२८

अथाष्टाविंशोऽध्यायः।

प्रातःसवने होत्रकशखाण्यनुरूपो

यस्मिमेव स्तुवते(१) स्तोत्रिय एषः ॥ आरम्भाधा आहवनीयाः परिपाया

वृद्ध स्तोमे स्यादतिशंसार्थतृचश्च ॥ १॥ अयोमीयमानसूक्तानि विधातुमुपक्रमते

आ खा वहन्तु हरय इति प्रातःसवन उनीयमानेभ्योऽन्वाह वृषण्वतीः पीत

वतीः सुतवतीर्मद्वती रूपसमृद्धाः, इति । यदा चमसा उबीयन्ते सोमेन पर्यन्ते तदानीमध्वर्युणा प्रेषितो मैत्रावरुण था त्वा वहन्त्विति सूक्तमनुश्यात् । तस्मिन्सूक्ते स्थिता ऋचो पशब्देन पीत पन्देन सुतशब्देन मदशन्देन च युक्ताः। तच्च(अ) द्वितीयपादे वृषणं सोमपीतय इति षशन्दपीतशब्दो विद्यते । चतुामाचे सुते हि त्वा हवामह इति भवणात्मुतशन्दो विद्यते । अष्टमायामचीन्द्रो मदाय गच्छतीति मदशब्दो

आ त्वा वहन्तु हरयः०-१-१६-१।

1601111447

७०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२(अष्टाविंशाध्याये विद्यते। यद्यप्येते शब्दाः सर्वास्नु न सन्ति तथाऽपि कचिच्छ्वणात्सर्वा अपि पछप्रिन्यायेन तैः शन्दैर्युक्ता भवन्ति । वर्षणसम इन्द्रः सोमं पीत्वा माधवीत्य. स्यार्थस्योक्तशब्दचतुष्टयेन प्रतीयमानत्वाद्विवक्षितार्यानुकूल्येन रूपसमृदस्वम् ।

देवताद्वारा ता ऋचा प्रशंसति

ऐन्द्रीरन्वाहैन्द्रो वे यज्ञः, इति । इन्द्र वा सूरचक्षस इन्द्र सुखतमे रय इति श्रवणादिन्द्रदेवताका ऋषः सोमयागोन्द्रदेवताकोऽतस्तत्र ता युज्यन्ते ।

छन्दोद्वारा प्रशंसति

गायत्रीरन्वाह गायत्रं वै प्रातःसवनम्, इति । मातासवनस्य गायत्रीछन्दस्कत्वाचच्छन्दस्का ऋचस्तत्र योग्या। ऋक्संख्याद्वारा प्रशंसति

नव न्यूनाः प्रातःसवनेऽन्वाह

__ न्यूने वै रेतः सिच्यते, इति । माध्यंदिनसक्ने दशसंख्याका वक्ष्यन्ते ता संख्यामपेक्ष्यात्र या नवसंख्या कास्ता एकपर्चा न्यूनाः । लोकेऽपि न्यूने स्वल्पे गर्भधारणस्थाने रेतः सिच्य तेऽतो न्यूनत्वमत्र युक्तम् ।

अथ माध्यंदिने सवनेऽसावि देवं गोऋजीकमन्ध इत्येतत्सूक्तगता दस ख्याका ऋचो विधत्ते

दश मध्यंदिनेऽन्वाह न्यूने वै रेतः सिक्तं

मध्यं त्रिय प्राप्य स्थविष्ठं भवति, इति । लोके स्वल्पे गर्भस्थाने सिक्तं रेतः स्त्रीभरीरस्य मध्यस्थान प्राप्य गर्भ रूपेण स्थविष्ठमतिस्थूलं भवति । अतो रेत सेकस्थानीयाया अत्र गर्भस्थानी पसंख्याधिक्यं युक्तम् ।

• तृतीयसवन इहोप यात शवसो नपात इत्येतत्सूक्तगता नवसंख्याका ऋचो विषचे

नव न्यूनास्तृतीयसक्नेऽन्वाह न्यूनादै प्रजाः प्रजायन्ते, इति ।

१स.. ट. ‘ति । मध्यं ।।

1601111447

. १ प्रथमः खण्डः] ऐतरेयनामणम् ।

पूर्ववाशसंख्यापेक्षयाऽत्र न्यूनत्वम् । लोके हि न्यूनादल्यायोनिद्वारात्मोडा मजा उत्पयन्ते । अतो गर्भोत्पादनार्थ मचन्यूनत्वं युक्तम् । एतेषु मूतेषु मत दयमस्ति संपूर्णसूक्तानुवचनमित्येक मतम् । प्रतिसूक्तं समानामेव मनुवचन मिति द्वितीयं मतम् ।

वत्र प्रथमं पतं प्रशंसति

तद्यदेतानि केवलसूक्तान्यन्वाह यजमानमेव

तदर्भ मूतं प्रजनयति यज्ञादेवयोन्य, इति । केवलशन्दः संपूर्णवाची । तदनुवचनेन संपूर्णगर्भ प्राप्तं यजमानमेव यार. पारेवयोन्यै देवसंबन्धियोनिस्थानादुत्पादयति । अतः संपूर्णानुवचनं युक्तम् ।

द्वितीय मतं दर्शयति

ते हैके सप्त सप्लान्याहुः सप्त प्रातःसवने सप्त माध्यं दिने सप्त तृतीयसवने यावत्यो वै पुरोनुवाक्यास्ता वत्यो याज्याः सप्त वै प्राञ्चो यजन्ति सप्त वषट् कुर्वन्ति तासामेता पुरोनुवाक्या इति वदन्तः, इति । ते प्रसिद्धा ऋत्विज एके केचित्तत्तयनेषु यथोक्तसूक्तगता ऋचः प्रतिसूक्तं समसंख्याका एवान्वाहुन तु संपूर्णसूक्तानि । तस्यैव व्याख्यानं सप्त मातःस पन इत्यादि । यावत्य इत्यादिना तदीया युक्तिरुच्यते । पुरोनुवाक्यानां याज्यानां च संख्या प्रायेण समानैव दृश्यते । तथा सत्यत्र समसंख्याका ऋत्विजो होता मैत्रावरुणो ब्राह्मणाच्छंसी नेष्टा पोताऽऽनीधोऽच्छावाकवेत्येते पावसा यजन्ति याज्याः पठन्ति । तस्यैव व्याख्यानं सस वपदकुर्वन्तीति । तासां समभिः पठ्यमानानां याज्यानां ताः सूक्तगताः सनसंख्याका ऋचः पुरोनुवाक्या भवन्तीत्येके ताशी युक्तिं वदन्तः सप्त सप्तावाहुरित्यन्वयः।

वदिदं मतं दूषयति

तत्तथा न कुर्याद्यजमानस्य ह ते रेतो विलुम्प न्यथो यजमानमेव यजमानो हि मूक्तम्, इति ।

सप्त सप्तति यन्मतं तत्तया न कुर्यात् । ते सप्तसंख्यावादिनः संपूर्ण सक्ता

· भावायजमानस्य प्रजोत्पादकं रेतो विनाशयन्ति । अथो अपि च यजमानमेव १ क. स.अ. नवमि ।

perties in Google

७.४ भीमरसायणाचार्यविरचितभाष्यसमेतम्-[२(अष्टाविंशाध्याये-. विनाशयन्ति । मुक्तस्य यजमानरूपत्वेन संपूर्णसूक्तविलोप एवं यजमान विलोपः।

परमते दोष दर्शयित्वा स्वमते गुणं दर्शयति

नवभिर्वा एतं मैत्रावरुणोऽस्माल्लोकादन्त रिक्षलोकमभिप्रवहति दशभिरन्तरिक्षलाको. दमुं लोकमभ्यन्तरिक्षलोको हि ज्येष्ठो नव

भिरमुष्माल्लोकात्स्वर्ग लोकमभि, इति । प्रथमसूक्तगताभिर्नवभिक्रग्भिरेतं यजमानं भूलोकादन्तरिक्षलोकममिलक्ष्य नयति । द्वितीयसूक्तगताभिर्दशभिर्ऋग्भिरन्तरिक्षलोकादमुं लोकं नाकपृष्ठाख्यं लोकमभिलक्ष्य नयति । अन्तरिक्षस्य यः समीपवर्ती स्वर्गाभासो नाकपृष्ठाख्यो लोकः स च प्रवृदादन्तरिक्षाज्ज्येष्ठोऽतिपदस्तं दशभिः प्राप्य तस्मानाकप. पाख्यादयुष्मात्स्वर्गाल्लोकादुपरितनं बहुभोगयुक्तं स्वर्ग. लोकं तृतीयसूक्तगवा. भिर्नवभिग्भिर्यजमानमभिवहति ।

स्वमते गुणान्दयित्वा तदाहित्यं परमते दर्शयति

न ह वै ते यजमानं स्वर्ग लोकमभि

वोहळुमर्हन्ति ये सप्त सप्तान्याहुः, इति । ये पूर्वपक्षिणः प्रतिसूक्तं समसंख्याका एवान्बाहुस्ते संख्यान्यूनत्वात्पूर्वो करीत्या स्वर्ग प्रति यजमानं वोहळु नाईन्ति ।

स्वमतं निगमयति

तस्मात्केवलश एव सूक्तान्यनुब्रूयात् ॥ ९॥ इति । केवलश: प्रतिसूक्तं संपूर्णमेवेत्यर्थः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण

भाष्येऽष्टाविंशाध्याये प्रथमः खण्डः ॥१॥ (९) [१९६]

.

— …..–.—-.—.–..

.

..

-..

  • … -.-

अथ प्रस्थितयाज्याविषयं चोद्यमुद्भावयति

अथाऽऽह यदैन्द्रो वै यज्ञोऽथ कस्माद्दा वेव प्रातःसवने प्रस्थितानां प्रत्यक्षादै न्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी

desire on Google

LIFE

२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

चेदं ते सोम्यं मध्विति होता यजतीन्द्र वा वृषभं वयमिति ब्राह्मणाच्छंसी नानादे

वस्याभिरितरे कथं तेषामैन्धो भवन्तीति, इति । अयोनीयमानसूक्तनिर्णयानन्तरं कश्चिद्रलवादी चोद्यमाह। यस्मात्कारणा घा ऐन्द्रो वा इन्द्रदेवताक एव । तथैवं सति सर्वेषामुत्विभामिन्द्रदेवताका एव याज्या अपेक्षिताः । अत्र तु प्रस्थितसोमानां यागे मातःसंवनकालीने होतृवामणाच्छंसिनी द्वावेव प्रत्यक्षाच्छ्रोत्रप्रत्यक्षेण वा श्रूयमाणाभ्यामिन्द्रदे. बताकाभ्यामुग्भ्यां यजतो न वितरे । इदं ते सोम्यमिति होतुर्याज्या। तस्या स्तृतीयपादे जुषाण इन्द्रेति प्रत्यक्ष एवेन्द्रशन्दा भूयते । इन्द्र त्वा वृषभं वय मिति ब्रामणाच्छसिनो याज्या। तत्र स्पष्ट एवेन्द्रशब्दः । इतरे पचत्विको नानादेवत्याभिरिभर्यजन्ति । तेषामृत्विजां ता ऋचः कयमिन्द्रदेवताका भवन्तीति चोधम् ।

तत्र पञ्चानामुविजां याज्यास्विन्द्रदेवताकत्वं संपादनीयं तत्रैकस्या याज्यायां तत्संपादयति

मित्रं वयं हवामह इति मैत्रावरुणो यजति वरुणं सोमपीतय इति य? किंच पीतव

त्पदं तदैन्द्रं रूपं तेनेन्द्रं प्रीणाति, इति । मैत्रावरुणस्य मित्रं वयमिति येयं याज्या तस्यां वरुणमित्यादिकं द्वितीय: पादे पीतवत्पिबतिधातुयुक्तं यत्किंचित्पदमस्ति तदिन्द्रसंबन्धि रूपमिन्द्रस्य सोमपानमियत्वाद । तेन हि पीतवत्पदेनेन्द्रं परितोषयति ।

पोतुर्याज्याया ऐन्द्रत्वं दर्शयति

मरुतो यस्य हि क्षय इति पोता यजति स सुगोपातमो जन इतीन्द्रो वै गोपा

स्तदैन्द्रं रूपं तेनेन्द्रं प्रीणाति, इति । मस्त इत्यस्यां याज्यायां तृतीयपादे गोपाशब्देनेन्द्रोऽभिधीयते । गोप्तृत्वं रक्षकत्वमिन्द्रसंबन्धि रूपं तेनेन्द्रस्य प्रीतिः ।

इदं ते सोम्यं मधु०-८-६६-८ । इन्द्र त्वा वृषभं वयं -३-४०-१ । मित्रं वयं हवामहे०-१-२३-४ । मरुतो यस्य हि सये०-१-८६-१।

७०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२८अष्टाविंशाध्याये

नेपुर्याज्याया ऐन्द्रत्वं संपादयति

अने पत्नीरिहाऽऽवहेति नेष्टा यजति खष्टारं सोमपीतय इतीन्द्रो वै त्वष्टा

तदैन्द्रं रूपं तनेन्द्रं प्रीणाति, इति । अमे पत्नीरित्यस्या याज्यापास्तृतीयपादे यस्त्वष्टा स एवेन्द्रः । शर्मा तनूकरणादिन्द्रस्य त्वतृत्वम् ।

आमीभ्रस्य याज्याया ऐन्द्रत्वं संपादयति उक्षानाय वशानायेयानीघ्रो यजति सोमपृष्ठाय वेधस इतीन्द्रो वै वेधास्तदैन्द्रं रूप तेनेन्द्रं प्रीणाति, इति । उक्षामायेति याज्याया द्वितीयपादे यो वेषाः स एवेन्द्र इन्द्रस्य जगमवस्था विधायकत्वेन वेधाशब्दवाच्यत्वात् ।

अच्छावाकस्य याज्याया ऐन्द्रत्वं संपादयति

प्रातर्यावभिरागतं देवेभिर्जेन्यावसू । इन्द्रामी

सोमपीतय इति स्वयं समृद्वाऽच्छावाकस्य, इति । हे इन्द्रामी जेन्यावसू जेन्यं जेतव्यं वसु धनं ययोस्तौ ताशौ भूत्वा मात विभिः प्रातःसवनगामिभिर्देवेभिर्देवैः सह सोमपीतये सोमपानार्यमागतमाग च्छतम् । अस्यामचीन्द्रामी(मि)श्रवणेऽपीन्द्रशन्दस्य प्रत्यक्षस्य विधमानत्वात्स्व यमेवेन्द्रत्वाय समृद्धा संपूर्णा न स्वैन्द्रत्वं संपादनीयमस्ति ।

ऋचा संपादितमैन्द्रत्वं निगमयति

एवमु हैता ऐन्यो भवन्ति, इति । तास्वृक्षु देवतान्तरपीति दर्शयति

यनानादेवत्यास्तेनान्या देवताः प्रीणाति, इति । मित्रावरुणौ मरुतोऽनिर्वेधा इन्द्रानी इत्येताभिर्नानादेवताभिर्युका ऋच इति यदस्ति तेनेन्द्रव्यतिरिक्ता देवतास्तोषयति ।

तत्रत्यं छन्दः प्रशंसति

यदु गायव्यस्तेनाऽऽग्नेय्यः, इति । भन्ने पत्नीरिहाऽऽवह .–१-२२-९। उक्षान्नाय वशानाय०-८-१३-११॥ प्रातर्यावमिरागतं०-८-३९-७ ॥

legizes in Google

३ तृतीयः खण्डः] ऐतरेयबामणम् ।

७०७ अभिगायत्र्योः प्रजापतिमुखजत्वसंबन्धाद्वायत्रीछन्दसा तासामग्निदेवता कत्वं संपद्यते।

उक्ती प्रशंसां निगमयति

एतदु हैताभित्रयमुपामोति ॥ १०॥ इति । एताभिरिभरेतदु ह पूर्वोक्तमेव त्रयं त्रिविषदेवतासंबन्धलं पामोति । तत्र तत्र प्रतीयमाननानाविधदेवताकत्वं पूर्वोक्तरीत्या संपादितमैन्द्रत्वं गायत्रीद्वारे गाऽऽयत्वं चेति त्रयं वेदितव्यम् ।।

इति श्रीमत्सायणाचार्यविरचिते माझ्यीये वेदार्थप्रकाश ऐतरेयबाम

भाष्येऽष्टाविंशाध्याये द्वितीयः खण्डः ॥२॥(१०) [१९७] अय माध्यंदिन उत्रीयमानसूक्तं विधत्ते

असावि देवं गोऋजीकमन्ध इति मध्ये दिन उत्रीयमानेभ्योऽन्वाह वृषण्वतीः पीत.

वतीः सुतवतीर्मद्वती रूपसमृद्धाः, इति । माध्यंदिने सक्नेऽध्वर्युगा प्रेषितोऽसावि देवमित्यादिकं सूक्तमनुश्रूयात् । तत्रत्या ऋचो वृषपीतसुतमदशन्दोपेताः पूर्वत्र दश मध्यंदिनेऽन्वाहेति संख्यै. बोका न तु मूक्तं दर्शितम् । अत्र त्वसावि देवमिति सूक्तं प्रदर्श्यते । अस्य मुक्तस्य द्वितीयस्याचि दृषणो नृषाच इति वृषण्वच्छब्दः श्रुतस्तृतीयस्या मचि रथ्यो न धेनेति धेनाशब्दः पिबतिधात्वर्थः । तेन पीतवत्वम् । घेदपाने इति हि धातुः । असावीति सुनोतिधातोः श्रूयमाणत्वात्सुतवचम् । प्रथमाया ऋचोऽवसानेऽन्धसो मदेष्विति महवं श्रुतम् । रूपसमृदत्वं पूर्ववद्योज्यम् ।

देवताद्वारा छन्दोद्वारा च ता ऋचः प्रशंसति

ऐन्द्रीरन्याहैन्द्रो वै यज्ञस्त्रिष्टुभोऽन्वाह

त्रैष्टुभं वै माध्यंदिन सवनम्, इति । द्वितीयपादेऽन्यस्मिनिन्द्र इति श्रवणादैन्द्रत्वम् । एवमृगन्तरेष्वप्युदाहरणी. यम् । माध्यंदिनसवनस्य त्रैष्टुभत्वं प्रसिद्धम् ।

मदतीरिति यदुक्तं तस्याऽऽक्षेपमुद्भावयति

तदाहुर्यत्तृतीयसवनस्यैव रूपं मह

असावि देवं गोभीकमन्धः-७-२१-१ Leaks foogle

७०८

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२८अष्टाविंशाध्याये दथ कस्मान्मध्यंदिने महतीरनु

चाऽऽह यजन्ति चाऽऽभिरिति, इति । तृतीयसवने सर्वेषां देवानां सोमपानादूर्व हर्षसंभवान्मद्वत्त्वं तृतीयसवन स्यैव रूपम् । तथा सति मध्यंदिने सबने मदतीनासचामनुवचनमाभिर्मदती भिर्यजनं च कस्मात्कारणादिति चोधम् ।

तस्योत्सरमाह

माधन्तीव वै मध्यंदिने देवताः समेव तृतीयसवने मादयन्ते तस्मान्मध्यंदिने

महतीरनु चाऽऽह यजन्ति चाऽऽभिः, इति । माध्यंदिने सवनेऽपि देवानां सोमपानसद्भावाता माधन्त्येव तृतीयसबने तु निरवशेषाणां देवानां सोमपानसंपत्या संमादयन्ते संभूय हृष्यन्तीत्येतावा नेव विशेषः । तस्मान्मादस्य हर्षस्य मध्यंदिनसबनेऽपि सद्भावाचत्र मदती. क्रंचो मैत्रावरुणोऽन्वाह । होत्रादयश्च सत्विज आभिर्मदतीमिर्यजन्ति ।

अथ ताः प्रस्थितयाज्या विषत्ते

ते वै खलु सर्व एव माध्यदिने प्रस्थि

तानां प्रत्यक्षादेन्द्रीभिर्यजन्ति, इति । . ते होत्रादयः सप्तत्विजः सर्वेऽपि माध्यंदिने सवने प्रस्थितसोमानां संवन्धि नीभिः प्रत्यक्षात्मत्यक्षेण पठ्यमानेनैवेन्द्रशब्देन भयुक्ताभिरिन्द्रदेवताकानि क्रम्भिर्यजेयुः । तेषु सप्तस्वस्विक्षु मध्ये होतृमैत्रावरुणब्रामणाच्छसिना प्रयाणां संबन्धिनीषु वाज्यासु न केवलमैन्द्रत्वं किंतु अभितृण्णवत्वमापीत्य] परं विशेष दर्शयति

अभितृण्णवतीमिरेके, इति । अभिपूर्वस्य तृदिधातो रूपं यास्वस्ति ता अभितृष्णवत्यः । तत्र होतुर्याज्यां दर्शयति पिबा सोममभि यमुन तर्द इति होता यजति, इति ।

पिबा सोमममि यमुग्र०-६-१७-१।।

.

.

… .

१ स. इ. ‘ति । मध्य ।

easiest

s

ogic.३ तृतीयः खण्डः] ऐतरेयबामणम् ।

७०९ तत्राभिशब्दस्य तर्दशब्दस्य [च] विद्यमानत्वादभितृण्णवत्वम् । मैत्रावरुणस्य याज्यां दर्शयति

स ई पाहि य ऋजीषी तस्त्र

इति मैत्रावरुणो यजति, इति । सई पाहीत्वस्या ऋचश्चतुर्थे पादेऽभितृन्धि वाजानिति श्रवणादभितृष्ण.

प्रामणाच्छसिनो याज्यां दर्शयति

एवा पाहि प्रत्नथा मन्दतु

खेति ब्राह्मणाच्छंसी यजति, इति। एवा पाहीत्यस्यामूचि चतुर्थपादेमि गा इन्द्र तृन्धीति श्रवणादभितृष्ण वत्त्वम् । एतांस्त्रीऋत्विजोऽभिप्रेत्याभितृण्णवतीभिरेक इत्युक्तम् ।

पोतुर्याज्यां दर्शयति

अर्वाडेहि सोमकामं वाऽऽहुरिति पोता यजति, इति । नेष्टुर्याज्यां दर्शयति

तवायं सोमस्त्वमेद्याडिति नेष्टा यजति, इति । अच्छावाकस्य याज्यां दर्शयति

इन्द्राय सोमाः प्रदिवो विदाना

इत्यच्छावाको यजति, इति । मामीधस्य याज्यां दर्शयति

आपूर्णो अस्य कलशः स्वाहेत्यानीध्रो यजति, इति । उक्तानां सप्तानां याज्यानां मध्ये पिबा सोमं स ई पाटेवा पाहीति तिस्त्र ऋचोऽभितृण्णवत्वेन प्रशंसति

तासामेता अमितृण्णवत्यो भवन्तीन्द्रो वै __सई पाहि य ऋनीषी तरुत्रः०-६-१७-२ । एवा पाहि प्रत्नथा मन्दतु० ६-१७-३ । अर्वाहि सोमकामं त्वाऽऽहुः०-१-१०५-९ । तवायं सोमस्त्वमे. सर्वा०-३-३५-६ । इन्द्राय सोमाः प्रदिवो विदानाः०-३-३६-२।

आपूर्णो अस्य कलशः स्वाहा०-३-३२-१५ ।

presidents in Google

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२८अष्टाविंशाध्याये प्रातःसवने न व्यजयत स एताभिरेव माध्यंदिनं सवनमभ्यतृणधदभ्यतृणत्तस्मादेता

अभितृण्णवत्यो भवन्ति ॥ ११ ॥ इति । अभिपूर्वतर्दन(वृदि)धातुयुक्तत्वादभितृण्णवत्वं यथा भवति तथैव धात्वर्थ संभवादप्यभितृण्णवत्वं द्रष्टव्यम् । कथमेतदिति तदुच्यते । इन्द्रः पुरा प्रातःस. बने समाते सात तावता न व्यजयत विजयं न प्राप्तवान् । मध्यंदिनसव. नस्य गुरुत्वेन गलितत्वात् । तदानीमिन्द्रस्तस्य माध्यंदिनसवनस्य स्थितिसि ध्यर्थं पिबा सोमेत्यादिभिस्तिभित्रग्भिाध्यंदिनसवनमभितः प्रथमतृतीय योर्मध्येऽतृणतर्दनमकरोत्, दृढबन्धेन स्थितिं कृतवानित्यर्थः। तस्माचर्दनस्या र्थस्य युक्तत्वादेतासां तिसणामभितृण्णवत्त्वम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णमाष्पेऽष्टाविंशाध्याये तृतीयः खण्डः ॥३॥ (११) [१९८]

अथ तृतीयसवन उबीयमानसूक्तं विधते

इहोप यात शवसो नपात इति तृतीयसवन उनी यमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः मुतवतीम द्वती रूपसमृद्धास्ता ऐन्द्रार्भव्यो भवन्ति, इति । अध्वर्युगा चमसोनयनकाले प्रेषितो मैत्रावरुण इहोप यातेति सूक्तमनु घूयात् । तत्रत्या ऋचो वृषपीतसुतमदशब्दोपेता आ तक्षत वृषण इति प शब्दः सुषुतस्य पीतिरिति सुनोतिषानुना पिवतिषातुना प. योगोऽनु वो मदास इति मदिधातुयोगः। तत्रत्या ऋच ऐन्द्राव्यः । इन्द्रश्च ऋभवन तासां देवताः सौधन्वना ऋभवो मद(गम)न्त्विन्द्रमिति तत्र श्रवणात् । .

ऋभुदेवताप्रसङ्गेन तृतीयसवनगते पवमानस्तोत्रे किंचिच्चोयमुद्भावयति

तदाहुर्यनाऽऽभवीषु स्तुवतेऽथ कस्मा

दार्भवः पवमान इत्याचक्षत इति, इति । तत्तस्मिऋभुसंबन्धविषये चोचमाहुः। यस्मात्कारणाभुदेवतास्ता साम गास्तृतीयसवने पवमानस्तोत्रेण न स्तुवते किंतु खादिष्ठया मदिष्ठयेत्यन्य

इहोप यात शवसो नपातः०-४-३१-१

.

1601111447

४ चतुर्थः खण्डः ] ऐतरेयबामणम् ।

७११ देवताकास्वेव स्तुवते । अथैवं सति कस्मात्कारणात्पवमानस्तोत्रस्याऽऽर्भवत्व माचक्षत इति चोधम् । वस्योचरमाह

प्रजापतिः पित ऋभून्मयान्सतोऽमान्कृत्वा तृतीयसवन आमजत्तस्मानाऽऽभवीषु स्तुव

तेऽथाऽऽर्भवः पवमान इत्याचक्षते, इति । पुरा प्रजापतिः पिता भूत्वा मान्मनुष्यान्सत ऋभूनमान्देवान्कृत्वा तृतीयसवन आभजद्भागिनोऽकरोत् । तदिदमुपाख्यानमार्भवं शंसतीत्यत्र प्रद शितम् । एवं च सत्यभणां स्तोत्रदेवतात्वाभावादार्भवीष्ठलगातारो न स्तुवते ।

अथाप्यभूणां तृतीयसवनसंबन्धसद्भावातृतीयसवनगतस्य पवमानस्तोत्रस्या प्याभवत्वं व्यवहरन्ति ।

प्रासनिक परिसमाप्य प्रकृत एव सूक्ते चोधमुद्भावयति

अथाऽऽह यद्यथाछन्दसं पूर्वयोः सवनयोरन्वाह गायत्री प्रातःसवने त्रिष्टुभो माध्यंदिनेऽथ कस्मा

जागते सति तृतीयसवने त्रिष्टुभोऽन्वाहेति, इति । उनीयमानसूक्तविधानानन्तरं तत्र कश्चिद्रह्मवादी चोधमाह । यद्यस्मात्का. रणाद्ययाछन्दसं तत्र तत्रोचितं छन्दोऽनतिक्रम्य सवनद्वये गायत्रीखिष्टुभश्च क्रमे णान्वाह । तृतीयसवनं तु जागतम् । तथा सति जगतीमतिक्रम्येहोप यातेत्या पात्रिष्टुमः कस्मादनुब्रूत इति चोधम् ।

तत्रोत्तरं दर्शयति

धीतरसं वै तृतीयसवनमथैतदधीतरसं शुक्रियं छन्दो यत्रिष्टुप्सक्नस्य सरसताया इति ब्रूया

दथो इन्द्रमेवैतत्सवनेऽन्वाभजतीति, इति । यदेततृतीयसवनं तदेतद्धीतरसं तदीयो रसो गायच्या पीतः सोमाहरण काले पद्भ्यां सवनद्वयं मुखेन तृतीयसवनं च गृहीत्वा तत्रत्यं रसं गायत्री पीत वती । तथा चान्यत्र श्रूयते-‘पयां दे सक्ने समगृहान्मुखेनैकं यन्मुखेन सम गृहाचदधयत्तस्मा सवने शुक्रवती प्रातःसवनं माध्यंदिनं च तस्मादृतीयस पन ऋजीपमभिषुण्वन्ति धीतमिव हि मन्यन्ते’ इति । तथैव त्रिषुप्छन्दो यदखि

७१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२८अष्टाविंशाध्याये एतदधीतरसमपीतरसं माध्यंदिनसवनसंबन्धित्वात् । अत एतच्छुक्रियं रसस्व दुपेतं शुक्रियमतोऽस्य तृतीयसवनस्य सरसत्वार्थ त्रिष्टुभोऽन्वाहेत्युत्तरं ब्रूयात् । अथो अपि च तेन सरसत्वेनेन्द्रमेव तृतीयसवने भागवन्तं करोति । त्रिष्टुप्छ. न्दस ऐन्द्रत्वात् । तेनेन्द्रभाव(गोत्वंयुक्तम् ।।

उक्तं चोचं समाधाय प्रस्थितयाज्याविषये चोयमुद्भावयति

अथाऽऽह यदैन्द्रार्भवं वै तृतीयसवनमथ कस्मादेष एव तृतीयसवने प्रस्थितानां प्रत्य. शादैन्द्रा व्या यजतीन्द्र ऋमुभिजिवद्भिः समुक्षितमिति होतैव नानादेवत्याभिरितरे

कथं तेषामैन्द्राव्यो भवन्तीति, इति । अयोनीयमानसूक्तकथनानन्तरं कश्चिद्रमवादी चोचमाह । यद्यस्मात्कार णावृतीयसवनमैन्द्रार्भवम् । तव पूर्वमुपपादितम् । एवं सत्येक एव होता प्रस्थि. तसोमानां प्रत्यक्षात्मत्यक्षेण मुख्येनैवेन्द्रशब्देन ऋभुशब्देन व युक्तयर्चा यजति। इन्द्र ऋभुभिरित्याचा सेयमृगवगन्तव्या । होतैव तया यजति न वितरे षड विजः। ते तु नानाविधदेवताकाभिर्वक्ष्यमाणाभित्रंभिर्यजन्ति । तस्मात्कारणा देतत्संपनम् । किंच तेषां षण्णात्विजां संबन्धिन्यो याज्याः कथमेन्द्राव्यो द्विविधदेवताका भवन्तीति चोधम् ।

ता होतुर्याज्याया ऐन्द्रार्भवत्वैन परितोपात्तां तथैवानीकत्येतरेषां याज्यासु क्रमेणैन्द्रार्भवत्व(त्व)दर्शयितुकामः प्रथमतो मैत्रावरुणस्य याज्यायां तदर्शयति

इन्द्रावरुणा सुतपाविमं सुतमिति मैत्राव रुणो यजति युवो रथो अध्वरं देववीतय

इति बहूनि वाऽऽह तभूणां रूपम्, इति । इन्द्रावरुणेत्यस्यां याज्यायां युवो रथ इत्यस्मिन्पादे देववीतय इति पदं विद्यते । देवानां वीति प्राप्तिर्देववीतिरिति तस्य समासः । तस्य समासे पष्ठी बहुवचनान्तेन भब्देन बहून्येव रूपाणि प्रतीयन्ते । तत्र बहुत्वमभूणां स्वरूप

इन्द्रावरुणा सुतपाविमं०-१-६९-१०। ….. .. R. ‘क्रिय। २क. ट. ‘लेनाप ।

1601111447


। १ चतुर्थः खण्डः] ऐतरेयबामणम् । .

मनुष्यरूपाणासभुशब्दवाच्यानां महर्षीणां बहुत्वात् । तस्मादर्यत ऋभुसद्भावा दिन्द्रशन्दस्य च साक्षाच्छ्रवणादियमैन्द्रार्भवी।

बामणाच्छंसिनो याज्यायामार्भवत्वं संपादयति

इन्द्रश्च सोमं पिबतं बृहस्पत इति ब्राह्मणा च्छंसी यजत्या वां विशन्विन्दवः स्वाभुव

इति बहूनि वाऽऽह तभूणां रूपम् , इति ।

· इन्द्रवेत्यादियाज्यायामा वा विशन्त्वित्यस्मिन्पादे विशन्त्वित्यादीनि बहु बचनान्तानि पदानि भूयन्ते तैरभिधेयं बहुत्वमभूणां स्वरूपम् ।

पोतुर्याज्यायामार्भवत्वं दर्शयति

आ वो वहन्तु सप्तयो रघुष्यद इति पोता यजति रघुपत्वानः प्रजिगात बाहुभिरिति

बहूनि वाऽऽह तभूणां रूपम् , इति । आ वो वहन्त्विति याज्यायां रघुपत्वान इत्यस्मिन्पादे बहुवचनान्तैः पदैः ।। रमिषेयं बहुत्वमभूणां खरूपम् ।

नेर्याज्यायामार्भवत्वं दर्शयति

अमेव नः सुहवा आ हि गन्तनेति नेष्टा यजति

गन्तनेति बहूनि वाऽऽह तभूणां रूपम् , इति । अमेव न इति याज्यायो तस्मिनेव पादे गन्तनेति पदस्य गच्छतेत्यर्थे सति लोमध्यमपुरुषबहुवचनान्तेन प्रतीतं बहुत्वमभूणां स्वरूपम् ।

अच्छावाकस्य याज्यायामार्भवत्वं दर्शयति

इन्द्राविष्णू पिबतं मध्वो अस्येत्यच्छा वाको यजयावामन्धांसि मदिराण्यग्मनिति

बहूनि वाऽऽह तहभूणां रूपम् , इति । इन्द्रश्च सोमं पिबतं बृहस्पते०-४-६०-१० । आ वो वहन्तु सप्तयः-१ ८५-६। अमेव नः सुहवा आ हि गन्तन०-२-३६-३ । इन्द्राविष्णू पिचतं मध्वो भस्य०-१-७०-७।

takde by Google

७१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२(अष्टाविंशाध्याये

इन्द्राविष्णू इत्यस्यां याज्यायामावामित्यस्मिन्पादे बहुवचनान्तैरन्यांसी त्यादिभिः पदैः प्रतीतं बहुत्वमभूणां स्वरूपम् ।

आमीध्रस्य याज्यायामार्भवत्वं दर्शयति

इमं स्तोममर्हते जातवेदस इत्यागीघ्रो यजति रथमिव सं महेमा मनीषयेति

बहूनि वाऽऽह तभूणां रूपम्, इति ।. इमं स्तोममित्यस्यां याज्यायां रथमिवेत्यस्मिन्पादे महेमेत्युत्तमपुरुषबहुवच नान्तेन पदेन प्रतीयमानं बहुत्वमृभूणां स्वरूपम् ।

उक्तमर्थमुपसंहरति

. एवमु हैता ऐन्द्राव्यो भवन्ति , इति । उक्तेन प्रकारेण याज्यास्त्रभुसंबन्धसंपादनादिन्द्रसंबन्धस्य च साक्षादेव श्रूयमाणत्वादेता ऋच ऐन्द्राव्यः संपद्यन्ते ।

इन्द्रस्यर्भूणां चोक्तसंबन्धेन प्रीतेः सिद्धत्वादितरदेवतानामपि ताभिर्या ज्याभिः प्रीतिं दर्शयति

यन्नानादेवत्यास्तेनान्या देवताःप्रीणाति, इति । इन्द्रवरुणबृहस्पत्यादिनानाविधदेवतायुक्ता ऋच इति यदस्ति तेन कारणे नान्या इन्द्राभुभ्यश्च व्यतिरिक्ता देवतास्तोषयति ।

याज्यास्ववस्थितं छन्दः प्रशंसति

यदु जगत्मासाहा जागतं वै तृतीयसवनं

तृतीयसवनस्यैव समृद्ध्यै ॥ १२ ॥ इति । जगच्छब्देन जगतीछन्दोऽभिधीयते । पासाहशब्दो बाडुल्यवाची । जगत्यः मासाहा बडुला यासूक्तासु प्रस्थितयाज्यासु ता जगत्मासाहास्तृतीयसवनं च जागतमिति प्रसिद्धमतो यदु यदेव जगतीबाहुल्यं तेन तृतीयसवनस्य सम. द्धिर्भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राम णभाष्येऽष्टाविंशाध्याये चतुर्थः खण्डः ॥४॥ (१२) [१९९] इमं स्तोममर्हते जातवेदसे०-१-९४-१ । १. व श्रुतस्वा।

Digitized by Google

७१५

५ पञ्चमः खण्डः] ऐतरेयत्रामणम् ।

होत्रकाणां प्रस्थितयाज्याः सवनत्रयेऽभिधाय परस्परं साम्यं वैषम्यं च विवेक्तुं प्रश्नमुद्भावयति

अथाऽऽह यदुक्थिन्योऽन्या होत्रा अनुक्था अन्याः कथमस्यैता उक्थिन्यः

सर्वाः समाः समृद्वा भवन्तीति, इति । होत्रकाणां याज्याकथनानन्तरं कश्चिद्ब्रह्मवादी चोधमाह । होत्रकाणां क्रिया होत्रशब्देन विवक्षिताः। तास्वन्याः काश्चिक्रिया उक्थिन्यः शस्त्रयुक्ताः। अन्या इतराः क्रिया अनुक्थाः शस्त्ररहिता मैत्रावरुणो ब्राह्मणाच्छंस्यच्छावाक इत्येतेषां त्रयाणां शस्त्रसद्भावादेतदीयाः क्रिया उक्थिन्यो नेष्टपोत्रादीनां शस्त्र राहित्याचदीयाः क्रिया अनुक्थाः । एवं वैषम्ये स्पष्टे सत्यस्य यस्य यज मानस्य वा संबन्धिन्य एता होत्राः सर्वा उक्थिन्यः शस्त्रयुक्ता भूत्वा समा वैषम्यरहिता अत एव समृदाः संपूर्णाः कथं भवन्तीति चोधम् । .

तस्योत्तरमाह

यदेवैनाः संप्रगीर्य होत्रा इत्याचक्षते तेन समाः, इति । यदेव यस्मादेव कारणादेता मैत्रावरुणादिक्रियाः पोतृने ट्रादिक्रियाश्च संप्रगीर्य संभूय प्रकर्षणोक्त्वा होत्रा इतिशब्देन याशिका आचक्षते तेन समाः। यथा लोके छत्रयुक्तास्तद्रहिताश्च संभूय च्छत्रिण इत्येकेनैव शन्देन व्यवहि यन्ते । एवमत्रापि शस्त्रयुक्ता मैत्रावरुणादयः शस्त्ररहिताः पोतृनेष्ट्रादयश्च संभू यकेनैव होत्रकशब्देन व्यवहियन्ते । अतः शत्रिभिः समभिव्याहारादशास्त्रि णामप्युपचरितं शखित्वं तेन होत्रकशब्दव्यवहारैक्येन(ण) समा भवन्ति न चैतावता स्वाभाविकं शस्तित्वाशस्त्रित्ववैषम्यमपगच्छति ।

तदेतद्वैषम्यं दर्शयति

यदुक्थिन्योऽन्या होत्रा अनुक्था

अन्यास्तेनो विषमाः, इति । उशब्दोऽपिशब्दार्थः । तेनोक्थित्वानुक्थित्वधर्मद्वयेन विषमा अपि भवन्ति। । सत्यपि वैषम्य औपचारिकोक्थित्वेन साम्यं यदुपपादितं तदुपसंहरति

एवमु हास्यैता उक्थिन्यः सर्वाः समाः समृद्धा भवन्ति, इति।

1.111111

७१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्–[२८अष्टाविंशाध्याये

होत्रकेषु चोद्यान्तरमुद्भावयति

अथाऽऽह शंसन्ति प्रातःसवने शंसन्ति माध्यंदिने होत्रकाः कथमेषां तृतीयसवने शस्तं भवतीति, इति । अमिष्टोमे मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां सवनद्वये शंसनं विहितं तदृष्टान्तेन तृतीयसवनेऽपि शंसनमपेक्षितं तब न विहितं तथा सति कयमेषा तृतीयसवने शस्तं भवति शंसनं सिध्यतीति चोयम् ।

तस्योत्तरं दर्शयति

यदेव माध्यंदिने दे दे मुक्त

शंसन्तीति ब्रूयात्तेनेति, इति । मैत्रावरुणस्य सद्यो ह जातो सुषमा कनीन इत्येकं मूक्तम् । एवा त्वामिन्द्र पब्रिमिति द्वितीयम् । ब्राह्मणाच्छंसिन इन्द्रः पूभिदित्येक सूक्तमुदु ब्रह्माणीति द्वितीयम् । अच्छावाकस्य भूय इदित्येकमिमामूविति द्वितीयम् । एवमेते त्रयो माध्यंदिने सबने प्रत्येकं द्वे द्वे सूक्ते शंसन्ति । तत्रैकं माध्यंदिनसवनार्थम् । द्वितीयं तु तृतीयसवनार्थमित्युपचारेण तत्रापि शंसनं सिध्यतीत्युत्तरं घूयात् ।

तेष्वेव चोधान्तरमुद्भावयति

अथाऽऽह यवयुक्थो होता कथं

होत्रका व्युक्था भवन्तीति, इति । अथ तृतीयसवने शंसनसंपादनानन्तरं पुनरपि ब्रह्मवादी चोचान्तरमाह। यद्यस्मात्कारणादोता न्युक्थः । द्वे उक्थे शस्ने यस्यासौ व्युक्थः । प्रातःस. बने आज्यमउगे द्वे माध्यंदिनसवने मरुत्वतीयनिष्केवल्ये द्वे तृतीयसवने वैक देवामिमारुते द्वे एवं स्थिते होतृदृष्टान्तेन होत्रकाणामप्युक्यद्वयोपेतत्वमपेशित न चोक्थदयं विहितमस्त्यतस्तत्केन प्रकारेण सिध्यतीति चोधम् ।

तत्रोत्तरमाह

यदेव द्विदेवयाभिर्यजन्तीति ब्रूयात्तेनेति ॥१३॥ इति । प्रस्थितयाज्यानां श्रूयमाणदेवतया संपाधमानदेवतया च द्विदेवत्यत्वम् । सादृशीभिरिभर्यस्माद्यजन्ति तेन द्विशत्रत्वम् । नत्रैका देवता याज्या, इतरा द्वितीया शस्त्रार्थेत्येवमुत्तरं भूयात् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण भाष्येऽष्टाविंशाध्याये पञ्चमः खण्डः ॥५॥ (१३)[१०]

KAROO

६ षष्ठः खण्डः] ऐतरेयबामणम् ।

सर्वत्र होत्रकशब्दव्यवहारसाम्येन शत्ररहितानामप्युपचरितमुक्थित्वमि त्युक्तम् । इदानी प्रकारान्तरेण तेषामुक्थित्वं संपादयितुं प्रश्नमुनावयति

अथाऽऽह यदेतास्तिर उक्थिन्यो होत्राः

कथमितरा उक्थिन्यो भवन्तीति, इति । अथ मैत्रावरुणादीनां प्रयाणामुपचरितं द्वितीयशस्त्रसंपादनानन्तरं ब्रह्म वादी चोचमाह । यद्यस्मात्कारणादेताः पूर्वोक्ता होत्रा मैत्रावरुणादीनां क्रियास्तित्र उक्यिन्यः शस्त्रोपेतास्तदृष्टान्तेनेतराः पोत्रादीनां क्रिया अपि शखयुक्ता इति वक्तव्यम् । न चात्रशस्त्रं विहितम् । अतः कयमेता उक्यिन्य इति प्रश्नः।

तत्रोत्तरमाह

आज्यमेवाऽऽग्रीघ्रीयाया उक्थं मरुत्व तीयं पोत्रीयायै वैश्वदेवं नेष्ट्रीयायै ता वा

एता होत्रा एवं न्यना एव भवन्ति, इति । होतुः मातःसवने यत्पथममाज्यशस्त्रं तदेवाऽऽमीधीयायै, आमीभ्रेण क्रिय. माणायाः क्रियाया उक्थं शस्त्रम् । एवं मरुत्वतीयवैश्वदेवयोरपि योज्यम् । तथा सति ता एवैता होत्रा होत्रकाणां क्रिया एवमुक्तेन प्रकारेण न्यास्त. चविता एव भवन्ति । अनिमानीघ्रो यजति । आज्यशस्त्रं चाऽऽग्नेयम् । पोता मरुतो यजति । मरुत्वतीये च मारुतानि सूक्तानि शंसति । अग्ने पत्नीरि हाऽऽवहेति नेष्टा यजति । तत्र देवानामुशतीरित्यत्र देवानामिति श्रवणमस्ति । एवं त्रयाणामप्यानीधपोतनेष्टणामानेयत्वमारुतत्ववैश्वदेवत्वचिहानि विद्यन्ते । तस्मादाज्यादिभिरुक्थैरितरेषामुक्थित्वम् ।।

वेषामेव होत्रकाणामृतुयाजेषु कस्यचिद्विशेषस्य प्रश्नमवतारयति

अथाऽऽह यदेकप्रैषा अन्ये होत्रका अथ

कस्मादप्रैिषः पोता द्विषो नेष्टेति, इति । औषसूक्ते ये प्रैषा उक्ता नेतृपोतृव्यतिरिक्तानां होत्रकाणां तेषु श्रेषेष्वकैक एव भैषः पोतुर्नेष्टुश्च द्वौ द्वौ भैषौ । तथा च यज्ञसंपदायविदः पठन्ति-होपोने मीबापहोपोनेच्छाध्वर्युगृहपतीति चेति । अस्यायमर्यः । तत्र नान्नामाद्याक्षरेणैते ऋतुपुरुषा निर्दिश्यन्ते । तथा च होता पोता नेष्टाऽऽमीनो बामणाच्छंसी

Digitized in Google

.. . .

.

. .- • – -

.. … …—-

…-..

-…-

७१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२(अष्टाविंशाध्याये प्रशास्ता होता पोता नेष्टाऽच्छावाकोऽध्वर्युहपतिश्च क्रमेणोक्ताः । एतेषां भैषसूक्ते द्वादश प्रैषाः क्रमेण सन्ति । तथा सति पोतुर्द्वितीयोऽष्टमश्च द्वौ प्रैषौ । नेष्टस्तृतीयो नवमश्च द्वौ भैषौ । होता यक्षन्मरुतः पोत्रादित्येक औषः । होता यक्षदेवं द्रविणोदा पोत्रातुभिरिति द्वितीयः । एतौ द्वौ पोतुः प्रैषौ । होता यक्षद्रावो नेष्टेत्येकः । होता यक्षदेवं द्रविणोदा नेष्यादिति द्वितीयः । एतौ द्वौ नेषुः भैषौ । इतरेषामाग्रीध्राच्छावाकादीनामेकैक एव प्रैषः । तथा सति पोतृ. नेष्ट्रोषित्वे किं कारणमिति प्रश्नः। . तस्योत्तरमाह

यत्रादो गायत्री सुपर्णो भूत्वा सोममाहरत्तदे तासां होत्राणामिन्द्र उक्थानि परिलुप्य हो। प्रददौ यूयं माऽभ्यह्वयध्वं यूयमस्यावेदिष्टेति ते होचुर्दैवा वाचेमे होने प्रभावयामेति तस्मात्ते विप्रेषे भवत ऋचाऽमीघ्रीयां प्रभावयांचक्रुस्त

स्मात्तस्यैकयर्चा भूयस्यो याज्या भवन्ति, इति । यत्र यस्मिन्कालेऽदो गायत्री त्रिष्वपि च्छन्दःसु या शौर्ययुक्ताऽभूत् । असो गायत्री सुपर्णो भूत्वा धुलोकात्सोममाहरत् । सोऽयं वृत्तान्तः पूर्वमेवमानातः। तत्तस्मिन्काले केनापि निमित्तेन क्रुद्ध इन्द्र एतासां होत्राणामुक्थानि शस्त्राणि परिलुप्य होने प्रददौ। होत्राशब्दः स्त्रीलिङ्गोऽपि पुरुषान्होत्रकानभिधत्ते। पोतृ. नेष्ट्रामीध्राणां होत्रकाणामाज्यमरुत्वतीयवैश्वदेवशस्त्राणि पूर्वमासन् । तानि क्रुद्ध इन्द्रस्तेभ्यो निवार्य दत्तवान् । ततो होता प्रतिसवनं शस्त्रद्वययुक्तो बभूव । गायत्र्या सोमेऽपहृते सति शोकाभिभूतमिन्द्रं सान्त्वयितुमृत्विजा(ग)भिमा निन्यो देवताः सर्वा उपतस्थिरे । पोतृनेष्ट्रामीध्रदेवतास्तु नाऽऽगताः । तदिदं कोपकारणम् । स च कुपित इन्द्रः शस्त्राणि निवार्य पुनरप्येवमुवाच । हे गर्वा धिकाः पोत्रादयो यूयं माऽभ्यहयध्वम् । शोसावोमित्याहानमपि मा कुरुत । दूरे युष्माकं शस्त्राणि । यतो यूयमस्य मम सान्त्वनं माऽवेदिष्ट न ज्ञातवन्तः । निषेधार्यों माशब्दोऽत्रानुवर्तनीयः । इत्येवमिन्द्रेणोक्ते सति तत्समीपतिनस्ते देवा इन्द्रं संमार्यैक्मूचुः । इमे हो। एतौ पोतनेष्टारौ शस्त्रशून्यावतिभीतौ येन केनापि प्रकारेणानुग्रहणीयौ । तस्माच्छवाभावेऽपि वाचाऽधिकमेषरुपया प्रभावयाम प्रकर्षण भावितौ तोषितौ करवामेति । तस्मात्कारणाचे होने द्विषेषे

içizen in Google१ षष्ठः खण्डः ] . . ऐतरेयप्रामणम्। ….. ७१९ भवतः । तौ होत्रको पोतनेष्टारौ प्रैषद्वययुक्तौ भवतः । तथैवाऽऽनीधीयामामी ध्रक्रियामृचा कयाचिदधिकया प्रभावयांचा: प्रभूतां कृतवन्तः । यस्मादेवं तस्मात्तस्याऽऽग्नीध्रस्यैकयर्चा याज्या भूयस्योऽत्यन्तमधिका भवन्ति । सप्ताना मपि होत्रकाणां प्रस्थितयाज्यास्तिस्त्र एव भवन्ति । आमीघ्रस्यैभिरने सरथमि त्येषाऽधिका । सा च पात्नीवतग्रहवर्तिनी । तथा च संप्रदायविद आहुः __ “तिस्रः प्रस्थितयाज्यास्तु सप्तानामभवन्खलु। . … .

आनीध्रस्तिमृभिः सार्धमैभिरग्ने चतुर्थ्यभूत” इति ॥ .. यद्यप्यागीविषये ब्रह्मवादिना प्रश्नो न कृतस्तथाऽपि पोत्नेष्टुभ्यां समान नयोगक्षेमत्वेन तवृत्तान्तोऽप्यभिहितः। होत्रकविषये प्रश्नान्तरमुद्भावयति

अथाऽऽह यहोता यक्षद्धोता यक्षदिति मैत्रावरुणो हो। प्रेष्यत्यथ कस्मादहो तृभ्यः सद्भ्यो होत्राशंसिभ्यो होता

यक्षद्धोता यक्षदिति प्रेष्यतीति, इति । अथ द्विषत्वनिमित्तकथनानन्तरं ब्रह्मवादिनां प्रश्नमाह । मैत्रावरुणः सर्वेषां होत्रादीनां भैषकर्ता । स च औषसूक्तगतेषु सर्वेष्वपि मन्त्रेष्वादी होता यादित्येव तत्र तत्र पठति । तत्र होत्रे होतृकार्यार्य तेन मन्त्रेण यत्मेष्यति तयुक्तं मत्रादाववस्थितस्य होतृशब्दस्य-तद्वाचकत्वात् । ये त्वहोतारो होतृ व्यतिरिक्ताः सन्तो होत्राशंसिनो होत्रा होमस्तमाशंसन्ति । तेषां होतृनामर हितानां प्रेषेषु तत्र तत्र होता यक्षदिति कस्मात्कारणाद्धोतृशब्दं प्रयुक्त इति प्रश्नः।

तस्योत्तरमाह

प्राणो वै होता प्राणः सर्व ऋत्विजः .

प्राणो यक्षप्राणो यक्षदियेव तदाह, इति। । योऽयं मुख्यो होता स माणस्वरूप एव मृतदेहस्य होतृत्वाभावात् । तथाs: न्येषामपि सर्वेषामृत्विां प्राण एव स्वरूपम् । तथा सति प्राणविवक्षया भयुक्तो होतृशब्दः सर्वेषूपपद्यते। होता यक्षद्धोता यक्षदित्युक्ते प्राणो यक्षमाणो यक्षदित्येव मैत्रावरुणो ब्रूते । तस्मायुक्तः सर्वेषु होतृशब्दप्रयोगः।

१४. होता तमा।

Bagole in Google

७२० श्रीमस्सायणाचार्यविरचितभाष्यसमेतम् -२८अष्टाविंशाध्याये

उद्गातृविषये प्रश्नोत्तरे दर्शयति

अथाऽऽहास्त्युद्गातूणां प्रैषा३ः, नाँ३ इति । अस्तीति ब्रूयाद्यदेवतत्पशास्ता जपं जपित्वा

स्तुध्वमित्याह स एषां प्रेषः, इति । होत्रादयो मैत्रावरुणेन प्रेषिताः स्वस्वव्यापारं कुर्वन्तीति तदृष्टान्तेनोद्गातू. णामपि प्रेषितत्वं युक्तं न चोद्गातृमेषाः भैषसूक्ते समानातास्तस्मादेषां औषोऽस्ति न वेति संशयः । प्लतिद्वयं विचारार्थस् । नकारस्य सानुनासिकत्वं छान्दसम् । अत्र प्रैषोऽस्तीत्येवमुत्तरं ब्रूयात् । प्रकर्षेण सर्वाऋत्विजः शास्ति मेषमन्त्रेण तत्तयापारे प्रवर्तयतीति प्रशास्ता मैत्रावरुणः। स च स्तुतदेवेन सवित्रेत्यादिमन्त्रजपं जपित्वा कृत्वाऽनन्तरं स्तुध्वमिति यदेवतद्वचनं माह स एवैषामुद्रातूणां प्रैषः।

अच्छावाकविषये प्रश्नोत्तरे दर्शयति

अथाऽऽहास्त्यच्छावाकस्य प्रवरा३, नाँ३ इति। अस्तीति ब्रूयाघदेवनमध्वर्युराहाच्छावाक

वदस्व यत्ते वाद्यमित्येषोऽस्य प्रवरः, सति । __ अच्छांवाकव्यतिरिक्तानां वषट्कर्तणां प्रवरः प्रकर्षण वरणमस्ति । क्या प सूत्रकार आह-‘प्रवृत्ताहुतीर्जुहति वपदकर्तारोऽन्येऽच्छावाकात्’ इति । सूत्रान्तरेऽप्येवमुक्तम्-‘महतः प्रवृतः प्रवृतहोमौ जुहोति’ इति । अतोऽन्येषां प्रवरसद्भावोऽवगतः । अच्छावाकस्य नावगतः । न्यायेन वितरदृष्टान्तेन प्रव. रोऽपेक्षितः । अतोऽस्ति न वेति संशयः । तत्रास्तीत्युत्तरं श्रूयात् । यद्यप्य न्येषामिव स्पष्टः प्रवरो नास्ति तथाऽपि पुरोडाशशकलं प्रत्तमिलामिवोध. म्याऽऽसीनमच्छावाकमच्छावाक यत्ते तव वाचं वक्तव्यमस्ति तद्दस्वेति सोऽयमच्छावाकसंबोधनेन प्रवरसमानत्वात्मवर इत्युच्यते ।

इत्यममिष्टोमसंस्थे होत्रकविषयव्यापार परिसमाप्याधुनोक्थसंस्थेष्वासु प्रश्नोत्तरे दर्शयति

अथाऽऽह यदैन्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंस यथ कस्मादस्याऽऽग्नेयौ स्तोत्रियानुरूपौ भवत

१. 8. ‘मिनि ।

priestores a Google

१ षष्ठः खण्डः] ऐतरेषबामणम् ।

इत्यमिना वै मुखेन देवा असुरानुक्थेभ्यो निर्जनु स्तस्मादस्याऽऽनेयौ स्तोत्रियानुरूपौ मवतः, इति । अच्छावाकावरसंपादनानन्तरं अमवादी प्रश्नमाह । मैत्रावरुणस्तृतीयसवन इन्द्रावरुणा युवमित्यादिकमैन्द्रावरुणं सूक्तं शंसति । तस्य शस्त्रादाबेधूषि त्यामेयं स्तोत्रिय आमिरगामीत्यामेयोऽनुरूपः । तदेतयधिकरणत्वादयुक्तम् । ऐन्द्रावरुणाभ्यां स्वोत्रियानुरूपाभ्यां भवितव्यमिति मनः । अभिनेत्यादिना तस्योचरम् । यदा देवा असुरानुक्येभ्यो निर्जमुनि:शेषेण हतवन्तो दूरेऽप. सारितवन्तस्तदानीमग्निमुखं प्रधानभूतं कृत्वा तन्मुखेन निःसारितवन्तः । एत. वाशिष्टोमं वै देवा अश्रयन्तेत्यादौ विस्पष्टमुदीरितम् । तस्मादमुरनिःसारणेऽमे. मुख्यत्वादामेयो स्वोत्रियानुरूपौ युक्तौ।

बामणा स्यच्छावाकविषयमश्नोत्तरे दर्शयति–

अथाऽऽह यदैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसत्येन्द्रावैष्णवमच्छावाका कथमेनयोरेन्द्राः स्तोत्रियानुरूपा अवन्ती तन्द्रिोह स्म वा असुरामुक्थेभ्यः प्रजिगाय सोऽब्रवीत्कश्चाहं चेत्यहं चाहं चेति ह स्म देवता अन्ववयन्ति स यदिन्द्रः पूर्वः प्रजिगाय

तस्मादेनयोरेन्द्राः स्तोत्रियानुरूपा भवन्ति . यहहं चाहं चेति ह स्म देवता अन्ववयुस्त- .

स्मानानादेवत्यानि शंसतः ॥ १४ ॥ इति ।

· तृतीयसक्ने बामणासिनः म महिलायेसैन्द्राबाईस्पस्य शतम् । वस्वाऽऽदौ स्तोत्रियानुरूपान्द्रौपवमु त्यति स्तोनियो यो न इदमित्यनुरूपः। वषाऽच्छावाकस्य ऋतुर्जनित्रीत्यादिकमैन्द्रावैष्णवं शत्रम् । तस्याऽऽदावन्द्रौ स्वोत्रियानुरूपौ। अधा हीन्द्र गिर्वण शति तोत्रियः। इयन्त इन्द्र गिर्वन इल नुसः। तदेतद्वैयधिकरण्यमुपजील्प पूर्णवस्मनः । इन्द्रो हेलादिनुपरम् । इन्द्रः स्वयमुक्षेन्या शस्त्रेभ्या सकाशादसुरान्यनिगाय प्रकर्षेण जिववाभाद्रा पषि)दित्यर्थः । तदानीमिन्द्र इतरान्देवान्मति सहायमपेक्षवाणो. युष्माकं बव्ये कमाई चोभौ युद्धार्थ गच्छाव इत्लावीत् । तदानी देवानां मध्य एकैकोई

serican as fIPerfe

….

.

..

..

.

७२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२८अष्टावि०ध्याये चाहं च तव सहायभूत इत्युक्त्वा देवतास्वमिन्द्रमन्ववयन्ति तस्य पृष्ठतो गच्छन्ति । यस्मात्स इन्द्रः सर्वेषां देवानां मध्ये स्वयं पूर्वगामी समसु. रान्मजिगाय तसादेनयोर्ब्राह्मणाच्छंस्यच्छावाकशखयोरप्यैन्द्राः स्तोत्रियानु रूपा युज्यन्ते यदु यदप्येतदस्त्यहं चाहं च तव सहायभूत इति ब्रुवत्यो देवता इन्द्रमन्ववयुरन्वगच्छन् । तस्मात्कारणावतान्तराणामपीन्द्रवत्पूज्यत्वा मानादेवताकानि सूक्तानि ब्राह्मणाच्छस्यच्छावाको शंसतः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णभाष्येऽष्टाविंशाध्याये षष्ठः खण्डः ॥६॥(१४) [ १०१]

अथ तेषामेव शस्त्राणां छन्दोदैवतविषये प्रश्नोत्तरे दर्शयति

अथाऽऽह यद्वैश्वदेवं वै तृतीयसवनमथ कस्मादेतान्येन्द्राणि जागतानि सूक्तानि तृती यसवन आरम्भणीयानि शस्यन्त इतीन्द्रमे वैतैरारभ्य यन्तीति ब्रूयादथी यजागतं वै तृतीयसवनं तजगत्काम्यैव तद्यत्किं चात ऊर्ध्व छन्दः शस्यते तद सर्व जागतं भवत्ये. तानि चेदैन्द्राणि जागतानि सूक्तानि तृती

यसवन आरम्मणीयानि शस्यन्ते, इति । अथैन्द्रावरुणादिशस्त्रेचैन्द्रस्तोत्रियानुरूपवर्णनानन्तरं ब्रह्मवादी प्रश्नमाह । तृतीयसवनं वैश्वदेवं बहुदेवताकं यस्मात्तस्माद्वैश्वदेवान्येव सूक्तानि तत्रोचिता. न्यथैवं सति तानि परित्यज्य कस्मात्कारणादेतान्यारम्भणीयानि सूक्तान्यै न्द्राणि शस्यन्ते । सति चैन्द्रत्वे त्रिष्टुभो युक्तत्वात्तत्परित्यागेन जागतानि कस्माच्छस्यन्ते । चर्षणीधृतमिति मैत्रावरुणस्य सूक्तम् । प्र मंहिष्ठायेति ब्राम णाच्छसिनः सूक्तम् । ऋतुर्ननित्रीत्यच्छावाकस्य सूक्तम् । एतेषु सूक्तेष्बैन्द्रप्रमो. तरमुच्यते। ऐन्द्रत्वे सत्येतैः सूक्तैरिन्द्रमेवाऽऽरभ्य प्रवृत्ता भवन्ति । इन्द्रो हि प्रारब्धस्याविनेन समाप्तिकारीत्युत्तरं याद । अथो अपि च त्रिपरि त्यागेन जागतसूक्तमिति यदस्ति तत्तृतीयसवनस्य जागतत्वाजगत्काम्मेव जगत्कामनयैव प्रहत्तिः कृता भवति । अपि च तथा सत्यत अर्ध्वमन्यदपि भत्किषिच्छन्दः शस्यते तत्सर्वं जगतीछन्दस्कमेव संपचते।

.

.

..

-. ……….

– – ….

….–

… …

.–..-.–

७ सप्तमः खण्डः] ऐतरेयबामणम् ।

• भारम्भणीयानामैन्द्राणां सूक्तानां जागतत्वावस्य छन्दोन्तरस्य जागतत्वं संपयते तच्छन्दोन्तरं दर्शयति

अर्थतत्रैवुभमच्छावाकोऽन्ततः शंसति सं वां कर्म णेति यदेव पनाय्यं कर्म तदेतदभिवदति, इति । आरम्भणीयशंसनादूर्ध्वमच्छावाकोऽन्ततः शत्रस्यान्ते सं वा कर्मणेत्येत सूक्तं त्रिषुप्छन्दस्कं शंसेत् । अनेन्द्राविष्णू संवोध्य वां युवामनेन कर्मणा संहि. नोमि सम्यक्मीणयामीत्येतदुच्यते । तस्य च कर्मशब्दस्याओं यदेवेत्यादिनाs भिधीयते । पनतिधातुः स्तुत्यर्थे वर्तते । पण व्यवहारे स्तुतौ च । पन चेति वैयाकरणैर्धातुषु पठ्यमानत्वात् । तथा सति पनाव्यं स्तुत्यै सोमपानाख्यं कर्म वदयं मनोऽभिवदति । ।

संवा कर्मणेत्येतत्प्रथमपादस्य पूर्वभागं व्याख्यायोत्तरभागमन्य व्याचष्टे - समिषेयनं वा इषोऽवाद्यस्यावरुद्धचै, इति ।

इमाऽनेन युवामिन्द्राविष्णू सहिनोमीत्यन्वयः । अत्राममेवेषेत्यस्य शन्द स्वार्थः । इश, बन्दस्वेष इति प्रथमावाषचनम् । तस्मादमवाचित्वे सति एत

यसनममाघस्य प्राप्तये भवति ।

अस्या ऋचचतुर्यपादमनूष ध्याचष्टे

अरिष्टैनः पथिभिः पारयन्तेति स्वस्ति

ताया एवैतदहरहः शंसति , इति । सोऽस्मानरिटहिंसारहितैः पथिभिः स्वर्गमार्गः पारयन्ता कर्मणः पार फलक नयन्ताविन्द्राविष्णू इत्यर्थः । एतस्य पादस्य शंसनं स्वस्तिताया एवं क्षेमार्यमेव भवति । तस्मादच्छावाक एतद्वचनमहर्गणेषु प्रतिदिनं शंसति ।

परिघानीयानां छन्दसि प्रश्नोतरे दर्शयति

अथाऽऽह यज्जागतं वै तृतीयसवनमथ कस्मादेषां त्रिष्टुभः परिधानीया भवन्तीति वीर्य वै त्रिष्टु

वीर्य एव तदन्ततः प्रतितिष्ठन्तो यन्ति , हदि । मृतीयसवनस्य जागतत्वेन परिधानीया अपि जगत्य एव युक्ताः । एतत्प रित्यागेन त्रिधुमा स्वीकारे प्रतिदिनं किं कारणमिति प्रश्नः । वीर्यमित्याधु सं बां कर्मणा.-१-६९-१।

Migdies in Google

७२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२८अष्टाविंशाध्याये परम् । त्रिद्युमो वीर्यस्वरूपत्वाचया परिषाने सति शस्त्रस्यान्ते वीर्य एवं पति ष्ठिताः सन्तो यन्ति वर्तन्ते ।

होत्रकाणां प्रयाणामुक्तानिष्टुभः परिधानीया उदाहत्य प्रदर्शयति

इयमिन्द्रं वरुणमष्टमे गीरिति मैत्रावरुणस्य बृहस्पतिर्नः परिपातु पश्चादिति ब्राह्मणाच्छं

सिन उभा जिग्यथुरियच्छावाकस्य, इति । तदिदमन्तिमोदाहरणं व्याचष्टे

उभौ हि तो जिग्यतुः, इति । याविन्द्राविष्णू तावुभौ जिग्यतुयुद्ध जयं प्रापतुरिति मसिद्धम् । .. ऋचा पूर्वार्ष उभा जिग्यरित्यमुमंशं व्याख्यायांशान्तरव्याख्यानं पठवि

न पराजयेथे न पराजिग्य इति, इति । - तस्यास्य कतरश्चनैनोरित्ययं शेषो ब्राह्मणेनानुदाहृतोऽप्यर्थावबोषाय द्रष्टव्यः । तस्य च सर्वस्यायमर्थः । हे इन्द्राविष्णू युवां न पराजयेथे कदाचि. दपि पराजयं न प्राप्तवन्तौ । एनोरेनयोरिन्द्राविष्ण्वोर्मध्ये कतरचनकोऽपि न पराजिग्ये पराजयं न पाप । एकैकस्यापि यदा पराजयो नास्ति तदानीमु. भयोमिलितयो पराजयो नास्तीति किमु वक्तव्यमिति ।

एतस्यापस्य तात्पर्य दर्शयति

न हि तयोः कतरश्चन पराजिग्ये, इति । उचराध पवति

इन्द्रश्च विष्णो यदपस्टधेयां त्रेधा

सहस्रं वि तदैरयेथामिति, इति । पचदा हे विष्णो त्वं चन्द्रश्च युवामुभावपस्पृषेया स्पर्धामसुरैः सह युद कृतवन्तौ तवदानी सहस्रं षा विभज्यैरयेयां वं तं भागं तस्मै तस्मै स्वामिने सपर्पितवन्तौ ।।

तस्प तात्पर्य दर्शयितुमितिहासमाह- .

. इन्द्रश्च ह वै विष्णुश्वासुरैर्युयुधाते तान्ह इयमिन्द्रं वरुणमष्टमे गी:०-७-८५-१ । ७-८१-५ । बृहस्पतिर्नः परि पातु०-१०-४९-११ । उमा नियुः०-६-७०-८। ।

eragiles en Google

७ सप्तमः खण्डः ] ऐतरेपबामणम् । . . ७२५

स्म जित्वोचतुः कल्पामहा इति ते ह तथे त्यसुरा ऊचुः सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिविक्रमते तावदस्माकमथ युष्माक मितरदिति स इमाल्लोकान्विचक्रमेऽथो वेदा नथो वाचं तदाहुः किं तत्सहस्रमितीमे लोका

इमे वेदा अथो वागिति ब्रूया , इति । . योऽयमिन्द्रो यच विष्णुस्तावुभावसुरैः सह युयुधाते युद्धं कृतवन्तौ । तत स्वावसुराजित्वा वैः सहेदसूचतुः । हेऽसुरा वयं सर्वे कल्पामहै विभागं करवा महा इति । असुरास्तयेत्यत्रीचकुः। तदानीमसुरैः सहेन्द्र एवमब्रवीत् । अयं विष्णुर्यावदस्तूविश्य त्रिविक्रमते वस्तुजाते पादत्रयं प्रक्षिपति तावद्वस्तु सर्वम स्माकं भवतु । अथेतरदवशिष्टं युष्माकमस्त्विति । एवममुरैः सह समयं इत्वा स विष्णुरिमाल्लोकात्रीनप्येकेन पादेन विचक्रमे विक्रान्तवान् । लोक प्रयस्योपर्येकमेव पादं पक्षिप्तवान् । अथो तदनन्तरं वेदान्विचक्रमे सर्वेषां वेदा नायुपर्येक पादं प्रक्षिप्तवान् । अयो तदनन्तरं वाचं विचक्रमे सर्वस्या वाच परि तृतीयं पादं प्रतिसवान् । एवं पादत्रयेणाऽऽक्रान्तं सर्वमिन्द्राविष्ण्यो भांग आसीत् । एवं विभागे व्यवस्थिते सति तत्चन्मचार्ये ब्रह्मवादिनः प्रश्न माहुःषा सहस्रमिति मने यदुक्तं तत्र सहस्रशन्देन किमुच्यत इति । इम इत्यादिकं तदुत्तरं य इमे प्रयो लोका ये चेमे वेदा या चेयं वाक्तदेतदपरि मितत्वस्योपलक्षकेण सहस्रशन्देन विवक्षितमित्युत्तरं श्रूयात् । ययययं मन्त्र स्वैचिरियाणां सप्तमे काण्डेऽतिरात्रस्य यागे दक्षिणारूपगोसहस्रविषयत्वेनो दाहतस्तयाऽप्पत्र सहस्रशन्दः सर्वजगद्विषयत्वेन भुत्यैव व्याख्यायत इत्यु भयार्थत्वमस्तु । यदुक्तमाश्वलायनेन-‘उत्तमे भने परिषानीयाया उत्तमे पचन उत्तम चतुरतरं द्विरुक्त्वा प्रणुयात्’ इति ।

तमेव चतुरसराभ्यासं विधते

ऐयेथामेरयेथामित्यच्छावाक उक्थ्येऽ

भ्यस्यति स हि तत्रान्त्यो भवति, इति । एक्थ्यनामके ऋतावच्छावाक ऐरयेयामिति चतुरक्षरमार्ग द्विरभ्यस्येव । सहि भागस्तत्राच्छावाकानेऽन्त्यो भवति ।

pierde in Google

"

"

.

७२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२८अष्टाविंशाध्याये

अच्छावाकस्याभ्यास विधाय होतुरभ्यास विषवे

अमिष्टोमे होताऽतिरात्रे च स

हि तत्रान्त्यो भवति , इति । अहर्गणेपुक्थ्यसंस्थायां यथाऽच्छावाकस्यान्तिमे शख्नेऽभ्यासस्तथाऽमिष्टो मसंस्थायामविरात्रसंस्थायां होताऽन्तिमे शोऽन्तिम चतुरक्षरभागमभ्यस्येत् । स हि होता तत्रोभयत्रान्त्यः शंसिता भवति । अमिष्टोमे यजरित्रे यजरि प्रोमिति चतुरक्षराभ्यासः । अतिरात्रे तु धेहि चित्रं धेहि चित्रोमिति चतु रक्षराभ्यासः।

पोडशिसंस्थायां विचारपूर्वकं चतुरक्षराभ्यास विषवे

अभ्यस्येषोळशिनी३ नाभ्यस्येश्व, इति। अभ्य स्वेदित्याहुः कथमन्येष्वहःस्वभ्यस्यति कथमत्र

नाभ्यस्येदिति तस्मादभ्यस्येत् ॥ १५॥ इति । . विचारार्य प्लुतिद्वयं तत्राभ्यस्येदिति निर्णयमाहुः । तत्रेयमुपपत्तिः । इतरे वहासु चतुरक्षरभागमभ्यस्यात्रैव परित्यागे कारणं नास्तीति । वमादित्यु. पसंहारः। सख्युः पदे सख्युः पदोश्मिति चतुरक्षराभ्यासो द्रष्टव्यः। … इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

णमाष्येऽष्टाविंशाध्याये सप्तमः खण्डः ॥७॥ (१५) [१०२]

अच्छावाकविषये पुनरपि प्रभमुत्थापयति

अथाऽऽह यन्नाराशंसं वै तृतीयसवनमथ कस्माद च्छावाकोऽन्ततः शिल्पेष्वनाराशंसीः शंसतीति, इति । अथ चतुरक्षराभ्यासकथनानन्तरं ब्रह्मवादी प्रश्नमाह । यद्यमाकारणा घृतीयसवनं नाराशंसं वै नरा मनुष्या ऋभवोऽशिरसो वा यत्र शस्यन्ते तमा राशंसं तत्संबन्धिनि तृतीयसवने सति त(कोस्मात्कारणादच्छावाकोऽन्ततस्तु तीयसवन स्थान्ते)शिल्पाख्येषु शस्त्रेषु नाराशंससंवन्धरहिता ऋचः शंसति। ‘ऋतुर्जनित्रीस्यादिकमच्छावाका शंसति न च वा नरा शस्यन्ते तस्करमुफ

पादितमिति प्रश्नः।

. iedens, Google

७२७

८ भष्टमः खण्डः] ऐतरेयबामणम् ।।

तस्योत्तरमाह

विकृति नाराशंसं किमिव च वै किमिव च रेतो विक्रियते तत्तदा विकृतं प्रजातं भवत्यथैतन्मृद्धिव च्छन्दः शिथिरं यत्राराशंसमथेषोऽन्त्यो यदच्छा

वाकस्तट्टहळतायै हळे प्रतिष्ठास्याम इति, इति । गर्भाशये निषिक्तस्य रेतसो विकृति विकारपरिणी - - - - नारा अंस- - - -परिणामक्रमेणैव भवति । लोके निषिक्तं रेतः किमिव च वै किमिव च क्रमेण किंचित्किंचिदेव विक्रियते । तथा च गर्मोपनिषदि [‘एकरात्रोषितं कलिलं] भवति सप्तरात्रोषितं बुबुदं भवत्यर्धमासाभ्यन्तरेण पिण्डो भवति’ इत्यादि । तत्तादृशं क्रमेण विक्रियमाणं रेतो यदा साकल्येन विकृतं विदं भवति तदा प्रजातं भवति पुत्रादिरूपेणोत्पद्यते । तस्मानाराशंसे

तृतीयसवने विकारस्थानीयोऽन्तिमो भागः । तत्र संपूर्णतयोत्पत्त्यर्थमनारावं. सीनासूचा शंसनमित्यभिमायः। अथान्यदपि कारणमस्ति । यभाराशंसं छन्दो मनुष्यशंसनसंवन्धि च्छन्दोऽस्ति तन्मृद्विव मार्दवोपेतमेव । तस्यैव व्याख्यानं शिविरमिति शिथिलमहदमित्यर्थः । अस्यापि च योऽन्छावाकोऽस्त्येषोऽन्त्य ऋत्विक् । न खेतदीयशंसनस्योपरि किंचिदन्यच्छंसनमस्त्यतोऽन्तिमत्वाइट। तस्मादृढतायै दाार्य हळे() स्थाने प्रतिष्ठास्याम इत्यनेनाभिप्रायेण वासामनाराशंसीनासूचां शंसनमित्पर्यः।

उपपादितमर्थमुपसंहरति

तस्मादच्छावाकोऽन्ततः शिल्पेष्वनाराशंसीः शंसति दृहळतायै दृहुळे प्रतिष्ठास्याम इति

दृहुळे प्रतिष्ठास्याम इति ॥ १६॥ इति । अभ्यासोऽध्यायसमाप्त्यर्थः॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण

भाष्येऽष्टाविंशाध्यायेऽष्टमः खण्डः ॥ ८॥ (१६) [ १०३ ] ’ इति श्रीमद्रामाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य

धुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्येs

टाविंशोऽध्यायः ॥२८॥ १. नामो- - -

priptizer i Google

७२८