस्रेणेव शिक्षतोश्म् । शतानीकेव प्र जिगाति० दत्राणि पुरुभोजसोइमिति । द्वितीयसूक्तेऽपि ऋग्द यमेवमानातम्-प्रमु श्रुतं सुराषसम्० सहस्रेणेव मंहतोश्म् । शतानीका हेतयो अस्य यदी सुता अमन्दिपोश्मिति । तत्र प्रथमसूक्तगतमेक(१) पादं च संयोजयेत् । सोऽयं विहारः । अस्मिन्विहारे व्यतिमझे नाम कधिदिशेषः। स च यथाक्रम परित्यज्य प्रकारान्तरेण योजने सति संपयते । प्रथमसूक्तस्य प्रथमायामचि प्रथमपादमुक्त्वा द्वितीयसक्तस्य द्वितीयायामूचि द्वितीयपाद तेन संयोजयेत् । तयथा-अभि का सुराधसमिन्द्रस्य समिषो महीरिति । द्वितीयसूक्तस्य हितीयस्याचि प्रथमपादमुक्त्वा प्रथममूक्तस्य प्रथमायाभूचि द्वितीयपादं तेन संयोजयेत् । तद्यथा-शतानीका हेतयो अस्य दुष्टरा इन्द्रमर्च ययाविदो मिति । अथ प्रथमसूक्तस्य प्रथमायामूचि तृतीयपादमुक्त्वा द्विती

७५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनत्रि घ्याये यसूक्तस्य द्वितीयस्थामृचि चतुर्थपादं तेन संयोजयेत् । तद्यथा-यो जरि तृभ्यो मघवा पुरवसुर्यदर्दी सुता अमन्दिषुरिति । द्वितीयसूक्तस्य द्वितीयस्या मुचि तृतीयपादमुक्त्वा प्रथमसूक्तस्य प्रथमायामृचि चतुर्थपादं तेन संयोजयेत् । तघया-गिरिन भुज्मा मघवत्सु पिन्वते सहस्रेणेव शिक्षतोशमिति । तदिदं पादयोर्विहतमृदयमेका प्रगाथ: संपद्यते । वस्य प्रगायस्यान्त इन्द्रो विश्वस्य गोपतिरित्येतामेकपदां संदध्यात् । सोऽयं समूहो वाचाकूटसंबकः। अनेनैव न्यायेन सर्वेषु सूक्तेषु सर्वास्त्रक्षु बुदिमता पादशो व्यतिमर्शविहरणमुनेयम् । अथार्चशो विहार उच्यते । प्रथमसूक्तस्य प्रथमायामूचि मयमार्चमुक्त्वा द्वितीयसूक्तस्य द्वितीयस्यामृच्युत्तरार्ध तेन संयोजयेत् । तयथा-अभि प्र वा मुराधस०दे । गिरिने मुज्मा मघवत्सु० अमन्दिपोश्मिति । एवं सर्वमुमेयम् । ऋक्शो विहरेत् । तत्र प्रथमसूक्तस्य प्रथमासचमुक्त्वा वया सह द्वितीयसूतस्य द्वितीयामृचं +सह योजयेत् । एवं सर्वत्रोहनीयम् ।

अथ प्रगाथान्तेषु प्रक्षेपणीया एकपदा दर्शयति

ता एताः पञ्चैकपदाश्चतस्रो दश

मादह एका महाव्रताव, इति । या एकपदा ऋचः प्रक्षेप्तव्यास्ता एता एकपदाः पञ्चसंख्याकाः । तासु चतस्त्र एकपदाः श्रुत्यन्तरेषु दशमेऽहनि पठिताः। तस्मादशमादहस्ताश्चतस्त्र मानेतन्याः । तास्विन्द्रो विश्वस्य गोपतिरित्येषा प्रथमा । इन्द्रो विश्वस्य प. तिरित्येषा द्वितीया। इन्द्रो विश्वस्य चेततीत्येषा तृतीया । इन्द्रो विश्वस्य राजतीत्येषा चतुर्थी । अयावशिष्टा भ्रुत्यन्तरेषु महाव्रते श्रुता । सा चेन्द्रो विनं विराजतीत्येतारशी तस्मान्महाव्रतादानेतन्या। ता एताः पञ्चैकपदाः पासु प्रगायेषु प्रक्षिपेत् ।

अवशिष्टेषु भगायेषु प्रक्षेपणीयान्पादान्दर्शयति

अथाष्टाक्षराणि माहानामनानि पदानि तेषां यावद्भिः संपधेत तावन्ति शंसेनेतराण्याद्रियेत, इति । अथ पञ्चसु प्रगाथेषु पश्चानामेकपदानां प्रक्षेपादनन्तरं माहानामनानि महा. नामशब्देन विदा मघवमित्यादयो महानान्नीसंझका विधीयन्ते । तेषां(तासां) महानाम्नायूचा संबन्धीन्यष्टाक्षराणि पदानि प्रचेतन प्रचेतयेत्येवमादीनि यानि

  • सहेत्यधिकम् । article by foogle

.

.

८ अष्टमः खण्डः] ऐतरेयबामणम् । सन्ति तेषां मध्ये यावद्भिरष्टाक्षरैः पादैरवशिष्टेषु प्रगाथेषु प्रक्षेपः संपधेत ताव. न्त्यष्टाक्षराणि पदानि शंसेत् । इतराण्यष्टाक्षराणि पदानि महानामसंबन्धीनि नाऽऽद्रियेत न प्रक्षिपेत् ।

एवं पच्छः शंसने प्रक्षेपणीयमभिधायार्चशो विहरणे प्रक्षेपणीयं दर्शयति

अथार्चशो विहरस्ताश्चैवैकपदाः शंसेत्तानि

चैवाष्टाक्षराणि माहानामनानि पदानि, इति । यथा पच्छो विहरणे प्रगाथान्ते प्रक्षेप एवमर्धर्चशो विहरणेऽपि पोजनीयम् ।

सक्यो विहरणेऽपि प्रक्षेपं विधवे

अथ ऋक्शी विहरंस्ताश्चैवैकपदाः शंसेत्तानि

चैवाष्टाक्षराणि माहानामनानि पदानि, इति । पूर्ववत्लगायान्ते प्रक्षेपः । यदुक्तं पच्छोऽर्धर्चश ऋक्श इति पर्यायत्रयेण विविध विहरणं तदेतत्पशंसति

स यत्प्रथमं षड्वालखिल्यानां सूतानि विह रति प्राणं च तहाचं च विहरति यद्वितीयं चक्षुश्च तन्मनश्च विहरति यत्तृतीयं श्रोत्रं च तदात्मानं च विहरति तदुपाप्तो विहारे काम उपाप्तो वजे वालखिल्यामूपाप्तो वाचाकूट

एकपदायामुपाप्तः प्राणक्लप्त्याम्, इति । सोऽनुष्ठाता प्रथम प्रथमे पर्याये वालखिल्यानां पदसूक्तानि विहरतीति पदस्ति तेन प्रथमेन पच्छो विहरणेन प्राणं वाचं विहरति मिश्री करोति । द्वितीयपर्यायेऽर्धर्चशो विरहणेन चक्षुर्मनसोमिश्रीकरणम् । तृतीयपर्याय ऋक्यो विहरणेन श्रोत्रेन्द्रियजीवात्मनोमिश्रीकरणम् । तचथा सति विहरणेन या कामः फलविशेषः स उपाप्तः प्राप्तो भवति । तथा वज्ररूपासु वालखिल्यासु यः कामः सोऽपि प्राप्तः। तथा वाचःकूटरूपायामेकपदायां य: कामः सोऽपि प्राप्तः । तथा माणा वागादीनां कृप्त्या विहरणे या कामः सोऽपि मातो भवति।

pişsizes in Google

७५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनत्रि०व्याये

चतुर्थपर्याये विहारमन्तरेण यथापाठ शंसनं विधत्ते

अविहृतानेव चतुर्थ प्रगाथाञ्छंसति पशवो

वै प्रगाथाः पशूनामवरुद्ध्यै , इति । प्रगाथानां पशुपाप्तिहेतुत्वात्पशुत्वम् । विहरणशंसनवदत्राप्येकपदामक्षेपमसको निषेषति

नात्रैकपदां व्यवध्याव, इति । एकपदायाः प्रक्षेपे प्रगाथद्वयस्य मध्ये व्यवधानं स्यात् । तत्र कुर्यात् । सत्करणे वापं दर्शयति

यदत्रैकपदां व्यवध्याहाचाकूटेन यजमानात्पशू बिहण्याद्य एनं तत्र ब्रूयाहाचाकूटेन यजमानात्प

शूविरवधीरपशुमेनमकरिति शश्वत्तथा स्यात्, इति । यद्यत्र चतुर्थपर्याय एकपदाव्यवधानं कुर्यात्चदानी वाचाकूटरूपेणैकपदा. सहितमगायेन वज्रेण पूर्व विद्यमानान्पशून्यजमानादस्मामिईण्यामिःक्षेपण विनाशयेत् । एवं सति यः कोऽपि.विरोधी समागत्यैनं शंसितारं तत्र शंसन काले याच्छपेत् । कीदृशः शाप इति सोऽभिधीयते-हे सितस्त्वं वाचा टेन वज्रेण यजमानात्पभूमिरवधीनि:सार्य हतवानसि । एनं यजमानमपर्नु पशु रहितमकः कृतवानसीति । तदानीं शपदवश्यं तथा स्यात्पधुरहित एव स्यात् ।

विपक्षे बाधमुक्त्वा स्वपक्षमुपसंहरति

तस्मात्तत्रैकपदां न व्यवदध्याव , इति । बालखिल्यानां पदसूक्ते विहारमुक्त्वाऽवशिष्टयोः सधमाष्टमयोः सूक्तयो. विपर्यासेन सनं विषते

ये(वे ए)वोत्तमे सूक्ते पर्यस्यति

स एव तयोविहारः, इति । ये हे उत्तमे सूक्ते ते विपर्यस्येदेव न तु विहरेत् । अष्टम सक्तमादौ पठित्वा पश्चात्सप्तमस्य पागे विपर्यासः । तयोर्द्वयोः स्कयोः स एष विपर्यस्वपाठ एर विहारस्थानीयः।

शिल्पनामकं शव निस्म्य प्रशंसति

तदेतत्सोवलाय सर्पिसिः शशंस स होवाच

९ नवमः खण्डः] ऐतरेयबामणम् ।

७५७ भूयिष्ठानहं यजमाने पशून्पर्यग्रहैषमकनिष्ठा उ मामागमिष्यन्तीति तस्मै ह यथा महद्भ्य ऋखिभ्य एवं निनाय तदेतत्पशव्यं च स्वर्य

च शस्त्रं तस्मादेतच्छंसति ॥२४॥ इति । सौबलनामक कविधजमानस्तस्मै वत्सस्य पुत्रः सपिरित्येतनामक ऋत्वि कदेतच्छिल्पशवं शशंस (स] च शंसनादूर्ध्वमेवमुवाच । अहमस्मिन्सौबलनामके यजमाने भूयिष्ठानतिशयेन प्रभूतान्पशून्पर्यग्रहैषं परितः संपादितवानस्मि । तस्मादकनिष्ठा उ श्रेष्ठा एव पशवो मामागमिष्यन्ति । ततः सौबलो यजमानो यथा महब ऋत्विग्भ्यो होत्रध्वद्राब्रमभ्यो दक्षिणां दत्तवान् । अयापि शिल्पशंसिने होत्रकायापि बहीरत्तमा गा दक्षिणात्वेन निनाय । तस्मादेतच्छि पत्रमिह लोके पशुसाधनं परलोके स्वर्गसाधनं च तस्मादेतच्छिल्प शंसेत् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

भाष्य एकोनत्रिंशाध्यायेऽष्टमः खण्डः ॥४॥ (२४) [ १११] शिल्पशंसनमभिधाय शंसनान्तरमभिधत्ते

दूरोहणं रोहति तस्योक्तं ब्राह्मणम् , इति । दुःनक रोहणमुच्चारणं यस्य शंसनस्य तहरोहणं तद्रोहति शंसेदित्यर्थः । तस्य दूरोहणस्य विधायकं ब्राह्मणं पूर्वमेव विषुवदहमसङ्ग आहूय इरोहण मित्यत्राभिहितम् । अत एव पूर्वाचार्या आहुः

“स्वर्गो वै लोक इत्यादि पूर्व विषुवति क्रतो । दूरोहणब्रामणं तु प्रागवोचाम वै स्फुटम् ॥

सतरूपा इंसवती दूरोहणमितीरितम्” इति । इसवतीत्या) पच्छोऽर्धर्चत्रिपद्योऽनवानं पुनरपि त्रिपद्या ऋक्यो ( पाशा पच्छ इति सप्तभिः प्रकारैः पठनमिति दूरोहणम् । तदेतत्पूर्व वार्यसूकेऽमिहितम् ।

इदानी फलविशेषायैन्द्रे सूक्ते तद्विषते

ऐन्द्रे पशुकामस्य रोहेदैन्द्रा वै पशवः, इति । इन्द्रदेवताके कस्मिंश्रित्सूक्ते पशुमाप्त्यर्थं दूरोहणं रोहेच्छसेत् । इन्द्रस्य दृष्टिद्वारा पशुपोषकत्वात्पनर ऐन्द्राः।

.111

.

७५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोन िध्याये

तस्मिन्सूक्ते छन्दोविशेषं विधत्ते

तजागतं स्याजागता वै पशवः, इति । सोमाहरणप्रसङ्गे जगत्या पशूनामानीतत्वाजागतम् । तस्य सूक्तस्य कचिद्विशेष विधत्ते

तन्महासूक्तं स्याडूयिष्ठेष्वेव तत्प

शुषु यजमानं प्रतिष्ठापयति, इति । द्विविधं सूक्तं क्षुद्रं महत्व । अत एवाऽऽरण्यकाण्डे वक्ष्यवि-ते क्षुद्रसूका थाभवन्महासूक्ताश्चेति । महासूक्तलक्षणं पूर्वाचार्यैरुक्तम्

“दशर्चताया अधिक महासक्तं विदुर्बुधाः” इति । तेन महासूक्तेन भूयिष्ठेष्वत्यन्तं प्रभूतेष्वेव पशुषु यजमान प्रतिष्ठापयति । विवक्षितं सूक्तविशेषं दर्शयति

बरौ रोहेत्तन्महासूक्तं च जागतं च, इति । बरु म कश्चिन्महर्षिस्तेन दृष्टं सूक्तमपि बरुशब्देनोच्यते । तस्मिन्सूक्ते रोहेत, रोहणं शंसेत् । प्र ते मह इत्यादिकं वरुनामकं सूक्तम् । तच त्रयोदशवा न्महासूक्तं जगतीछन्दस्कं च ।

फलान्तराय सूक्तान्तरं विधचे

ऐन्द्रावरुणे प्रतिष्ठाकामस्य रोहेदेतद्देवता वा एषा हो।तत्प्रतिष्ठा यदैन्द्रावरुणा तदेनत्स्वा

यामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयति, इति । यथा पशुकामस्य सप्तरूपहंसवत्यात्मकं दूरोहणमैन्द्रे सूक्ते रोहेत्तथैव पति टाकामस्यैन्द्रावरुणके मूक्ते शंसेत् । शंसितुमैत्रावरुणस्य होत्रकस्य क्रिया होत्रा । एषा चैतद्देवताका । एतत्मतिष्ठा । इन्द्रावरुणदेवताकसमातियुका। यस्मादैन्द्रावरुणा याज्येति शेषः । इन्द्रावरुणा मधुमत्तमस्येति याज्याया इन्द्रा वरुणदेवताकत्वात्समातेरिन्द्रावरुणसंबन्धः । तथा सत्सेतरोहणं स्वायामेव प्रतिष्ठायां स्वस्योचिता या]मेव समाप्तावन्ततः शस्त्रान्ते प्रतिष्ठापयति ।

पुनरपि सूक्तं प्रशंसति

यदेवेन्द्रावरुणा३इ, एषा ह वा अत्र निवि निविदा वै कामा आप्यन्ते स यद्येन्द्रावन१० दशमः खण्डः] . ऐतरेयबामणम् ।

रुणे रोहेत्सौपर्णे रोहेत्तदुपाप्त ऐन्द्रावरुणे

काम उपाप्तः सौपर्णे ॥ २५ ॥ इति । यद्यस्मात्कारणादैन्द्रावरुणे सूक्ते दूरोहणं रोहति तस्मात्स्वायामेव मति. छायामिति पूर्वप्रान्वयः । यद्वा । ऐन्द्रावरुणे सूक्ते दूरोहणमिति यदस्त्येषेव रोहणक्रियाऽत्र निवित् । इवशब्दोऽत्र लुप्तो द्रष्टव्यः । निवित्सरशीत्यर्थः। क्या च दूरोहणरूपया निविदा सर्वे कामाः पाप्यन्ते । सौपणे सूक्ते दूरोहणं रोहेदिति पक्षान्तरं खिलेषु समानातम् । इमानि वां भागधेयानीति सूक्तं सौपर्णम् ।

___ “इमानि वेति सप्तर्च सौपर्ण खैलिकं विदुः” इति । पदा प्रधारा यन्त्विति गृह्योक्तसूक्तं सौपर्णम् । ऐन्द्रावरुणे सौपणे वा रो हणशंसनेन तत्रोभयत्र या कामः संभावितः स उपमासो भवति ॥ .. इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण

भाष्य एकोनविंशाध्याये नवमः खण्डः ॥९॥ (२५) [११२]

अत्र कंचिद्विचारमुद्भावयति

तदाहुः संशंसे३षष्ठेऽहाइन्, न संशंसेश्व, इति । तचत्र सौपर्णे दूरोहणे शस्ते सति पश्चामवादिनो विचारमाहुः। यान्यै काहिकानि तदूर्ध्वं शंसनीयानि सन्ति तान्यत्र षष्ठेऽहन्यत्रयैः संभूय किं शंसेतिक वा संभूय न शंसेदिति विचारः। प्ठतिर्विचारार्था ।

वत्र प्रथमं पक्षं दर्शयति

संशंसेदित्याहुः, इति । संभूय शंसेदित्येवं केचिचाझिका इत्या(आ)हुः । तत्रोपपतिं पृच्छति

कथम् , इति । उत्तरमाह

अन्येष्वहःसु संशंसति कथमत्र न संशंसेदिति, इति । इतरेषु पञ्चखहासु मैत्रावरुणः संभूय शंसति । तथा सत्यहासामान्याद प्रापि कथं न संशंसेन, तत्परित्यागो न युक्तः किंतु तदनुष्ठानमेव युक्तमित्येका पक्षः।

Rigolzen in Google

फ११ शत

७६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनत्रि घ्यावे

पक्षान्तरं दर्शयति

अथो खल्वाहु व संशंसेद, इति । अहरन्तरवत्संभूय शंसनं न कर्तव्यमित्यपरे कथयन्ति । वोपपचिमाह

स्वर्गों वै लोकः षष्ठमहरसमायी वै स्वर्गो लोका कश्चिदै स्वर्ग लोके समेतीति स यत्संशंसेत्समानं तत्कुर्यादथ यन्न संशंसती तत्स्वर्गस्य लोकस्य

रूपं तस्मात्र संशंसेधदेव न संशंसती, इति । यदिदं षष्ठमहस्वदेतत्स्वर्गलोक एवं प्रयोगबाहुल्येन दुःखसापनत्वात् । तदेवासमायीत्यादिना स्पष्टी क्रियते । बहुभिः संभूतैरेतुं गन्तुं योग्यः समायी। इण्णतावित्यस्मादातोरयं शन्दो निष्पमः। उक्तविपरीतो बहुमिर्गन्तुमशक्योऽ. समायी । ताशो हि खर्गो लोकः कश्चिदेव पुण्यकृत्स्वर्ग लोकं समेति समी चीनं भोग प्रामोति न तु सर्वः स्वर्गहेतोः पुण्यस्य दुर्लभत्वात् । एवं सवि मैत्रावरुणो यदि षष्ठेऽहनि शिल्पेनान्यानि सूक्तानि संभूय शंसेचदानीमीर स्वर्गरूपमुत्तमं षष्टमहरितरैरहोमिः समानं कुर्यात् । तेषु शंसनीयानामस्मिमपि शंसनात् । भय तदैपरीत्येन यदि षष्ठेऽहनि न संशंसति । पूजार्या मुतिः। तदेतदसंबंसनं स्वर्गलोकरूपत्वात्पूज्यम् । तस्मात्संभूय न शंसेत् । न संवं. सतीति यदेवास्ति तदेवातिपूज्यम् । पूजार्थेयं प्लुतिः।

इत्यं द्वितीयपक्षमुपपाय पुनरपि प्रथमपक्षे दोषान्तरमाह

आत्मा वै स्तोत्रियः प्राणा वालखिल्याः स यत्संशंसेदेताभ्यां देवताभ्यां यजमानस्य प्राणा न्चीयाय एनं तत्र ब्रूयादेताभ्यां देवताभ्यां यजमानस्य प्राणान्व्यगात्माण एनं हास्य

तीति शश्वत्तथा स्यात्तस्मान संशंसेव , इति । अत्र संशंसनवादी प्रष्टव्यः किं चालखिल्याभ्यः पूर्वमैकाहिकस्य सनं किंवोपरिष्ठादिति । तत्र प्रथमपक्षे दूषणमुच्यते । योऽयमत्र शिल्पयंसने स्वोमियः सामसाध्यस्य स्तोत्रस्याऽऽधारभूतस्यूचोऽस्ति सोऽयमात्मा के जीवस्थानीय एव वालखिल्या ऋचः माणस्थानीयाः । तथा सति स मैत्राक

.

एव तस्या

१० दशमः खण्डः] ऐतरेयबामणम् । रुको यदि संशंसेत्तदानीमेताभ्यामिन्द्रावरुणदेवताम्यां यजमानस्य स्तोत्रिय स्थानीयस्य माणान्वालखिल्यस्थानीयान्वीयाद्विगतान्कुर्यात् । इन्द्रावरुणौ कुदी यजमानस्य प्राणान्विनाशयेताम् । एवं सति यः कश्चिन्मत्रावरुणस्य विरोधी समागत्यैनं मैत्रावरुणं तत्र तस्मिन्संशंसने ध्याच्छपेत् । केन प्रकारेणेति तदुच्यते । एताभ्यामिन्द्रावरुणदेवताभ्यां यजमानस्य प्राणानसौ मैत्रावरुणो व्यगाद्विगतान्कृतवान् । तस्मात्माण एनं मैत्रावरुणं यजमानं वा हास्यति परि. त्यजतीति । तदानीं तस्य शापेन शश्वदवश्यं तथा स्यात्माणवियोगो भवेत् । तस्मान्मत्रावरुणो न संशंसेत् ।।

एवं घालखिल्याभ्यः पूर्व शंसने दोषमभिषायोर्ध्वमपि तच्छंसने दोषमाह

स यदीक्षेताशंसिषं वालखिल्या हन्त पुरस्तादूरोहणस्य संशंसानीति नो

एव तस्याऽऽशामियाव , इति । .. स मैत्रावरुणो यदि मनस्येवमीक्षते विचारयेत् । कथमिति तदुच्यते । पालखिल्या अत्यन्तं दुःसाध्या अहमशंसिर्फ शंसितवानस्मि । इन्त मम हर्षः संपन इतःपरं दूरोहणस्य पुरस्तादेकाहिकं संभूय शंसानीति । तदानीं तस्य शंसनस्य पूर्ववत्माणवियोगहेतुत्वात्तस्य पक्षस्वाऽऽशामपि नो एवेयात्सर्वथा न मामुयादेव । मानसो विचारोऽपि न कर्तव्यः । दूरे तत्संशंसनमित्यर्थः ।

इदानीं स्थानविशेषेण तत्संशंसनमङ्गी करोति

तं यदि दर्प एव विन्देदुपरिष्टादूरोहण स्यापि बहूनि शतानि शंसेद्यस्यो तत्का

माय तथा कुर्यादत्रैव तदुपाप्तम् , इति । सं मैत्रावरुणो(ण) यदि दर्प एव विन्देद्गोऽवश्यं लभेत । अत्यन्त दुशंस शिल्पमहमशंसिर्फ किं नाम मया शंसितुमशक्यमित्येतादृशो दर्पः । तदानी तस्य मैत्रावरुणस्यौत्सुक्यानुसारेण दूरोहणस्योपरिष्टादहून्यपि शस्त्राणां शतानि शंसेत् । अस्त्येव तदानीं शंसनस्यानुसा यस्यो यस्यैव फलस्य कामाय प्राप्तये सबहुविषशंसनमत्रैव स्थाने तथा कुर्यात्तत्फलमुपाप्तं प्राप्तं भवति । एवं ताव देकाहिकानां सूक्तानामशंसनं शंसनं वेति पक्षद्वयमप्यभिहितं भवति ।

१. तत्संशंस। Preglen in Google

७६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९एकोनत्रि ध्याये

तत्र कस्य अंसनमङ्गीकृत कस्य वा निषिद्धमित्यपेक्षायामुभयं विविच्य दर्शयति

ऐन्द्रयो वालखिल्यास्तासां हादशाक्षराणि पदानि तत्र स काम उपाप्तो य ऐन्द्रे जागतेऽथेदमैन्द्रावरुणं

सूक्तमैन्द्रावरुणी परिधानीया तस्मान संशंसेव, इति । चर्षणीधृतमित्यादिकं यदेतदैन्द्र सूक्तमैकाहिक तदेतंभिराकृत्य यत्सूक्तान्त. रमावां राजानावित्यैन्द्रावरुणमैकाहिकं तदही क्रियते । या वालखिल्या ऋचस्ता ऐन्य इन्द्रदेवताकास्तासां मध्ये यानि द्वादशाक्षराणि पदानि पादा विद्यन्ते बृहतीसतोबृहतीद्वयात्मकेषु भगायेषु बृहत्यास्तृतीयपादौ द्वौ द्वादशा सरौ सतोबृहत्या आधस्तृतीयश्चोभौ पादौ द्वादशाक्षरौ तेषां पादानामार संख्यया जागतत्वमस्ति । एवं सत्यैकाहिके जागते चर्षणीधृतमित्यस्मिन्द्रे सूक्ते यः कामोऽपेक्षितः स कामस्तत्र तेष्विन्द्रदेवताकवालखिल्यागतेषु द्वादशा सरपादेषूपातो लग्यो भवति । तस्माश्चर्षणीतमित्येतदैकाहिकमैन्द्रं सूक्तमत्र परित्याज्यमावां राजानावित्येतदैन्द्रावरुणं सूक्तं तत्रेयमिन्द्रं वरुणमिति परि घानीयाऽप्यन्द्रवा(न्द्राव)रुणी। तथा सत्येतस्य सूक्तस्यानुकूलतया तदेव शंसेत् । तस्मादन्यत्र संशंसेत् । अन्यशब्दोऽत्राध्याहर्तव्यः । अत एव सूत्रकार ऐन्द्रावरुणं सूक्तमही चकार । आवां राजानाविति नित्यमैकाहिकमिति । इत्वं शिल्पाख्यं शस्त्रं व्यवस्थाप्य तस्योपरि मूक्तान्तरमप्यङ्गीकृतम् । इदानीं शस्त्रमेवोपजीव्य स्तोत्रे कंचिद्विचारमुद्भावयति

तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं विहता वालखिल्याः शस्यन्ते विहृतांति)स्तो

त्रा३म्, अविहृता३म्, इति, इति । स्तोत्रशस्त्रयोः सादृश्यस्यापेक्षितत्वाच्छस्नगतासु वालखिल्यनामिकास्वर विहरणं दृष्ट्वा सामगानां स्तोत्रेऽपि संशयो जायते किमिदं स्तोत्रं विहतमाहो स्विदविहृतमिति । लुतिद्वयं विचारार्थम् ।

तस्मिन्विचारे निर्णयमाह

विहृतमिति ब्रूयादृष्टाक्षरेण द्वादशाक्षरमिति, इति ।

१ क. ख. ट, तस्मिन्नि । shrite boy Genogle

१० दशमः खण्डः] . ऐतरेयबामणम् ।

७५३ अमे त्वं नो अन्तम इत्यादिषु द्विपदासु सामगाः स्तुवते । तत्र चाऽऽद्याः पादा अष्टाक्षरा द्वितीयाः पादा द्वादशाक्षराः। एवं तत्र च्छन्दो विहतमि त्युत्तरं घूयात् ।

अथ शस्त्रमुपजीव्य याज्यायां चोचमुद्भावयति

तदाहुर्यथा वाव शस्त्रमेवं याज्या तिस्रो देवताः शस्यन्तेऽमिरिन्द्रो वरुण इत्यथैन्द्राव

रुण्या यजति कथमनिरनन्तरित इति, इति । तत्तत्र शस्त्रयाज्यायां चोधमाहुः । शस्त्रस्य तदीययाज्यायाश्च सादृश्यमपे सितम् । शस्त्रे च तिस्रो देवताः शस्यन्तेऽमिरिन्द्रो वरुणश्चेति । तत्र स्तोत्रि यानुरूपयोरभिर्देवता । वालखिल्यास्विन्द्रो देवता । आवां राजानाविति सूक्त इन्द्रो वरुणश्च । एवं सति याज्यायामपि देवतात्रयमपेक्षितम् । ततु नास्ति । इन्द्रावरुणा मधुमत्तमस्येति याज्यायामिन्द्रावरुणयोरुभयोरपि प्रतिपादितत्वे. नामे परित्यक्तत्वात् । कथमत्राधिरनन्तरितोऽपरित्यक्तो भवेदिति चोघम् ।

तस्योत्तरमाह

योवा अनिःस वरुणस्तदप्येतषिणोक्तं खममे वरुणो जायसे यदिति तद्यदेवैन्द्रावरुण्या यजति

तेनाग्निरनन्तरितोऽनन्तरितः ॥ २६ ॥ इति ।

• अभिवरुणयोरत्यन्तभेदो नास्ति परस्परमतिप्रियत्वेनैकत्वोपचारात् । तदेक स्वमृपिणा मत्रेणाप्युक्तम् । त्वमम इत्यादिको मत्रः । हेऽने त्वं वरुणो भूत्वा जायसे प्रादुर्भवसीति मन्त्रार्थः। तथा सत्येन्द्रावरुण्या यजतीति यदेवास्ति तेनार्वरुण एवान्तर्भावादयममिरनन्तरितोऽपरित्यक्तः । अभ्यासोऽध्यायस माप्त्यर्थः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयबामण भाष्य एकोनत्रिंशाध्याये दशमः खण्डः ॥ १०॥ (२६) [११३] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाना ,

ज्यधुरंधरसायणाचार्यकृतावैतरेयबामणभाष्य एकोनत्रिंशोऽध्यायः ॥२९॥

pislizes in Google

७६४