अथ चतुर्विशोऽध्यायः ।
नवमेऽहनि मलिङ्ग दर्शयति
यदे समानोद तनवमस्याष्टो रूपम्, इति । समानोदक तुल्यसमाप्तिकम्। तृतीयेऽहन्युक्तानि लिङ्गान्यस्मिनवमेऽहन्यतिदिशति
यद्येव तृतीयमहस्तदेवतत्पुनर्यनवमम्, इति । _ तृतीयमहर्यादृशलिङ्गोपेतं पुनरप्यत्र यनवममहस्तदपि तादृशलिझोपेतं द्रष्ट
व्यम् ।
तानि लिङ्गान्युपन्यस्यति
यदश्ववद्यदन्तवेद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद नातवेदसे सुनवाम सोमं०-१-९९-१ । अग्ने मूळ महाँ असि०-४-९-१।।
….-..-..
६२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२४चतुर्वि ध्याये
तवद्यत्पर्यस्तवद्यत्रिवद्यदन्तरूपं यदुत्तमे पदे
देवता निरुच्यते यदसौ लोकोऽयुदितः, इति । अथ नूतनानि लिङ्गानि दर्शयति
यच्छुचिवद्यत्सत्यवद्यक्षेतिवद्यगतवद्यदोकवन , इति । शुचिसत्यक्षेतिगतौकशब्दा नवमेऽहनि लिरूपा भूतार्थवाचिप्रत्ययान्त धातुरूपं यदस्ति तेन सहितं तृतीयेऽहनि विद्यमानं लिङ्गम् ।
अन्यानि च सर्वाणि लिङ्गान्युपसंहरति
यत्कृतं यत्तृतीयस्याह्नो रूपमेतानि
वै नवमस्याह्नो रूपाणि, इति । आज्यशवं विधत्ते
अगन्म महा नमसा यविष्ठमिति नवमस्याह्न आज्यं भवति गतवनवमेऽहनि नवमस्याह्नो रूपम्, इति । गतवदमिधातुयुक्तम् । अत्र चागन्मेति गमिधातुः भूयते । सूक्तगतं छन्दः प्रशंसति
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष व्यहः, इति । प्रउगवान विषत्ते
प्र वीरया शुचयो ददिरे ते ते सत्येन मनसा दीध्याना दिवि क्षयन्ता रजसः पृथिव्यामा विश्ववाराऽश्विना गतं, मोऽयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र ब्रह्माणो अनिरसो नक्षन्त
सरस्वती देवयन्तो हवन्त आ नो दिवो बृहतः अगन्म महा नमसा०-७-१२-१।प्र वीरया शुचयो ददिरे०-७-९०-। ते सत्येन मनसा०-७-९१-९ । दिवि क्षयन्ता रजसः०-७-१९-१ । मा विश्ववाराऽश्विना०-७-७०-१ । अयं सोम इन्द्र तुभ्यं सुन्व आ०-७-10 १।प्र ब्रह्माणो अङ्गिरसो०-७-४२-१ । सरस्वती देवयन्तो हवन्ते०-१० १७-७ । आ नो दिवो बृहतः०-५-१४-११ । agdies by Rogle
and
१ प्रथमः खण्डः] ऐतरेयब्रामणम् ।
६२१ पर्वतादा सरस्वत्यभि नो नेषि वस्य इति प्रउगं शुचिवत्सत्यवत्क्षेतिवद्रतवदो
कवनवमेऽहनि नवमस्याह्नो रूपम्, इति । पत्र ददिरे त इति प्रयोगपाठ: । वीरयेति प्रथमं प्रतीकं वत्र शुचय इति शुचिशन्दोपेतं लिङ्गम् । ते सत्येनेति द्वितीयं प्रतीकं तत्र सत्यशब्दो लिङ्गम् । दिवि क्षयन्तेति तृतीयं तत्र क्षेतिषातुर्लिङ्गम् । मा विश्ववारेति चतु. म् । तत्र गतशब्दो लिङ्गम् । अयं सोम इति पञ्चमम् । तस्मिना तु प्र याहि हरिवस्वदोका इति द्वितीयः पादस्तस्मिमोकशब्दो लिङ्गम् । प्रब्रमाण इति पष्ठम् । सरस्वतीमिति सप्तमम् । आ नो दिव इत्यष्टमम् । अत्र द्वितीयपादे यजता गन्तुमिति गमिधातुः श्रुतः । सरस्वत्यभि न इति नवमम् । सत्र चतुर्षे पादेरणानि गन्मेति गमिधातुः श्रुतः । पूर्वोक्तयोः षष्ठसप्तमयोः स्पष्टलिया. भावेऽपि च्छत्रिणो गच्छन्तीति न्यायेनेतरसाहचर्याल्लिगवस्त्वं द्रष्टव्यम् । अत्रा न्तिमैत्रिभिः प्रतीकैरेकल्चः । इतरे षट्यूचाः । तदेतत्सर्वं प्रउगशस्त्रम् ।
अत्रत्यं छन्दः प्रशंसति
तदु त्रैष्टुभं त्रिष्टुप्पातःसवन एष व्यहः , इति । मरुत्वतीयशने कृप्तिलिङ्ग दर्शयति
तं तमिद्राधसे महे त्रय इन्द्रस्य सोमा इन्द्र नेदीय एदिहि प्र नूनं ब्रह्मणस्पतिरग्निर्नेता वं सोम क्रतुभिः पिन्वन्त्यपो नकिः सुदासो स्थमिति तृतीयेनाहा समान आतानो
नवमेऽहनि नवमस्याह्नो रूपम्, इति । अन्तलिङ्गोपेतं सूक्तं विधत्ते
इन्द्रः स्वाहा पिबतु यस्य सोम इति सूक्तमन्तो वै स्वाहाकारोऽन्तो नवमम
हर्नवमेऽहनि नवमस्याह्नो रूपम्, इति । सरस्वत्यभि नो नेषि वस्यः०-६-६१-१४ । इन्द्रः स्वाहा पिबतु० ३-९०-१।
६२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२४चतुर्विध्याये
अत्र स्वाहाशब्दो दृश्यते । स च होममन्त्रस्यान्तो नवममहर्नवरात्रस्या न्तोऽतो लिासद्भावाभवमेऽहन्येतयुक्तम् । पुनरप्यन्तलिङ्गोपेतं सूक्तं विधत्ते
गायत्साम नभन्यं यथा वेरिति सूक्तमर्चाम तद्दावृधानं वर्वदित्यन्तो वै स्वरन्तो नवम
महर्नवमेऽहनि नवमस्याह्नो रूपम् , इति । गारदिति सूक्तस्यार्चामेति द्वितीयः पादः । तत्र स्वर्वदिति स्वर्गवाची भन्दः भूयते । स्वर्गश्च लोकत्रयस्यान्तः। प्रकारान्तरेणान्तवत्सूक्तं विधत्ते
तिष्ठा हरी रथ आ युज्यमानेति सूक्तमन्तो वै स्थितमन्तो नवममह
नवमेऽहनि नवमस्याह्नो रूपम् , इति । तिष्ठेति स्थितिलक्षणो धात्वर्थः श्रूयते । स च गमनस्यान्तः । पुनरपि तथाविधं तल्लिङ्गोपेतं सूक्तं विधत्ते
इमा उ त्वा पुरुतमस्य कारोरिति सक्तं धियो रथेष्ठामित्यन्तो वै स्थितमन्तो नव
ममहर्नवमेऽहनि नवमस्याह्नो रूपम्, इति । इमा उ त्वेति सूक्तस्य धियो रयेष्ठामिति तृतीयः पादः। तत्र स्थामिति स्थितिधात्वर्थो गमनस्यान्तः श्रूयते।
एतेष्वन्तवत्सु मूक्तेषु च्छन्दः प्रशंसति
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सक्नं
दाधाराऽऽयतनादेवैतेन न प्रच्यवते, इति । तुल्यसमाप्तिकं सूक्तं विधत्ते
प्र मन्दिने पितुमदर्चता वच इति सूक्तं समा गायत्साम नभन्यं यथा वेः०-१-१७३-१ । तिष्ठा हरी रथ आयुज्यमाना ३-३५-१ । इमा उ त्वा पुरुतमस्य०-६-२१-१। प्र मन्दिने पितुमदर्चता० १-१०१-१।
Piotizen in Google
६२५
१ प्रथमः खण्डः] ऐतरेयबामणम् ।
नोर्दकै नवमेऽहनि नवमस्याहो रूपम्, इति । अत्र सर्वास्त्रक्षु मरुत्वन्तं सख्याय हवामह इति चतुर्थपादस्यैकत्वात्समा नोदकत्वम् ।
वस्मिन्सूक्ते निविद्धानं विधत्ते
तदु जागतं जगत्यो वा एतस्य व्यहस्य मध्यं दिनं वहन्ति तद्वतच्छन्दो वहति यस्मिनि
विधीयते तस्माज्जगतीषु निविदं दधाति, इति । छन्दोद्वयं मिलित्वा प्रशंसति
मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पश
वश्छन्दोमाः पशूनामवरुद्ध्यै , इति । मिथुनस्यैकत्वेऽपि बहुवचनं पूजार्थम् । दिविषसूक्तगतसंख्यां प्रशंसति
पञ्च सूक्तानि शस्यन्ते पञ्चपदा पक्तिः पाङ्क्तो यज्ञः पाकाः पशवः पश
वश्छन्दोमाः पशूनामवरुद्ध्यै, इति । निष्केवल्याने बृहत्सामसाध्यपृष्ठस्तोत्रस्याऽऽधारभूतं स्तोत्रियं चं वद नुरूपं च विधत्ते
खामिद्वि हवामहे वं ह्येहि चेख इति
बृहत्पृष्ठं भवति नवमेऽहनि , इति । अयुग्मस्याहो - रायंतरत्वेऽपि बृहत्संबन्धस्य वाचनिकत्वामवमेनि उद्योग्यता।
तृतीयेऽहनि विहितान्यत्र पुनर्विधीयन्ते
यहावानेति धाय्याऽच्युताऽभि वा शूर
नोनुम इति स्थंतरस्य योनिमनु निवर्तयति त्वामिद्धि हवामहे०–४६-१ । यद्वापान पुरुतमं०-१०-७४-६ । अनि . त्या शूर नोनुमः०-७-३३-२२ ।
sixed in 4.3000
६२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२४चतुर्विशाध्याये
राथंतरं ह्येतदहरायतनेनेन्द्र त्रिधातु शरण मिति सामप्रगाथस्त्रिवानवमेऽहनि नव मस्याह्नो रूपं यमू षु वाजिनं देवजूत
मिति ताक्ष्योऽच्युतः ॥ २० ॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण भाष्ये चतुर्विशाध्याये प्रथमः खण्डः ॥ १॥ (२०) [ १७३ ]
अय गमिधातुयुक्तं सूक्तं विधत्ते
सं च खे जग्मुर्गिर इन्द्र पूर्वीरिति सूक्तं
गतवनवमेऽहनि नवमस्याह्नो रूपम्, इति । जग्मुरिति गमिधातुः। विधातुलिङ्गक सूक्तं विधत्ते
कदा भुवनथक्षयाणि ब्रह्मेति सूक्तं क्षेति. वदन्तरूपं क्षेतीव वा अन्तं गत्वा नव.
मेऽहनि नवमस्याइनो रूपम्, इति । कदा भुवनित्यत्र क्षयाणीति क्षेतिधातुरूपं भूयते । क्षेतिधातुश्चान्तरूपः । कयमेतदिति तदुच्यते । मार्गस्यान्तं गत्वा क्षेतीव वै कचित्रिवसत्येव । अतो निवासार्थवाचिनः क्षेतिधातोरन्तरूपत्वम् ।
सत्सलिकं सूक्तं विधत्ते
आ सत्यो यातु मघवाँ ऋजीषीति सूक्तं
सत्यवनवमेऽहनि नवमस्याह्नो रूपम् , इति । सत्यशब्दोऽत्र विस्पष्टः। अन्तलिकोपेतं सूक्तं विधत्ते- ..
तत्त इन्द्रियं परमं पराचैरिति सूक्तमन्तो वै परम इन्द्र त्रिधातु शरणं.-६-४६-९। त्यमू षु वाजिनं देव जूतं०-१०-१७८ १.। कदा भुवनथक्षयाणि ब्रह्म०-१-३५-१ ।आ सत्यो यातु मघवाँ ऋजीपी० ४-१६-१। तत्त इन्द्रियं परमं पराचैः०-१-१०३-१। 300gle.
६२७
। २ द्वितीयः खण्डः] ऐतरेयबामणम् ।
__ मन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपम्, इति ।
तत्त इति सूक्ते परमशब्द उत्कर्षवाची विद्यते । उत्कर्षादधिकस्य कस्य चिदभावात्परमशब्दस्यान्तवाचित्वम् ।
संच त्वेत्यादिसूक्तचतुष्टयगतं छन्दः प्रशंसति
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं
दाधाराऽऽयतनादेवतेन न प्रच्यवते, इति । अन्तलिङ्गकमन्यत्सूक्तं विधत्ते
अहं भुवं वसुनः पूर्यस्पतिरिति सूक्तमहं धनानि संजयामि शश्वत इत्यन्तो वै जितमन्तो
नवममहर्नवमेऽहनि नवमस्याह्नो रूपम् , इति । अहं भुवमिति सूक्तस्याहं धनानीति द्वितीयः पादः । तत्र जयामीति श्यते । जयश्च युदस्यान्तः।
तस्मिन्सूक्ते निविद्धानं विपत्ते
तदु जागतं जगत्यो वा एतस्य व्यहस्य मध्यं दिन वहन्ति तद्वतच्छन्दो वहति यस्मिनिवि
दीयते तस्माजगतीषु निविदं दधाति, इति । सूक्तगतं छन्दोद्वयं सूक्तसंख्यां च प्रशंसति
मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छ न्दोमाः पशूनामवरुद्धयै पञ्च पञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाक्तो यज्ञः पाङ् ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्धये तानि देधा पञ्चान्यानि पञ्चान्यानि दश संपद्यन्ते सा दशिनी विराळनं विराळवं पशवः पशवश्छन्दोमाः पशूनामवरुद्धयै, इति ।
अहं भुवं वसुनः० - १०-४८-१। betasy pogic.
६२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२४चतुर्विशाध्याये
मरुत्वतीयनिष्केवल्यशत्रद्वयगतसूक्तापेक्षया पञ्च पवेति द्विरुक्तिः। तृतीयेऽहनि विहितौ वैश्वदेवस्य प्रतिपदनुचरावत्रापि विषचे
तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि
नवमेऽहनि नवमस्याह्नो रूपम् , इति । अन्तलिङ्गकं चात्मकं सूक्तं विधत्ते
दोषो आगादिति सावित्रमन्तो वै गतमन्तो नव
ममहर्नवमेऽहनि नवमस्याह्नो रूपम्, इति । आगादिति गमिधात्वर्थः । गमनं च स्थितेरन्तः । अतोऽन्तत्वं लिङ्गम् । शुचिलिङ्गक सूक्तस्थानीयं चं विधत्ते
प्रवां महि द्यवी अभीति द्यावापृथि वीयं शुची उप प्रशस्तय इति शुचिव
अवमेऽहनि नवमस्याह्नो रूपम् , इति । महि घवी इति श्रवणादिदं चावापृथिवीयम् । तस्य तृतीयपादे चुची उपति शुचिशब्दः श्रूयते।
त्रिशब्दोपेतं सूक्तस्थानीयं चं विधत्ते
इन्द्र इषे ददातु नस्ते नो रत्नानि धत्त नेत्यावं त्रिरा साप्तानि सुन्वत इति
त्रिवनवमेऽहनि नवमस्याह्नो रूपम् , इति । इन्द्र इष इत्यूगेका ते नो रत्नानीति दे त्रितयं मिलित्वा, ऋभु देवताकं सूक्तम् । ऋभुक्षणमभुमिति भवणात् । त्रिरा साप्तानीति पादे त्रिशब्दः श्रुतः।
तत्सवितुर्वृणीमहे०-५-८२-१ । अथा नो देव सवितः०-५-८२-४। प्र वां महि चवी अभि०-४-५७-५ । इन्द्र इषे ददातु नः०-८-९४-३४ । ते नो रत्नानि धत्तन०-१-२०-७ ।
. स. सूक्तं वि। Best by mogic.१ द्वितीयः खण्डः] ऐतरेयब्रामणम् ।
पादद्वयोपेता ऋचो विधाय प्रशंसति
बभ्रुरेको विषुणः मुनरो युवेति द्विपदाः शंसति द्विपादै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तद्यद्धिपदाः शंसति यजमानमेव
तद्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति । त्रिशब्दोपेतं बहुदेवताकं सूक्तं विधत्ते
ये त्रिंशति त्रयस्पर इति वैश्वदेवं त्रिव
अवमेऽहनि नवमस्याह्नो रूपम् , इति । ’ त्रिंशतीति श्रवणाहुदेवताकत्वम् । त्रय इति त्रिशब्दो विस्पष्टः । तत्सूक्तगतं छन्दः प्रशंसति
तान्यु गायत्राणि गायत्रतृतीयसवन एष व्यहः, इति । तान्यु वैश्वदेवशस्त्रे प्रोक्तानि तान्यपि सूक्तानि । शस्त्रान्तरस्य प्रतिपदं विधत्ते
वैश्वानरो न ऊतय इत्यानिमारुतस्य प्रतिपदा प्रयातु परावत इत्यन्तो वै परावतोऽन्तो नव
ममहर्नवमेऽहनि नवमस्याह्नो रूपम्, इति । अत्र सूत्रपठिते त्र्यचे परावत इति शब्दो दूरदेशवाची । स च देशो मार्गस्यान्त इत्यन्तवत्वं लिङ्गम् ।
प्रकारान्तरेणान्तलिङ्गक सूक्तं विधत्ते
मरुतो यस्य हि क्षय इति मारुतं क्षेति वदन्तरूपं क्षेतीव वा अन्तं गत्वा नव
मेऽहनि नवमस्याहनो रूपम् , इति । मरुत इति श्रवणान्मारुतम् । क्षय इति श्रवणाक्षेतिवत्सयतिधातुयुक्तम् । स च धात्वर्थोऽत्र स्वरूपम् । कथमेतदिति तदुच्यते । सर्वो हि पुरुषो मार्ग स्यान्तं मत्वा क्षेतीव वै कचिनिवसत्येव सोऽयमन्तो लिङ्गम् ।
बभ्रुरेको विषुणः सूनरः०-८-२९-१। ये त्रिंशति त्रयस्परः-८-२८-१। मरुतो यस्य हि क्षये०-१-८६-१।
Preguirecipe H ogle
६१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -२४ चतुर्विशाध्याये
अच्युतत्वलिङ्गयुक्तामृचं विधत्ते जातवेदसे सुनवाम सोममिति जातवेदस्याऽच्युता, इति । जातवेदोवाचकाग्निशब्दोपेतं सूक्तं विधत्ते
प्रामये वाचमीरयेति जातवेदस्यं समानोदर्क
नवमेऽहनि नवमस्याहनो रूपम् , इति । एतदीयास्त्रक्षु स नः पर्षदति द्विष इति पादेन समाप्तिदर्शनात्समानोदर्क त्वम् ।
तस्य पादस्य पुनः पुनरावृत्तिं दर्शयति
स नः पर्षदति द्विषः स नः पर्षदति विष इति शंसति बहु वा एतस्मिन्नवरात्रे किंच किंच वारणं क्रियते शान्त्या एव तवत्स नः पर्ष दति द्विषः स नः पर्षदति विष इति ।
शंसति सर्वस्मादेवनांस्तदेनसः प्रमुञ्चति, इति । स न इत्यादिपादस्य सर्वास्वा पठितस्य संग्रहार्थ वीप्सारूपेण द्विरुतिः। एतमेव पादं पुनः पुनः शंसतीत्यत्र कोऽभिप्राय इति सोऽभिधीयते । एतस्मि भवरात्रे त्रिविधव्यहसमष्टिरूपे प्रयोगाधिक्यातदा तदा विस्मृत्य किमपि वा. रणं वारणीयं निषिद्धानुष्ठानं बहु वै प्रभूतमेव क्रियते । अतः खेशान्त्यर्थमेव पुनः पुनः शस्यते । तेन स न इत्यादेः पुनः पुनः शंसनेन तस्मात्सर्वस्माभि षिद्धाचरणपापादेनाऋत्विग्यजमानान्ममोचयति । तस्य पादस्यायमर्य:
यस्याग्नये स्तुतिरूपा वागीर्यते सोऽमिः पापरूपाचनतिक्रम्य नोऽस्मान्पर्ष .द्विघ्रपरिहारेण कर्मपारं नयत्विति ।
एतच्छत्रगतसूक्तेषु च्छन्दः प्रशंसति
तान्यु गायत्राणि गायत्रतृतीयस
वन एष व्यहः ॥ २१॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा
मणभाष्ये चतुर्विशाध्याये द्वितीयः खण्डः ॥२॥ (२१) [१७४] जातवेदसे सुनवाम सोमं०-१-९९-१।प्राग्नये वाचमीरय०-१०-१८८-१॥
१. ट. स्वस्य शाpresize is fGoogle
३ तृतीयः खण्डः] ऐतरेयबामणम् ।
६३१ द्वादशाहे प्रायणीयोदयनीयरूपमा(पे आ)धन्ते ये अहनी तयोर्मध्ये दश रात्रोऽस्ति तस्मिंश्च त्रयो भागाः पृष्ठयः षडह एको भागः । छन्दोमनामका अयोऽहर्विशेषा द्वितीयो भागः । दशममहस्तृतीयो भागस्तस्य भागस्य विधे यतया प्रशंसा कर्तव्या । इतरभागयोरप्यत्र या प्रशंसा प्रतीयते साऽपि विधे यस्य दशमस्याहः प्रशंसार्थमेव तस्मिनहनि प्रशंसातिशयस्य गम्यमानत्वात् । वत्र चत्वारो दृष्टान्ता विवक्षिताः। तेषां मध्ये प्रथमेन दृष्टान्तेन प्रशंसति
पृष्ठवं पळहमुपयन्ति यथा वै मुखमेवं पृष्ठयः पळहस्तद्यथाऽन्तरं मुखस्य जिह्वा तालु दन्ता एवं छन्दोमा अथ येनैव वाचं व्याकरोति येन
स्वादु चास्वादु च विजानाति तदशममहः, इति । यात्रिका दशरात्रे पृष्ठचं पडहमनुतिष्ठन्ति स मुखस्थानीयो मुखस्याभ्य न्तरे जिहा तालु दन्ताश्चेति त्रयोऽवयवास्तिष्ठन्ति तत्स्थानीयास्त्रयश्छन्दोमाः। । अथ तयेन विलक्षणेन येनैव वागिन्द्रियेण वाचं व्याकरोति शब्दमुचारयति
येन च रसनेन्द्रियेण स्वाद्वस्वादुविभागं जानाति तदिन्द्रियद्वयस्थानीयमेतह । ममहः।
द्वितीयेन दृष्टान्तेन प्रशंसति
यथा वै नासिके एवं पृष्ठयः षळह स्तद्यथाऽन्तरं नासिकयोरेवं छन्दोमा अथ
येनैव गन्धान्विजानाति तदशममहः , इति । छिद्रद्वययुक्तत्वेन भागद्वयविवक्षया नासिके इति द्विवचनम् । तयोरन्तरं मध्यवर्ति च्छिद्रं गन्धग्राहकघाणेन्द्रियस्थानीयं दशममहः ।
तृतीयेन दृष्टान्तेन प्रशंसति
यथा वा अक्ष्येवं पृष्ठयः पळहस्तद्यथाऽ न्तरमणः कृष्णमेवं छन्दोमा. अथ यैव
कनीनिका येन पश्यति तदशममहः, इति । अतिशन्देन शुक्लमण्डलसहितं सर्व गोलकं विवक्षितं तत्र भागत्रयमारण्य काण्डे वक्ष्यते-‘त्रिदिव वै चक्षुः शुक्लं कृष्णं कनीनिका’ इति । शुक्लमण्डलमध्ये
१ क. ख. इ. ट. यो हविर्वि। Preglenes Google
६३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२४चतुर्विशाध्याये कृष्णमण्डलं तस्य मध्ये स्वल्पा वर्तुलाकारा कनीनिका तत्रावस्थितेन चक्षुरि न्द्रियेण जनो रूपं पश्यति । तत्र शुक्लमण्डलरूपगोलकस्थानीयः पृष्ठयः षडहः कृष्णमण्डलस्थानीयाश्छन्दोमाः कनीनिकागतेन्द्रियस्थानीयं दशममहः ।
चतुर्यदृष्टान्तेन प्रशंसति
यथा वै कर्ण एवं पृष्ठयः पळहस्तद्यथाऽन्तरं कर्ण
स्यैवं छन्दोमा अथ येनैव शृणोति तद्दशममहः, इति । - कर्णशब्देन शष्कुल्याकारं गोलकमुच्यते । तत्स्थानीयः पृष्टयः षडहः । तस्य कर्णस्यान्तरं यन्मध्यवर्ति च्छिद्रं तत्स्थानीयाश्छन्दोमाः । तच्छिद्राव. ‘स्थितेनेन्द्रियेण जनः शन्दं शृणोति तदिन्द्रियस्थानीयं दशममहः । ’ अथ तस्मिन्दशमेऽहनि कंचिभियमं विधत्ते
श्रीर्वै दशममहः श्रियं वा एत आगच्छन्ति ये दशममहरागच्छन्ति तस्मादशममहर विवाक्यं भवति मा श्रियोऽववादि
ष्मेति दुखवदं हि श्रेयसः , इति । यदेतदशममहः सा श्री भोग्यवस्तुसमृद्धिस्वरूपमेव ऋोति ‘यो दाद चाहेन यजते’ इति श्रुत्यन्तरात् । अतो ये दशममहरागच्छन्त्यनुतिष्ठन्ति ते श्रियमेव मामुवन्ति । यस्माच्छ्रीरूपमेतदहस्तस्माद्विवाक्यरहितं भवति । यदि प्रमादान्मवे तत्र वा कश्चित्किचिद्विरुद्धमाचरेत्तदानीं तद्वि
दमन्येन वाच्यं वक्तव्यम् । अत्र त्वया विरुद्धमनुष्ठितं तदेवं सम्यगनुतिष्ठे समिझेन कर्मान्तरे वक्तव्यम् । इह तु तस्य विरुध्यमानवचनस्य निषिदत्वा दिदमहरविवाक्यम् । तथा चाऽऽश्वलायन आह-‘नास्मिनहनि केनचित्क. स्यचिद्विवाच्यमविवाक्यमित्येतदाचक्षते संशये बहिर्वेदि स्वाध्यायप्रयोगोऽन्त र्वेदीयेके इति। परेण प्रयुज्यमानं विरुद्धं दृष्ट्वाऽपि तम ब्यादिति नियमस्यो पपचिरुच्यते । श्रियो माऽववादिष्मेति दशमस्याहः श्रीरूपत्वात्तस्य यदवव दनं तच्छ्रिया एव भवति । अवमतस्य विरुद्धस्य वदनमववदनं निन्दा । यदि दशममहरववादिष्म निन्दा कुर्मस्तहि श्रिया एवं निन्दा संपद्यते । अतो वयं श्रियो माऽववादिष्म निन्दा मा कुर्म इति विवाच्यं परित्यजतामित्यभिप्रायः। लोकेऽपि श्रेयसो विद्यैश्वर्यादिनाषिकस्य पुरुषस्याऽऽचरणं दुरववदं बववा
१क. “वाक्यम।
.
३ तृतीयः खण्डः] ऐतरेयबामणम् । देन निन्दया रहितम् । अत एव पित्राचार्यादीनां निन्दा न कुर्वन्ति देषिभिः क्रियमाणामपि न शृण्वन्ति । तदेवमविवाच्यत्वधर्मोत्र विहितः । यद्वी वाक्य यमिदं दशममहरागच्छन्तीत्यन्तो दशमस्याहो विधिस्तस्मादित्यादिरविवा क्यत्वनियमविधिः । सोऽपि शाखान्तरेऽप्येवमानायते-‘तस्मादशमेऽहन्य विवाक्य उपहताय न व्युच्यम्’ इति ।
अवैतस्मिन्दशमेऽहनि मानसग्रहाय प्रसर्पणं विषते
ते ततः सर्पन्ति, इति । तेऽनुष्ठावारस्ततः पत्नीसंयाजान्तानुष्ठानादूर्व प्राच उदेत्य मानसाय प्रस युः । सर्पणं नाम तदर्थः प्रयत्नः । सर्वेष्वहर्गणेषु कर्मस्खन्तिमादह इतराण्य हानि पत्नीसंयाजान्तान्यन्तिमं त्वेकमेवोदवसानीयान्तम् । तथा चाऽऽवला. यन आह-‘प्रातरनुवाकाधुदवसानीयान्तान्यन्त्यानि पत्नीसंयाजान्तानी. तराणि’ इति । तथा सत्यपि वाल(?)स्येतरत्वन्यायेन पत्नीसंयाजान्तत्वे प्राप्ते वचनेन तत ऊर्ध्वं मानसग्रहो(ई) विधचे। तदर्य प्रसर्पन्ति सदसो निर्गस यथाययं मार्गेण गच्छेयुः।
गतानां तेषां तीर्थदेशे मार्जनं विधते
ते मार्जयन्ते, इति । मार्जनादूर्ध्वं होमार्य स्थानविशेषमाति विधत्ते
ते पत्नीशालां संप्रपद्यन्ते, इति । पत्नी हि गार्हपत्यस्य समीपेऽवतिष्ठत इति सैव पत्नीशाला तत्र गच्छेयुः। गवानां तेषां होमं विधत्ते
तेषां य एतामाहुतिं विद्यात्स ब्रूयात्स
मन्वारमध्वमिति स जुहुयात्, इति । तेषां होमाथै गार्हपत्यसमीपं गतानां मध्ये यः पुमानेता वक्ष्यमाणामाहुति मानाति स पुमानितरान्मति समन्वारभध्वं यूयं सर्वेऽपि मां स्पृशतेति ब्रूयात् ।
समन्वारब्धः स पुमानाहुतिं जुहुयात् । तत्र मत्रं दर्शयति
इह रमेह रमध्वमिह धृतिरिह स्वधृतिरमेऽ
क. स. स. ट. ‘द्वाक्य । २ क. ख. अ. ट. धिरेतस्मा | size by S.NOBIC
।
६३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२४चतुर्विशाध्याये
वाट्स्वाहाऽवाळिति, इति । हे यजमाना इहास्मिल्लोके रम रमणं कुरुत । हे पुत्रपौत्रादिकाः प्रजा इहै. तेषु यजमानेषु रमध्वं क्रीडत । इह यजमानेषु धृतिरपत्यानां प्रजानां धारण मस्तु । इह यजमानेषु स्वधृतिर्वेदशास्त्रादिरूपाया वाचः स्वाधीनत्वेन धारण मस्तु । हेऽग्नेऽवाइयंतररूपेण यज्ञस्य वहनं कुरु । हे स्वाहा देव्यमिजायेऽवा. इबृहत्सामरूपेण यत्रस्य वहनं कुरु । इतिशब्दो मवसमाप्त्यर्थः।
यथोक्तं मन्त्राथमभिप्रेस क्रमेण मन्त्रावयवानां सर्वेषां तात्पर्य दर्शयति
स यदिह रमेत्याहास्मिन्नेवैनांस्तल्लोके रम यतीह रमध्वमिति यदाह प्रजामेवैषु तद्रम यतीह धृतिरिह स्वधृतिरिति यदाह प्रजा
चैव तहाचं च यजमानेषु दधात्यनेवा
मिति रथंतरं स्वाहाऽवाळिति बृहत्, इति । स मन्त्र इह रमेति भागमाहेति यदस्ति तेनास्मिमेव लोक एनान्यजमाना ब्रमयति । एवमुत्तरभागा अपि योज्याः ।
बृहद्रथंतररूपं भागद्वयं विशेषेण प्रशंसति
देवानां वा एतन्मिथुनं यद्धृहद्रथंतरे देवा नामेव तन्मिथुनेन मिथुनमवरुन्धते
देवानां मिथुनेन मिथुनं प्रजायन्ते, इति । यदेतदन्त्यमबद्वयं बृहद्रथंतररूपमुक्तं तदेतद्देवानां संबन्धि मिथुनम् । अत स्तद्भागद्वयपाठेन देवसंबद्धेनैव मिथुनेन मानुषं मिथुनं प्रामुवन्ति । ततो देव संबन्धिमियुनानुग्रहेण मानुषमिथुनमुत्पादयन्ति । ततः सोऽयं मनो यजमा नस्य प्रजोत्पादनाय संपचते।
वेदनं प्रशंसति
प्रजायै प्रजायते प्रजया पशुभिर्य एवं वेद, इति । गाईपत्ये यथा होमो विहितस्तथैवाऽऽग्रीधीये कंचिद्धोमं विधचे
ते ततः सर्पन्ति ते मार्जयन्तेत आग्रीभ्रं
१ ख. आमीनीयं । apnited sy. ६.६7Koyfee
४ चतुर्थः खण्डः] ऐतरेयबामणम् ।
६३५ संप्रपद्यन्ते तेषां य एतामाहुति विद्यात्स
ब्रूयात्समन्वारभध्वमिति स जुहुयात्, इति । गार्हपत्यस्थानादहिनिर्गत्य मार्जनं कृत्वाऽऽनीध्रीयं प्राप्य तत्र पूर्ववज्जु. हुयात् ।
तस्मिन्होमे मत्रमाह
उपसृजन्धरुणं मातरं धरुणो धयन् । राय
स्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति, इति। . __ अत्र देवताया अस्पष्टत्वादनिरुक्तः प्रजापतिर्देवतेति श्रुत्यन्तरेण प्रजापति देवता । तस्य मत्रस्यायमर्थः । करुणः सर्वस्य जगतो धारपिता प्रजापतिर्घहं. नमस्माकं धर्तारं पितरं मावरं चोपसृजनस्माभिः संयोजयमनिष्टदा वियोज बामस्माभिर्हतमाज्यं धयन्पिबनायस्पोषं धनपुष्टिमिषमनपूर्ज क्षीरादिरसं चा स्मासु दीघरदारयतु संपादयतु । वस्य प्रजापतेरिदं स्वाहुतमस्तु । इतिशब्दो मवसमाप्त्यर्थः।
आहुतिं प्रशंसति - रायस्पोषमिषमूर्जमवरुन्ध आत्मने च यजमानेभ्यश्च .
यत्रैवं विद्वानेतामाहुतिं जुहोति ॥ २२॥ इति । आत्मने हो। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णमाज्ये चतुर्विशाध्याये तृतीयः खण्डः ॥३॥ (२२)[१७५]
आणीधीये होमादूर्ध्वं कर्तव्यानि तानि दर्शयति
ते ततः सर्पन्ति ते सदः संप्रपद्यन्ते यथा यथमन्य ऋत्विजो व्युत्सर्पन्ति संसर्पन्त्यु
दातारस्ते सर्पराझ्या ऋक्षु स्तुवते, इति । ते कृतहोमाः सर्वे तत आनीधीयादग्नेः सर्पन्ति निर्गच्छन्ति । निर्गतास्ते सदः प्रविशेयुः । प्रवेशवेलायामुद्गातभ्योऽन्य ऋत्विजो यथायथं खमा गैमनतिक्रम्य व्युत्सर्पन्ति विविध गच्छन्ति । उद्गातारस्तु संसर्पन्ति संमय, गच्छेयुः । गतास्ते सामगाः सर्पराश्याः संबन्धिनीष्वृत्वाऽयं गौरित्यादिषु
६३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२४चतुर्विंशाध्याये स्तोत्रं कुर्युः । सर्पराज्ञीति भूमेरवतारस्वरूपा काचिदेवता तया रष्टा मत्रा अपि सर्परागीशब्देनोच्यन्ते । अत्र तु ऋक्ष्विति पृथगुपादानात्सर्पराज्या इति षष्ठप. न्तत्वाच देवतावाच्येवायं शब्दः ।
एतदेवाभिमेत्य तत्संबद्धा ऋचस्तां च देवतां प्रशंसति
इयं वै सर्पराज्ञीयं हि सर्पतो राज्ञीयं वा अलोमिकेवाग्र आसीत्सतं मन्त्रमपश्यदाऽयं गौः श्रिरक्रमीदिति तामयं निर्वर्ण आवि शबानारूपो यं यं काममकामयत यदिदं किंचौ
षधयो वनस्पतयः सर्वाणि रूपाणि, इति । या भूमिरस्ति सेयमेव देवताशरीरं धृत्वा ब्रह्मवादिनी भूत्वा सर्पराजीव ब्देनोच्यते । यस्मादियं पृथिवी सर्वतः संचरतो जामस्य मनुष्यादे राजी स्वामिनी सर्वेषां मनुष्यादीनां तदाश्रयेणावस्थानात् । अतः सर्पराजीत्युच्यते। इयमेवाग्रे वृक्षाधुत्पत्तेः पूर्वमेवालोमिकेव रोमरहितेवाऽऽसीत् । ततो रोमोत्स त्यर्थ सा भूमिः साधनभूतमाऽयं गौरिति मत्रमपश्यत् । तन्मनप्रसादेन तो भूमि मयं दृश्यमानः पृश्निवर्ण आविशत् । पृश्निशब्दस्य व्याख्यानं नानारूप इति नीलपीतादिरित्यर्थः । किंच लोक ओषधयो वनस्पतयः सर्वाण्यन्यानि रूपाणि तृणादीनि यदिदं किंचित्स्थावररूपमस्ति तन्मध्ये यं यं काममसौ भूमिरकाम यत स सर्वोऽप्येनां माविशत् ।
वेदनं प्रशंसति
पृश्रिरेनं वर्ण आविशति नानारूपो यं .
यं कामं कामयते य एवं वेद, इति । वर्णशब्देन नीलपीतादिवाचिना सर्वमपि भोग्यजातमुपलक्ष्यते । स्तोत्रशब्दयोः प्रकारविशेषं विधत्ते
मनसा प्रस्तौति मनसोद्रायति मनसा
प्रतिहरति वाचा शंसति , इति । उद्गातॄणां मध्ये प्रस्तोतुः प्रस्तावभाग उद्गातुरुद्रीयभागः प्रतिहर्तुः प्रतिहा रभागस्तान्भागान्मनसैव तेऽनुतिष्ठेयुः । होता तु वाचा शंसेत् ।।
आऽयं गौः पृश्निरक्रमीत्०-१०-१९०-१
–
.—
४ चतुर्थः खण्डः] ऐतरेयबामणम् ।
दिविषमपि विधि प्रशंसति
वाक्च वै मनश्च देवानां मिथुनं देवाना मेव तन्मिथुनेन मिथुनमवरुन्धते देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै प्रजा
यते प्रजया पशुभिर्य एवं वेद, इति । बृदयंतरमियुनवयाख्येयम् । होतुः सर्पराश्याः शंसनादूर्ध्वं चतुझेतृमन्त्रान्विधत्ते
अथ चतुर्थीतन्होता व्याचष्टे
तदेव तत्स्तुतमनुशंसति, इति । चतुझेहमवास्तव्याख्यानप्रकारचोपरिष्टादभिधास्यते । तेन व्याख्यानेन पदुद्गाभिः स्तुतं तदेव सर्वमनुशस्तं भवति ।
तमेत मनसमूह प्रशंसति
देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होता रस्तबच्चतुहॊतन्होता व्याचष्टे देवानामेव तद्य
ज्ञियं गुह्यं नाम प्रकाशं गमयति, इति । ___ य एते चतुर्होत्मत्राः सन्ति तदेतन्मत्रस्वरूपं देवानां संबन्धि यायोग्य
नाम ततो होतृव्याख्याने देवसंबन्धि योग्यं नाम प्रकाशितं करोति।
वेदनं प्रशंसति
तदेनं प्रकाशं गतं प्रकाशं गमयति
’ गच्छति प्रकाशं य एवं वेद, इति । यदुक्तार्यवेदिता होतैनं होतारं तद्देवानां गुह्यं नाम स्वयं प्रकाशं गतं सत्प धात्मकाशं गमयति । ततो वेदिता प्रकाशं गच्छति । तेन नानाऽनुगृहीतः प्रख्यातो भवतीत्यर्थः । यद्वा तदेनमित्यादि पूर्वशेषः । तद्देवानां गुझं नाम स्वयं प्रकाशं गतं सत्पश्चादेनं होतारं प्रकाशं गमयति । गच्छतीत्यादिकैव विद्वत्मशंसा।
तदेवं क्रत्वलेन चतुर्होतृव्याख्यानं विधाय तत्पशंसां कर्तुं ऋतुनिरपेक्षलौकि ककाम्यफलसिद्ध्यर्थ चतुर्होतृव्याख्यानं विधत्ते
1.11111
.६३८ । श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२४चतुर्विशाध्याये
यं ब्राह्मणमनूचानं यशो नईदिति ह स्माऽऽ हारण्यं परेत्य दर्भस्तम्बानुद्वथ्य दक्षिणतो
ब्रह्माणमुपवेश्य चतुर्चीतून्व्याचक्षीत, इति । सावेदाध्यनतदर्यानुष्ठानशीलोऽनूचानस्तादृशं कंचिद्रामणं सभामध्ये वा. ग्मित्वेन रहितं यदि यशो नछेद्विद्वानयमिति कीतिर्न प्रामुयाचदानीमयं बामणो ग्रामानिर्गत्य विजनमरण्यदेशं प्राप्य तत्र दर्भस्तम्बानामग्रमूर्ध्वमुख स्वेन प्रयित्वा स्वस्य दक्षिणपार्वे कंचिद्वेदविदं विप्रमुपवेश्य तत्संनिधौ चतु: तनामकान्मत्रान्व्याचक्षीत । उरुश्चारणं व्याख्यानम् । इत्येतत्मयोग कधि दूमवाधाह स्मेत्यन्वयः।
तमिमं यज्ञसंयुक्त प्रयोग पूर्ववत्मशंसति
देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतु. होतारस्तद्यच्चतुर्होतन्व्याचक्षीत देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति तदेनं प्रकाशं गतं प्रकाशं गमयति गच्छति
प्रकाशं य एवं वेद ॥ २३ ॥ इति । पूर्ववब्याख्येयम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण
भाष्ये चतुर्विशाध्याये चतुर्थः खण्डः ॥ ४ ॥ (२३) [ १७६ ] . अथ चतुर्होतृव्याख्यानस्य प्रकार यज्ञासाकल्येनाभिधातुमुपक्रमते- .
अथोदुम्बरी समन्वारमन्ते, इति । चतुर्होतृव्याख्यानोयोगानन्तरं येयमौदुम्बरी शाखा सदस्यन्तनिहिता वां शाखा सर्वे संभूयोपस्पृशेयुः।
तत्र मन्त्रं दर्शयति
___ इषमूर्जमन्वारभ इति, इति । अमरूपां रसरूपां वै सामौदुम्बरीमन्वारभ इति हस्तेन स्पृशामि । इतिश्शन्दो मन्त्रसमाप्त्यर्थः ।
pielizes in Google३
६ पञ्चमः खण्डः] - ऐतरेयब्राह्मणम् । ६९
मवार्थमौदुम्बर्या दर्शयति
ऊर्वा अनावमुदुम्बरः, इति । योऽयमुदुम्बरक्षः सोऽयं रसरूपोऽनपश्च । तमेतमर्थमुपपादयति
यदेतद्देवा इषमूर्ज व्यभजन्त तत उदुम्बरः
समभवत्तस्मात्स त्रिः संवत्सरस्य पच्यते, इति । देवाः पुरा यदेतदारसरूपं वस्तु कचिङ्गमावुपविश्य व्यभजन्तैतावदस्यता. बदस्येति विभागं कृतवन्तः । तदानीं तस्माद्भूमौ पतितादभरसभेदादीजभूता दयमौदुम्बरवृक्षः समुत्पमस्तस्मात्संवत्सरस्य मध्ये भोकृणाममसिद्ध्यर्थं स उससिः पच्यते । त्रिरित्युपलक्षणम् । बहुकृत्वः फलं गृह्णाति ।
औदुम्बरीस्पर्शसुपसंहरति
तबदौदुम्बरी समन्वारभन्त इषमेव
तदूर्जमनाचं समन्वारभन्ते, इति । औदुम्बरीस्पर्ध्वि मौनं विधते
वाचं यच्छन्ति वाग्वै यज्ञो
यज्ञमेव तबच्छन्ति, इति । यहस्योचार्यमाणमवसाध्यत्वादाभूपत्वम् । अतो वानियमेन यास्यैव नियमो भवति ।
मौनस्य कालविशेष विधत्ते- .
अहर्नियच्छन्त्यहवै स्वर्गों लोकः
स्वर्गमेव तं लोकं नियच्छन्ति, इति । सूर्यास्तमयादस्विर्गवत्प्रकाशसद्भावेनाहः स्वर्गत्वम् । तस्मिनहनि चार नियमेन स्वर्ग एव नियतः स्वाधीनो भवति ।
विधिसिद्ध्यर्थमहनि कतिपयेषु क्षणेषु वाचं नियम्य पश्चान्मौनपरित्याग प्राप्तौ निषेधति
न दिवा वाचं विसृजेरन्यदिवा वाचं विसृजेरनहर्धातृव्याय परिशिष्युः, इति । ecossKarogle
६४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२४चतुर्विशाध्याये
अहनि वाग्विसर्गे सति यजमानाः सर्वेऽप्यह संबन्धं परित्यज्य शत्रवे तदहः परिशिष्युर्दारित्यर्थः।
अहनि निषिद्धस्य वाग्विसर्गस्य रात्रौ प्राप्तौ सत्यां तदपि निषेधति
न नक्तं वाचं विसृजेरन्यनक्तं वाचं विमृ
जेररात्री भ्रातृव्याय परिशिष्युः , इति । . पूर्ववद्याख्येयम् ।
यद्यहनि रात्रौ च निषेधः कदा तर्हि वाग्विसर्ग इत्याशक्याऽऽह
समयाविषितः सूर्यः स्यादथ वाचं विसृजेरंस्ता
वन्तमेव तद्विषते लोकं परिशिंषन्ति, इति । यदा सूर्यः समयाविषितोऽस्तमयसमयं प्राप्तोऽर्धास्तमितः स्यातदानी वाग्विसर्गः । तथा सति संपूर्णास्तमयपर्यन्तमल्पमेव कालं द्विषते लोकं शत्रोः स्थानं परिशिषन्ति प्रयच्छन्ति । अहो रात्रिश्चेति कालद्वयं स्वार्थमेव भवति ।
पक्षान्तरं विधत्ते
अथो खल्वस्तमित एव वाचं विसृजेरंस्तमो - भाजमेव तद्विषन्तं भ्रातृव्यं कुर्वन्ति , इति ।
अयो खल्वथवेत्यर्थः । सूर्ये साकल्येनास्तमिते सत्येव पश्चाद्वाग्विसर्गेण अg तमोमाजमन्धकारमग्नं कुर्वन्ति ।
वाग्विसर्गस्य देशविशेष विषत्ते
आहवनीयं परीत्य वाचं विसृजेरन्यज्ञो वा आहवनीयः स्वर्गो लोक आहवनीयो यज्ञेनैव
तत्स्वर्गेण लोकेन स्वर्ग लोकं यन्ति , इति । . सदसो निर्गत्याऽऽहवनीयं परितः प्रदक्षिणीकृत्य तत्र वाग्विसर्गः कर्तव्यः। आहवनीयस्य यज्ञनिष्पादकत्वद्वारा स्वर्गहेतुत्वेन तदुभयात्मकत्वे सति यह स्वर्गात्मकेनैवाऽऽहवनीयेन यजमानाः स्वर्ग प्राप्नुवन्ति ।
वाग्विसर्गे मनविशेषं विधत्ते
यदिहोनमकर्म यदत्यरीरिचाम प्रजापति
१ ख. अ. ट. ‘ल्येऽस्त’ । २ क. ख. श.. ट. कद्वा gfc.
१४१
पष्ठः खण्डः] ऐतरेयब्राह्मणम् ।
तत्पितरमप्येविति वाचं विसृजन्ते, इति । इह ऋतौ यदामूनमसंपूर्ण यदप्यकर्म स्वरूपेणैव तदहं न कृतं यदप्या मत्यरीरिचामातिरिक्तं द्विवारं त्रिवारं वा वयमनुष्ठितवन्तस्तत्सर्वं दोपकरमा जातं पितरमस्माकं पालकं प्रजापतिमप्येतु प्रामोतु । इत्यनेन मत्रेण वाग्वि. सर्गः कर्तव्यः ।
उत्तमचं प्रशंसति
प्रजापतिं वै प्रजा अनु प्रजायन्ते प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा नैना
नूनं नातिरिक्तं हिनस्ति , इति । सर्वाः प्रजाः प्रजापतिमेवानु प्रजायन्ते तस्य महत्वाचदनुरूपैव सर्वो त्पचिः। अतः वटा प्रजापतिरेव न्यूनातिरिक्तदोषयोः प्रतिष्ठाऽऽश्रयः समा. । पानहेतुः । तस्मादेतन्मत्रपाठेनैनान्यजमानानूनातिरिक्तद्वयदोषो न पाधते ।
वेदनपूर्वकमनुष्ठान प्रशंसति
प्रजापतिमेवोनातिरिक्तान्यभ्यत्यर्जन्ति य
एवं विद्वांस एतेन वाचं विसृजन्ते, इति । मोण वाग्विसर्ग कुर्वाणा यजमाना ऊनातिरिक्ता कृतं दोषमभिलक्ष्य मनापतिमेवाभ्यवर्जन्ति । अतिशयेन प्रामुवन्ति । स एव समादधातीत्यर्थः ।
मत्रेण वाग्विसर्गयुपसंहरति
तस्मादेवं विद्वांस एतेनैव वाचं विसृजेरन् ॥ २४॥ इति भीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयनाम
भाष्ये चतुर्विशाध्याये पञ्चमः खण्डः ॥५॥ (२४) [१७७]
चतुर्होतृमनव्याख्यानार्थमाहावं विधत्ते
__ अध्वर्यों इ(यवि)याह्वयते चतुर्होता
वदिष्यमाणस्तदाहावस्य रूपम्, इति । चतुर्मोहनामकेषु मत्रेपूवैरुचारणं कर्तुमुधुक्तो होता हेऽध्वर्यो इ(वि)त्याहानं
ख. पकृतम’।
- Perdizes in Google
६४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२४चतुर्विशाध्याये कुर्यात् । यथा शस्त्रादौ शोसावोमित्याहानं करोति तदत्रापि संबोधनमेवाऽs. हावस्य स्वरूपम् ।
चतुर्दोव्याख्यानकालेऽध्वर्योः प्रतिगरविशेष विधत्ते
ओं होतस्तथा होतरित्यध्वर्युः प्रतिगृ
णात्यवसितेऽवसिते दशसु पदेषु, इति। . हे होतरों त्वदभिलषितमस्तु । हे होतस्तथा क्रियतामित्यध्याहारः । अनेन मवेणाध्वर्युः प्रतिगरं भूयात् । होतुरुत्साहजनक प्रतिवचनं प्रतिगरः । वक्ष्य माणेषु होत्रा प्रयोज्येषु दशसंख्याकेषु पदेषु मध्य एकैकस्मिन्पदेऽवसिवे समाते सति तदा तदा पुनः पुनरध्वर्युरों होतरित्यादिमत्रेण प्रतिगरं ब्रूयात् । अवसितशब्दस्य वीप्सा प्रतिपदं प्रतिगरप्रयोगार्थम् ।
तत्र प्रथमं पदं दर्शयति
तेषां चित्तिः युगासीश्व, इति । देवकर्तृके सत्रे प्रजापतिदृहपतिरन्ये देवा यजमानास्ते च मत्रान्तरे वक्ष्यन्ते। त एवात्र तेषामिति तच्छब्देन परामृश्यन्ते । तेषां प्रजापतिरूपगृहपति युक्तानां देवतात्मनां यजमानानां मानसे कर्मणि चित्तिः सुगासीत् । चिवी संज्ञान इति धातोश्चित्तिशब्दनिष्पत्तिः । इदं वस्त्वीदृशमेव न त्वन्ययेति या सम्यग्ज्ञानरूपा मनोवृत्तिः सा चित्तिः । सैवैतेषां होमसापनभूतजुहूस्थानी याऽऽसीत् । अमूर्तयाश्चिचेर्जुहूरूपत्वमाश्चर्यमिति बोतयितुं मृतिः । एवमुचर प्रापि द्रष्टव्यम् ।
द्वितीयं पदं दर्शयति
चित्तमाज्यमासी३व, इति । पूर्वोक्तायाचित्तिरूपाया वृत्तेराधारभूतं यदन्तःकरणं तचिचम् । तदेवा आऽऽज्यस्थानीयमासीत् । तृतीयं पदं दर्शयति
वाग्वेदिरासी३व, इति । यदागिन्द्रियं तद्वेदिस्थानीयमासीत् ।
चतुर्थ पदं दर्शयति
आधीतं बर्हिरासीद, इति । आ समन्तादीतं मनसा ध्यातं यद्वस्तु तदेव बहिस्थानीयमासीदिति ।
__ .
.
- . .. ..
..
HIROHI
- ऐतरेयबामणम् । पञ्चमं पदं दर्शयति
__केतो अग्निरासीश्व, इति । कित शान इति धातुः । चित्तिः सम्यग्ज्ञानम् । केतु नमामिति विशेषः। . सच केतोऽमिस्थानीयमासीदिति ।
षष्ठं पदं दर्शयति
विज्ञातमग्नीदासीश्व, इति । मनसा विज्ञान विशेषेण निश्चितं यद्वस्तु तदमीत् । आमीधनामक ऋत्वि गासीत् ।
सप्तमं पदं दर्शयति- .
. प्राणो हविरासीश्व, इति । योऽयं माणवायुः स हविस्थानीय आसीत् । अष्टमं पदं दर्शयति
सामाध्वर्युरासी३व, इति । यदीयमानं साम तद्ध्वर्युस्थानीयमासीदिति। नवमं पदं दर्शयति
वाचस्पति)ताऽऽसीश्व, इति । योऽयं वाचस्पतिवृहस्पतिः सोऽयं होतृस्थानीय एवाऽऽसीत् । दशमं पदं दर्शयति
मन उपवकाऽऽसी३व, इति । यद्यप्येकमेवान्तःकरणं चिचशब्देन मनाशब्देन चाभिधीयते तयाऽप्य. वस्थाविशेषो द्रष्टव्यः । चिचिकेत्वादिवृत्तिजनकत्वाकारेण चित्तम् । वृत्तिर हितस्वरूपावस्थानाकारेण मनः । तथात्रोपवक्ता होतुः समीपस्थो वक्ता मैत्रा वरुण आसीत् । एतेषां दशानां पदानामेकैकस्मिन्पदेऽवसिते सत्यध्वर्युरों होतस्तया होतरिति प्रतिगरं भूयात् । सोऽयं दशपदात्मकश्चतुर्मोत्संगको मसंघातः।
अवग्रहसंबकं मचं दर्शयति
ते वा एतं ग्रहमगृह्णत। वाचस्पते विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं Chetric
17.1
tr.
H
६४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२४चतुर्विज्ञाघ्या
नाना द्यां गच्छ । यां देवाः प्रजापतिगृहप
तय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्यामः, इति । तेषामिति पदेनोक्ताः प्रजापतिगृहपतियुक्ता देवरूपा ये यजमानाः सन्ति व एवैतं मानसं ग्रहमगृह्नत । ग्रहणकाले वाचस्पतिं संबोध्य युवते। हे वाचस्पते बृह. स्पते हे विधे जगतो विधातर्हे नामन् । सर्वस्य नमयितः सर्ववतीकारयुक्तवर्यः। ताशस्य ते नाम विधेम ख्याति करवाम । यद्वा नामानं हविर्लक्षणं विधेम ‘संपादयामः । त्वमप्यस्माकं प्रजापतियुक्तानां देवानां विधिः कीर्तिमचंच संपादय । तेनास्महत्तेन नाना हविर्लक्षणेनाभेन कीा वा युक्तो यो स्वर्य गच्छ । प्रजापतिहपतिर्येषां देवानां ते प्रजापतिगृहपतयस्ताशा देवा यापु द्धिमैश्वर्यमराऽनुवंस्तामृद्धि तादृशमैश्चर्य वयमपि यजमाना रात्स्याम इतष ग्रहमत्रस्तमपि होता पठेत् ।
मवान्तराणि विधत्ते
अथ प्रजापतेस्तनूरनुद्रवति ब्रह्मोद्यं च, इति । पतुझेत्ग्रहमनपाठानन्तरं होता प्रजापतितलूसंबकान्मवान्ब्रह्मोवसंत्रक मत्रमनुद्रवति । अनुक्रमेण ब्रूयात् । द्वादशसंख्याकाः प्रजापतितनूसंघका अबादा चेति चशब्दान्तानि, द्वादश पदानि प्रजापतेस्तन्वः । तत्र दे दे पदे उपादाय क्रमेण प्रास्यते।
तत्र प्रथमं पदयुग्ममाह
अबादा चानपत्नी चानादा
तदनिरन्नपली तदादियः, इति । अनादादवः मजाफ्तेतिविशेषस्य वाचकाः शब्दाः। अमादेति बदलि तदयमधिरमपत्नीति यदस्ति तदसावादिल एतदुभयं प्रजापतितकार। .. द्वितीयं युग्ममाह
भद्रा च कल्याणी च भद्रा
तत्सोमः कल्याणी तत्पशवः, इति । पूर्ववयाख्येयम् ।
१. स. स. ८. भाद’ । ready६00gre
१ षष्ठः खण्डः] - ऐतरेयबामणम् ।
१५ तृतीयं युग्ममाह
अनिलया चापभया चानिल्या तहा युर्न ोष कदा च नेलयस्यपमया
तन्मृत्युः सर्व ह्येतस्माद्वीभाय , इति । एष वायुः कदाचिदपि नेलयति नहि । इलयतिर्गतिकर्मा । नेलयति न गच्छवीति नहि किंतु सदा गच्छत्येव । अमुमर्थ निलयेति शब्दो छूते । निलयो निवासः स नास्ति यस्या वायुमूर्तेः सेवमनिलया । अपमतं भयं यस्या मृत्युपूर्वेः सेयमपभया । सर्वमपि जगदेतस्मान्मृत्योर्वीभाष मीति मामोति । बाहशो मृत्युः कस्मादस्मादन्यस्माद्भीति प्रामुयात् । अनेन न्यायेन पूर्वोक्का नामपि मूर्तीनां निरुक्तयो द्रष्टव्याः । अअपत्नीत्यत्रामादाऽभिमूर्तिः। अबस्य
ली पालयित्री सूर्यमूर्तिः। आदित्याजायचे वृष्टिरिति न्यायेन पालयितृत्वम् । सोमपतेः शैत्यहेतुत्वादृष्टिमियत्वाच भद्रत्वम् । पशुमः तीरादिमदानेन कल्या. गत्वमिति तासां निरुक्तयः। “चतुर्थपदयुग्ममाह-.
अनाप्ता चानाप्या चानाप्ता तत्ट.
थिव्यनाप्या तयोः, इति । दूरस्थस्य प्रामादेः संयोगे सति प्राप्तिरित्युच्यते । पृथिव्यामेवोत्पमस्य मनुष्यादेईरपतित्वपूर्वकः पृथिवीसंयोगो नास्ति । तस्मादसंयोगपूर्वस्य संयो गस्य प्राप्तिशब्दार्थस्यामावादनासा भूमिः । उपरि दूरदेशवर्तित्वेन प्रातुमयो. ग्यत्वाद्यौरनाप्पा।
पञ्चमं युग्ममाह
अनाधृष्या चाप्रतिधृष्या चानाधृष्या
तदग्निरप्रतिधृष्या तदादित्यः, इति । आगत्य समीपं प्राप्य हस्तस्पर्टेन पर्षितुममिभवितुमचक्योऽमि आदित्यो यथा न प्रकाशते तथा कंचित्मतिबन्धं कृत्वा धर्षितुमभिभवितुमशक्य
आदित्यः।
षष्ठं युग्ममाह
अपूर्वा चाभ्रातृव्या चापूर्वा तन्मनोऽभ्रातृव्या Nogle
.
.
.
.
६४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-(२५पञ्चविंशाध्याये
तत्संवत्सरः, इति । न विद्यते पूर्व प्रथममवृत्तमिन्द्रियं यस्या मनोमूर्तेः सेयमपूर्वा । सर्वमपी. न्द्रियजातं मनसा संकल्पिते विषये पश्चात्मवर्तते । अतो नान्यस्य पूर्वप्र. वृत्तिः । संवत्सरः कालात्मा सर्व जगज्जरयति । न च तं कालं जरयितुं समर्थः कश्चिदन्योऽस्ति । तस्मात्संवत्सरमूर्तिर्घातृव्यरहिता।
द्वादशपदरूपा प्रजापतितनूरुपसंहरति
एता वाव द्वादश प्रजापतेस्तन्व एष कृत्स्नः प्रजापतिस्तत्कृत्सं प्रजा
पतिमानोति दशममहः, इति । अमादेत्यारभ्याभ्रातृव्येत्यन्ता द्वादशसंख्याका मूर्तयो या मोक्ता एवा एव प्रजापतेर्जगनिर्वाह(हि)कास्तन्व एष द्वादशभिस्तनूभियुक्तः प्रजापतिः कृत्स्ना संपूर्णः । तथा सत्येतत्पदपाठेन कुत्नं प्रजापतिरूपं दशममाः पामोति ।
ब्रमोघमन्त्रविषिमनूध तन्मत्रस्वरूपं दर्शयति
अथ ब्रह्मोद्यं वदन्त्यमिदृहपतिरिति हैक आहुः सोऽस्य लोकस्य गृहपतिर्वायुर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपतिरसौ वै गृह पतिर्योऽसौ तपत्येष पतिब्रतवो गृहाः । येषां वै गृहपतिं देवं विद्वान्गृहपतिर्भवति राम्रोति स गृहपती राध्नुवन्ति ते यजमानाः। येषां वा अपहतपाप्मानं देवं विद्वान्गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं
नतेऽध्वर्यों अरात्स्मारात्स्म ॥२५॥ इति । अथ द्वादशपदानुद्रवणादनन्तरं अमोधनामकं मत्रं वदेयुः । बामणाना मुचं संवादो ब्रमोघम् । अमिरित्यादिकस्तन्मनः। एके ब्रामणा अमिड पतिः स्वामीत्याहुः सोऽस्येत्यादिना तन्मतमन्यैामणेष्यते । सोऽमिरस्य कोकस्य भूलोकमात्रस्य गृहपतिर्न तु सर्वोकस्येति दूषणवादिनामपरितोषः ।
{ प्रथमः खण्डः] ऐतरेयब्राह्मणम् ।
. ६४७ वच्छूत्वा परे ब्रामणा वायुहपतिरित्याहुस्तदपि मतमन्यै मणैव्यते । स पायुरन्तरिक्षलोकमात्रस्य गृहपतिर्न तु सर्वस्य । योऽसावादित्यस्तपति सोऽसा. बेव गृहपतिरिति सर्वैरङ्गीकार्य मतम् । कथं गृहपतित्वमिति तदुच्यते । एष प्रकाशमान आदित्यः पतिस्तेन निष्पाचा वसन्ताघृतवो गृहाः। तस्मातुलक्ष मानां गृहाणां पतिरित्ययमों नामिवाय्वोरस्ति । आदित्से तु विद्यते तत्सं पारातुनिष्पचेः । किंच येषामृतूनां गृहरूपाणां स्वामिनमादित्यं देवं गृह पवित्वेन विद्वान्पुरुषः स्वयमपि गृहपतिर्भवति । स च गृहपती राधोति सर्वै भोगैः समृदो भवति । तादृशेन गृहपतिना युक्तास्ते यजमानाः सर्वेऽपि रानु पन्ति समृद्धि प्रामुवन्ति । येषामृतुम्हाणां स्वामित्वादादित्यस्य गृहपतित्वं युक्तमित्ययः। सत्रे दीक्षिताः सर्वेऽपि यजमानास्तेषु मुख्यो गृहपतिरिति विवेकः । किंच येषामृतूनां स्वामिनमादित्यदेवमपहतपाप्मानं सर्वपापरहित विद्वान्पुरुषः स्वयं गृहपतिर्भवति । स गृहपतिः पाप्मानमपहते ये त्वन्ये यज मानास्तेऽपि पाप्मानमपनते । ताहशामृतूनां स्वामिनो गृहपतित्वं युक्तम् । हेऽध्वर्यो वयमरात्स्म समृद्धा अभूम । अभ्यासोऽध्यायपरिसमाप्त्यर्थः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयबामण ___ भाष्ये चतुर्विशाध्याये षष्ठः खण्डः॥ ६॥ (२५) [ १७८ ]
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्राज्य
धुरंधरसायणाचार्यकृतावैतरेयब्रामणभाष्ये
चतुर्विशोऽध्यायः ॥२४॥
………—
-.’
'
-.—-
-…–…