२७

अथ सप्तविंशोऽध्यायः ।

प्रावस्तोतोष्णीपसमावेष्टितमूर्धा

मरन्यैरर्बुदसूक्तं विपृणक्ति । कियत्यो वाऽभिष्टवनीयाः कथमेताः

मुब्रमण्याज्ञानमितीह प्रवदन्ति ॥१॥ROYC

प्रथमः खण्डः] ऐतरेयबामणम् ।

६८७ प्रावस्तुत्सुब्रमण्याख्ययोक्रत्विजोः कर्तव्यमुक्त्वा मैत्रावरुणबामणाच्छ स्वच्छावाकनाना होत्रकाणां शस्त्राणि विधातुमाख्यायिकामाह

देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्या यन्यज्ञवेशसमेषां करिष्याम इति तां दक्षिणत उपायन्यत एषां यज्ञस्य तनिष्ठममन्यन्त ते देवाः प्रतिबुध्य मित्रावरुणो दक्षिणतः पर्यो हंस्ते मित्रावरुणाभ्यामेव दक्षिणतः प्रातःसव नेऽसुररक्षांस्यपाघ्नत तथैवैतयजमाना मित्राव रुणाभ्यामेव दक्षिणतः प्रातःसवनेऽसुररक्षांस्य पनते तस्मान्मत्रावरुणं मैत्रावरुणः प्रातःसवने शंसति मित्रावरुणाभ्यां हि देवा दक्षि

णतः प्रातःसवनेऽसुररक्षांस्यपानते, इति । यदा देवा यज्ञमकुर्वत तदा तान्कुर्वाणान्देवानसुरा अभित आगच्छन् । असुरशब्देन रक्षांस्यप्युपलक्ष्यन्ते । एषां देवानां यज्ञवेशसं यज्ञविघातं करि ष्याम इत्यसुराणामभिप्रायः । एषां देवानां संबन्धिनो यज्ञोपलक्षितस्य देव यजनदेशस्य यतो यस्मिन्दक्षिणदेशभागे तनिष्ठमतिशयेन तनुरूपमत्यन्तदुर्बलं स्थानमिदमित्यसुरा अमन्यन्त । सर्वेषामुत्विजामाहवनीयादिदेशेष्ववस्थित त्वेन संदसो दक्षिणभागे रक्षकाभावादुर्बलस्थानमित्यमुराणां बुद्धिरासीत् । दक्षिणतस्तस्मिन्सदसो दक्षिणभागे तान्देवानसुरा उपायन्माप्तवन्तः । ते देवा. स्वस्कररूपेण समागतानसुरान्मतिबुध्य तस्मिन्दक्षिणतो मित्रावरुणो द्वौ देवी पोहब्रक्षकत्वेनावस्थापितवन्तः । ततस्ते देवा मित्रावरुणाभ्यामेव धानुष्का भ्यामत्यन्तभूराभ्यां दक्षिणदेशे प्रातःसवनकाले तानसुराव्रक्षासि चापानता. पसारितवन्तः । तथैवेदानीतना अपि यजमानाः प्रातःसवनकाले दक्षिणदेशे मित्रावरुणाभ्यामेव देवाभ्याममुरारक्षांसि चापसारयन्ति । तमादपसार णायें मित्रावरुणदेवताकं शस्त्रमा नो मित्रावरुणेत्यादिकं मैत्रावरुणाख्य ऋत्वि कमातःसवने शंसेत् । तस्मादेवा मित्रावरुणाभ्यामपसारितवन्तः । तस्मान्मत्रा वरुणं शस्त्रं युक्तम् ।

स. स देशोद।

1.11111


—– —- - —– . - —

१८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -२७सप्तविंशाध्याये

उपाख्यानमुखेन मैत्रावरुणस्य शत्रं विधाय तथैव ब्राह्मणाच्छसिनः शस्त्रं विधत्ते

ते वै दक्षिणतोऽपहता असुरा मध्यतो यज्ञं प्राविशंस्ते देवाः प्रतिबुध्येन्द्रं मध्यतोऽदधुस्त इन्द्रेणैव मध्यतः प्रातःसवनेऽसुररक्षांस्यपा घ्नत तथैवैतद्यजमाना इन्द्रेणैव मध्यतः प्रात: सवनेऽसुररक्षांस्यपन्नते तस्मादैन्द्रं ब्राह्मणा च्छंसी प्रातःसवने शंसतीन्द्रेण हि देवा

मध्यतः प्रातःसवनेऽसुररक्षांस्यपानत, इति । ते दक्षिणदेशादपसारितां असुराः प्राचीनवंशस्य सदसश्च मध्ये यज्ञभूमि पाविशन् । आयाहि सुषुमाहित इत्यादिकमिन्द्रदेवताक शस्त्रम् । अन्यत्पूर्व वयाख्येयम् ।

इदानीमच्छावाकस्य शस्त्रं विधचे

ते वै मध्यतोऽपहता असुरा उत्तरतो यज्ञं प्रावि शंस्ते देवाः प्रतिबुध्येन्द्राग्नी उत्तरतः पौहंस्त इन्द्राग्निभ्यामेवोत्तरतः प्रातःसवनेऽसुररक्षांस्य पानत तथैवैतयजमाना इन्द्राग्निभ्यामेवोत्तरतः प्रातःसवनेऽसुररक्षांस्यपन्नते तस्मादैन्द्राग्नम च्छावाकः प्रातःसवने शंसतीन्द्राग्निभ्यां हि देवा

उत्तरतः प्रातःसवनेऽसुरक्षास्यपानत, इति । इन्द्रामी आगतं सुतमित्यादिकमैन्द्रामं शस्त्रम् । अन्यत्पूर्ववद्याख्येयम् । प्रातःसवनाभिमानी देवोऽमिरित्येतमर्थ दर्शयति

ते वा उत्तरतोऽपहता असुराः पुरस्तात्पर्यद्रव न्समनीकतस्ते देवाः प्रतिबुध्याग्निं पुरस्तात्मातः सक्ने पौहंस्तेऽग्निनैव पुरस्तात्मातःसवनेऽसु ररक्षांस्यपाघ्नत तथैवैतद्यजमाना अग्निनैव पुर

  • -..–..— …

…——

…..—- —-


-.-

-.-.–..-.


–.–..–१ प्रथमः खण्डः] ऐतरेयब्राह्मणम् ।

स्तात्मातःसवनेऽसुररक्षांस्यपनते

तस्मादामेयं प्रातःसवनम्, इति । त इन्द्राग्निभ्यामुत्तरतोऽपसारिता असुराः समनीकतः सङ्ग्रामार्थ समीची. नसैन्यैर्युक्ताः पुरस्ताद्यभूमे पूर्वस्यां दिशि पर्यद्रवन्परितः माताः । ते देवाः प्रतिबुध्येत्यादि पूर्ववत् । यस्मात्पूर्वस्यां दिशि रसकोऽमिस्तस्मादिदं भातासब नममिसंवदं द्रष्टव्यम् ।

वेदनं प्रशंसति

अप पाप्मानं हते य एवं वेद, इति । मातःसवनाभिमानिनमनि प्रशस्य तृतीयसवनाभिमानिनो विधान्देवा न्मशंसति

ते वै पुरस्तादपहता असुराः पश्चात्परीय प्रावि शंस्ते देवाः प्रतिबुध्य विश्वान्देवानात्मानं पश्चा तृतीयसवने पहिस्ते विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवनेऽसुररक्षांस्यपानत तथैवैतधज माना विश्वेरेव देवैरात्मभिः पश्चात्तृतीयसवनेऽसु. ररक्षांस्यपनते तस्माद्वैश्वदेवं तृतीयसवनम्, इति । अमिना प्राच्या दिशोऽपसारिता असुरा रक्षांसि च प्रतीच्यां दिशि परितो गत्वा याभूमि प्राविशन् । देवाश्च प्रतिबुध्य विश्वान्देवांस्तृतीयसवनवेलाया प्रतीच्यां दिशि रक्षार्थ प्रेषितवन्तः । आत्मानमिति । विश्वेषां देवानां विशे– पेण ये प्रेरका देवास्तेषामात्मभूतान्खशरीरवदत्यन्तमातान्विश्वान्देवानि त्यर्थः । तैविधैर्देवैरितरदेवात्मभूतैरसुराणां तृतीयसक्नेऽपहतत्वादिदं तृतीय सवनं वैश्वदेवम् ।

वेदनं प्रशंसति

अप पाप्मानं हते.य एवं वेद, इति। . पुनरपि प्रदेशान्तरे प्रवेशशां वारयितुमसुराणां सर्वात्मना विनाश दर्शयति

.. ११ मा नाना HIT CGadigfe

ते वै देवा असुरानेवमपानत सर्वस्मादेव

६९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२७सप्तर्विशाध्याये

यज्ञात्ततो वै देवा अमवन्पराऽसुराः, इति । उक्तक्रमेण सर्वतोऽपसारितेष्वसुरेषु देवाः शत्रुरहिता अभवन् । असुराध पराभूताः।

. वेदनं प्रशंसति

भवत्यात्मना पराऽस्य द्विषन्पाप्मा

भ्रातृव्यो भवति य एवं वेद, इति । आत्मनो खेनैव रूपेण शत्रुरहितेन सुखी भवति । देषी तु पाप्पा पराभवति ।

• उपाख्यानमुपसंहरति

ते देवा एवं कृप्तेन यज्ञेनापासुरान्पा

प्मानमनताजयन्स्वर्ग लोकम् , इति । एवं पूर्वोक्तमकारेण कृतेन मित्रावरुणादिभिर्दक्षिणादिदेशविशेषेषु रक्षितो यो यस्तेन पापरूपानसुरानपहत्य देवाः स्वर्ग लोकं प्रामुवन् ।

वेदन तत्पूर्वकमनुष्ठानं च प्रशंसति

अप ह वै विषन्तं पाप्मानं भ्रातृव्यं हते जयति स्वर्ग लोकं य एवं वेद

यश्चैवं विद्वान्सवनानि कल्पयति ॥४॥ इति । सवनगतानां होत्रकाणां मैत्रावरुणादिशस्त्रसंपादनमेव सवनकल्पनम् । .

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयनाम

णभाष्ये सप्तविंशाध्याये प्रथमः खण्डः ॥ १॥(४) [१९१]. अथ तेषां होत्रकाणामहर्गणेषु शस्त्रेषु प्रकारविशेष विधत्ते

स्तोत्रियं स्तोत्रियस्यानुरूपं कुर्वन्ति प्रातः सवनेऽहरेव तदह्रोऽनुरूपं कुर्वन्त्यवरे

णैव तदहा परमहरभ्यारभन्ते, इति । पृष्ठचपल(ड)हादिष्वहर्गणेषु बहून्यहानि विद्यन्ते । तेषु प्रातःसवने द्विती

क.स. ‘ना स्पेन स्खें।

Prestige in Google

.

२ द्वितीयः खण्डः] ऐतरेयबामणम् । यस्याहो या स्वोत्रियस्यूचस्तं चं प्रथमेऽहनि स्तोत्रियस्य त्र्यूचस्थानुरूप कुर्युः । सामगा यस्मिस्यूचे स्तोत्रं कुर्वन्ति स चा स्तोत्रियः । तस्य स्वोत्रि यस्य च्छन्दोदेवतांदिना सहशोऽन्यो यस्य॒चः सोऽनुरूपः । तया सति सर्वे वहास्वेकैकस्मियचे सामगाः स्तोत्रं कुर्वन्ति । ते सर्वे चाः स्तोत्रियाः। वत्र सर्वत्रोत्तरदिनगतं स्तोत्रियं पूर्वदिने स्तोत्रियस्थानन्तरभाविनमनुरूपं कुर्यात् । अयं च नियमो होत्रकाणां शरेषु प्रातःसवने द्रष्टव्यः । एवं सत्युत्त रमहरेव पूर्वस्याहो पं कुर्वन्ति । तत्तया सत्यवरेणैवातीतेनैव पूर्वेणाझा पर मुचरमहरमिमुखीकृत्याऽऽरभन्त उपक्रमन्ते ।।

माध्यंदिनसक्नेऽप्यस्य न्यायस्य प्रसक्तौ तं निषेषति

अथ तथा न मध्यंदिने श्री पृष्ठानि तानि तस्मै न तत्स्थानानि यत्स्तो

त्रियं स्तोत्रियस्यानुरूपं कुर्युः, इति । अथ मातासबनानन्तरं माध्यंदिने तथा न तेन पूर्वोक्तमकारेण न कुर्या दिति शेषः। तत्र हेतु:-श्रीर्वै पृष्ठानीति । यानि मध्यंदिनसक्ने पृष्ठस्तो पाणि तानि श्रीवै संपदूपाण्येव । श्रीरूपत्वेन सामगैः स्तुतत्वात् । नहि भीकपाणां स्वतत्राणामन्यानुवृत्तित्वलक्षणमनुरूपत्वं युक्तम् । तस्मात्तानि पृष्ठ. स्तोत्राणि तस्मै तस्मिन्माध्यदिने सक्ने तत्स्थानानि प्रातःसवनस्थानानि न भवन्ति तत्साहशानि न भवन्तीत्यर्थः । भातासवने खुत्तरदिनगतं स्तोत्रिय पूर्वदिनगतस्तोत्रियस्यानुरूपं कुर्वन्ति । यद्यस्मात्कारणादत्रापि तथा कुर्मुस्ता एवं कारणं नास्ति तुल्यच्छन्दस्त्वादीनामभावात् । तस्मात्पृष्ठस्तोत्राणां पूर्वो. चरदिनेषु सादृश्याभावात्मातःसवनन्यायोऽत्र न घटते।

माध्यंदिनसवनन्यायं तृतीयसवनेऽतिदिशति

तयैव विभक्त्या तृतीयसवने न स्तोत्रियं

स्तोत्रियस्यानुरूपं कुर्वन्ति ॥५॥ इति । विभक्तिशब्दः प्रकारवाची । तेनैव माध्यदिनोक्तभकारेण तृतीयसवनेऽप्यु परदिनगते स्तोत्रियं पूर्वदिनगतस्य स्तोत्रियस्यानुरूप न कुर्वन्ति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयबामण भाष्ये सप्तर्विशाध्याये द्वितीयः खण्डः ॥२॥ (५)[ १९२]

१८. “दिनस्तो । १ ख. स्मिन्मध्य । rate is fr/Dgic

६९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२७सप्तविंशाध्याये

होत्रकाणां स्तोत्रियानुरूपमुक्त्वाऽऽरम्भणीया ऋचो विधत्ते

अथात आरम्भणीया एव, इति । अथ स्तोत्रियानुरूपानन्तरं यस्माच्छखस्योत्तरभाविन आरम्भो युक्तोऽवोs. स्मात्कारणादारम्भणीया ऋचो विधीयन्ते । एवकारोऽहर्गणेषु चोदकमाताया ऋचो व्यावस्यर्थः।

तत्र मैत्रावरुणाख्यस्य होत्रकस्याऽऽरम्भणीया(यां) दर्शयति

ऋजुनीती नो वरुण इति मैत्रावरुणस्य मित्रो नयतु विद्यानिति प्रणेता वा एष होत्रकाणां

यन्मैत्रावरुणस्तस्मादेषा प्रणेतृमतीभवति, इति । ऋजुनीतीत्यस्यामृचि मित्रो नयत्विति द्वितीयः पादः । तत्र नयत्विति प्रणेतृवाचकं पदं दृश्यते । मैत्रावरुणश्च होत्रकाणां प्रणेता प्रवर्तकस्वस्माहगेषा प्रणेतृवाचि(च)कशन्दवती भवति तब युक्तमित्यर्थः ।

अन्यस्याऽऽरम्भणीय(यां) विधत्ते

इन्द्रं वो विश्वतस्परीति ब्राह्मणाच्छंसिनो हवा.

महे जनेभ्य इतीन्द्रमेवैतयाऽहरहनिह्वयन्ते, इति । इन्द्रं व इत्यस्यामूचि हवामह इति द्वितीयः पादः। तत्राऽऽहानवाचिना शंन्दस्य विद्यमानत्वादेतयर्चा प्रतिदिनमिन्द्र नितरामाहू(ह)यन्ते ।

वेदनं प्रशंसति

न हैषां विहवेऽन्य इन्द्रं वृक्ते यत्रैवं विद्वा

ब्राह्मणाच्छंस्येतामहरहः शंसति, इति । एवं विद्वानिन्द्राहानप्रतिपादिकेयमृगिति विद्वान्यत्र शंसति तस्मिभेषां यजा मानानां संबन्धिनि विहवे विशेषेणाऽऽहानयुक्ते योऽन्यः कविच्छत्रुरिन्द्र न ह नैव वृक्के वर्जयत्येतदीये यन इन्द्रागमनं निराकर्तुं न शक्रोतीत्यर्थः ।

अन्यस्याऽऽरम्भणीयां विधत्ते

यत्सोम आ सुते नर इत्यच्छावाकस्येन्द्रामी

अजोहवुरितीन्द्राग्री एवैतयाऽहरहनियन्ते __ ऋजुनीती नो वरुणः०-१-९०-१ । इन्द्रं वो विश्वतस्परि०-१-८-१०।

यत्सोम आ सुते नरः०-७-९५-१०।

sagten der Google

.

१ चतुर्थः खण्डः ऐतरेयबामणम् ।

न हैषां विहवेऽन्य इन्द्रानी वृङ्क्ते यत्रैवं

विहानच्छावाक एतामहरहः शंसति, इति । यत्सोम इत्यस्यामचीन्द्रामी इति द्वितीयः पादः । अजोहबुरिति होमार्थ आहानार्थो वा धातुः । अन्यत्पूर्ववब्याख्येयम् ।

उक्तानापारम्भणीयानामृचा त्रयं प्रशंसति

ता वा एताः स्वर्गस्य लोकस्य नावः संपारिण्यः

स्वर्गमेवैताभिर्लोकमभिसंतरन्ति ॥६॥ इति । ताः पूर्वोक्ता ऋजुनीती इन्द्र वो यत्सोम इत्येतास्तिस्रः स्वर्गमाप्तये नौस्था नीयाः सम्यक्पारं नयन्तीति संपारिण्यः । यथा नावा नदी तरति तथैताभि. प्रग्भिः स्वर्ग लोकमभिलक्ष्य नदीस्थानीय प्रौढं मार्ग सम्यक्तरन्ति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण

भाष्ये सप्तविंशाध्याये तृतीयः खण्डः ॥ ३ ॥ (६)[ १९३]

होत्रकाणां शस्त्रारम्भणसाधनभूता ऋचो विधाय समाप्तिसाधनभूता ऋचो विषत्ते

__ अथातः परिधानीया एव, इति । अथ शसपारम्भानन्तरं यस्मात्परिधान समापनमपेक्षितं तस्मात्परिधानीया ऋचो विधीयन्ते । एवकारः प्रकृतव्यावृत्त्यर्थः । एकस्य स्तोत्रकस्य परिधानीयां विधत्ते

ते स्याम देव वरुणेति मैत्रावरुणस्येषं स्वश्च धीमहीययं वै लोक इषमित्यसौ लोक:

खरित्युभावेवैतया लोकावारमन्ते, इति । . ते स्यामेत्पस्यामचीर्ष स्वश्रेति तृतीयः पादः।तषमित्यनेन पदेनाभीष्टत्या. दयं लोको विवक्षितः । स्वरित्यनेन पदेनासौ स्वर्गलोकः । तथा सति लोकद्वयं धीमहि ध्यायेमेति मोऽभिधानादेतयर्चा द्वावपि लोकावारभन्ते मामुवन्ति ।

…..

— ..

–..—


ते स्याम देव वरुण-७-६६-९।

Si preçlizes in Google

—………… -.

.

.


६९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२७सप्तविंशाध्याये

अन्यस्य परिधानीयां विधवे ___ व्यन्तरिक्षमतिरदिति ब्राह्मणाच्छंसिनो विव

तृचं स्वर्गमेवैभ्य एतया लोकं विवृणोति, इति । यस्मिंस्तृचे व्यन्तरिक्षमित्युगेषा भूयते सोऽयं विशम्दत्वाद्विवत्तृवशन्देनामि धीयते । तेन तृचेन साध्यो यः स्वर्गो लोकस्तमेतया व्यन्तरिक्षमित्यूचा यज. मानेभ्यो विवृणोति विद्वतद्वारं करोति ।

तस्याचि द्वितीयतृतीयपादौ पठति

मदे सोमस्य रोचना। इन्द्रो यदभिनवलमिति, इति । तस्या ऋचोऽयमर्थः। इन्द्रो देवः सोमस्य रोचना रुचिं माप्येति शेषः। ततो मदे हर्षे सत्यन्तरिक्ष व्यतिरत् । विशेषेण यजमानानां गमनयोग्यमक रोत् । यद्यस्मात्कारणाद्वलनामानमसुरमभिनद्विदारितवांस्तमादन्तरिक्षमार्ग: सुगमः।

अत्र वलभेदनमभिप्रेत्य तामृचं प्रशंसति

सिषासवो वा एते यहीक्षितास्त.

स्मादेषा वलवती भवति, इति । ये दीक्षिताः सन्ति ते सिषासवो लुब्धकामाः फलार्थिनस्तस्मात्कारणारगेला बलवती वलनामकासुरभेदप्रतिपादिका कर्तव्या भवति ।

यद्यपीयमुक्परिधानीया न भवति तथाऽप्येतदादिके त्र्यूचेऽन्तिमाया ऋचः परिधानीयात्वात्तत्मदर्शनाय च उपक्रान्तस्तस्मिन्मयमामृचमनूष व्याख्याय द्वितीयामृचमनूध व्याचष्टे

उगा आजदगिरोभ्य आविष्कृण्वन्गुहा सतीः। अर्वाञ्चं नुनुदे वलमिति सनिमेवैभ्य एतयाऽवरुन्धे , इति । अङ्गिरोभ्यो महर्षिभ्यः सतीविद्यमाना गा उदाजदूर्ध्वं प्रेरितवान् । किं कुर्वन्गुहा वलस्यासुरस्य संवन्धि गूढ स्थानमाविष्कृण्वन्मकटीकुर्वन् । अर्वाच मतिनीचं वलनामकमसुरं नुनुदे विनाशितवान् । अयमर्थः । वलनामाख्या कश्चिदसुरो महर्षीणां गा अपहत्य कस्मिंश्चिदिलेऽवस्थाप्य पाषाणेन विल. व्यन्तरिक्षमतिरत्०-८-१५-७ । उद्गा आजदगिरोभ्यः०-८-११-८।


स. शन्दादि।

1.11111

। चतुर्थः खण्डः] ऐतरेयबामणम् ।

६९५ द्वारमाच्छाधावस्थितस्तं वृत्तान्तमिन्द्रोऽवगत्य गुहाद्वारमुद्धाव्य वलनामानमसुर मपनुष तत्रावस्थिता महर्षीणां गा बिलादुद्धृत्य महर्षिभ्यो दत्तवानिति । अय मर्यः शाखान्तरे विस्पष्टमानायते-‘इन्द्रो वलस्य बिलमपौर्णोत् । स म उत्तमः पारासीत् । तं पृष्ठं प्रतिसंगृलोदक्खिदत्तं सहस्रं पशवोऽनूदायन्स उनतोऽम बद’ इति । एतया न्यूचगतया द्वितीययर्चा सनिमेव लाभमेवैभ्योऽवरुन्चे संपादयति ।

अय तृतीयायचं परिधानीयां विवक्षा प्रथमपादमनूध व्याचष्टे

इन्द्रेण रोचना दिव इति स्वर्गों वै __ लोक इन्द्रेण रोचना दिवः , इति । दिवा स्वर्गविशेषा इन्द्रेण देवेन रोचना रोचमाना दीप्तियुक्ताः कृता इति वेषः । अनेन पादेन स्वर्गलोकवर्णनं विवक्षितम् । इन्द्रेणेत्यादिकस्यार्थस्य तत्र विद्यमानत्वात् ।

द्वितीयतृतीयपादावनुवदति

दृहळानि इंहितानि च । स्थि

राणि न पराणुद इति, इति । तस्मिन्स्वर्गे यानि हड्ळानि प्रकाशरूपाणि नक्षत्राण यानि च पूर्वमहता. वपि रहितानीन्द्रेण दृढीकृतानि तानि सर्वाण्यपि स्थिराणि कृत्वा न पराणुद इन्द्रो न विनाशितवान् ।

स्वर्ग एवैतया लोकेऽहरहः प्रतितिष्ठन्तो यन्ति, इति । अस्यामचि स्थिराणां स्वर्गस्थानानां नक्षत्रादिशरािणां श्रूयमाणत्वादेत पर्चा परिधाने सति प्रतिदिनं स्वर्ग एव लोके प्रतिष्ठा प्राप्तवन्तो यन्ति वर्तन्ते ।

अन्यस्य परिधानीयां विधते

आऽहं सरस्वतीवतोरियच्छावाकस्य वाग्वै सर स्वती वाग्वतोरिति हैतदाहेन्द्राग्न्यारवो वृण इत्येतद् वा इन्द्राग्न्योः प्रियं धाम यहा

गिति प्रियेणैवेनौ तद्वाना समर्धयति, इति । इन्द्रेण रोचना दिवः०-८-१५-९ । आऽहं सरस्वतीवतोः०-८-३९-१० ।

म.त् । मव ।

thesizes in Google

11:

..

. .

..

..

६९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२७सप्तविंशाध्याये

आऽहमित्यादिः प्रथमः पाद इन्द्राग्न्योरित्यादिद्वितीयः पादः । तस्या स्यायमर्थः । अहमनुष्ठाता सरस्वतीवतोः सरस्वतीयुक्तयोरिन्द्राग्न्योर्देवयोः संबन्धि यदवः सुरक्षित स्थानमस्ति तदाटणे सर्वतः पार्थयति । अत्र प्रथमपादे सरस्वतीशब्देन वेदशास्त्रस्वरूपा वागेव विवक्षिताऽतः सरस्वतीवतोरित्येवं. रूपो मनो वाग्वतोरित्येतमेवार्थमाह । द्वितीयपादे त्ववाशब्देन मुरतिव. मिन्द्रामिदेवतयोर्यत्मियं धाम विवक्षितं तद्वायूपमेव वाग्व्यवहारे तयोरत्यन्त. प्रीतिमत्त्वात् । तस्मादेतासूचं पठभेव विन्द्रामी पियेणैव धान्ना स्थानेनैव सम र्धयति समृदौ करोति । वेदनं प्रशंसति

प्रियेण धाना समृध्यते य एवं वेद ॥७॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णभाष्ये सप्तविंशाध्याये चतुर्थः खण्डः ॥४॥(७) [१९४]

… - . .-


– .

.—-

अथ परिधानीयां स्तोतुमुपक्रमते

उभय्यः परिधानीया भवन्ति होत्रकाणां प्रातः

सवने च माध्यंदिने चाहीनाश्चैकाहिकाश्च, इति । होत्रकाणां मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां सवनद्वये परिधानीम द्विविधा भवन्ति । कथं तदुच्यते । अहीना अहर्गणेषु विहिता ऐकाहिका एकाहे प्रकृतिरूपे विहिता इत्येवं दैविध्यम् ।

तत्र होत्रकविशेषस्य परिधानीयाविशेषं दर्शयति

तत ऐकाहिकाभिरेव मैत्रावरुणः परिद

धाति तेनास्माल्लोकान प्रच्यवते, इति । ततस्तासूभयविधासु मैत्रावरुणाख्यविगैकाहिकाभिरेव परिदध्यात् । वे स्याम देव वरुणेति प्रकृतौ प्रातःसवने मैत्रावरुणस्य परिधानीया विहिता। माध्यंदिनसक्ने नूष्टुत इन्द्र न गुणान इत्येषा विहिता । अहीने विकृतिरू पेऽपि सवनद्वये तदेव परिषानीयाद्वयं मैत्रावरुणस्य द्रष्टव्यम् । कथमिति तदु. च्यते । अहर्गणस्य प्रातःसवने हि मैत्रावरुणस्य प्रति वां सूर उदित इत्यस्य पर्यायव्यूचस्यान्त्या ते स्याम देव वरुणेत्येषा परिधानीया । ऐकाहिकाप

१४. ‘स्याय।

phelizes in Google

  • पञ्चमः खण्डः] ऐतरेयबामणम् ।

सैव परिपानीया भवति । तथा हि प्रकृती मैत्रावरुणस्य म मित्रयोर्वरुणयो रिति नवाऽऽयातं मित्रावरुणेति याज्येति सूत्रकारवचनामवानामन्त्या सैवे. त्रकाहिकाभिरेव मैत्रावरुणः परिदधातीत्येतदुपपनं भवति । तथा माध्यंदिन. सबनेऽप्या सत्यो यात्वित्यहीनसूक्तमिति वक्ष्यति । याऽहीनसूक्तान्तवा साs. हीनस्य तत्र परिषानीया । अहीनसूक्तान्तं हि माध्यंदिनसबने मैत्रावरुणशसं तस्य न धुत इन्द्र नू गुणान इत्येषाऽन्त्या। तथा प्रकृतावपि सैव परिघानीया। क्या हि । कया नश्चित्र आभुवत्कया त्वं न ऊत्या कस्तमिन्द्र त्वा वसु सपो

जात एवा स्वामिन्द्रोशत्रु षु णः सुमना उपाक इति याज्योति सूत्रकारवच नादेवा त्वामिन्द्र वजिमनेत्येतस्यैकादशर्चस्यान्त्या न टुत इन्द्र नू गुणान । इत्येपैवेति मैत्रावरुणस्य प्रातःसवने माध्यंदिनसवने चैकाहिकाभिः परिषानमु

पपलं भवति । ऐकाहिकाभिरेवेत्येवकारोऽन्यशकाव्याश्यर्थः। या ऐकाहिका: परिघानीयास्ता एव चाहर्गणे मैत्रावरुणस्य परिघानीया न त्वन्या इत्यर्थः। बयपि मैत्रावरुणस्य प्रकृतौ सवनयोरुभयोर्दै एव परिषानीये तथाऽपि प्रयो गबहुत्वापेक्षमैकाहिकाभिरिति बहुवचनम् । तेन मैत्रावरुणस्य प्रकृतिवि. इत्योः परिघानीयाभेदराहित्येनायं मैत्रावरुणोऽस्माल्लोकात्कदाचिदपि न पच्यवते ।

मैत्रावरुणस्य प्रकृतिविकृत्योः परिधानीयामेकामुक्त्वाऽच्छावाकस्य प्रकृति विलक्षणं सवनद्वये परिघानीयाद्वयं दर्शयति

अहीनाभिरच्छावाकः स्वर्गस्य लोकस्याऽऽप्यै, इति।। योऽयमच्छावाकः सोऽयमहीनगताभिधंग्भिः परिदध्यान त्वैकाहिकाभिः । वथा हि । आऽहं सरस्वतीवतोरित्यच्छावाकस्यति पूर्वस्मिन्खण्डे विहिात्वा स्वातःसवन एषाऽहर्गणसंबन्धिनी परिधानीया। ऐकाहिके तु गोमदरण्यव. दियेषेत्र परिधानीया माध्यंदिनेऽच्छावाकस्य नूनं सा त इत्यहाणगता परि पानीया। एकाहे तु भुनं हुवेमेति मध्यंदिने परिधानीया । एवं सत्यच्छावा कस्यैकाहिकपरिषानीयापरित्यागेनोपरितनस्याहर्गणस्य संवन्धिन्याः परिषा. नीयायाः स्वीकार उपरि च स्वर्गलोकप्राप्त्यै संपचते। अथ ब्राह्मणाच्छंसिनः परिधानीया(या) दर्शयति

उभयीभिर्ब्राह्मणाच्छंसी तेनो स उभी व्यन्वारभ माण एतीमं चामुं च लोकमथो मैत्रावरुणं चाच्छा १क. स. स. ट. ‘न्यत्र ।

anglies by Google

.. ६९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२७सप्तविंशाध्याये

वाकं चाथो अहीनं चैकाहं चाथो संवत्सरं चामि टोमं चैवमु स उभी व्यन्वारभमाण एति, इति । योऽयं प्रामणाईसी सोऽयमुभयविधामिरैकाहिकाभिरहीनमतामिव ऋग्भिः परिदध्यात् । प्रातःसवने प्रकृतौ स न इन्द्रः शिवः सखेति परिषा नीया । विकृतौ तु इन्द्रेण रोचना दिव इति पूर्वखण्डेऽभिहिता । माध्यदिनस बने प्रकृती विकृतौ चैवेदिन्द्रं वृषणं वज्रबाहुमित्येकैव परिघानीया। एवं सत्यस्य ब्रामणाच्छंसिनः प्रातःसवनेऽच्छावाकसाम्यं माध्यंदिने सक्ने मैत्रा वरुणसाम्यं संपनम् । तेनो तेनैवैकाहिकाहीनगतोभयविषयंसनेनैव स ब्रामणाच्छंसी भूलोकस्वर्गलोका उभावपि व्यन्वारभमाणो विविध स्पर वेति गच्छति वर्तत इत्यर्थः । प्रातःसक्ने प्रकृतिविकृत्योः परिघानीयाविलक्ष णत्वाल्लोकदयस्य पृथगेच स्पर्शः । माध्यंदिनसक्ने प्रकृतिविकृत्योः परिधानी पैक्याल्लोकदयस्य सहस्पर्श इत्येवं विविधस्पर्शोव्यन्वारम्भणन्देन विवक्षितः। अथो अपि चायं ब्रामणाच्छंसी मैत्रावरुणं चाच्छावाकं चोभारत्विजोम्यन्या रभमाण एति विविधमुपस्पृशन्वर्तते । कथमिति तदुच्यते । यथा मैत्रावरुणस्य प्रकृतिविकृत्योः परिधानीयैक्यं तथा ब्रामणाच्छंसिनोऽपि माध्यंदिनसबने सदैक्यम् । ययाऽच्छावाकस्य प्रकृतिविकृत्योः परिघानीयावलक्षण्यमेवं ब्राम णाच्छंसिनः प्रातःसवने तद्वैलक्षण्यमिति । मैत्रावरुणाच्छावाकविषयोऽयं विवि. घस्पर्शस्तथैवाहीनकाहविषयेऽपि विविधस्पर्श जहनीयः । कथमिति तदुच्यते । मात:सक्नेऽहीनैकाहयो_लक्षण्येन स्पर्शः। माध्यंदिने सवने साहश्येन सर्व इत्युभयविधत्वम् । तथा संवत्सरं गवामयनमूलप्रकृतिपूर्वममिष्टोमं च विविध

सूचति । अहीनैकाहस्पर्शवदेतदुभयस्पर्शस्य योजनीयत्वात् ।।

इत्य हारकाणां सवनद्वयगताः परिधानीयाः प्रशस्य तृतीयसवनगताः परि. घानीयाः प्रशंसति

अथ तत ऐकाहिका एव तृतीयसवने होत्रकाणां परिधानीया भवन्ति प्रतिष्ठा वा एकाहः प्रति

छायामेव तद्यज्ञमन्ततः प्रतिष्ठापयन्ति, इति । एकाहे मूलमकृतौ ज्योतिष्टोमे होगकाणां या एल परिधानीयास्वा एवाह गणे तृतीयसवने द्रष्टव्याः । तथा हि । आवां राजानाविति नित्यमैकाहिकमिति वचनान्मत्रावरुणस्याऽऽवां राजानाविति सूक्तस्यान्त्या परिघानीया भवति ।

pişsizes in Google

14… . . .

. ..

. .

. .

५ पञ्चमः खण्डः] ऐतरेयमामणम् ।

६९९ क्या ब्राह्मणाच्छंसिनोऽप्यच्छा म इन्द्रमिति नित्यमेकाहिकमिति वचनादच्छा म इन्द्रमिति सूक्तस्यान्त्या परिघानीया भवति । तथाऽच्छावाकस्य ऋतुर्जनि श्रीति नित्यान्यैकाहिकानीति वचनात्संवां कर्मणेति सूक्तस्यान्त्या परिघानीया भवति । योऽयमेकाहः स मूलपकृतित्वालतिष्ठा सर्वासां विकृतीनामाषारः। अतस्तेनैकाहिका(क)परिषानीयासनेन यज्ञमन्ततोऽवसानकाले प्रतिष्ठायां सर्वापारे प्रतिष्ठापयन्ति । - इत्यं परिघानीयाः प्रशस्य प्रातःसवनगतानां याज्यादीनां मध्येऽवसाना. मावं विषते

अनवानं प्रातःसवने यजेव, इति । अनवानमनुच्छासो मध्ये यया भवति तथा याज्यां पठेत् । स्वोमवृद्धौ नियमविशेष विधत्ते

एकां वे न स्तोममतिशंसेत्तद्यथाऽभिषते पिपासते क्षिप्रं प्रयच्छेत्ताहक्तदथो क्षिप्रं देवेभ्योऽवाचं सोमपीथं प्रयच्छानीति

क्षिप्रं हास्मिल्लोके प्रतितिष्ठति, इति । त्रिवत्पबदनसप्तदशैकविंशत्रिण(नवप्रयस्त्रिंशादयः स्तोमा विहिताः। विहि तस्य सप्तदशस्तोमस्य विदयाऽष्टादशादिस्तोमा निष्पाधन्ते । तथा विहित स्यैकविंशस्य विद्या द्वाविंशादयः स्वोमाः संपचन्ते । अनेनैव दृष्टान्तेन शंसनेऽप्याधिक्यं प्रसक्तं यथा वाव स्तोत्रमेवं असमिति न्याया। स तत्व) प्राकृताः स्वोमाः स्तोमे वर्धमाने सति तां स्तोमगतामुक्संख्यामतिक्रम्य अंसनं वदतिशंसनं यदा क्रियते तदानीमेकस्या द्वयोर्वा चोरभ्यनुज्ञा नेन) त्वषि कानामृचाम् । अक्षरार्थस्तु यदा स्तोममतिशंसेत्स्तोमसंख्यामतिक्रम्य शंसने कुर्याचदानीमेका द्वे वाऽतिक्रम्य [न] शंसेत् । किं त्वेकयैव वा द्वाभ्यामेव वाs. विसेत् । तथा च सूत्रकार माह-‘अतिशंसनमेकया द्वाभ्यां वा मातःसवने’ इति । ततोऽधिकानां शंसनामावे युक्तिदृष्टान्तमुखेनोच्यते । तत्रायं दृष्टान्तोऽ. भगन्तव्यः । यथा लोकेऽमिहेषते घासार्थमाभिमुख्येन हेपाशब्दं कुर्वतेऽवाय पिपासतेऽत्यन्तं वषार्ताय पुरुषोऽमाचं पानीयं शिमं प्रयच्छेत्ताहगेव तरवाहु स्थामावेनातिशंसनम् । अयो अपि च शिममेव देवेभ्या सोमपानरूपममा प्रयच्छती(च्छानी)त्यभिमेत्य ऋग्वाहुल्येन विलम्बमकृस्वैकया दाभ्यां वाऽति चंसनं कुर्यात् । तथा सति सिमं शीघ्रमेवास्मिल्लोके प्रतिष्ठितो भवति ।

Dislized by Google

.

७०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२(अष्टार्षिशाध्याये

सवनान्तरयोरुक्तवैपरीत्यं विधत्ते

अपरिमिताभिरुत्तरयोः सवनयोरपरिमिती वै

स्वर्गो लोकः स्वर्गस्य लोकस्याऽऽप्यै, इति । - इयत्य एवेत्येवं नियमरहिताभिर्बहीभिरिभरतिशंसनं सवनद्वये कुर्यात् । स्वर्गस्य लोकस्येयत्तारहितत्वात् । [स्वर्ग]प्राप्त्यर्थमिदमतिशंसनं संपवते । पत्रातिशंसनं कर्तव्यं भवति तत्र तदर्यमूचामागमनं कर्तव्यम् ।

तासामूचा देशविशेष दर्शयति

कामं तरोता शंसेबरोत्रकाः पूर्वेयुः शंसेयु. यदा होता तोत्रका प्राणो वै होताऽजानि होत्रकाः समानो वा अयं प्राणोजान्यनुसं चरति तस्मात्तत्काम होता शंसेघद्धोत्रकाः

पूर्वद्युः शंसेयुर्यहा होता तरोत्रकाः, इति । अहर्गणेषु वर्तमानदिनात्पूर्वेधुमैत्रावरुणादयो होत्रका यत्सूक्तं शंसेयुस्खदेव सूक्तं परेघुहोता काममविशल्यैव शंसेत् । मदि होतुरतिशंसनं प्रसक्तं तदानी पूर्वेपु?त्रकैः शस्तात्सूक्ताहच आनेतव्याः। यदि तु होत्रकाणामतिशंसनं प्रसकं तदानीं पूर्वेपुोता यत्सूक्तं शंसति तस्मात्सूक्तादोत्रकैरपेक्षिता ऋच आने तन्या: । होतुः माणस्थानीयत्वादोत्रकाणां हस्तपादाद्यवयवस्थानीयत्वात्पर स्परसूक्ताहगानयने सत्यय माणा सर्वेष्ववयवेषु पक्षपातमन्तरेण तुल्य एवानुः संचरति । तस्मात्तिकाममित्युक्तार्थोपसंहारः।

इत्यं परिधानीयाप्रसङ्गेन बुद्धिस्थयाज्याया अनवामत्वमतिवासनं च विर्णी पाथ प्रकृतामेव परिभानीयास्तुतिमनुसरति

सूक्तान्तैर्होता परिदधदेत्यथ समान्य एवं तृती यसवने होत्रकाणां परिधानीया भवन्यात्मा के होतानानि होत्रकाः समाना वा इमेझानाम न्तास्तस्मात्समान्य एव तृतीयसवने होत्रकाणां

परिधानीमा भवन्ति भवन्ति ॥८॥ इति । मूक्तानामन्तिमा ऋचः सूक्तान्तास्ताभित्रभिता परिदपच्छनसमापन

Puigize on Google

१ प्रथमः खण्डः] ऐतरेयबामणम् । पुर्वमतिवर्तते । अथ होतरनन्तरं होत्रकाणामुच्यते । तेषां ततीयसवने परि. पानीयाः समान्यस्तुल्या एव भवन्ति । एकाहे याः परिधानीयास्ता एवाहर्ग गेषु भवन्ति । तथा च पूर्वमुक्तम्-‘ऐकाहिका एवं तृतीयसबने’ इति । तदे पात्र होत्रा सह प्रशंसार्थमन्यते । योऽयं होता सोऽयमात्मा वै देह एव होत. कास्तु हस्तपादाधवयवाः । तेषां च हस्तादीनामन्ताः समानास्तुल्या एव दृश्यन्ते । दक्षिणहस्तस्यान्तो याहशः पञ्चाङ्गुल्युपेतस्तादृश एवं वामहस्तस्या न्तोऽपि । एवं पादयोः स्तनकर्णादियुग्मयोस्तुल्यान्तत्वं द्रष्टव्यम् । तस्मात्समान्य इत्युपसंहारः। पदाभ्यासोऽध्यायसमाप्त्यर्थः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयनामण

भाष्ये सप्तविंशाध्याये पञ्चमः खण्डः ॥५॥(८)[ १९५] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य

धुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये

सप्तविंशोऽध्यायः ॥२७॥