अथ पञ्चविंशोऽध्यायः।
दशममहरविवाक्यमभिधाय द्वादशाहः समापितः। अथानिहोत्रमभिधी यते । तत्राध्वर्यु प्रति यजमानोऽग्न्युद्धरणकर्तव्यतां भूयात् । तदाहाऽऽप स्तम्बः-‘उद्धरेत्येव सायमाह यजमान उद्धरेति प्रातः’ इति । तत्र सायंका लीनं यजमानकर्तव्यं विधत्ते
उद्धराऽऽहवनीयमित्यपराह्न आह यदेवाहा साधु . करोति तदेव तत्पाङद्धृत्य तदभये निधत्ते, इति ।
1.11111
१५. ‘त्र तत्र सा।
६४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२५पञ्चविं ध्याये
अमिहोत्रस्याध्वर्युरेक एव ऋत्विग्भवति । तथा च शाखान्तरे श्रूयते ‘तस्मादमिहोत्रस्य ऋतोरेक ऋत्विक इति। तमध्वर्यु यजमानः प्रेष्यति। हेऽध्वयों, आहवनीयाख्यं वडिमुदरोति । ज्वलन्तममिं गाईपत्यादुदृत्य प्राचं प्रणीयाऽऽह धनीयस्थाने निधेहीत्यर्थः । तथा चाऽऽश्वलायन आह-‘गाईपत्यादाहवनीयं ज्वलन्तमुदरेत्’ इति । उदराऽऽहवनीयमित्यमुं प्रैषमपराहे सायंकाले सूर्यास्व. मयात्माग्यजमानो श्रूयात् । एवं सति अहा सर्वेणापि यदेव पुण्यं यजमाना करोति तत्सर्व मादृत्य भयरहित आहवनीयस्थाने निहितवान्भवति ।
मातःकालीनं यजमानकर्तव्यं विपते- ..
उद्वराऽऽहवनीयमिति प्रातराह यदेव राच्या साधु
करोति तदेव तत्माकुकृत्य तदभये निधत्ते, इति । पूर्ववयाख्येयम् ।
आहवनीयोदरणं मसति
यज्ञो वा आहवनीयः स्वर्गों
लोक आहवनीयः, इति। आहवनीयस्य यानिष्पादनेन स्वर्गहेतुत्वावुभयरूपत्वम् । वेदनं प्रशंसति
यज्ञ एव तत्स्वर्ग लोके स्वर्ग
लोकं निधत्ते य एवं वेद, इति । आहवनीयोदरणस्य बेदिता स्वर्गसाधनयवात्मके स्याने स्वर्ग लोके स्थापितवान्भवति।
अयामिहोत्रहोमद्रव्यं क्षीरादिरूपं प्रवासितुमुपक्रमते
यो वा अग्रिहोत्रं वैश्वदेवं षोळशकलं पशुषु प्रतिष्ठितं वेद वैश्वदेवेनानिहोत्रेण पोळशक
लेन पशुषु प्रतिष्ठितेन राप्नोति , इति । यः पुमानमिहोत्रशन्देन कर्मवाचिनोपलक्षितहोमद्रव्यं वेद स पुमाननिहो अकर्मणा राधोति समृद्धो भवति । कीरशमग्रिहोत्रद्रव्यं वैश्वदेवं वक्ष्यमाणा रुद्रादयो विश्वे देवास्तेषां संघन्धि पोळशकलं पोळशावस्थम् । ते चावस्था
.
..–
-
….
–
-.-..–
———–…..
m
usaw
14..म. ट. ‘दुदरत्यया । san or SINH-
–
–
-…
१ प्रथमः खण्डः] ऐतरेयबामणम् ।
६४९ विशेषा रौद्रं गवीत्यादिना वक्ष्यन्ते । गवि स्थितत्वादेव पशुवत्मतिष्ठितममि होत्रणेत्यत्रापि विशेषणप्रयं द्रव्यद्वारा योजनीयम् ।
होमद्रव्यस्य बहुदेवतासंबन्धं पोळशावस्थोपेतत्वं च दर्शयति
रौद्रं गवि सहायव्यमुपावसृष्टमाश्विनं दुद्यमानं सौम्यं दुग्धं वारुणमधिश्रितं पौष्णं समुदयन्तं मारुतं विष्यन्दमानं वैश्वदेवं बिन्दुमन्मैत्रं शरोगृहीतं यावारथिवीयमुद्दासितं सावित्रं प्रक्रान्तं वैष्णवं हियमाणं बार्हस्पत्यमुपसन
ममेः पूर्वाऽऽहुतिः प्रजापतेरुत्तरेन्द्र हुतम्, इति । होमद्रव्यं क्षीरं गवि सगोशरीरे यदा तिष्ठति तदा रौद्रं रुद्रदेवताकं वेदि. वन्यम् । उपावसृष्टं वत्सेन संसृष्टं मनुतं यदा भवति तदा वायुदेवताकं दुखमा. नत्वदचायामश्विदेवताकं दुग्धत्वदशायां सोमदेवताकमधिश्रितं पाकार्थमनो स्थापितं वरुणदेवताकम् । समुदयन्तं पात्रमध्ये स्थित्वा संतापवशेन सम्यगू दशायां पूषदेवताकम् । विष्यन्दमानमूर्ध्वमुद्गतस्य पात्राबाहिर्विशेषेण स्यन्द नदशापमं मरदेवताकम् । बिन्दुमबुबुदवद्विवेषां देवानां संबन्धि । शरो गृहीतं सारमचयभावापनं मित्रदेवताकम् । उदासितममिस्थानाढहिरवस्था पितं द्यावापृथिवीदेवताकम् । प्रक्रान्तं होतुं हरणायोपक्रान्तं सवितृदेवताकम् । झियमाणं होमस्थाने नीयमानं विष्णदेवताकम् । उपसनं नीत्वा वेद्यामासा दितं बृहस्पतिदेवताकम् । तेन द्रव्येण या पूर्वाऽऽहुतिः साऽमिसंबन्धिनी । उचराऽऽहुतिस्तु प्रजापतिसंवन्धिनी । हुतं होमोत्तरकालीनमिन्द्रदेवताकम् । एवं इविषः षोडशावस्थास्तत्तदेवतासंबन्धाश्च दर्शिताः।
तत्सर्वमुपसंहरति
एतद्दा अग्रिहोत्रं वैश्वदेवं षोळश
कलं पशुषु प्रतिष्ठितम्, इति । मिहोत्रं तदर्य क्षीरम्। तवेदनं प्रशंसति
वैश्वदेवेनाग्रिहोत्रेण पोळशकलेन पशुषु प्रति- ६.Cogle
८२
६५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९पञ्चविंशाध्याये
ष्ठितेन राधोति य एवं वेद ॥ २६ ॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम: णभाष्ये पञ्चविंशाध्याये प्रथमः खण्डः ॥१॥ (२६) [१७९]
अथामिहोने वैकल्पनिमित्वं प्रश्नपूर्वकं मायश्चिचं विधीयते
यस्याग्रिहोत्र्युपावसृष्टा दुह्यमानोपविशेका
तत्र प्रायश्चित्तिरिति तामभिमन्त्रयेत , इति । अमिहोत्रार्थ संपादिता गौरग्निहोत्री । सा चोपावसृष्टा दोहनार्य वत्सेन संयोजिता । अर्व दुबमाना सती दोहनमध्ये यापविशेत्तदानी शास्त्रीयस्य दोहनस्य क्निष्टत्वाधस्य यजमानस्य तत्रामिहोत्र्युपवेशने प्रायश्चिचिरपेक्षिता सा च कीरशीति प्रश्नः । ताममिहोत्रीं वक्ष्यमाणेन मवेणाभिमवयेतेति पाय बिचविधिः।
तत्र मयं दर्शयति
यस्माद्रीषा निषीदसि ततो नो अभयं कृधि । पशूत्रः सर्वान्गोपाय नमो रुद्राय मीळुष इति , इति । हेऽग्निहोत्रि त्वं यस्माद्विरोधिनः शयमानान्मनसा मर्यमाणाव्याघ्रादेभीषा भयेन निषीदस्युपविशसि ततो भयहेतोः सकाशामोऽस्माकमभयं कृषि कुरु । तया नोऽमाकं सर्वान्पशून्गोपाय रक्ष मिहळुषे सेचनसमर्थाय रुद्राय पशुखा. मिने नमोऽस्तु । इतिशम्दो मवसमाप्त्यर्थः।
अभिमवणादूर्ध्वं तस्या अमिहोच्या मत्रान्तरेणोत्थापनं विधते
तामुत्थापयेव , इति । तमिभुत्थापने मन्त्रमाह
उदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्राय
कृण्वती भागं मित्राय वरुणाय चेति, इति । अदितिरदीना देवी देवतारूपाऽमिहोत्र्युदस्थादुत्थितवत्युत्याय च यापती यजमान आयुरधात्संपादितवती । कीदृश्यनिहोत्री । इन्द्रमित्रवरुणानामपेक्षित हनिर्मागं कृण्वती संपादयन्ती । इतिशब्दो मन्त्रसमाप्त्यर्थः | oogle
२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।
६५१ उत्थापनानन्तरकर्तव्यं दर्शयति
अथास्या उदपात्रमूधसि च मुखे चोपगृह्णीयाद
थैनां ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिः, इति । अस्या अमिहोच्या उपसि उदकपात्रग्रहणं नाम जलस्योरक्षेपणं मुखे गृहीत्वा जलं पाययित्वा तादृश्या ब्रामणाय दानं यदस्ति सा तत्र वैकल्ये प्रायश्चित्तिरवगन्तव्या।
अथ दोहनकाले ध्वनिकरणे प्रायश्चित्तं विधत्ते
यस्यामिहोत्र्युपावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरियशनायां ह वा एषा यजमानस्य प्रतिख्याय वाश्यते तामनमप्या दयेच्छान्न्यै शान्तिर्वा अनं सूयवसादगवती
हि भूया इति सा तत्र प्रायश्चित्तिः , इति । वाश्येत हम्भारवं कुर्वीत तदानीमेवामिहोत्री स्वकीयामशनायां क्षुधा यज. मानस्य प्रतिख्याय प्रख्यापनार्थ वाश्यते ध्वनि करोति । तस्मात्ताममिहोत्री वाश्यमानामभमप्यादयेत् । अपिशब्दावृणादिकमपि । तच भक्षणं क्षुधाशान्त्यै संपद्यते। अभं शान्तिहेतुरिति प्रसिद्धम् । सूयवसादित्यादि मनः । हेऽमिहोत्रि भगवती पूज्या त्वं सूयवसायाः । सुष्छु यवसं तृणं सूयवसम् । तदपि भक्ष यतीति सूयवसात् । ताशी भवेति मग्रार्थः । मत्रेणापमादयेदिति यदस्ति सैव तत्र ध्वनी प्रायश्चित्तिद्रष्टव्या।
दो(समानस्य क्षीरस्यामिहोग्या स्थानचलनेन भूमौ पतने प्रायश्चित विषचे
यस्याग्रिहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति सा
यत्तत्र स्कन्दयेत्तदभिमृश्य जपेद, इति । स्पन्देत किंचिचलेन् । सा चलन्ती यदि तक भूमौ स्कन्दयेदीपत्तीरं पात । येचसीरं हस्तेन स्पृष्ट्वा मन जपेत् ।
तं मचं दर्शयति
यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यस्प- Google
….
…..
–
….– - -
….
६५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२९पञ्चविंशाध्याये
बदापः । पयो गृहेषु पयो अघ्न्यायां पयो
वत्सेषु पयो अस्तु तन्मयीति, इति । अथेदानी यहुग्ध क्षीरं पृथिवीममुप्त प्रामोत् । यचौषधीः पतितं तृणजात मत्यसपदतिशयेन प्रामोत् । यदपि तत्तीरं,विन्दुरूपमापो भूमिष्ठं जलं मामोत् । आप इति द्वितीयार्थे प्रथमा । तत्सर्वमस्मदीयेषु गृहेष्वघ्न्यायामस्मदीयायां धेन्वां वत्सेष्वस्मदीयेषु मयि मदुदरे वाऽस्तु तिष्ठतु । पृथगन्वयार्थ पयःसन्दा वृत्तिः । इतिशब्दो मवसमाप्त्यर्थः।
उक्तभायश्चित्तादूर्ध्व होमं विधत्ते
तत्र यत्परिशिष्टं स्यात्तेन जुहया
घद्यलं होमाय स्याव , इति । तत्र दोहनपात्रे यत्तीरं भूमौ पतित्वा परिशिष्टं स्याचयदि होमायालं पर्याप्त भवेत्तदानीं तेन जुहुयात् ।
अपर्याप्तावुपायान्तरमाह
यधु वै सर्व सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयादा खेव श्रद्धायै
होतव्यं सा तत्र प्रायश्चित्तिः, इति । यघु वै यदि च सर्व दुशमानं क्षीरं सिक्तं भूमौ पतितं स्यात्तदानीमन्यां कांचिगामाड्याऽऽनीय तां दुग्ध्वा तदीयेन क्षीरेण जुहुयात् । यधन्याऽपि न लभेत तदानीमप्यमिहोत्रं न परित्याज्यम् । किंवा श्रद्धा होतन्यम् । आडोऽत्राभिविधिरर्थः । आ श्रद्धायाः श्रद्धासहितं सर्ववस्तुजातं होतव्यं होमयोग्यम् । अवमर्थः । दधियवाग्वादीनां मध्ये येन केनापि द्रव्येण होत व्यम् । सर्वालामे त्वन्ततः श्रद्धामपि जुहुयात् । अहं श्रद्धा जुहोमीति संकल्प्य श्रद्धाहोमः । अग्निहोत्रस्य नित्यत्वात्सर्वात्मना परित्यागो न युक्त इति ।
वेदनपूर्वकमनुष्ठानं प्रशंसति
सर्व वा अस्य बर्हिष्यं सर्व परिगृहीतं य एवं विद्वानग्रिहोत्रं जुहोति ॥ २७ ॥ इति ।
६५३
३ तृतीयः खण्डः] ऐतरेयबामणम् । विदित्वाऽनुष्ठातुरस्य पुरुषस्य सर्वमपि द्रव्यं बहिष्यं यज्ञयोग्यम् । अतः सर्व
द्रव्यमनेन होमार्थ परिगृहीतं भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयना मणभाष्ये पञ्चविंशाध्याये द्वितीयः खण्डः ॥२॥ (२७) [१८०]
यथा श्रद्धाहोमः पूर्वमुक्तस्तथा भावनारूपो होमोऽमिहोत्रप्रशंसायमेव प्रदर्श्यते
असो वा अस्याऽऽदित्यो यूपः पृथिवी वेदिरोषधयो बर्हिवनस्पतय इध्मा आपः
प्रोक्षण्यो दिशः परिधयः, इति । अस्य भावनारूपं यहं कुर्वतः पुरुषस्यासौ वा आदित्यो यूपस्थानीयः पृथिवी वेदिस्थानीयौषधयो बहिस्थानीया वनस्पतय इध्मस्थानीया भूमौ विद्यमाना आपः सर्वा अपि संस्कृतमोक्षणीस्थानीयाः प्राच्यादिदिशः परि विस्थानीयाः। ईदृशी भावनैवामिहोत्रहोमः । इतरसंपत्त्यभावेऽप्येताशो वा होमः कर्तव्यः।
ईडग्भावनायां फलं दर्शयति
यह वा अस्य किंच नश्यति यन्मियते यदपाजन्ति सर्व हैवैनं तदमुष्मिल्ँलोके यथा बर्हिषि दत्तमागच्छेदेवमागच्छति
य एवं विहाननिहोत्रं जुहोति, इति । यः पुमानादित्यो यूप इत्यादिकं विद्वान्भावयन्नमिहोत्रं जुहोति । एनं पुरु षममुष्मिन्वर्गे लोके तत्सर्वमागच्छति। किं किमिति तदुच्यते । अस्य पुरुषस्य यद्ध वै किंचास्मिल्लोके यत्किमपि वस्तु नश्यति । यच्च पुत्रादिकं म्रियते यद प्यन्यदपाजन्ति, अपगच्छति स्वस्माद्वियुक्तं भवति । तत्सर्व प्राप्यते । तत्र दृष्टान्तः । यथा बर्हिषि यज्ञे दत्तं वस्तु स्वर्गे यजमानमागच्छेदेवं नष्टं मृतम पगतं च सर्वमागच्छति । योऽयं श्रद्धाहोमः पूर्वमुक्तस्तस्यैव पुनरपि यूपवे.. धादिभावनारूपमनुष्ठानमुक्तम् ।
६५४ श्रीमत्सायगाचार्यविरचितभाष्यसमेतम् - [२५पञ्चविंशाध्याये
इदानीं भावनारूपां दक्षिणामाह
उभयान्वा एष देवमनुष्यान्विपर्यासं दक्षिणा
नयति सर्व चेदं यदिदं किंच , इति । एष श्रद्धाहोमस्य कर्ता देवान्मनुष्यांश्चोभयविधान्विपर्यासं विपर्यस्य दक्षिणाः कृत्वा नयति ऋत्विग्भ्यः समर्पयति । यत्र देवानां दक्षिणारूपत्वं न तत्र मनुष्याणां तद्रूपत्वम् । यत्र तु मनुष्याणां दक्षिणात्वं न तत्र देवाना. मित्येवं विपर्यासः । अनेन विपर्यासेन देवेषु मनुष्येषु च दक्षिणात्वसंकल्पः कर्तव्यः । न केवलं देवमनुष्याणामेव दक्षिणात्वं किं तहि यत्किचेदं जगदस्ति तत्सर्वमिदं श्रद्धाहोमी होमदक्षिणा नयति । सर्वस्मिञ्जगति दक्षिणेयमिति संकल्पः कर्तव्यः।
मनुष्याणां कुत्र दक्षिणात्वमित्याशय तदर्शयति
मनुष्यान्वा एष सायमाहुत्या देवेभ्यो दक्षिणा नयति सर्व चेदं यदिदं किंच त एते प्रलीना न्योकस इव शेरे
मनुष्या देवेभ्यो दक्षिणा नीताः, इति । येयं श्रद्धाहोमे सायमाहुतिस्तयाऽऽहुत्या तदाहुतिनिमित्वं देवेभ्य ऋत्वि क्स्थानीयेभ्यो मनुष्यान्गोसुवर्णस्थानीयान्दक्षिणाः कृत्वा नयति समर्पयति न केवलं मनुष्यान्कितु यत्किचिदिदं जगदस्ति तत्सर्वं दक्षिणाः कृत्वा समर्पयति। कथं मनुष्याणां रात्रौ दक्षिणात्वमिति तदुच्यते । एते मनुष्या यस्मात्सायं देवेभ्यो दक्षिणा नीतास्तस्माद्रात्रौ प्रलीनाः स्वस्वव्यापाररहिता न्योकोभ्य इव निवृत्तमोकः स्थानं गृहरूपं येषां ते न्योकसो मदीयं गृहमित्यभिमानर हिता एव सन्तः शेरे शेरते सुषुप्तिं गच्छन्तीत्यर्थः । यत्विग्भ्यः समर्पित गवादिकं दक्षिणाद्रव्यं पराधीनं भवत्येवं रात्रौ मनुष्या देवाधीनत्वात्स्वन्या पाराक्षमास्तदिदं पारवश्यं दक्षिणात्वे लिङ्गम् ।
अथ देवानां दक्षिणात्वं दर्शयति
देवान्वा एष प्रातराहुया मनुष्येभ्यो दक्षिणा नयति सर्व चेदं यदिदं किंच त एते विविदाना इवोत्पतन्यदोऽहं करि
sar
___ ३ तृतीयः खण्डः] ऐतरेयबामणम् ।
६५५ ष्येऽदोऽहं गमिष्यामीति वदन्तः , इति । एष दाहोमी भातराहुत्या निमित्तभूतया मनुष्येभ्य ऋत्विक्स्थानीयेभ्यो देवान्गवादिद्रव्यस्थानीयान्दक्षिणाः कृत्वा समर्पयति । यत्किचिदिदं जग दस्ति तदपि सर्व दक्षिणात्वेन समर्पयति । अतस्त एते देवा दक्षिणारूपेण मनुष्यपारवश्यंगता विविदाना इवोत्पतन्ति स्वस्वामिभूतानां मनुष्याणाम भिमायं विशेषेण जानन्त एवोद्योगं कुर्वन्ति । किं कुर्वन्तः । अस्य मनुष्य स्पादः कार्यमहं करिष्य इत्यस्माददो मनुष्यस्य समीपमहं गमिष्यामीति वदन्तः । अहनि देवा मनुष्यैः पूज्यमानास्तत्समीपं गत्वा तदीयमिदमायुरा. रोग्यादिरूपं कार्य करिष्याम इति वदन्तो मनुष्याधीना अवतिष्ठन्ते । तदिदं देवानां दक्षिणात्वम् । अथवा त एत इति वाच्य(क्यं) मनुष्यपरत्वेन योजनी यम् । त एते मनुष्याः प्रातःकाले निद्रापारवश्यं परित्यज्य देवतानुग्रहरूपा दक्षिणा गृहीत्वा विविदाना इव विशेषेण स्वस्वकार्य जानन्त एवोत्पतन्ति अयनातिष्ठन्त्युत्थाय चाहमिदं संध्यावन्दनं करिष्येऽहमिदं राजगृहं गमि. ज्यामीत्येवं वदन्तो वर्तन्ते । तदेव मनुष्याणां स्वातन्यं देवतारूपदक्षिणा प्रतिग्रहस्य लिङ्गम् ।
उकार्यवेदनपूर्वकमग्रिहोत्रानुष्ठानं प्रशंसति
यावन्तं ह वै सर्वमिदं दत्त्वा लोकं जयति तावन्तं ह
लोकं जयति य एवं विद्वानमिहोत्रं जुहोति, इति । इदं सर्व स्वकीयं धनं दत्त्वा तदानफलरूपं यावन्तं लोकं पुरुषः प्रामोति तावन्तमेव लोकं श्रद्धाहोमवेदनपूर्वकामिहोत्रानुष्ठायी प्रामोति ।।
तदेवं श्रद्धाहोमादिरूपेणामिहोत्रं प्रशस्याथ गवामयनसंपादनेन प्रशंसति
अनये वा एष सायमाहुत्याऽऽश्विनमुपाक
रोति तहाक्प्रतिगृणाति वाग्वागिति, इति । येयमग्निहोत्रस्य सायमाहुतिरग्निदेवतार्था तयाऽग्रिहोत्री गवामयनसंबद्ध माश्विनशस्त्रमुपाकरोति । सायंहोमः शस्त्रोपक्रम इत्यर्थः । अस्याः सायमाहु तेरमिर्देवता । आश्विनशस्त्रस्याऽऽदावप्यमिहोता गृहपतिरिति मत्रेऽमिः श्रुतः। तदिदं सादृश्यं तथाऽऽहुतिरूपं शखं वाक्मतिगृणाति । यथा शस्त्रस्य प्रतिगर एवमत्र वाक्शब्दः प्रयुज्यते । तथामिहोत्रोद्धरणमने वाचा त्वा होति
१ ख. वार्चत्वा । ट. वाक्च त्वा। gize by Offic
H
६५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् – [२५पञ्चविंशाध्याय वाक्याब्दः प्रयुज्यते । तदिदं प्रतिगरसदृशम् । वाग्यागिति वीप्सा प्रयोगवा हुल्यापेक्षा । गवामयनस्य प्रायणीयमहरतिरात्रसंस्थम् । अतिरात्रे चाऽऽश्विनं शलं शस्यते । तेन सायंहोमस्य गवामयनमारम्भसादृश्यं प्रतिपादितं भवति ।
उक्तार्यवेदनपूर्वकमनुष्ठानं प्रशंसति
अग्निना हास्य राज्याश्चिनं शस्तं भवति
य एवं विद्वानग्निहोत्रं जुहोति, इति । __ अस्य विदित्वाऽनुष्ठातुः सायमाहुतिदेवेनामिना रात्री विहितमाश्चिनं शस्त्रं
शस्तं भवति ।
सायमाहुतिं मायणीयातिरात्ररूपेण प्रशस्य मातराहुतिं गवामयनगतम हावतरूपेण प्रशंसति
आदित्याय वा एष प्रातराहुया महाव्रतमुपा करोति तत्प्राणः प्रतिगृणात्यनमन्त्रमिति, इति । आदित्यार्थ हूयमाना येयं प्रातराहुतिस्तयेषोऽग्निहोत्री महाव्रताख्यं गवा मयनस्योपान्तिममहः प्रारभते । तदिदासेत्यादित्यदेवताकेन मवेण तस्मिन हनि निष्केवल्यशस्त्रपारम्भात् । तचाऽऽहुतिरूपं शस्त्रं पाणः प्रतिगृणाति। कथमेतदिति तदुच्यते । अमं पयो रेतोऽस्मास्वित्यमिहोत्रभक्षणमनः । तेना भमिति प्रतिगृणातीत्युच्यते । अनं च प्राणत्वेन संस्तुतममं प्राणमनमपान मिति भुतेः । मममममिति वीप्सा प्रयोगबाहुल्यापेक्षा । तस्मादस्ति महाव. तस्य मातराहुतिगतादित्यसंबन्धः ।
उक्तार्यवेदनपूर्वकमनुष्ठानं प्रशंसति
आदित्येन हास्याह्ना महाव्रतं शस्तं भवति
य एवं विद्वानग्निहोत्रं जुहोति, इति । पूर्ववयाख्येयम् । प्रकारान्तरेणं गवामयनसाम्यं संपाद्य प्रशंसति
तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि विंशतिश्च संवत्सरे सायमाहुतयः सप्त चो एव शतानि विंशतिश्च संवत्सरे प्रातराहुतयस्ताव
__१ अ. प प्रा । २ क. झ. होने में | easy
frogic.
–
-.-..–
-.-..—.-
१ चतुर्थः खण्डः] ऐतरेयब्राह्मणम् ।
६५७ त्योऽर्यजुष्मत्य इष्टकाः, इति । एकैकस्यां रात्री दे द्वे आहुती । तथा सति पश्यधिकशतत्रयसंख्याकासु संवत्सरस्य रात्रिषु तत्संख्याद्वैगुण्येन विंशत्यधिकसप्तशतसंख्याकाः सायमा हुनयः संपद्यन्ते । प्रातराहुतयोऽपि संवत्सरस्यैतावत्य एव । सप्तचो इत्युकारो निपातो वाक्योपन्यासार्यः । मिलित्वा सर्वाहुतीनां चत्वारिंशदधिकेन शतच. तुष्टयेन युक्ता सहस्रसंख्या संपद्यते । गवामयने चित्यस्यामेर्यजुष्पत्यो मत्र युक्ता इष्टका अपि तावत्यः । अतोऽमिहोत्रस्येष्टकासंख्याद्वारा गवामयन साहश्यम् ।
एतद्वेदनपूर्वकमनुष्ठानं प्रशंसति
संवत्सरेण हास्यामिना चित्येनेष्टं भवति य
एवं विद्वाननिहोत्रं जुहोति ॥ २८ ॥ इति । व(स्य विदित्वाऽनुष्ठातुः संवत्सरसत्रेण चित्याभियुक्तेनेष्टं भवति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम
भाष्ये पञ्चविंशाध्याये तृतीयः खण्डः ॥३॥(२८) [१८१]
अयानुदितहोमनिन्दोदितहोमस्तुतिश्च मारभ्यते
वृषशुष्मो ह वातावत उवाच जातूको वक्तास्मो वा इदं देवेभ्यो यद्वैतदग्निहोत्रमुभये
घुरहूयतान्येयुवि तदेतर्हि हूयत इति, इति । बतावनानो महर्षरपत्यं वातावतो जतूकर्णस्य पौत्रो जातकर्ण्यः । स च वृषभुष्मो वृषभस्येव शुष्मो बलं यस्य महर्षेः सोऽयं वृषशुष्मः । तादृशो महर्षिः कदाचिदमिहोत्रिणामो प्रसङ्गादिदमुवाच । हेऽमिहोत्रिणो भवदीयमिदमाचरणं देवेभ्यो वक्तास्मो वयं वक्ष्यामः । किं तदाचरणमिति तदुच्यते । एतदमिहोत्रं पुरातनैर्महर्षिभिरुभयेथुरहूयत दिनद्वये हुतमासीत् । पूर्वदिनस्य रात्रावग्नि मुहिश्य होमः परदिनस्य प्रातः सूर्यमुद्दिश्य होम इत्येवं दिनद्वयानुष्ठानं पूर्वैः कृतम् । तदुल्लध्येदानीमेतदमिहोत्रं मनुष्यैरन्येधुरन्यतरस्मिन्नेव दिवसे ड्य वेऽस्तमयादूर्ध्वममये होमः पुनरपि सूर्योदयात्मागेव सूर्याय होम इत्येवमेक स्यामेव रात्रौ होमद्वयमनुचितं क्रियत इत्येतदाचरणं शास्त्रविरुद्धं देवतानामग्रे, कथयिष्यामीति वृदस्य महर्षेर्वाक्यम् ।।
६५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९पञ्चविंशाध्याये
अस्मिअवार्ये कुमारीवाक्यमप्युदाहरति
एतदु हैवोवाच कुमारी गन्धर्वगृहीता वक्तास्मो वा इदं पितृभ्यो यदेतदमिहोत्रमुभयेचुरहू
यतान्येधुर्वाव तदेतर्हि हूयत इति, इति । . ऋषेः पुत्री काचिद्राला तबृहस्वामिना गन्धर्वेण कदाचिगृहीता सती प्रस हादेवदेव वाक्यममिहोत्रिणामा उवाच । वक्तास्म इत्यादिकमेतद्वाक्यम् । पितृभ्य इत्येतावानेव विशेषः। .
ऋषेः कुमार्याच वाक्यतात्पर्य दर्शयति
एतहा अग्निहोत्रमन्येयुईयते यदस्तमिते सायं . जुहोत्यनुदित प्रातरथैतदमिहोत्रमुभयेधुर्हयते
यदस्तमिते सायं जुहोत्युदिते प्रातः, इति । इदानींतनो यदमिहोत्रं सूर्येऽस्तमिते सायं जुहोति पुनः सूर्येऽनुदित एवं(ब) सति प्रातर्जुहोत्येतदेवाग्रिहोत्रहामेद्वयमन्यस्त्वेकस्मिनेव दिने इयवे रात्रिमध्य एव विविधहोमनिष्पत्तेः। अथैतद्वैपरीत्येन पुरातनानां शास्त्रज्ञानां यदमिहोत्रं सूर्येऽस्तमितेऽध्वर्युः सायं जुहोति परेघुः प्रातरुदिते सूर्ये पवाज्जु. होत्येतदमिहोत्रमुभयेपुर्दिनद्वय एव दूयते ।
एवमिदानींतनानामेकदिनानुष्ठानरूपां निन्दा पुरातनानां दिनदयानुष्ठान रूपां स्तुतिं च पदोदिते होमं मात:काले विधत्ते
.. तस्मादुदिते होतव्यम् , इति । प्रकारान्तरेणोदित्रहोमं प्रशंसति
चतुर्विशे ह वै संवत्सरेऽनुदितहोमी गायत्रीलो कमामोति द्वादश उदितहोमी स यदा दौ संव.
सरावनुदिते जुहोत्यथ हास्यैको हुतो भवत्यथ य
• उदिते जुहोति संवत्सरेणैव संवत्सरमानोति य एवं
विहानुदिते जुहोति तस्मादुदिते होतव्यम्, इति । यः पुरुषोऽनभिन्न इदानींतनोऽनुदितहोमी स पुरुषश्चतुर्विशतिसंख्यापूरके संवत्सरे गायत्रीदेवताया लोकं मामोति तावद्भिः संवत्सरैर्गायत्र्यक्षरसंख्या
""
"
"
’’’
–६५९
६ पथमः खण्डः] ऐतरेयबामणम् । निष्पत्तेः । उदितहोमी तु द्वादशसंख्यापूरक एव संवत्सरे तं गायत्रीलोकं पामोति तावतैवोक्तसंख्यानिष्पत्तेः । कथमेतदिति तदुच्यते । सोऽनुदितहोमी यदा द्वौ संवत्सरावनुदिते सूर्ये मातर्जुहोत्यय तदानीं तस्यानुदितहोमिन एक एव संवत्सरो हुतो भवति । अस्तमयावूर्व पुनरुदयात्पूर्व च कालैक्येन होम इयनिष्पत्यभावात् । भय तद्वैलक्षण्येन यः शास्त्राभिन उदयापूर्व प्रातर्जुहोति वस्य कालव्यानुष्ठानसिद्धेः संवत्सरद्वयमितरेणानुष्ठितं फलमेकेनैव संवत्सरे। मास्य सिध्यति । तस्माद्वादचे संवत्सरे द्विगुणसंख्यया गायत्रीलोकमाप्तिरु पपद्यते । संवत्सरेणेत्यादिकं वाक्यं विद्वत्मशंसाय पुनरप्यावर्तनीयम् । यो विदाम्जुहोति स कालद्वयानुष्ठानात्संवत्सरमात्रेण संवत्सरद्वयफलं लभते । बस्मादिते सूर्ये सति पश्चादेव होतव्यम् ।
पुनरपि प्रकारान्तरेणोदितहोम प्रशंसति
एष ह वा अहोरात्रयोस्तेजसि जुहोति योऽस्त- . मिते सायं जुहोत्युदिते प्रातरमिना वै तेजसा
रात्रिस्तेजस्वत्यादित्येन तेजसाऽहस्तेजस्वत्, इति । यः सायंमावोमो कालभेदेन जुहोत्येष पुमानहोरात्रयोः संबन्धिनि विविषे तेजसि जुहोति । कथमेतदिति तदुच्यते । येयं रात्रि सेयममिनैव वेबसा युक्ता सती तेजखिनी भवति । यदिदमहस्तदेतदादित्येन तेजसा तेज खद्भवति । तस्मात्सायंपातकालद्वये जुहतस्तेजोद्वये होमसिदिः।
वेदनपूर्वकमनुष्ठानं होमं प्रशंसति
अहोरात्रयोहास्य तेजसि हुतं भवति
य एवं विद्वानुदिते जुहोति, इति । उपपादितपर्थ निगमयति
तस्मादुदिते होतव्यम् ॥२९॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम
भाष्ये पश्चविंशाध्याये चतुर्थः खण्डः ॥ ४॥ (२९)[१८२] .
दृष्टान्तपूर्वकमुदितहोमं पुनः प्रशंसति
एते ह वै संवत्सरस्य चक्रे यदहोरात्रे ताभ्यामेव ६ge
६६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -२५पञ्चविंशाध्याये
तत्संवत्सरमेति स योऽनुदिते जुहोति यथैकतश्च क्रेण यायात्ताहक्तदथ य उदिते जुहोति यथोभयत श्चक्रेण यान्क्षिप्रमध्वानं समश्रुवीत तादृक्तव, इति । ये एवाहोरात्र विद्येते एते एव रथस्थानीयस्य संवत्सरस्य चक्रस्थानीये। एवं सति स पुरुषो लौकिकस्ताभ्यामेवाहोरात्रचकाभ्यां संवत्सररयं पामोति एवमहोरात्रयोः संवत्सरमाप्तिसाधनत्वे स्थिते सति यः पुमानुदयात्मागेव पात र्जुहोति । तस्य दृष्टान्तोऽभिधीयते । यथा लोके रथस्यैकत एकस्मिमेव पार्ने स्थितेन चक्रेण यायान्मार्ग गच्छेताहक्तदनुष्ठानं स्यात् । एकं चक्रं यथा गम नक्षम न भवति तयैवानुदितहोम एककालमात्रवतित्वादित्यर्थः। अयोक्तवैल क्षण्येन यः पुमानुदिते जुहोति तस्य दृष्टान्तोऽभिधीयते । यथा पार्थये चक्र युक्तेन रथेन यानगच्छन्पुरुषः क्षिप्रं शीघ्र मार्ग पामोति ताक्तत्कालद्यानुष्ठा नमविलेन फलपदमित्यर्थः।
उक्तार्यदाया॑य गाथामुदाहरति
तदेषाऽभि यज्ञगाथा गीयते, इति । तस्मिन्कालदयहोमविषये काचिद्यामतिपादिका गाथा सर्वैरभितो गीयते। सुभाषितत्वेन सर्वैर्गीयमाना गाया।
तां गाथामुदाहरति
बृहद्रथंतराभ्यामिदमेति युक्तं यद्भूतं भवि प्यचापि सर्वम् । ताभ्यांमियादग्रीनाधाय
धीरो दिवैवान्यज्जुहुयानक्तमन्यदिति, इति । यदूतं जगदस्ति यश्च भविष्यदिदं सर्वमपि बृहद्रथंतराभ्यां सामन्यां युक्तं सदेति प्रवर्तते । तस्मादीरो बुद्धिमाननीनाधाय पश्चाचाभ्यां बृहद्यंतराभ्यां पृष्ठस्तोत्रनिष्पादकाभ्यामियात्सोमयागमनुतिष्ठेत् । प्रतिदिनं च दिवैव सूर्यदे वतामन्यदमिहोत्रं जुहुयात् । नक्तं रात्रावन्यदमिदेवताकममिहो जुहुयात् । इतिशब्दो गाथासमाप्त्यर्थः।
दिवाहोमं रात्रिहोमं च बृहद्रथंतरसंबन्धेन प्रशंसक्षुदितहोम निगमयति राथंतरी वै राज्यहर्हितममि रथंतरमादित्यो
१ क. ज. अ. द. ति य ए । itna CSCRogle
__–
–
-.-.’-"—
"
"
‘"."
..
५ पञ्चमः खण्डः] ऐतरेयबामणम् ।
१६१ बृहदेते ह वा एनं देवते बध्नस्य विष्टपं स्वर्ग लोकं गमयतो य एवं विद्वानुदिते
जुहोति तस्मादुदिते होतव्यम्, इति । सर्वस्य जगतो बृहद्रयंतराधीनत्वादहोरात्रयोरपि तत्संबन्धोऽस्ति । तत्र रात्री रयंवरसामसंबन्धिनी, अहस्तु बृहत्सामसंबन्धि, तयोः कालयोरभिमा निन्यौ ये उभे देवते अग्न्यादित्यरूपे तयो स्यंतरबृहरूपत्वं तत्सामाभिमानि. त्वादवगन्तव्यम् । एवं सति यः पुमाशास्त्ररहस्यं विद्वान्सायममिहोत्रं हुत्वा पश्चात्मातरदिवे जुहोति । एवमुदितहोमिनं बृहद्रथतराभिमानिन्यौ देवते अन स्थाऽऽदित्यस्य विष्टपं स्थानं स्वर्ग लोकं पापयतः। तस्मात्कारणात्यातरुदिते होतव्यम् ।
उदिवहोमं प्रशस्यानुदितहोमं निन्दितुं गाथामुदाहरति
तदेषाऽभि यज्ञगाथा गीयते, इति । तत्तमिमनुदितहोमनिन्दारूपेऽर्थ एषा वक्ष्यमाणा गाथा याजिकः सर्वैगी यमाना सुभाषितरूपाऽभितः सर्वतो गीयते वक्ष्यते ।
वां गाथामुदाहरति
यथा ह वाऽस्थूरिणैकेन यायादकृत्वाऽन्यदु पयोजनाय । एवं यन्ति ते बहवो जनासः
पुरोदयाज्जुह्वति येऽग्रिहोत्रमिति , इति । अस्थूरिनामाऽयो रथवाजी । यथा लोके कश्चिन्मन्दबुद्धिरुपयोजनाय रये योजयितुमन्यदकत्वाऽश्वान्तरमसंपाबैकेनैवास्थूरिणाऽश्वेन रथनियुक्तेन याया न्मार्ग गच्छेदेवमेव ये शास्त्ररहस्यानभिज्ञाः सूर्योदयात्पुराऽमिहोत्रं जुहति ते बहवो जनासः पुरुषा यन्ति गच्छन्ति । एकाश्वयुक्तो रथो यथा मार्गपारं नेतु मसमर्य एवं रात्रिरूपमे(ए)कस्मिमेव काले कृतममिहोत्रं फलदं न भवतीत्यर्थः। इतिशब्दो गाथासमाप्त्यर्थः।
उदितहोमोत्कर्षार्थमादित्यदेवतां प्रशंसति
तां वा एतां देवतां प्रयती सर्वमिदमनुप्रैति यदिदं किंचैतस्यै हीदं देवताया अनुचरं सर्व यदिदं किंच सैषाऽनुचरखती देवता, इति । Chaogic:
६६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२६पञ्चविंशाध्याये
यत्किचिदिदं स्थावरजामरूपं जगदस्ति तदिदं सर्व तामेतामादित्यदेवता प्रयतीमुदयास्तमयौ गच्छन्तीमनु पश्चात्मेति प्रवर्तते । तथा च शाखान्तरे श्रूयते-‘योऽसौ तप देति स सर्वेषां भूतानां प्राणानादायोदेति । असो योऽ. स्तमेति स सर्वेषां भतानां प्राणानादायास्तमति’ इति । सर्योदयमनु सर्वेषामि न्द्रियोदयादिवा सर्वे चेष्टन्ते । सूर्यास्तमयमनु सर्वेषामिन्द्रियास्तमयाद्रात्रौ सर्वे निद्रा कुर्वन्ति । अनेन प्रकारेण यत्किचिजगदस्ति तत्सर्वमेतस्या आदित्यदे. बताया अनुचरं भृत्यस्थानीयम् । अतः सैषाऽऽदित्यदेवताऽनुचरवती पहुस्ः त्योपेता।
वेदनं प्रशंसति
विन्दते ह वा अनुचरं भवत्य
स्यानुचरो य एवं वेद, इति । वेदिता स्वयं धनिको भूत्वा जीवितमदानेनानुचरं लभते । अतोऽस्य सर्व दाऽनुचरो भृत्यवर्गो भवत्येव ।
प्रकारान्तरेणाऽऽदित्यदेवतां प्रशंसति
स वा एष एकातिथिः स
एष जुह्वत्सु वसति, इति । एष आदित्यः स्वयमेकातिथिः । यथा लोके कश्चिद्वैदेशिको पन्धुरहितः खयमेक एवातिथिर्भूत्वा गृहेषु गच्छति एवं स एष आदित्यो जुहत्स्वमिहो त्रिषु मातः समागत्य तिष्ठति ।
अस्मिन] काचिदाथामुदाहरति - तबददो गाथा भवति, इति ।
यदिदमादित्यस्यैकातिथित्वं तत्तस्मिमय काचिद्राया सर्वैर्गातुं योग्या गीतिर्विद्यते।
वां गाथामुदाहरति
अनेनसमेनसा सोऽभिशस्तादेनस्वतो वाऽ पहरादेनः । एकातिथिमप सायं रुणद्धि
बिसानि स्तेनो अप सो जहारेति, इति । पुरा कदाचित्सप्तर्षीणां संवादप्रसङ्गे कश्चित्पुरुषो विसस्तैन्यलक्षणमपवाद
।
'
..
पक्षमः खण्डः] ऐतरेयबामणम् ।
६६१ प्राप्य तत्परिहारार्थमषीणामले शपथं चकार । तदीयशपयोक्तिरूपेयं गाया। बिसानि पबमूलानि तेषामपहर्ता प्रत्यवायपरम्परां मामोतु । पापरहिते पुरुषे पापविषयमपवादं कृतवतो यः प्रत्यवायः पापिनः पुरुषस्य संवन्धी पापं स्वीकुर्वतो यः प्रत्यवायः सायंकाले गृहे समागच्छत एवातियवैदेशिकस्यापरो. बने या प्रत्यवायः सेयं प्रत्यवायपरम्परा बिसस्तैन्ये सति मम भूयादित्येवं अपयः । अक्षरार्थस्तु । अमसिद्धो माशः पुरुषः स्तेनश्चोरो भूत्वा बिसान्य. पजहार चेत्स पुमाननेनसं पापरहितं पुरुषं श्रोत्रियमेनसाऽभिशस्तापापेना. मिसनमपवादं कुर्यात् । तथेष स बिसापहारी, एनस्वतः पापयुक्तस्य पुरु. पस्य यदेनः पापमस्ति तदपहरेत्स्वी कुर्यात् । तथा स विसापहारी सायंकाले रहे समागतमेकातिथिमपरुणद्धि भोजनमदत्वा निःसारयेत् । यद्वा । अमिहो पार्य सायं समागतमेकातिथि देवमपरुणदि होमराहित्येन निराकुर्यात् । इतिशन्दो गाथासमाप्त्यर्थः। ___ अस्यां गाथायामेकातिथिमप सायं रुणदीत्यस्य भागस्य प्रकृतोपयुक्तत्वा
वस्य वात्पर्य दर्शयति
एष ह वै स एकातिथिः स एष जुह्वत्सु वस त्येतां वाव स देवतामपरुणद्धि योऽलमग्रिहो त्राय सन्नाग्रिहोत्रं जुहोति तमेषा देवताऽपरु द्वाऽपरुणब्यस्माच लोकादमुष्माच्चोभाभ्यां
योऽलमग्रिहोत्राय सनाग्निहोत्रं जुहोति, इति । एष दृश्यमान आदित्य एव गाथायामुक्त एकातिथिः । स एष देवः मातःकाले समागत्य जुहत्स्वमिहोत्रिषु तिष्ठति । एवं सति यः पुमानमिहोत्रा पालं समर्थः समामिहोत्रं न जुहोति स पुमानेतामग्रिहोत्रहोमार्थमागतां देवता पपरुणदि निराकरोति । एषा च देवता तेनापरुद्धा सती तं नास्तिकं भूलो. कस्वर्गलोकाभ्यामुभाभ्यामपरुणद्धि निःसारयति । योऽलमित्यादेः पुनरुक्ति
पसंहारार्या । यो न जुहोति तस्यायं देवताद्रोहः । विपक्षे बाधकमुक्त्वा स्वपक्षं दर्शयति
तस्माद्योऽलमग्निहोत्राय स्याज्जुहुयाव , इति । अग्रिहोत्रायालमाहितामित्वेन समर्थो भवेत्सोऽवश्यं जुहुयात् । ५०% ६Haogle
६६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९पञ्चविंशाध्याये अमिहोत्रस्याऽऽवश्यकत्वे दृष्टान्तरूपविवक्षायां स्मात शास्त्रार्थ दर्शयति
तस्मादाहुन सायमतिथिरपरुध्य इति, इति । यस्मादेवस्य मनुष्यस्य चातिथेरपरोधे प्रत्यवायोऽस्ति तस्माच्छास्त्रका एक माहुः सायंकाले समागतोऽतिथि परुध्यो न निराकरणीय इति। अवो लौकि कातिथिवदेवतातिथये होतव्यमित्यर्थः ।
अमिहोत्रस्याऽऽवश्यककर्तव्यतामुक्त्वा पुनरपि प्रकारान्तरेणोदिवहोम प्रशंसति
एतद्ध स्म वै तदिहानगरी जानश्रुतेय उदितहो मिनमैकादशाक्षं मानुतन्तव्यमुवाच प्रजायामेनं विज्ञातास्मो यदि विद्वान्वा जुहोत्यविद्वान्वेति तस्यो हैकादशाक्षे रामिव प्रजा बभूव राष्ट्रमिव हवा अस्य प्रजा भवति य एवं विद्वानुदिते
जुहोति तस्मादुदिते होतव्यम् ॥ ३०॥ इति । जनश्रुताख्यस्य कस्यचिन्महर्षेः पुत्रो जानश्रुतयः । स च राजपुरोहितत्वा. नित्यं नगरे वसतीति नगरी । स महपिस्तदेतदुदितमाहात्म्यं विद्वाना जपुत्रं कंचिदुदितहोमिनमुद्दिश्य स्वमनस्येवमुवाच । कीदृशमुदितहोमिनमै कादशासमेकादशासनामकस्य राज्ञः पुत्रं मानुतन्तव्यं मनुतन्तुनामकस्य रामः पौत्रम् । तमुद्दिश्य मनसि किमुवाचेति तदभिधीयते । अयमैकादशाको राज पुत्रो यदि विद्वाञ्जुहोति यदि वा शास्त्रार्थमविद्वानिति मम संशयो जायते। तथा सति मजायामेतदीयपुत्रपौत्रादिसंततौ पर्यालोच्यैतमैकादशाक्षं विज्ञातास्मो विशेषेण मास्यामः । यदि प्रजा वर्धते तदानीमयं विद्वानन्यथा त्वविद्वानिति निश्चित्य यदा तदीयां प्रजामपश्यत्तदानीं तस्यापि राजपुत्रस्य मजा पुत्रपौत्रा दिरूपा राष्ट्रमिव बभूव । यथा राष्ट्रं बहुजनाकीर्ण तद्वदतिसमुद्धा प्रजाऽऽ. सीत् । एकादशाक्षस्यापत्यमैकादशातिरिकारान्तः शब्दस्तस्य षष्ठीयमैकादशा क्षेरिति । यः पुमानेवं विद्वान्मातरुदिते जुहोति अस्य राष्ट्रमिव बहुला प्रभा भवति । तस्मादुदिते होतव्यमिति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण
भाष्ये पञ्चविंशाध्याये पञ्चमः खण्डः ॥५॥ (३०)[ १८३]
-..– ..—.—- — —— ..—.–..
—.
1.11111
-…-..
—-..
१ षष्ठः खण्डः] ऐतरेयबामणम् ।
१६५ प्रकारान्तरेणानुदितहोमनिन्दामुदितहोमप्रशंसां चाऽऽह- .
उद्यन्नु खलु वा आदित्य आहवनीयेन रश्मी न्संदधाति स योऽनुदिते जुहोति यथा कुमा राय वा वत्साय वाऽजाताय स्तनं प्रतिदध्या त्तादृक्तदथ य उदिते जुहोति यथा कुमाराय वा वत्साय वा जाताय स्तनं प्रतिदध्यात्तादृक्तत्तमस्मै प्रतिधीयमानमुभयोलॊकयोरनाधमनु प्रतिधी यतेऽस्माच लोकादमुष्माचोभाभ्याम् , इति । आदित्यः स्वयमुद्यमेव हव्यार्थी समाहवनीयेन सह स्वकीयावश्मीन्संद. धाति संयोजयति । एवं सति यः पुमान्सूर्योदयात्पूर्व जुहोति स मूढ इति शेषः। सत्र दृष्टान्तः । यथा लोके कस्मैचिदजातायानुत्पभाय स्तनं प्रतिदध्यात्पातुं समर्पयेत्वारंगेव तद्रष्टव्यम् । अथ तद्वैलक्षण्येन यः पुमानुदयादूचे जुहोति स विवेकी । तत्रायं दृष्टान्तः । उत्पभाय स्तनपदानं यादृशं भवति ताडगेव सदिति । एवं सति अस्मै सूर्याय प्रतिधीयमानं हविः समर्पयेत्त(यन्तं) तममि होत्रिणमनु लोकद्वयेऽप्यनाचं संपद्यते । लोकयोरित्यस्यैव व्याख्यानमस्माचे. त्यादि ससम्यर्थे पञ्चमी । अस्मिनमुष्मियोभयोर्लोकयोरित्यर्थः।
पुनरप्यन्येन दृष्टान्तेनानुदितहोमनिन्दामुदितहोमप्रशंसां च दर्शयति
स योऽनुदिते जुहोति यथा पुरुषाय वा. हस्तिने वाऽप्रयते हस्त आध्यात्तारक्तदथ य । उदिते जुहोति यथा पुरुषाय वा हस्तिने वा प्रयते हस्त आदध्यात्ताहक्तत्तमेष एतेनैव हस्ते. नोवं हत्वा स्वर्ग लोक आदधाति य एवं विहा
नुदिते जुहोति तस्मादुदिते होतव्यम्, इति । . योऽनुदितहोमी स मूढः । यथा लोके पुरुषस्य हस्तिनो वा प्रासार्यममय वेऽप्रसारिवहस्ते प्रासं प्रतिपेसागेव तत् । उदितहोमस्तु प्रसारितहस्ते प्रास प्रक्षेपसमानः । यः पुमान्विदित्वोदितहोमी स्यात्तं पुमांसमेष आदित्य एते नैव हविःस्वीकारार्थ प्रसारितेन हस्तेनोर्ध्वं हत्वा नीत्वा स्वर्गे लोके स्थाप यति । तस्मादुदयादू होतव्यम् ।
pişiren a Google
.
-.
-..- . .–
-.
…-.-.
१६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२९पञ्चविंशाध्याये
प्रकारान्तरेणोदितहोम प्रशंसति
उद्यनु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति तस्मादेनं प्राण इत्याचक्षते प्राणे हास्य संप्रति हुतं भवति य एवं विद्वानु
दिते जुहोति तस्मादुदिते होतव्यम्, इति । आदित्यः स्वयमुयमेव सर्वपाणिनः प्रणयति चेष्टयति तस्मात्मणयतीति व्युत्पस्याऽऽदित्यस्य प्राण इति नाम । एवं सत्युदितहोमी योऽस्ति तस्य पाणरूप आदित्ये संमति सम्यग्द्रव्यं हुतं भवति । तस्मादयादूर्ध्व होतव्यम् ।
पुनरपि युक्त्यन्तरेणोदितहोम प्रशंसति
एष ह वै सत्यं वदन्सत्ये जुहोति योऽस्तमिते सायं जुहोत्युदित प्रातर्भूर्भुवः स्वरोममियो तिर्योतिरमिरिति सायं जुहोति भूर्भुवः स्वरों३ सूर्यो ज्योतिर्कोतिः सूर्य इति प्रातः सत्यं हास्य वदतः सत्ये हुतं भवति य एवं विदा
नुदिते जुहोति तस्मादुदिते होतव्यम् , इति । . सायंकालीनमग्निहोत्रमस्तमयादूर्व प्रातःकालीनं च सूर्योदयापूर्व जुहोति एष पुमान्वाचा सत्यं यथार्थवादिनमेव मचं भुवन्सत्ये परमार्थे देवे जुहोति । कथमिति तदुच्यते। भूर्भुवः खरित्यादिकः सायंकालीनो मन्त्रः। तस्यायमर्यः। भूरादयस्त्रयो लोका मदीयं होममोमड़ी कुर्वन्तु । योऽभिर्देवः स एव ज्योति दीपादिरूपः प्रकाशो यच ज्योतिर्दीपादिरूपा प्रकाशः स एवाभिर्देवस्तस्मै देवाय स्वाहुतमिदमस्त्विति । एवं प्रातःकालीनमत्रेऽपि द्रष्टव्यम् । भूरादयो लोका मदीयं होम स्वी कुर्वन्तु । सूर्यो देवः स एव ज्योतिर्दिवसगतं प्रभारूम यचेदं प्रभारूपं ज्योतिः स एव सूर्यो देवस्तस्मै स्वाहुतमिदमस्तु । तत्र यो विद्वाने जुहोति तस्य सायंकालीनं ज्योतिरमिः प्रातःकालीनं ज्योतिः सूर्य इत्येवं सत्यं परमार्थ वदतः पुरुषस्य सत्से परमार्थरूपेऽमौ सूर्ये च हुतं भवति। तस्मात्मातरुदयादूचे होतव्यम् ।
.-.—-.
.-.–.-
–
१. ट. ‘नेव जुन
phelizes in Google
७ सप्तमः खण्डः] ऐतरेयत्रामणम् ।
उदिवहोम प्रशस्यानुदितहोमं निन्दितुं गाथामुदाहरति
- तदेषाऽभि यज्ञगाथा गीयते, इति । वां गायामाह
प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येड मिहोत्रम् । दिवाकीर्यमदिवा कीर्तयन्तः सूर्यो
ज्योतिर्न तदा ज्योतिरषामिति ॥३१॥ इति । येऽमिहोत्रिण उदयापूर्वममिहोत्रं जुइति ते पुरुषा दिवाकीर्त्यमहनि कीर्त. नीयं सूर्यमदिवा रात्री कीर्तयन्तः प्रातः मातः प्रतिदिनं प्रात:कालेऽनृतमसत्वं बदन्ति । कथमसत्यत्वमिति तदुच्यते । सूर्यो ज्योतिरिति हि मनपाठः । वदानीमुदयात्पुरा तेषामनिहोत्रिणां सूर्यरूपं ज्योतिर्नास्ति तस्मादसत्य. वादिनः । इतिशब्दो गाथासमाप्त्यर्थः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम
भाष्ये पञ्चविंशाध्याये षष्ठः खण्डः ॥ ६ ॥ (३१) [१८४]
अयामिहोत्रमवासना दिस्थस्य सर्वमायश्चित्तसंपादकस्य व्याइवित्रयस्य सृष्टिं वकुमुपक्रमते
प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्वेमाल्लोकानसृजत पृथि वीमन्तरिक्षं दिवं ताल्लोकानभ्यतपत्तेभ्योऽभि तसेभ्यस्त्रीणि ज्योतीष्यजायन्तागिरेव पृथिव्या अजायत वायुरन्तरिक्षादादियो दिवस्तानिज्योती ष्यभ्यतपत्तेभ्योऽभितप्तेभ्यत्रयो वेदा अजायन्त ऋग्वेद एवागेरजायत यजुर्वेदो वायोः साम वेद आदित्यात्तान्वेदानभ्यतपत्तेभ्योऽभितप्तेभ्य स्त्रीणि शुक्राण्यजायन्त भूरियेव ऋग्वेदादजायत मुव इति यजुर्वेदात्स्वरिति सामवेदाद , इति ।
1601111447
1
६६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२५पञ्चविंशाध्याये
पुरा प्रजापतिरेको भूत्वा प्रजोत्पादनेन बहुविधः स्यामिति कामयित्वा तत्सिद्ध्यर्थं तपः पर्यालोचनमकरोत् । इदं वस्त्वीदृशमिति पर्यालोचनरूप तपः कृत्वा पर्यालोचितमकारेणोत्पद्यतामिति संकल्प्य तेन संकल्पेन लोकत्र यमसृजत । ताल्लोकान्पुनरप्यभितः पर्यालोचितवान्किमेषु लोकेषु सारभूतं संपादनीयमिति पर्यालोचनम् । तथा पर्यालोचितेभ्यो लोकेभ्यः प्रजापतिः संकल्पानुसारेणामिवावादित्यरूपाणि ज्योतीष्यजायन्त । तत्रापि सारं पर्या लोच्य त्रिभ्यो ज्योतिभ्यों वेदत्रयमुत्पादितवान् । तेभ्यश्च वेदेभ्यो ब्याह तित्रयरूपाणि शुक्राणि ज्योतींषि पापाख्यतमोनिवारणसमर्थान्यजायन्त ।
एवं व्याहृतित्रयस्योत्पत्तिमुक्त्वा प्रणवस्योत्पत्तिमाह
तानि शुक्राण्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधास मभरत्तदेतदोमिति तस्मादोमोमिति प्रणौत्योमिति
वैस्वर्गों लोक ओमित्यसौ योऽसौ तपति, इति । तानि शुक्राणि व्याहृतित्रयरूपाणि ज्योतींषि सारोत्पादनाय पर्यायोचि तवान् । तेभ्यः पर्यालोचितेभ्यः प्रजापतिसंकल्पाद्वर्णत्रयमजायत । तच प्रय मेकपा संयोजितवान् । तदेतदेकीभूतं वर्णत्रयमोमित्येवं संपनम् । तस्मात्स वसारत्वाद्धोता यः(यं) प्रयोगमध्य ओमिति प्रणवं करोति । सर्वप्रयोगसंग हार्या वीप्सा । सोऽयमोंकारः स्वर्गप्राप्तिहेतुत्वात्तदात्मकः । तथा योऽसावा. दित्यस्तपत्यसावप्योंकारस्वरूपः। आदित्यमासेरप्योंकारसाधनत्वाद । ओंका. रस्य सर्वफलहेतुत्वं कठा आमनन्ति-‘एतब्वेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्’ इति।
अथ प्रायश्चित्तं विधातुमुपयुक्तमुपाख्यानमाह
स प्रजापतिर्यज्ञमतनुत तमाहरत्तेनायजत स ऋचैव होत्रमकरोद्यजुषाऽऽध्वर्यवं साम्रोद्रीथं
यदेतत्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वमकरोद, इति। पुरा प्रजापतिः स्वेच्छया यबमतनुत विस्तारितवान् । केन प्रकारेणति सोऽभिधीयते । तं यासाधनसमूहमाहत्य तेन साधनेन यागं कृतवान् । वेदत्र. यगतैर्मवैः क्रमेण हौत्राध्वर्यवौद्गात्राणि निष्पाप ततसय्यै विधायै वेदत्रयर
- भत्र पुस्तकेषु प्लतिर्वर्तते साऽयुक्ता ।
sede in Google७ सप्तमः खण्डः] ऐतरेयबामणम् ।
६६९ पायां विधायां यदेतच्छुक्र सारं व्याहृतित्रयादिरूपं तेन सारेण प्रमत्वं छतवान् ।
अथ ब्रह्मयज्ञवद्देवतायचं दर्शयति
स प्रजापतिर्यज्ञं देवेभ्यः संपायच्छते देवा यज्ञमतन्वत तमाहरन्त तेनायजन्त त ऋचैव होत्रमकुर्वन्यजुषाऽऽध्वर्यवं सानोगीथं यदेवैत
अय्यै विद्यायै शुक्रं तेन ब्रह्मत्वमकुर्वन्, इति । पूर्ववाक्यवव्याख्येयम् । अथ प्रश्नोत्तराभ्यां मायश्चित्तं विधत्ते
ते देवा अब्रुवन्प्रजापति यदि नो यज्ञ ऋक्त आतिः स्याद्यदि यजुष्टो यदि सामतो यद्यवि ज्ञाता सर्वव्यापदा का प्रायश्चित्तिरिति स प्रजापतिरब्रवीदेवान्यदि वो यज्ञ ऋक्त आर्ति भवति भूरिति गार्हपत्ये जुहवाथ यदि यजुष्टो भुव इत्यानीघ्रीयेऽन्वाहार्यपचने वा हविर्य ज्ञेषु यदि सामतः स्वरित्याहवनीये यद्य विज्ञाता सर्वव्यापहा भूर्भुवः स्वरिति सर्वा
अनुद्रुत्याऽऽहवनीय एव जुहवाथेति, इति । ते देवाः प्रजापतिं प्रत्येवमपृच्छमोऽस्मदीये यज्ञे यदि कदाचिक्त ऋल्म. बादाति शो भवेत् । तथा यजुर्मवात्साममत्राद्वा कदाचिदातिः स्यात् । एताः सर्वा आर्तयोऽस्माभिर्विज्ञाता यदि कदाचिदविज्ञाता काचिदातिमें। षेत् । यदि वा सर्वथा यद्वेदत्रयमवनिमित्ताऽस्माभिर्विज्ञाताऽस्माभिरमाता प सोऽप्यातिर्भवेत् । इदानी प्रायश्चित्तिर्वक्तव्येति देवप्रश्नः। ऋङ्मन्त्रवे कल्पे गाईपत्ये भूरिति होमः । यजुर्मववैकल्ये सत्यानीध्रीये पिणिये भुव इति होमः । सोऽयं सोमयागे द्रष्टव्यः । हविर्याग आनीध्रीयाभावात् । अग्न्याधेयमनिहोत्रं दर्शपूर्णमासावाप्रयणं चातुर्मास्यानि दाक्षायणयाः
ख. ‘व। ..
1.11111
"
1
"
.
६७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९पञ्चविंशाध्याये कौण्डपायिनामयनं सौत्रामणी वा सप्तमी त एते हविर्यज्ञास्तेष्वामीधीयामा वादन्वाहार्यपचने दक्षिणामौ जुहवाय हे देवा यूयं जुहुत । सामभ्रेषे स्वरि त्साहवनीये होमः । यद्यविज्ञातो भ्रषो यदि वा वेदत्रयभ्रषसमुच्चयस्तोमय. शापि भूर्भुवः स्वरित्येतास्तिस्रो व्याहृतीः सर्वा अनुश्रुत्योचार्याऽऽहवनीय एव जुहुत।
अनेनार्थवादेन प्रायश्चित्तविधिमुनीय व्याहृतिप्रशंसापूर्वकं तं विधिणा संहरति
एतानि ह वै वेदानामन्तःश्लेषणानि यदेता व्याहृतयस्तद्यथाऽऽत्मनाऽऽत्मानं संदध्याधथा पर्वणा पर्व यथा श्लेष्मणा चर्मण्यं वाऽन्यदा विश्लिष्टं संश्लेषयेदेवमेवैताभिर्यज्ञस्य विश्लिष्टं संदधाति सैषा सर्वप्रायश्चित्तिर्यदेता व्याहृतयस्त
स्मादेषेव यज्ञे प्रायश्चित्तिः कर्तव्या॥३२॥ इति । या एता व्याहृतयः सन्ति एतानि ह वै त्रीण्येव व्याहृतिरूपाणि वेदानां संबन्धीन्यन्तःश्लेषणान्यन्तर्वन्धनसाधनानि । तत्र दृष्टान्तोऽभिधीयते । यथा लोक आत्मनाऽऽत्मानं संदध्यात् । आत्मशब्दः स्वरूपमात्रवाचित्वात्सर्वद्रव्य परः। एकेन द्रव्येण द्रव्यान्तरं संघीयते । एतच्छन्दोगविस्पष्टमानातम् । तद्यथा लवणेन सुवर्ण संदध्यात् । सुवर्णेन रजतम् । रजतेन त्रपु । त्रपुना सीसम् । सीसेन लोहम् । लोहेन दारु । दारुणा चर्मेति । क्षारादिना सुवर्णा दीनां संघानं सुवर्णकारादिषु प्रसिद्धम् । तदेतदभिप्रेत्याऽऽत्मनाऽऽत्मानं संदध्यादित्युक्तम् । यथा च हस्तपादादिष्वेकेन पर्वणा पर्वान्तरं संश्लिष्टं यथाच श्लेष्मणा धात्वन्तरं संश्लिष्टं चर्मणा च चर्मण्यं पादत्राणादिकमन्यद्वा शकटा. दिषु किंचिद्विश्लिष्टमा चर्ममय्या रज्ज्वा संश्लेषयेत् । अनेनैव प्रकारेणैतामि ातिभिर्यजस्म विश्लिष्टमा संश्लिष्टं भवति या एता व्याहृतयः सैषा सर्वस्य वैकल्यस्य मायश्चित्तिः। तस्मायझे वैकल्यपरिहारार्यमेव पायथितिः कर्तव्या :
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण . भाष्ये पञ्चविंशाध्याये सप्तमः खण्डः॥७॥ (३२)[ १८५]
व्याहृतिहोमप्रसकेन ब्रह्मा बुद्धिस्थस्तस्य तत्कर्तृत्वात् । तथा चाऽऽश्वला यन आह-जुहोति जपतीति मायश्चित्ते प्रमाणमिति ।
1.11111
८ अष्टमः खण्डः] ऐतरेयबामणम् ।
अतः प्रश्नोत्तराभ्यां ब्रह्मत्वं निर्णेतुपुपक्रमते
तदाहुमहावदा३., यहचैव होत्रं क्रियते यजुषाऽऽध्व र्यवं साम्रोद्रीथं व्यारब्धा त्रयी विद्या भवयथ केन ब्रह्मवं क्रियत इति त्रय्या विद्ययेति ब्रूयाव , इति । तत्तत्र प्रायश्चित्तमसङ्गे महावदा ब्रह्मवादिन आहुश्चोदयन्ति । महान्तं प्रौद . बेदं वदन्तीति महावदाः । प्युतिस्तेषां प्रशंसा । यद्यस्मात्कारणाहग्यजुः सामेति हौत्राध्वर्यवौद्वात्राणां करणाश्रयी वेदत्रयरूपा विद्या व्यारब्धा विविच्य होत्रादिभिः स्वीकृता भवति । अथर्ववेदश्च नात्र मिश्रयितुं शक्यते । आहव नीयादिकर्तव्यस्य तत्राभावात् । अथ तस्मात्कारणात्केन साधनेन ब्रह्मत्वं क्रियत इति चोधम् । तस्य प्रय्या वेदत्रयरूपया विद्यया ब्रमत्वं कर्तव्यमि त्युचरं प्रतिब्यात् । अत एव संप्रदायविद आहु:
“अथर्वक्षेत्रवान्ब्रह्मा घेदेष्वन्येषु भागवान् ।
तस्माइमाण अमिष्ठमिति मारण्यके श्रुतम्” इति ॥ ब्रमणो मनसा वैकल्यराहित्यानुसंधानं विधत्ते
अयं वै यज्ञो योऽयं पवते तस्य वाक्च मनश्च वर्तन्यौ वाचा च हिमनसा च यज्ञो वर्तत इयं वै वागदो मनस्तहाचा त्रय्या विद्ययैकं
पक्षं संस्कुर्वन्ति मनसैव ब्रह्मा संस्करोति, इति । सोऽयं वायुः पवतेऽन्तरिक्षे संचरति अयमेव यज्ञस्वरूपो वायुसहशो यः। पवा वायोः संचारमागास्तथा तस्य यज्ञस्य वाक्च मनच वर्तन्यो प्रवृति मार्गौ । यस्माद्वाचा मत्ररूपया मनसा च प्रयोगानुसंधात्रा यज्ञो वर्तते तस्मा. दुभौ मार्गों । तत्र वागियं वै भूमिस्वरूपैव मनस्त्वदः स्वर्गरूपम् । तत्तया सति पापया प्रय्या विद्यया होत्रादयो रयस्थानीयस्य यज्ञस्यैकं पक्षं भागं संस्कु पन्ति सम्यक्संपादयन्ति । ब्रमा मनसैव संस्करोति सम्यक्संपादयति । अन्य भागमिति शेषः । होत्रादिभिर्वाचाऽनुष्ठीयमानेष्वङ्गेषु वैकल्यराहित्य प्रमाऽनुसंदध्यादित्यर्थः । छन्दोगाश्चैतमर्थमामनन्ति-‘एष एव यहस्तस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा वाचा होताऽध्व.
मुरुगाताऽन्यतराम्’ इति ।
sagten der Google
.
.
.
६७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९पञ्चविंशाध्याये
अथ ब्रह्मणो मौनं विधातुं वाग्व्यवहारे पापा दर्शयति
ते हैके ब्रह्माण उपाकृते प्रातरनुवाके स्तोम भागाञ्जपित्वा भाषमाणा उपासते तद्वैतदु वाच ब्राह्मण उपाकृते प्रातरनुवाके ब्रह्माणं भाषमाणं दृष्ट्वाऽर्धमस्य यज्ञस्यान्तरगुरिति तद्यथैकपात्पुरुषो यनेकतश्चक्रो वा रथो वर्त मानो भेषं न्येयेवमेव स यज्ञो धेषं न्येति
यज्ञस्य भेषमनु यजमानो श्रेषं न्येति, इति । केषुचियामयोगेषु वर्तमानास्ते वेदत्रयाभिनत्वेन प्रसिद्धा एके ब्रमाणा केचिद्रमसंज्ञका ऋत्विजो होत्रा पठितव्ये मातरनुवाकेऽध्वर्युणोपाकृतेऽनु. जाते सति तत ऊर्च रश्मिरसि क्षयाय त्वेत्यादीस्तोमभागसंझकान्मत्राञ्जपित्वा मौनमकृत्वा भाषमाणा वाग्व्यवहारं कुर्वन्त उपासते समीपे तिष्ठन्ति । तदानी कश्चिच्छास्त्राभिको ब्राह्मण आगत्य कस्मिंश्विद्यते मातरनुवाकोपाकरणादूर्व भाषमाणं वाग्व्यवहारं कुर्वन्तं ब्रह्माणं दृष्ट्वा वाक्यमेतदुवाच-अस्य यास्या मन्तरगुरिति । ऋत्विग्यजमाना एकं यहभागमन्तरितं कृतवन्त इति । तथा सति यथा लोके कश्चिदेकपात्पुरुषो द्वितीयं पादं संकुचितं कृत्वा प्रसारितेनै केनैव पादेन यन्मार्गे गच्छन्भेष भूमौ पातं न्येति नितरामेति यया वा कवि. द्रय एकचक्रो भूमौ प्रवर्तमानो भ्रषं मामोति एवमेव मौनरहितेन ब्रह्मणा युक्तः स यज्ञो भ्रषं न्येति । तं च यज्ञभ्रेषमनु पश्चाघजमानो भ्रषं न्यति । .. इत्यं वाग्व्यवहारे बाधमुक्त्वा मौनं विधत्ते
तस्माद्ब्रह्मोपाकृते प्रातरनुवाके वाचंयमः स्थादोपांश्वन्तर्यामयो)मादुपाकृतेषु पवमाने वोहचोऽथ यानि स्तोत्राणि सशस्त्राण्या तेषां वषट्काराहाचंयम एव स्यात्तद्यथोभयतः पात्पुरुषो यनुभयतश्चक्रो वा रथो वर्तमानो न रिष्यत्येवमेव स यज्ञो न रिष्यति यज्ञस्यारिष्टि मनु यजमानो न रिष्यति ॥ ३३ ॥ इति ।
Headies in o
..
…..–.
९ नवमः खण्डः] ऐतरेयब्राह्मणम् ।
६७३ यस्माझाषणे वाघोऽस्ति तस्माद्रमा मातरनुवाकोपाकरणादूचं वाचंयमो मौनी स्यात् । कियन्तं कालमिति तदुच्यते । उपश्चिन्तर्यामयोपॅहयोरा होमा दोमसमाप्तिपर्यन्तं तथा पवमानस्तोत्रेषु विष्वप्यध्वर्युगोपाकृतेष्वनुज्ञातेषु सत्सु
ओरच उत्तम(मा)समासिकालीना येयमृगस्ति तत्समातिपर्यन्तम् । वाचंयमः, स्यादित्यनुवर्तते । अथानन्तरं यान्यन्यान्याज्यादिस्तोत्राणि शस्त्रसहितानि सन्ति तेषामा वषट्काराद्वौषनितिमत्रोचारणपर्यन्तं तत्तत्स्तोत्रमारम्भादूर्ध्वं तदा बदा पाचंयम एव स्यात् । तथा सति लोके यथोभयतःपात्पादद्वयोपेत: पुरुषो यन्मार्गे गच्छन्न रिष्यति न विनश्यति तथा चोभयतश्चक्रश्चक्रव्योपेतो मार्गे प्रवर्तमानो न विनश्यति एवमेव मौनिना ब्रह्मणा युक्तः स यज्ञो न विन. श्यति।यास्यारिष्टिं विनाशाभावमनु यजमानोऽपि न रिष्यति न विनश्यति॥ इति श्रीमाधवीये वेदार्यप्रकाश ऐतरेयबामणभाष्ये पञ्चविंशा
ध्यायेऽष्टमः खण्डः ॥८॥ (१२) [१८६ ]
अथ ब्रमणः कश्चित्कर्तव्यविशेषात्विधातुं चोचमुझावयति
तदाहुर्यबहान्मेऽग्रहीत्याचारीन्म आहुतीर्मेऽहो पीदित्यध्वर्यवे दक्षिणा नीयन्त उदगासीन्म इत्युदात्रेऽन्ववोचन्मेऽशंसीन्मेऽयाक्षीन्म इति होत्रे किंस्विदेव चक्रुषे ब्रह्मणे दक्षिणा नीय
न्तेऽकृत्वाऽऽहोस्विदेव हरता इति, इति । तस्मिन्ब्रमणि चोधमाहुः । किं चोद्यमिति तदुच्यते । यजमानेनाध्वर्यवे यदा दक्षिणा नीयन्ते प्रदीयन्ते तदानीं यजमानस्यायमभिप्रायः-असावध्वर्युर्मे मदर्य प्रहानेन्द्रवायवादीनग्रहीत् । तथा मे मदर्थे प्राचारीत्, ग्रहमचारं कृत वान् । तथा मे मदर्यमाहुतीरहौषीत, हुतवानिति । यदोगात्रे दक्षिणा नीयन्ते सदानीमयमभिप्राय:-असावुद्गाता मे मदर्थमुदगासीद , औद्गात्रं कृतवा निति । यदा होने दक्षिणा नीयन्ते तदानीमयमभिमाय:-अयं होता मे मद. मन्ववोचत्पुरोनुवाक्यादीनामनुवचनं कृतवान् । तथा मे मदर्थमशंसीद , शंसनं कृतवान् । तथा मे मदर्थमयाक्षीत, याज्यां पठितवानिति । एवं तेन वेन कृतं कार्य स्मृत्वा यस्मादक्षिणां ददाति तस्माद्ब्रह्मणेऽपि तत्कृतं कार्य स्मृत्वा दक्षिणा दातव्या । तथा सति किंस्विदेव किं नाम कार्य चक(कु)पे ।
10.1111447
६७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२९पञ्चविंशाध्याये कृतवते ब्रह्मणे यजमानेन दक्षिणा नीयन्त आहोस्सिदकत्वैव । अपवा किमपि कार्यमकृत्वा हरता एवं प्रमा दक्षिणां हरेत । एतचायुक्तमिति चोयम् ।
तस्योत्तरमाह
यज्ञस्य हैव भिषग्यद्ब्रह्मा यज्ञा
यैव तद्भेषजं कृत्वा हरति, इति । यो प्रमाऽस्ति एष यज्ञस्य मिषकिकित्सकः । तत्तस्मात्कारणापास मेषजं कृत्वा यज्ञस्याइवैकल्यरोग शमयित्वा दक्षिणां हरति । तमादोत्रादि. बदुपकारित्वादयं दक्षिणाया योग्य एव ।।
पक्षान्तररूपेण ब्रह्मणो दक्षिणाधिक्यं दर्शयति
अथो ययिष्ठेनैव ब्रह्मणा छन्दसां रसेनाऽऽ विज्यं करोति यद्ब्रह्मा तस्माद्ब्रह्माऽर्धभाग्य वा एष इतरेषामखिजामग्र आस यद्ब्रह्मार्धमेव
ब्रह्मण आसार्धमितरेषामुखिजाम् , इति । अपि यो ब्रमाऽस्ति भूयिष्ठेनैवातिबहुलेनैव च्छन्दसां रसेन वेदसारभूतेन ध्यातिप्रणवरूपेण ब्रमणा मत्रेणैव यद्यस्मात्कारणादात्विज्यं करोति तमा. कारणादुपकारबाहुल्यादयं ब्रह्मेतिविशिष्टेन नाना व्यवहियत इति शेषः। किंच यो ब्रह्माऽस्ति एषोऽग्रे प्रथममेवेतरेषामूत्विजामर्धभाग्ध वा अर्धपयोगं भजत्येव । वेदत्रये यावान्मयोगो विततोऽस्ति स च सर्वोऽपीतरै–त्विग्मि
चाऽनुष्ठीयते । ब्रह्मणा तु मनसेत्येतावानेव विशेषः । प्रयोगस्तूभयत्र समान एव । अयमेवार्थोऽर्धमेवेत्यादिना स्पष्टी क्रियते। ब्रह्मणो यस्यार्धमेव मनसाऽ नुष्ठीयमानमितरेषामुत्विजा होत्रादीनां वाचाऽनुष्ठीयमानमर्ष तस्मादुपकार बाहुल्यं सिद्धम् ।
पूर्ववबाहृतिमायश्चित्तमुक्तं तत्कर्तृत्वं ब्रह्मणो विधत्ते
तस्माद्यदि यज्ञ ऋक्त आर्तिः स्याद्यदि यजुष्टो यदि सामतो यद्यविज्ञाता सर्वव्यापहा ब्रह्मण एव निवेदयन्ते तस्माद्यदि यज्ञ ऋक्त आर्ति भवति भूरिति ब्रह्मा गार्हपये जुहुयाद्यदि
१ क. ख. इ. ट. रतैक । ०४ 45OOTA
६७५
९ नवमः खण्डः] ऐतरेयबामणम् ।
यजुष्टोभुव इत्यानीघ्रीयेऽन्याहार्यपचने वा हवि यज्ञेषु यदि सामतः स्वरित्याहवनीये यद्यवि ज्ञाता सर्वव्यापहा मूर्भुवः स्वरिति सर्वा
अनुयाऽऽहवनीय एव जुहुयाव, इति । तस्मामा यज्ञभारमधै वहति । भिषक्त्वेन यहवैकल्यं परिहर्नु च शनोति वस्माचगादिभ्यः किंचिद्वैकल्यं भवेत्तदानीमितरे सर्वे ते तस्मै ब्रमण एव तदैकल्प निवेदयन्ते । तस्मादितर्निवोदितत्वात्स ब्रमा पूर्वोक्तभकारेण तत्त लायश्चिचं जुहुयात् ।
ब्रमणः कर्तव्यान्तरं दर्शयति
स प्रस्तोतोपाकृते स्तोत्र आह ब्रह्मन्स्तोष्यामः प्रशास्तरिति स भूरिति ब्रह्मा प्रातःसवने ब्रूया दिन्द्रवन्तःस्तुध्वमितिभुव इति माध्यंदिने सक्ने ब्रूयादिन्द्रवन्तः स्तुध्वमिति स्वरिति तृतीयसवने ब्रूयादिन्द्रवन्तः स्तुध्वमिति भूर्भुवः स्वरित्युक्थ्ये
वाऽतिरात्रे वा ब्रूयादिन्द्रवन्तः स्तुध्वमिति, इति । अध्वर्युणा स्तोत्र उपाकृते पारब्धमनुज्ञाते सति प्रस्तोता स्तोत्रसाधने सान्नि प्रथमस्य प्रस्तावभागस्य मा(गा)ता प्रस्तोतृनामक ऋत्विग्नमाणं प्रत्य नुहामनेन मत्रेण प्रार्थयेत् । ब्रह्मनित्यादिमत्रः । हे प्रशास्तरस्माकं प्रशात(सोन स्याऽऽज्ञापनस्य कर्तहे प्रमंस्त्वदनुझ्या वयं स्तोष्याम इति । ततस्तेन मार्थितो ब्रह्मा भूरित्येतां प्रथमां व्याहृतिमुक्त्वा हे, उद्गातार इन्द्रविषयस्तुतिपराः सन्तः स्तुध्वं स्तोत्रं कुरुतेति श्रूयात् । एवमितरत्रापि योज्यम् ।
अमणा प्रयुक्तस्यानुज्ञानमत्रस्याभिप्रायं दर्शयति
स यदाहेन्द्रवन्तः स्तुध्वमित्यैन्द्रो वै यज्ञ इन्द्रो यज्ञस्य देवता सेन्द्रमेव तदुद्गीथं करोतीन्द्रान्मा गादिन्द्र
वन्तः स्तुध्वमित्येवैनांस्तदाह तदाह ॥ ३४ ॥ इति । __ सबमेन्द्रवन्तः स्तुध्वमिति यद्वाक्यमाह तस्याभिमाय उच्यते । यमः । सोमयाग ऐन्द्रो वा इन्द्रसंबन्ध एव । इन्द्रो हि तस्य यज्ञस्य देवताऽतस्तदु
६७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२९पञ्चविंशोऽध्यायः] . द्रीय सामगैः। क्रियमाणमुद्रानं सेन्द्रमिन्द्रसहितमेव करोति । इन्द्रमुनीथमि न्द्रान्मा गान्माऽपगच्छतु । तस्मादे, उद्गातारो यूयमिन्द्रवन्त इन्द्रविष. यतात्पर्यवन्त एवं भूत्वा स्तुध्वमित्यनेनैव प्रकारेणैनानुद्रातॄन्मति प्रमा बदाक्यमाह । अभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा.
मणभाष्ये पञ्चविंशाध्याये नवमः खण्डः॥९॥ (३४) [१८७) इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य
धुरंधरसायणाचार्यकृतावैतरेयबामणभाष्ये । . पाविंशोऽध्यायः ॥ २५ ॥
इत्यैतरेयब्राह्मणे पञ्चमपश्चिका समाप्ता ॥ (पविकाङ्काः-५ । अध्यायात्रा:-२५ । खण्डा:-१८७)
legizes in Google