२६

षड्विंशोऽध्यायः।

अथाग्रिहोत्रं पयसः प्रशंसा

तहोहनापत्तिविनिष्कृतिश्च ॥ तस्य प्रशंसाऽप्युदिते च होमो

ब्रमत्विजो व्याहतयोऽप्यधीताः ॥१॥ अमणः कर्तव्यविषानेन ग्रावस्तुबुद्धिस्थस्तस्यामिष्टोमे कर्तव्यं विधानुमु. पाख्यानमाह

देवा ह वै सर्वचरो सत्रं निषेदुस्ते ह पाप्मानं नापजनिरे तान्होवाचार्बुदः कागवेयः सर्प ऋषिमन्त्रकृदेका वै वो होत्राऽकृता तां वोऽहं करवाण्यथ पाप्मानमपहनिष्यध्व इति ते ह तथेत्यूचुस्तेषां ह स्म स मध्यंदिन मध्यं

दिन एवोपोदासर्पद्वाष्णोऽभिष्टौति, इति । पुरा कदाचिद्देवाः सर्वचरुनामके देशविशेषे सत्रं किंचिदनुष्ठितवन्तः । ते देवास्तेन सत्रेण स्वकीयं पाप्मानं दारिघहेतुं नापजधिरे न नाशितवन्तः । तान्पापक्षयरहितान्देवानर्बुदनामकः कश्चिदपिरागत्योवाच । कीदृशोऽर्बुदः कागवेयः कहनामधारिण्याः स्त्रियाः पुषः सर्पः सर्पजातीयदेहधारी, ऋषिर वीन्द्रियार्थद्रष्टा मनकृत्करोतिधातुस्तत्र दर्शनार्यः । मत्रस्य भैते वदन्तु म वयं बदामेत्यादिसूक्तस्य द्रष्टा । तेनार्बुदेन किमुक्तमिति तदुच्यते । हे देवा एका वै वो होत्रैकैव होतृवेदोत्पमा क्रिया वो युष्माकमकृता नानुष्ठिता तवैकल्येन पाप सयो नाऽऽसीत् । ता क्रियां वो युष्मदर्थमहं करवाण्यनन्तरं पाप्मानं यूयमप हनिष्यध्व इत्येतदृषिवाक्यं देवा अङ्गी चकुस्ततः सोऽर्बुदस्तेषां देवानां सत्रे प्रतिदिनं मध्यंदिनसमय एवोप समीपमुत्सुकः समागच्छत् । आगत्य च ये सोमाभिषवार्या प्रावाणः पाषाणाः सन्ति तान्पूर्वोक्तेन सूक्तैनाभिष्टौति अभितः स्तुतिं कृतवान् ।





—…. –.

६७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२६षड्विंशाध्याये इदानी प्रावस्तुत ऋत्विजस्ते(स्त्वे) तत्सूक्तेन प्राणामभिष्टवं विधत्ते

तस्मान्मध्यंदिने मध्यंदिन एव

ग्राव्णोऽभिष्टुवन्ति तदनुकृति, इति । यस्मादर्बुदेनाभिष्टुतिः कृता तस्मात्सोमप्रयोगेषु सत्रेषु तत्तन्मध्यंदिने काल एव प्रैते वदन्त्विति सूक्तेन प्राव्णामभिष्टवमृत्विजः कुर्युः । तदनुकृतीति क्रियाविशेषणम् । तस्यार्बुदस्यानुकत्यातिरा)नुरूप(प्य) यया भवति तथेत्यर्थः।

अर्बुदस्य वृत्तान्तं लोकप्रसिद्धया इढयति

स ह स्म येनोपोदासर्पत्तडाप्येती

बुंदोदासर्पणी नाम प्रपदस्ति, इति । स तु ह सोर्बुदाख्यः सर्पदेहो महर्षिर्येन मार्गेणोपोदासर्पत्तत्समीपं प्रति बिलादुद्गम्याऽऽगच्छत् । तद तस्मिन्नेव देश एतींदानीमप्यर्बुदोदासर्पणीत्य

नेन नामधेयेन युक्ता प्रपन्मार्गोऽस्ति । प्रपद्यते गम्यतेऽनयेति प्रपन् ।

अथाभिष्टवकाले प्रावस्तुत उष्णीषेण नेत्रवेष्टनं विधचे

तान्ह राजा मदयांचकार ते होचुराशीविषो वै नो राजानमवेक्षते हन्तास्योष्णीषेणाक्ष्यावपिनह्यामेति तथेति तस्य होष्णीषेणाक्ष्यावपिनास्तस्मादुष्णी षमेव पर्यस्य ग्राव्णोऽभिष्टुवन्ति तदनुकृति, इति । ग्राव्णामभिषवार्थमव॒दाख्ये सर्परूपे महर्षों समागते सति तदीयविषदृष्ट्या वलोकितः सोमो राजा वल्लयात्मकः स्वयमपि विषयुक्तः सन्समीपतिनो देवा न्मदयांचकारोन्मचान्परवशान्कृतवान् । तदानीं ते देवाः परस्परमिदमूचुः। आशीविषः सर्परूपोऽयमबुंदो नोऽस्माकं राजानं विषदृष्याऽवेक्षते हन्त कष्ट मेतत्संपनमतस्तत्परिहाराय केनचिदुष्णीषेण शिरोवेष्टनसापनेनाल्पवस्त्रेणास्या बुदस्याल्यावपिनसाम चक्षुषोर्बन्धनं करवामेति विचार्य त्रिः प्रदक्षिणं तस्य मुखमुणीषेण वेष्टयित्वा तदीयचक्षुषोर्बन्धनं कृतवन्तः । यस्मादेवैरेवं कृतं तस्मात्विजोऽप्युष्णीषमेव पर्यस्य परितो मुखं वेष्टयित्वा प्राव्णः सोमाभिष वार्यान्पाषाणानभिष्टुवन्ति । तस्यार्बुदस्यानुकतिः सादृश्यं यथा भवति तये. त्यनेनाभिमायेण वेष्टनम् ।

१. स. इ. ट. ‘बुदसर्पिणी | Asian is S.NOfe

-१ प्रथमः खण्डः] ऐतरेयबामणम् ।

अथ ग्रावस्तुतः पूर्वोक्तसूक्तादन्या अप्यूची विधत्वे

तान्ह राजा मदयामेव चकार ते होचुः स्वेन वै नो मन्त्रेण ग्राव्णोऽभिष्टौति हन्तास्यान्याभिर्क ग्भिमन्त्रमाणचामेति तथेति तस्य हान्याभिर्क म्भिर्मन्त्रमापरचुस्ततो हैनान मदयांचकार तथद स्यान्याभिऋग्भिमन्त्रमाटश्चन्ति शान्या एव, इति । पुनरपि सोमो राजा तान्देवान्पूर्ववन्मदयांचकारैव ततस्ते देवाः परस्पर चुदृष्टिविषपरिहारेऽप्ययं सर्पदेह ऋषिः स्वकीयेनैव सूक्तरूपेण मत्रेण ग्राव्णोऽ. मिष्टौति । अतो मनसंबद्धन विषेणास्माकमुन्मादो जायते इन्त कष्टमेतत् । भवो मजगतविषपरिहारायास्यार्बुदस्य मत्रसूक्तमन्याभिराप्यायस्व समेतु त इत्यादिभिर्गम्भिरापूणचाम पृची संपर्क इति धातुः सर्वतः संपृक्तं करवाम। तदे तत्सर्वे देवा अङ्गीकृत्य तथैव चक्रुः । ततः प्रागन्तरसंपर्कात्तत्सूक्तगतोगत्वे सत्येसान्देवान्सोमो राजा न मदयांचकारोन्मादं नाकरोत् । तस्मात्कारणाद झुंदस्य मत्रसूक्तमन्याभिराप्यायस्वेत्यादिभिरभिष्टवकाले संपृक्तं कुर्यः । तथ सान्त्यर्थमेव भवति ।

देवानामभिष्टचकृतां पापशान्ति दर्शयति.

तेह पाप्मानमपजनिरे तेषामन्वपहतिं सर्पाः . पाप्मानमपजनिरेत एतेऽपहतपाप्मानो हित्वा

पूर्वी जीर्णी त्वचं नवयैव प्रयन्ति, इति । ते देवा अर्बुदानुष्ठितेनाभिष्टवेन दारिबादिहेतुं पाप्मानं नाशितवन्तः । तेषां देवानामपहतिं पापविनाशमनु पश्चादर्बुदसंबन्धिनः सर्पाः सर्वेऽपि स्वकीय पाप्मानं नाशितवन्तः । ये सर्पाः स्वशरीरगतां पूर्वसिद्धा जीणों त्वचं हित्वा नवयैव नूतनयैव त्वचा युक्ताः प्रयन्ति सर्वतः प्रसर्पन्ति एते नूतनत्वग्युक्ताः सो अपहतपाप्मान इत्युच्यन्ते ।

वेदनं प्रशंसति

अप पाप्मानं हते य एवं वेद ॥१॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण

भाष्ये षड्विंशाध्याये प्रथमः खण्डः ॥१॥ [१८८] TOPIE

-I7JI

६८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२६ षड्विंशाध्याये

अथ प्रश्नोत्तराभ्यामभिष्टवगतानामृचा संख्यां विधत्ते

तदाहुः कियतीभिरभिष्टुयादिति शतेनेयाहुः शतायु पुरुषः शतवीर्यः शतेन्द्रिय आयु

ष्येवैनं तदीर्य इन्द्रिये दधाति, इति । शातसंख्याकामु नाडीषु संचारादिन्द्रियाणां तदीयवीर्यस्य च शतसंख्या। तत्संख्याकानामृचा पाठेनैनं यजमानं दीर्घायुष्यादिगुणयुक्तं करोति ।

पक्षान्तरं विधत्ते

त्रयस्त्रिंशत्या वेत्याहुस्त्रयस्त्रिंशतोवै स देवानां

पाप्मनोऽपाहंस्त्रयस्त्रिंशदै तस्य देवा इति , इति । अथवा प्रयस्त्रिंशत्या, ऋचा प्रयस्त्रिंशसंख्ययाऽभिष्टव इत्याहुः । तत्र हेतुरुच्यते । देवानां संबन्धिनी या त्रिंशदस्त्यस्याः सकाशात्सोऽर्बुदः पाप नोऽपाहन्विनाशितवान् । तस्याचुदस्य समीपस्था देवालयस्त्रिंशद्वै । अष्टौ वसब एकादश रुद्रा द्वादशाऽऽदित्याः प्रजापतिश्च वषद्वारश्चेत्येवं देवसंख्या द्रष्टव्या।

पक्षान्तरं विधत्ते

अपरिमिताभिरभिष्टुयादपरिमितो वै प्रजापतिः प्रजापतेर्वा एषा होत्रा यद्वावस्तोत्रीया तस्यां सर्वे कामा अवरुध्यन्ते स यदपरिमिताभि

रभिष्टौति सर्वेषां कामानामवरुद्ध्यै , इति । एतावत्येवेतिसंख्यानिर्बन्धरहिता अपरिमिताः । प्रजापतेरपरिमितमहि मत्वाद्रावस्तोत्रसंबन्धिन्या होत्रादि वेदोत्पमायाः क्रियायाः प्रजापतिसंबद्ध स्वादपरिमितत्वं युक्तम् । तस्यां च क्रियायां सर्वे कामाः स्वाधीना भवन्ति ।

अतोऽपरिमिताभिरभिष्टवः सर्वकाममाप्त्यै संपद्यते ।

वेदनं प्रशंसति

सर्वान्कामानवरुन्धे य एवं वेद, इति । तृतीयस्य पक्षस्य मुख्यत्वं दर्शयति

. तस्मादपरिमिताभिरेवाभिष्टुयाव, इति । ge

t

२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

६८१ प्रश्नोत्तराभ्यामभिष्टचे प्रकारविशेष विधत्ते

तदाहुः कथमभिष्टुयादित्यक्षरशा३, चतुरक्षर शा३ः, पच्छा३, अर्धर्चशा३:, ऋक्शा३: इति तद्यदृक्शो न तदवकल्पतेऽथ यत्पच्छो नो एव तदवकल्पतेऽथ यदक्षरशश्चतुरक्षरशी वि तथा छन्दांसि लुप्येरन्बहूनि तथाऽक्षराणि

हीयेरनर्धश एवामिष्टुयात्प्रतिष्ठाया एव, इति । तत्तत्राभिष्टने ब्रह्मवादिनः प्रश्नमाहुः केन प्रकारेणाभिष्टुयादिति कियन्तः काराः संभाव्यन्त इति वा काक्षायां ते प्रकारा उपन्यस्यन्ते-अक्षरशोऽभि घुयादित्येकः प्रकार: प्रत्यक्षरमवसायावसायाभिष्ठयादित्यर्थः । अक्षरचतुष्टयेऽ. वसानं द्वितीयः प्रकारः। पादेऽवसानं तृतीयः प्रकारः । अपर्चेऽवसानं चतुर्थः। ऋचि समाप्तायामवसानं पश्चमः । प्लुतयः सर्वा विचाराः । किं प्रत्यक्षरमव. सानमुताक्षरचतुष्टयेऽवसानमुत पादेऽवसानमाहोस्विदर्धर्चेऽवसानमथवा कुत्ता यामच्यवसानमिति संशयः । तत्र पक्षान्तराणि दूषयित्वार्धर्चपक्ष एवं स्वीकार्यः । कथमिति तदुच्यते । यदि ऋची (ऋच्यवसानमिति पक्षस्या(स्त्व). त्यन्तं नावकल्पते न संभवति । अध्ययनवैपरीत्यप्रसङ्गात् । अध्ययनकालेऽ. पर्चेऽवसानं कुर्वन्ति न तु कृत्स्नामृचं मध्येऽवसानरहितां पठन्ति पादावसानप क्षेऽपि स एव दोषः । एकैकाक्षरचतुरक्षरपक्षयोर्दोषान्तरमप्यस्ति तथा पक्षाद पानीकारे छन्दांसि विलुप्येरन् । कथं विलोप इति तदुच्यते । तया सत्यक्ष रावसानपक्षे बडून्यक्षराणि हीयेरन्विनश्येयुः । संहिताकालीनस्य द्वित्वादेर भावात् । ततश्छन्दोभक्तः । अर्धर्चपक्षे तु यथाध्ययनमेवामिष्टवान कोऽपि दोषः । तस्मादयमेव पक्षः सिद्धान्तः । अर्धर्चयोदित्वात्पक्षद्वयसादृश्येन प्रति छार्यमेतत्संपद्यते।

इममर्चपक्षं प्रशंसति

द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमा नमेव तद्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रति

धापयति तस्मादर्धर्चश एवाभिष्टुयाव , इति । अर्चियोदित्वायजमानसाम्यमृचा पादचतुष्टयोपेतत्वात्पशुसाम्यम् ।

क. ट. ऋक इति। MAR SORDE

६८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेता–[२६ षड्विंशाध्याये

अथ मध्यंदिनकालीनमभिष्टवं प्रश्नोत्तराभ्यां प्रशंसति

तदाहुर्यन्मध्यंदिने मध्यंदिन एवं प्राणोऽभि टौति कथमस्येतरयो सवनयोरमिष्टुतं भवतीति यदेव गायत्रीभिरभिष्टौति गायत्रं वै प्रातःसवनं तेन प्रातःसवनेऽथ यज्जगतीभिरभिष्टोति

जागतं वै तृतीयसवनं तेन तृतीयसवने, इति । तत्सत्राभिष्टचे चोचमाहुः । यस्मात्कारणादयं प्रावस्तुसत्मयोगसंवन्धिनि माध्यंदिन एव सवने ग्रान्मामभिष्टवं करोति । एवं सति केन प्रकारेणास्य प्रावस्तुतः प्रातःसवनतृतीयसवनयोरभिष्टवः सिध्यतीति प्रश्नः । ऋभु यदा यत्रीजगतीछन्दोद्वयं तद्वाराऽन्ययोरपि सवनयोरभिष्टवसिद्धिरित्युत्तरम् ।

बेदनं प्रशंसति

एवमु हास्य मध्यंदिने मध्यंदिन एवं ग्राव्णोऽभिष्टु वतः सर्वेषु सवनेष्वभिष्टुतं भवति य एवं वेद, इति । एवमु हानेनैव गायत्रीजगतीछन्दोद्वारेण । अथ प्रावस्तुतः संप्रेषनिरपेक्षत्वं प्रश्नोत्तराभ्यां दर्शयति

तदाहुर्यदध्वर्युरेवान्यानृविजः संप्रेष्यत्यथ कस्मा देष एतामसंप्रेषितः प्रतिपद्यत इति मनो वै ग्रावस्तोत्रीयाऽसंप्रेषितं वा इदं मनस्तस्मा

देष एतामसंप्रेषितः प्रतिपद्यते ॥२॥ इति । तत्तत्र प्रावस्तुद्विषये प्रश्नमाहुः । यस्मात्कारणादध्वर्युः सर्वानन्यात्विजः संप्रेष्यत्येव न तूदास्ते । तथा सत्य॒त्विगन्तरवद्रावस्तुदध्वर्युणा संप्रेषणीयः । तब नास्ति कस्मात्कारणादसंप्रेषित एवं ग्रावस्तुदेतामृचं प्रारभत इति प्रष्णा. मभिमायः । तत्रेदमुत्तरं येयमृग्यावस्तोत्रसंबन्धिनी विद्यते सेयं मनःस्वरूपा। मनभेदमिन्द्रियान्तरेण केनचिदप्यसंप्रेषितमेव प्रवर्तते । तस्मादेष प्रावस्तुत्संघ पनिरपेक्ष एवैतां स्तोत्रीयासूचं प्रतिपद्यते ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

गभाष्ये पर्विशाध्याये द्वितीयः खण्डः ॥ २॥ [१८९]

३ तृतीयः खण्डः] ऐतरेयब्रामणम् ।

५८३ ग्रावस्तुत ऋत्विजः कर्तव्यमभिधाय मुब्रमण्याख्यस्य ऋत्विजः कर्तव्यं निरूपयति

वाग्वै सुब्रह्मण्या तस्यै सोमो राजा वत्सः सोमे राजनि क्रीते सुब्रह्मण्यामाह्वयन्ति यथा धेनुमुपह्व येत्तेन वत्सेन यजमानाय सर्वान्कामान्दुहे, इति । सुब्रह्मण्याशब्देनेन्द्राऽऽगच्छ हरिव आगच्छेत्यादिनिगद उच्यते । साच मुत्रमण्या वागेव शब्दरूपैव सती धेनुसदृशी तस्याः सुब्रमण्याया पेनोः सोमो राजा वत्सस्थानीयस्तस्मात्सोमक्रयादूर्ध्वमुस्विजस्तत्तत्मयोगेषु मुबम यामाहयेयुरुक्तनिगदं पठेयुरित्यर्थः । यथा लोके दोहनार्थ काचिदेर्नु तदीय वत्समदर्शनेन समीपं प्रत्याहयते तदेतद्रष्टव्यम् । एतेनाऽऽहानेन यजमानार्थ सर्वान्कामान्दुहे संपादयति।

वेदनं प्रशंसति

सर्वान्हास्मै कामान्वाग्दुहे य एवं वेद, इति । प्रश्नोत्तराभ्यां सुब्रमण्यां प्रशंसति

तदाहुः किं सुब्रह्मण्यार्य सुब्रह्मण्यात्वमिति

वागेवेति ब्रूयादाग्वै ब्रह्म च सुब्रह्म चेति, इति । । तपत्र सुब्रमण्याख्ये निगदरूपे मने नामनिमित्तं पृच्छन्ति । वागेवेति तदु चरम् । वाग्वा इत्यादि तदुपपादनम् । अम वेदो वाग्वै वागात्मक एव तस्मि अपि वेदे मुष्टु ब्रम सारभूतं वेदवाक्यं तपेयं वाग्देवता । तस्मात्सारभूतस्य निगदस्य सुब्रमण्येति नामधेयम् । पुंलिशब्दाभिधेयस्य निगदस्य सुब्रम ज्येति सीलिनशब्देनाभिधानं वायूपत्वविवक्षयेति ।

एतमर्य प्रश्नोचराभ्यां दर्शयति

तदाहुरथ कस्मादेनं पुमांस सन्तं स्त्रीमिवाऽऽच

क्षत इति वाग्पि सुब्रह्मण्येति ब्रूयात्तेनेति, इति। … . पुनरपि प्रश्नोत्तराभ्यां सुब्रमण्याहानस्य देशविशेष निरूपयति

तदाहुर्यदन्तर्वेदीतर ऋत्विज आखिंज्यं कुर्वन्ति बहिर्वेदि सुब्रह्मण्या कथमस्यान्तवेद्यार्विज्यं कृतं भवतीति वेदेो उत्करमुकिरन्ति यदे- . .

६८१ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२६षड्विंशाध्याये

वोत्करे तिष्ठनाह्वयतीति ब्रूयात्तेनेति, इति । अध्वर्युहोमभृतयः सर्वेऽप्यत्विजो वेदिमध्य एवाऽऽत्विज्यं कुर्वन्ति सुब मण्या वेदेर्बहिर्भागे सुब्रह्मण्याख्येन ऋत्विजाऽऽयते । तथा सवि केन प्रका. रेणास्य सुब्रह्मण्या(ण्य)नाम्न ऋत्विजो वेदिमध्य आत्विज्यं कृतं स्यादिति प्रश्नः। तस्येदमुत्तरं वेदेः संकांशादुत्करमुद्धर्तव्यं पांसुमुत्किरन्त्युकृत्य बहि देशं वेदेरुत्तरभागे प्रक्षिपन्ति । तत्र कृतं सुब्रह्मण्याहानं वेदिमध्य एव कृतं भंवेत । यस्मादेव कारणादयं सुब्रह्मण्या(ण्य) उत्करदेशे तिष्ठन्सुब्रमण्यामाह यति तेन कारणेनेत्युत्तरवादिनो वचनम् ।

मुब्रह्मण्याहानस्योत्करदेशं विधाय पुनः प्रश्नोत्तराभ्यां प्रशंसति

तदाहुरथ कस्मादुत्करे तिष्ठन्सुब्रह्मण्यामा ह्वयतीत्युषयो वै सत्रमासत तेषां यो वर्षिष्ठ आसीत्तमब्रुवन्सुब्रह्मण्यामाह्वय त्वं नो नेदिष्ठादेवान्तयिष्यसीति वर्षिष्ठमेवैनं तत्कु

वन्यथो वेदिमेव तत्सर्वा प्रीणाति, इति । आहवनीयदेशान्परित्यज्य सुब्रह्मण्याहानस्योत्करदेशस्वीकारे किं कार णमिति प्रश्नः। तस्येदमुत्तरम् । ऋषयो हि पुरा सत्रमासत तेषामृषीणां मध्ये यो वर्षिष्ठोऽतिशयेन वृद्ध आसीचं प्रत्येवमब्रुवन् । हे महर्षे सुब्रमण्यामाहय नोऽस्माकं मध्ये त्वमेव मेदिष्ठाद्वयोवृद्धत्वेन देवलोकमाप्तः प्रत्यासमत्वे सत्य न्तिकतमत्वादेवान्हयिष्यस्याहातुं समर्थोऽसि । एवमृषिभिरक्तत्वादत्राप्युत्क रदेशे तिष्ठन्तं सुब्रह्मण्याहानकर्तारमेनं वर्षिष्ठमेवातिशयेन वृद्धमेव कुर्वन्ति । उत्करस्य वेदिगतपांसुरूपत्वाचत्सामीप्ये सति वेदिं सर्वां निरवशेषां मीणाति तोषयति ।

अथ सुब्रमण्याख्यस्यत्विजः समीपे दक्षिणात्वेन वृषभानयनं प्रश्नोत्तराभ्यां निरूपयति

सदाहुः कस्मादस्मा ऋषभं दक्षिणामभ्याज न्तीति वृषा वा ऋषभो योषा सुब्रह्मण्या

तन्मिथुनं तस्य मिथुनस्य प्रजात्या इति, इति । तत्तस्मिन्सुब्रमण्यस्य विषये प्रश्नमाहुस्तस्मै. सुब्रह्मण्याय ऋषभं पुंग

| ३ तृतीयः खण्डः] ऐतरेयबामणम् ।

६८५ दक्षिणां कृत्वाऽभ्याजम्ति समीपमानयन्ति तत्र किं कारणमिति प्रश्नाभि प्रायः । तस्येदमुत्तरं योऽयं दक्षिणात्वेन नीयमान ऋषभः सोऽयं कृषा वै सेचनसमर्थः पुरुषस्वरूप एव सुब्रमण्या तु स्त्रीलिङ्गशब्दाभिधेयत्वाद्योषि

पा तदुभयं मिलित्वा मिथुनं भवति । तस्य मिथुनस्य प्रजासै प्रजोत्पादनार्थ | रापमानयनमित्युत्तरवादिनोऽभिप्रायः।।

सुब्रमण्यस्य कर्तव्यमुक्त्वाऽऽमीघ्रस्यविजः कर्तव्यं विधवे

उपांशु पालीवतस्याऽऽग्नीध्रो यजति रेतो वै ।

पानीवत उपांश्विव वै रेतसः सिक्तिः, इति । पालीवताख्यो यो ग्रहविशेषस्तस्य मन्त्र उपांशु शनैरुचार्याऽऽगांधी यजेत् । योऽयं पानीवतग्रहः स रेतसः स्वरूपम् । लोकेऽपि रेतसः सिक्तिः सेचनमुपाश्धिव वै ध्वनिमन्तरेण रहस्येव क्रियतेऽतस्तत्साम्यायमुपांशुत्वं युक्तम् ।

अत्र पानीवतग्रहे सोमस्याने वीहीत्येवमनुवषदकारं निषेधति

नानुवषट्करोति संस्था वा एषा यदनुव षद्कारो नेद्रेतः संस्थापयानीयसंस्थितं वै

रेतसः समृद्ध तस्मानानुवषट्करोति, इति । सर्वत्र प्रहेषु वषदकारानुवषदकाराभ्यां डूयते । अत्र तुं पानीवताहे वषट् कारहोम एक एव न वितरः। तत्र हेतुः संस्था वा इत्यादिः। योऽयमनुवष कारोऽस्ति सोऽयं संस्था वै ग्रहस्य समाप्तिरेव । तथा सति स पानीवतन हरूपं रेतो नेत्संस्थापयानि सर्वथा समाप्तिं न करवाणीत्यभिप्रेत्य तत्समाते भीवो भवेत् । असंस्थितमसमाप्तमनुपरतं रेतसः सेचनमपत्योत्पत्त्या समृदं भवति । तस्मादेव नानुवषट्कुर्यात् । तथा च यज्ञगाथां पठन्ति

“ऋतुयाजान्दिदेवत्यान्यश्च पानीवतो ग्रहः।

आदित्यग्रहसावित्रौ तास्म माऽनुवषट्कृथाः” इति ॥ अय पात्नीवतग्रहमाणे देशं विधत्ते

नेष्टुरुपस्थ आसीनो भक्षयति पत्नीभाजनं वै नेष्टानिः पत्नीषु रेतो दधाति प्रजात्या अग्नि नैव तत्पत्नीषु रेतो दधाति प्रजात्य, इति । Hogie


-.

..–

६८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२७सप्तविंशाध्याये

योऽयमानीध्रः पानीवतं यजति सोऽयं नेष्टुरुपस्थे समीप आसीनः शे भक्षयेत् । नेष्टनामक ऋत्विपत्नीभाजनं वै पत्नीस्थानीयो नेष्टा पत्नीमुदान यत्येवं मेष्ट्रपन्योरानयनद्वारा संबन्धश्रवणात् । अतस्तत्समीपे भक्षणे सत्समि रूप आनीध्रः पत्नीषु रेतः स्थापयति । तत्रांच) प्रजननाय संपद्यते । तते नानुष्ठानेन यजमानोऽप्यनिनवाग्न्यनुग्रहेणैव पत्नीषु रेतोऽवस्थापयति । बदपि प्रजात्य संपद्यते।

वेदनं प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद , इति । अय मुब्रमण्याविषये कंचिद्विशेष विधत्ते

दक्षिणा अनु सुब्रह्मण्या संतिष्ठते वाग्वै सुब्रह्म ण्याऽनं दक्षिणाऽवाद्य एव तहाचि यज्ञमन्ततः

प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति ॥३॥ इति । दक्षिणासु नीतासु ता दक्षिणा अनु पश्चात्सुब्रमण्या संतिष्ठते समाप्यते । सुब्रमण्याया वाघूपत्वादक्षिणायाश्चामरूपत्वादन्तत: समाप्तिवेलायामिर्म या. मनाचे वाचि द्वयोरेवैतयोः प्रतिष्ठापयन्ति प्रतिष्ठितं कुर्वन्ति । अभ्यासो: ध्यायसमाप्त्यर्थः ॥

’ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

___णभाष्ये पइविंशाध्याये तृतीयः खण्डः ॥३॥ [ १९०] … इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्रा . ज्यधुरंधरसायणाचार्यकृतावैतरेयबामणभाष्ये

षडविंशोऽध्यायः ॥ २६ ॥