अथ त्रयोविंशोऽध्यायः ।
द्वादशाहगते नवरात्रे त्रयस्यहाः । तत्र प्रथमद्वितीयौ व्यहाबुक्तौ । तावता पृष्ठयः षडहः समाप्तः । यस्तु तृतीयख्यहस्तत्र यानि त्रीण्यहानि तानि च्छन्दोमनामकानि । तत्र प्रथमं नवरात्रापेक्षया सप्तमं यदहरस्ति तत्र मबलिई दर्शयति
यहा एति च प्रेति च तत्सप्तमस्याह्रो रूपम्, इति । आकारः प्रशब्दश्चेति लिङ्गद्वयं सप्तमस्याहो निरूपकम् । प्रथमेऽहनि यल्लिङ्गजातमस्ति तदस्मिन्नतिदिशति
यद्ध्येव प्रथममहस्तदेवतत्पुनर्यत्सतमम्, इति ।
.
१ प्रथमः खण्डः] ऐतरेयत्रामणम् ।
नवरात्रे प्रथममहाशालिङ्गोपेतं तदेवैतत्पुनरनुसंघीयमानं यत्सप्तममहस्त अवति।
वान्यतिदिष्टानि लिङ्गानि दर्शयति
ययुक्तवद्यद्रथवद्यदाशुमद्यपिबवद्यत्प्रथमे पदे
देवता निरुच्यते यदयं लोकोऽभ्युदितः, इति । एतानि प्रथमादहोत्रातिदिष्टानि लिङ्गानि । नूतनमपि लिलं दर्शयति
यजातवद्यदनिरुक्तम्, इति । जातवजनिधातुयुक्तमनिरुक्तमस्पष्टदेवताकम् । अविदिष्टेन लिङ्गजातेन सह सर्व लिङ्गजातमुपसंहरति
यत्करिष्यद्यत्प्रथमस्याह्नो रूपमेतानि
वै सप्तमस्याह्नो रूपाणि, इति । भविष्यदर्यवाचिप्रत्ययान्तं धातुमात्र करिष्यदित्युच्यते । एतचान्यच यत्स बमस्याहो लिङ्गजातमस्ति तेन सह सर्वाण्येतानि सप्तमस्याडो रूपाणि ।
आज्यशत्रं विधत्ते
समुद्रादुर्मिर्मधुमाँ उदारदिति सप्तम स्याह्न आज्यं भवत्यनिरुक्तं सप्तमेऽ
हनि सप्तमस्याह्नो रूपम्, इति । ___ निःशेषेण स्पष्टमुक्तं देवतास्वरूपं निरुक्तम् । तद्विपरीतमनिरुक्तम् । समुद्रा. दिति सूक्तेन काचिदेवता विस्पष्टा । तस्मादिदं लिसद्भावात्सप्तमेऽहनि योग्य खया सप्तमस्याहो निरूपकम् । तदेतत्सूक्तं प्रशंसति
वाग्वै समुद्रो न वै वाक्क्षीयते न समुद्रः क्षीयते तघदेतत्सप्तमस्याह्न आज्यं भवति यज्ञादेव तयज्ञ तन्वते वाचमेव तत्पुनरुपयन्ति संतत्यै, इति । समुद्रार्मिरित्यत्र यः समुद्रः प्रोक्तः सोऽयं वासरूप एव तयोक्सिमुद्र
समुद्रादूमिर्मधुमां उदारत्०-१-१८-१ | agrica sex nagie
। ६०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२३नयोविंशाध्याये
योरक्षय्यत्वसाम्यात् । एकैकस्य वस्तुनः कविभिर्बहुधा वर्ण्यमानत्वाभास्ति वाचः क्षयः, समुद्रेऽपि जलं न शुष्यति । तस्मात्समुद्रस्य वायूपत्वाबदेतत्समु द्रादिति सूक्तमत्राऽऽज्यशस्खं भवति । तदानीं वाइनिष्पाद्यमन्त्रात्मकायवादे वानुष्ठानरूपं यहं तन्वते विस्तारयन्ति । तद्विस्तारे च मत्राणां बडूनां पति तव्यत्वात्पुनः पुनर्वाचमेव मामुवन्ति । तच्च यज्ञसंतत्य संपद्यते ।
वेदनपूर्वकमनुष्ठानं प्रशंसति
संततैख्यहरव्यवच्छिन्नैर्यन्ति य
एवं विहांसो यन्ति , इति । पूर्ववयाख्येयम् ।
अस्मित्राज्यशस्ने घृतस्य नाम गुलमिति यो घृतशब्दः श्रुतस्तमभिप्रेत्य तद् दृष्टान्तपूर्वकमाज्यशत्रं प्रशंसति
आप्यन्ते वै स्तोमा आप्यन्ते छन्दांसि षष्ठेऽ हनि तद्यथैवाद आज्येनावदानानि पुनः प्रत्य भिषारयन्त्ययातयामताया एवमेवैतत्स्तोमांच च्छन्दांसि च पुनः प्रत्युपयन्त्ययातयामतायै
यदेतत्सप्तमस्याह्न आज्यं भवति, इति ।
· त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशाख्या ये स्तोमास्ते सर्वेऽपि पठे. हन्याप्यन्ते समाताः । गायत्रीत्रिशुजगत्यनुष्टुप्पतयतिच्छन्दोभिधानि सर्वाणि च्छन्दांसि च समाप्तानि । तथा सति त(य)थैवादो वक्ष्यमाणं निदर्शनम् । तयेव सप्तमस्याहः प्रवृत्तिद्रष्टव्या । किं निदर्शनमिति तदुच्यते । यथा दर्शपूर्णमासा दिषु पुरोडाशादिद्रव्याण्यवदाय पश्चात्तान्यवदानस्थानान्याज्यस्थाल्या आज्येन पुनः प्रत्यभिधारयन्ति । किमर्थमिति तदुच्यते । अयातयामतायै गतसारत्व. परिहाराय पुनरपि हविष्ट्योग्यतार्थमेतमेवैतस्मिन्सप्तमेऽहनि स्तोमछिन्दांसि च पुनरपि प्रत्युपयन्ति प्रतिपद्यानुतिष्ठन्ति । तथा सत्यनुष्ठितस्य पुनरनुष्ठानं चर्वितचर्वणसमानमिति यातयामत्वं गतसारत्वं भवेत् । अतो यदेतत्समुद्रा मिरित्यादिकं सप्तमस्याह आज्यं भवति तदेतदयातयामतायै पुनरपि सार त्वसिद्ध्यर्थं भवति । तस्मिञ्शस्त्रे घृतस्य नाम गुह्यमिति घृतशब्दस्य विधमा नत्वात्मत्यभिधारणसाम्यं भवति । यद्यपि त्रिदादयः स्तोमाः सप्तमेऽहनि
१ प्रथमः खण्डः] ऐतरेयब्रामणम् । पुनर्नानुष्ठीयन्ते तयाऽपि चतुर्विशादयश्छन्दोमनामका अनुष्ठास्यन्ते । तमाद यावयामत्वं स्तोमत्वसाम्येनाभिहितम् । आज्यशस्वगतं छन्दः प्रांसति
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष व्यहः , इति । __ तदु तदपि समुद्रामिरित्यादिकं शस्त्रं त्रिष्टुप्छन्दस्कम् । मातःसवने विधु
छन्दो यस्मिस्तृतीये त्र्यहे सोऽयं त्रिष्टुपातःसवनः । यथा प्रथमस्य व्यहस्य प्रातःसवने गायत्री यथा वा मध्यमस्य व्यहस्य प्रातःसवने जगती, एवमुत्त मस्य व्यहस्य मातःसवने त्रिष्टुबवगन्तव्या । एतच्छन्दसां विवादे निर्णीतम् ।
अथ प्रउगशस्त्रं विधत्ते
आ वायो भूष शुचिपा उप नः प्र यामि र्यासि दाश्वांसमच्छा नो नियुद्भिः शतिनी भिरध्वरं प्र सोता जीरो अध्वरेष्वस्थाये वायव इन्द्रमादनासो या वां शतं नियुतो याः सहस्रं प्र यहां मित्रावरुणा स्पर्धना गोमता नासत्या रथेनाऽऽ नो देव शवसा याहि शुष्मिन्प्र वो यज्ञेषु देवयन्तो अर्चन्प्र क्षोदसा धायसा सत्र एषेति प्रउगमेति च प्रेति च सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु
त्रैष्टुभं त्रिष्टुप्पातःसवन एष व्यहः, इति । आ वायो भूष इति प्रथमं प्रतीकं तस्मिनाकारो लिङ्गम् । स याभिरिति द्वितीयम् । तत्र प्रशब्दो लिङ्गम् । आ नो नियुद्भिरिति तृतीयम् । तस्मिमा
आ वायो भूष शुचिपा उप०-७-९२-१ । प्र यामिर्यासि दाश्वांसं०-७ ९२-३ । आ नो नियुद्भिः शतिनीभिः०-१-१३५-३ । प्र सोता जीरो अध्वरे वस्थात्०-७-१२-२। ये वायव इन्द्रमादनासः०-७-९२-४ । या वां शतं नियुतो०-७-९२-१ । प्र यहां मित्रावरुणा-१-१७-९ । आ गोमता नासत्या०-७-७२-१ । आ नो देव शवसा०-७-३०-१ । प्र वो यज्ञेषु देवयन्तो०-७-४३-१। प्रक्षोदसा धायसा सस्ने०-७-९१-१।।
111115
६०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२३त्रयोविंशाध्याये कारः। म सोतेति चतुर्थे प्रशब्दः । ये वायव इन्द्रेति पञ्चमं तत्र द्वितीयपाद आ देवास इत्याकारः । या वां शतमिति षष्ठं तस्य तृतीयपादादावाकार: श्रुतः । यद्वामिति सप्तमे प्रशब्दः । आ गोमतेत्यष्टम आकारः । आ नो देवेति नवमेऽप्याकारः। प्र वो यझेष्विति दशमे प्रशन्दः। म क्षोदसेत्येकाद. शेऽपि प्रशब्दः । अत्राऽऽद्यैः पइभिौ त्र्यचौ । इतरे पश्च चाः । तदेतत्सर्व प्रउगशखमुक्तलिसद्भावात्सप्तमेऽहनि योग्यम् । अन्यत्पूर्ववया ख्येयम् । .
शखकृप्तिसमत्वलिकान्मत्रान्विधत्ते
आ त्वा रथं यथोतय इदं वसो सुतमन्ध इन्द्र नेदीय एदिहि #तु ब्रह्मणस्पतिरमि नेता वं सोम क्रतुभिः पिन्वन्यपः प्रव इन्द्राय बृहत इति प्रथमेनाहा समान
आतानः सप्तमेऽहनि सप्तमस्याह्नो रूपम्, इति । अथ जागतलिङ्गक सूक्तं विधत्ते
कया शुभा सवयसः सनीळा इति सूकं न जायमानो न शतेन जात इति जातव
सप्तमेऽहनि सप्तमस्याह्नो रूपम् , इति । अस्य सूक्तस्य नवम्याचि न जायमान इत्यादिस्तृतीयः पादः । तत्र जात शन्दोपेतत्वं लिङ्गम् ।
एतत्सूक्तं प्रशंसति
तदु कयाशुभीयमेतद्वै संज्ञानं संतनि सूक्तं यत्क याशुभीयमेतेन ह वा इन्द्रोऽगस्यो मरुतस्ते सम जानत तद्यत्कयाशुभीयं शंसति संज्ञात्या एव, इति । आ त्वा रथं यथोतये०-८-१७-१ । इदं वसो सुतमन्धः०-८-२-१ । प्रेतु ब्रह्मणस्पतिः०-१-१०-३ । अमिर्नेता भग इव०-३-२०-४ । त्वं सोम क्रतुभिः०-१-९१-२ । पिन्वन्त्यपो मरुतः०-१-६४-६ । प्र व इन्द्राय बृहते०-१-६-११ । कया शुभा सवयसः०-१-१९५-१॥
in
…"
१ प्रथमः खण्डः] ऐतरेयप्रायणम् ।
६०५ तदु तत्सूक्तं कयानुभशब्दोपेतत्वात्कयानुभीयनामकम् । अस्त्वेवं किं तत इति चेत् । उच्यते । एतदेव कयाशुभीयनामकं सूक्तं संज्ञानं परस्परैकमत्यसा धनम् । किंचैतत्सूक्तं संतनि संतानकरं प्राणानामविच्छेदेन दीर्घायुष्यकारणम् । यदेतत्कयाशुभीयसूक्तमस्ति, एतदनुष्ठानेनैवेन्द्रागस्त्यमरुतो ये सन्ति ते सर्वे समजानत संज्ञानं परस्परैकमत्यं प्रामुवन् । तथा सत्येतच्छंसनं विप्रतिपमाना मैकमत्यार्य संपद्यते।
प्रकारान्तरेण प्रशंसति
तहायुष्यं तद्योऽस्य प्रियः स्यात्कु
देवास्य कयाशुभीयम्, इति । । तदु त सूक्तमायुष्करं संतनीति पूर्वमुक्तत्वात् । तथा सत्यस्य । यजमानस्य यः पुत्रादिः मियः स्यात्तस्याऽऽयुद्धयर्थं कयाशुभीयसूक्तं
पुर्यादेव।
पुनरपि च्छन्दोद्वारा प्रशंसति
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं
दाधाराऽऽयतनादेवैतेन न प्रच्यवते, इति । पूर्ववठ्याख्येयम् । रयलिजक मुक्तं विषत्ते
. यं सु मेष महया स्वर्विदमिति सूक्तमयं ‘न वाजं हवनस्यदं स्थमिति रथवत्सप्त
मेऽहनि सप्तमस्याह्नो रूपम् , इति । सं मु मेषमिति सूक्तस्यात्यं न वाजमिति तृतीयः पादस्ता रथ भन्दः भूयते ।
तस्मिन्सूक्ते निविद्धानं विधत्ते
तदु जागतं जगयो वा एतस्य व्यहस्य मध्यं दिन वहन्ति तद्वतच्छन्दो वहति यस्मिनिवि दीयते तस्माजगतीषु निविदं दधाति, इति ।
त्वं सु मेषं महया०-१-५२-१। see on 300gfe
६०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२३त्रयोविंशाध्याये
अस्य सूक्तस्य जगतीछन्दस्कत्वाज्जगतीनां च विवादक्रमेणोत्तरे हे माध्यंदिनसवननिर्वाहिक(का)त्वादस्मिन्माध्यंदिनसवनगते शस्त्रे तत्सवननि.
हिकतया जगतीछन्दस्कास्वक्षु निविदं प्रक्षिपेत। .
पूर्वोक्तं त्रिष्टुप्छन्द इदानींमुच्यमानं जगतीछन्दश्च मिलित्वा प्रशंसति
मिथुनानि मुक्तानि शस्यन्ते त्रैष्टु भानि च जागतानि च मिथुनं वै पशवः
पशवश्छन्दोमाः पशूनामवरुद्धचै, इति । तथा परस्परविलक्षणयोः स्त्रीपुरुषयोर्मेलने मिथुनं भवति । एवं छन्दोदय मेलने मिथुनत्वम् । गवाश्वादिपशवश्च मिथुनरूपाः। चतुर्विशचतुश्चत्वारिंशा टाचत्वारिंशाख्याश्छन्दोमाः पशुसाधनत्वात्पशुरूपाः। तस्माच्छन्दोमयुक्तेऽस्मि त्यहे छन्दोद्वयानुष्ठानं पशुप्राप्त्यै भवति । छन्दोभिर्गायत्रीत्रिष्टुजगतीभिरक्षर संख्याद्वारेणोपमीयन्त इति चतुर्विशादयस्त्रय छन्दोमाः। तत्र गायत्र्या चतुर्वि शत्यक्षरया सदृशो यश्चतुर्विशः स्तोमस्तस्य प्रतिपादकमष्टभ्यो हिं करोतीत्या दिकं छन्दोगब्राह्मणम् । चतुर्विशमेतदहरुपयन्तीत्यारम्भणीयमित्यत्रैवोदाहृतम् । यच्च(अथ चतुश्चत्वारिंशस्तोमस्य निरूपकं छन्दोगब्राह्मणमेवमानायते-‘पत्र दशभ्यो हिं करोति स तिसृभिः स एकादशभिः स एकया चतुर्दशभ्यो हिं करोति स एकया सतिसृभिः स दशभिः पञ्चदशभ्यो हिं करोति स एकादशभिः स एकया स तिसृभिः’ इति । अस्यायमर्थः । त्रिभिः पर्यायैच्यूचस्याऽऽ. वृत्तौ प्रथमे पर्याये प्रथमाया ऋचस्त्रिरभ्यासो मध्यमाया ऋच एकादशकृत्वोऽ. भ्यासः। उत्तमाया ऋचः सकृत्पाठः। द्वितीयपोये प्रथमायाः सकृत्पाठः। मध्यमायास्त्रिरभ्यासः । उत्तमाया दशकृत्वोऽभ्यासः । तृतीये पर्याये प्रथमाया एकादशकृत्वोऽभ्यासः। मध्यमायाः सकृत्पाठः । उत्तमायाविरभ्यासः। सोऽयं चतुश्चत्वारिंशस्तोम इति । अथाष्टाचत्वारिंशस्तोमस्य ब्राह्मणमेवमानायते ‘षोडशभ्यो हिं करोति स तिसृभिः स द्वाशभिः स एकया। षोडशभ्यो हिं करोति स एकया स तिसृभिः स द्वादशभिः । षोडशभ्यो हिं करोति स द्वादशभिः स एकया स तिसृभिः। अन्तो वाऽष्टाचत्वारिंशः’ इति । अस्याय मर्थः । प्रथमे पर्याये प्रथमायास्त्रिरभ्यासः । मध्यमाया द्वादशकृत्वोऽभ्यासः। उत्तमायाः सकृत्पाठः। द्वितीयपर्याये प्रथमायाः सकृत्पाठो मध्यमायाखिर भ्यास उत्तमाया द्वादशकृत्वोऽभ्यासः । तृतीयपर्याये प्रथमाया द्वादशकृत्वोऽ
६०७
१प्रथमः खण्डः] ऐतरेयब्राह्मणम् । भ्यासः । मध्यमायाः सकृत्पाठः । उत्तमायास्त्रिरभ्यास इति । एवमष्टाचत्वा. रिंशस्तोम इति । एवं त्रयश्छन्दोमा अवगन्तव्याः।
अथ बृहत्सामसाध्यपृष्ठस्तोत्रियस्याऽऽधारभूतं स्तोत्रियं प्रगायं तदनुरूपं च विषते
वामिद्वि हवामहे वं बेहि चेव इति
बृहत्पृष्ठं भवति सप्तमेऽहनि , इति । त्वामिद्धीत्येकः प्रगाथः । त्वं मेहीति द्वितीयः। तदुभयं सप्तमेऽहनि निष्के पत्यशस्ने शंसनीयम् । नन्वयुग्ममहः सप्तमं तथा सति रथंतरपृष्ठं परित्यज्य । बृहत्पृष्ठं किमित्युपादीयत इति चेत् । वचनबलादिति भूमः । किं हि वचनं न कुर्यानास्ति वचनस्यातिभार इति न्यायात् ।
बृहत्पृष्ठस्वीकारे कांचिधुक्तिमाह
यदेव षष्ठस्याह्नस्तर , इति । पूर्वस्य षष्ठस्याहो यदेव पृष्ठस्तोत्रं तदेवात्र कृतं भवति । तस्य प्रयोजन परिष्टावक्ष्यते । ननु षष्ठेऽप्यहनि रैवतं पृष्ठं नतु बृहदिति चेत् । नैष दोषः । बृहदैवतयोः कार्यकारणभावेनैकत्वादित्यभिप्रेत्य बृहच्च वा इदमने रथंतरं चाऽऽ स्वामित्यत्र प्रतिपादितम् ।
कार्यकारणभावमिह स्मारयति
यदै रथंतरं तदैरूपं यद्धृहत्तराज
यद्रथंतरं तच्छाकरं यद्धृहत्तदैवतम्, इति । बैरूपशाकरयो रयंतरजन्यत्वात्तद्रूपत्वं वैराजरैवतयोवृहज्जन्यत्वाचद्रूपत्वमेवं | च सति षष्ठेऽहनि रैवतस्य बृहत्त्वं व्यवहर्तुं शक्यते ।
इदानीमत्र सप्तमेऽहनि बृहत्पृष्ठस्वीकारे प्रयोजनमाह
तघबृहत्पृष्ठं भवति बृहतैव तबृह
त्प्रत्युत्तभ्नुवन्त्यस्तोमकृन्तत्राय , इति । तत्तस्मात्पष्ठेऽहनि कृतस्य रैवतस्य बृहद्रूपत्वात्कारणावत्र सप्तमेऽहनि बृहत्पृष्ठं क्रियते तदिदानी षष्ठेऽहन्यनुष्ठितेन बृहतैवास्मिन्सप्लमेऽहनि तबृहत्पृष्ठं प्रत्युत्तभ्नुवन्ति । अतीतत्वेन नष्टस्य पुनरुद्धरणं प्रत्युत्तम्भनम् । एतच्चास्तो
त्वामिद्धि हवामहे ०-१-४६-१। ague isy soagic
T
३
६०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२३त्रयोविंशाध्याये मकुन्तत्राय संपद्यते । स्तोमानां त्रिवृत्पञ्चदशादीनां कुन्तत्र कुन्तनं छेदः, तद्राहित्यमस्तोमकुन्तत्रं तदर्थमंत्र स्वीकारः।
विपक्षबाधोपन्यासमुखेनैव तदेव स्पष्टयति
यद्रथंतरं स्यात्कृन्तत्रं स्यात् , इति । षष्ठेऽहन्यनुष्ठितस्य बृहतोऽस्मिन्सप्तमेऽहन्यनुवृत्ति परित्यज्य युग्मदिनत्वमा श्रित्य रयंतरं पृष्ठं स्वीक्रियते तदानीं षष्ठसप्तमयोरनुहल्यभावात्कृन्तनं विच्छे. दन स्यात् । षष्ठे बृहत्कृतं सप्तमे तम कृतम्। किंतु रयतरं कृतमिति विच्छेदः ।
• विपक्षबाधमुपन्यस्य स्वपक्षमुपसंहरति
तस्माद्धृहदेव कर्तव्यम् , इति । यस्माइबृहति कृते विच्छेदः परिहियते तस्मादित्यर्थः । अच्युतत्वलिङ्गयुक्तामृचं विधत्ते
यहावानेति धाय्याऽच्युता, इति । अथ युग्मदिनत्वमुपजीव्य रयंतरसंबन्धात्तदीयामृचं विषते ’ अभि त्वा शूर नोनुम इति रथंतरस्य योनि
मनु निवर्तयति राथंतरं ह्येतदहरायतनेन, इति । नितरां वर्तनमनुष्ठानं निवर्तनं न तु परित्यागः । आयतनेनायुग्मत्वस्थानेन रयंतरसंबन्धः।
पिवशब्दलिकं प्रगाथान्तरं विधत्ते
पिबा सुतस्य रसिन इति सामप्रगाथः पिब
वान्सप्तमेऽहनि सप्तमस्याहूनो रूपम्, इति । अच्युतत्वलिकं सूक्तविशेषं विधत्ते
त्यमू षु वाजिनं देवजूतमिति
तायोऽच्युतः ॥ १६ ॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण ___ भाष्ये त्रयोविंशाध्याये प्रथमः खण्डः ॥ १॥ (१६) [ १६९]
यद्वावान पुरुतमं०-१०-७४-६ । अभि त्वा शूर नोनुमः०-७-३३-२२॥ पिबा सुतस्य रसिनः०-८-३-१ । त्यमू षु वाजिनं देवतं०-१०-१७८-१।…-.
२ द्वितीयः खण्डः] ऐतरेयब्रामणम् ।
प्रशब्दलिगकं सूतं विधत्ते
इन्द्रस्य नु वीर्याणि प्रवोचमिति सूक्तं प्रेति
सप्तमेऽहनि सप्तमस्याह्नो रूपम्, इति । तत्रत्वं छन्दः प्रशंसति
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं
दाधाराऽऽयतनादेवैतेन न प्रच्यवेत, इति । अभिशब्दभशब्दयोरुपसर्गत्वसाम्येनार्थंकत्वमभिप्रेत्य तद्वारा शब्दकत्वम प्यारोप्य प्रशन्दलिक सूक्तं विधत्ते
अभि त्यं मेषं पुरुहूतमृग्मियमिति सूक्तं यद्दाव प्रेति तदभीति सप्तमेऽहनि सप्तमस्याह्नो रूपम् , इति । अस्मिन्सूक्त निविद्धानं विधत्ते
तदु जागतं जगत्यो वा एतस्य यहस्य मध्यं दिनं वहन्ति तदैतच्छन्दो वहति यस्मिन्निवि
द्वीयते तस्माजगतीषु निविदं दधाति, इति । छन्दोद्वयं मिलित्वा प्रशंसति
मिथुनानि मुक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः
पशवश्छन्दोमाः पशूनामवरुद्ध्यै, इति । शास्त्रान्तरस्य प्रतिपदनुचरौ विधत्ते
तत्सवितुर्वणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि
सप्तमेऽहनि सप्तमस्याह्नो रूपम् , इति । वत्सवितुरित्यादेः काचेद्रथंतरसामाधारत्वमभिमेत्य रायंतरत्वं लिङ्गमुक्तम् । इन्द्रस्य नु वीर्याणि प्रवोचं०-१-३२-१। अमित्यं मेषं पुरुहूतं०-१-११ ।। तत्सवितुर्वृणीमहे०-९-८२-१ । अद्या नो देव सवितः०-१-८२-११
११० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२३त्रयोविंशाध्याये
अभिशब्दप्रशब्दयोः पूर्ववदेकत्वमारोप्य प्रशब्दलिङ्गकं चात्मकं सूक्तं विधत्ते
• अभि ला देव सवितरिति सावित्रं यदाव प्रेति
तदभीति सप्तमेऽहनि सप्तमस्याह्नो रूपम्, इति । आरोपितपशब्दलिगकमुक्त्वा मुख्यमशब्दलिङ्गकं व्यूचात्मकं सूक्त विधत्ते
प्रेतां यज्ञस्य शंभुवेति द्यावापृथिवीयं प्रेति
सप्तमेऽहनि सप्तमस्याह्नो रूपम्, इति । द्वितीयस्यामृचि द्यावा नः पृथिवीत्युक्तत्वादिदं चावापृथिवीदेवताकम् । जातलिङ्गकं त्र्चात्मकं सूक्तं विधत्ते
अयं देवाय जन्मन इत्यार्भवं जातवत्स
समेऽहनि सप्तमस्याहूनी रूपम् , इति । अत्र सूक्ते चतुर्थ्याचि ऋभवो विश्वक्रतेति भुतत्वादयमपि च आर्भवः। जन्मन इत्युक्तत्वाज्जातवल्लिाम् ।
अथ पादद्वयोपेता ऋचो विधाय प्रशंसति
आ याहि वनसा सहेति विपदाः शंसति दिपाई पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूना मवद्धये तबद्दिपदाः शंसति यजमानमेव तदहि
प्रतिष्ठं चतुष्पासु पशुषु प्रतिष्ठापयति, इति । छन्दोगा(मा)नो पूर्वोक्तचतुर्विशादीनां पशुमाप्तिसाधनत्वात्पभुत्वम् । आकारलिजकं बहुदेवताकं सूक्तं विधत्ते
ऐभिरमे दुवो गिर इति वैश्वदेवमेति सप्त
मेऽहनि सप्तमस्याह्नो रूपम्, इति । अमित्वा देव सवितः०-१-२४-३ । प्रेतां यज्ञस्य शंभुवा०-२-११ १९ । अयं देवाय जन्मने०-१-२०-१ । आ याहि वनसा सह०-१-१७२ १ । ऐभिरग्ने दुवो गिरः०-१-१४-११। rize by ६.६ogle.
२ द्वितीयः खण्डः] ऐतरेयबामणम्। .
१११ उक्तेषु मूक्तेषु च्छन्दः प्रशंसति
तान्यु गायत्राणि गायत्रतृतीयसवन एष व्यहः, इति । तान्यु तानि तु सूक्तान्यचा नो देव सवितरित्यारभ्य मध्ये द्विपदा पर्ज यित्वैभिरम इत्यन्तानि गायत्रीछन्दस्कानि वैश्वदेवानेऽभिहितानि । एषु चोत्त मङ्यहो गायत्रतृतीयसवनो गायत्रीछन्दस्तृतीयसवनो यस्य त्र्यहस्य सोऽयं मायत्रतृतीयसवनः । तदेव च्छन्दो विवाहप्रस्तावेऽनुसंधेयम् । धनान्तरस्य जनिधातुलियुक्ता प्रतिपदं विधचे
वैश्वानरो अजीजनदियामिमारुतस्य प्रतिप
जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपम् , इति । प्रशन्दलिकं सूक्तं विधत्ते
प्र यहनिष्टुभमिषमिति मारुतं प्रेति सप्त
मेऽहनि सप्तमस्याह्नो रूपम्, इति । द्वितीयपादे मरुतो विम इति श्रुतत्वादिदं सूक्तं मकदेवताकम् ।
अच्युतत्वलिङ्गयुक्तामृचं विधत्ते जातवेदसे सुनवाम सोममिति जातवेदस्याऽच्युता, इति ।
अस्पष्टदेवताकं सूक्तं विधत्ते
दूतं वो विश्ववेदसमिति जातवेदस्यमनि
रुक्तं सप्तमेऽहनि सप्तमस्याह्नो रूपम् , इति । जातवेदाशब्दस्यामिशब्दस्य वा स्पष्टदेवतावाचकस्याभावादनिरुतत्वम् ।
वैश्वानरो अजीजनदित्यादिषु दूतं व इत्येतेषु सूक्तेषु जातवेदस इत्येतद्वनि वेषु विद्यमानं छन्दः प्रशंसति
तान्यु गायत्राणि गायत्रतृतीय
सवन एष व्यहः ॥ १७॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयनाम
पभाष्ये द्वाविंशाध्याये द्वितीयः खण्डः ॥२॥ (१७) [१७०] प्र यद्वत्रिष्टुभं०-८-७-१ । जातवेदसे मुनवाम सोमं०-१-९९-१ । दूतं यो विश्ववेदसं०-४-८-१।
..
– .
.
.
…-. . .
…——-
।
1.11111
क. न. प. ट. बाचि ।
६१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२३त्रयोविंशाध्याये
सप्तममहरभिधायाष्टमस्याहो मवलिङ्गानि दर्शयति
यदै नेति न प्रेति यस्थितं
तदष्टमस्याह्नो रूपम् , इति । आकारस्य च प्रशब्दस्य च लिङ्गत्वं नकारद्वयेन निषिध्यते । यत्स्थितम घ्युतत्वेन नियतं तिष्ठतिधातुयुक्तं वा तदष्टमस्याहो निरूपकम् । द्वितीयस्मिनहनि मोक्तानि लिङ्गान्यष्टमेऽहन्यतिदिशति
यद्येव द्वितीयमहस्तदेवैतत्पुनर्यदृष्टमम्, इति । यल्लिाकमेव द्वितीयमहस्तल्लिगकमेवैतत्पुनरपि भवति । यदष्टममहस्तत्पूर्वोच
लिकम् ।
तानि लिङ्गान्युपन्यस्यति- ..
यदूर्ध्ववद्यत्पतिवद्यदन्तर्वद्यवृषण्वद्यधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितम् , इति । अथ नूतनानि लिङ्गानि दर्शयति
यव्यग्नि यन्महदद्यद्विहूतवद्यत्पुनर्वद्यत्कुर्वद , इति । अनिशब्दद्वयोपेतं बनीत्युच्यते । महच्छब्दोपेतं महदद । द्वयोर्देवतयो तिमाहानं यस्मिंस्तादर्श द्विर्तवत् । पुनःशब्दोपेतं पुनर्वत् । द्वितीयेऽहनि वर्त मानार्थवाचिप्रत्ययान्तं कुर्वच्छब्दनोक्तम् ।
तेन सह सर्वाणि लिङ्गान्युपसंहरति
यद्वितीयस्याह्नो रूपमेतानि वा
अष्टमस्याह्नो रूपाणि, इति । तत्राऽऽज्यशस्त्रं विधत्ते
अमिं वो देवममिभिः सजोषा इत्यष्टमस्याह्न आज्यं भवति यग्न्यष्टमेऽहन्यष्टमस्याह्नो रूपम् , इति । दावनिशब्दौ यस्मिन्सूक्ते विद्यते तत्सूक्तं यमि । अतोऽष्टमेऽहनि योग्य. त्यादेतदष्टमस्याहो निरूपकम् ।
अग्निं वो देवमग्निभिः०-७-३-१ ।
१ क. ट. ‘होस्।
३ तृतीयः खण्डः ] . ऐतरेयब्रामणम् ।
तत्रत्वं छन्दः प्रशंसति
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष यहः, इति । अथ प्रउगशस्त्रं विधते
कुविदा नमसा ये वृधासः पीवो अन्ना रयि वृधः सुमेधा उच्छन्नुषसः सुदिना अरिमा उशन्ता दूता न दभाय गोपा यावत्तरस्तन्वो३ यावदोजः प्रति वां सूर उदिते सूक्तैर्धेनुः प्र लस्य काम्यं दुहाना ब्रह्मा ण इन्द्रोप याहि विद्वानू? अमिः सुमतिं वस्वो अश्रेदुत स्या नः सरस्वती जुषाणेति प्रउगं प्रतिवदन्तर्वद्दि
हूतवदूर्ध्ववदष्टमेऽहन्यष्टमस्याह्नो रूपम् , इति । कुविदति प्रथमं प्रतीकम् । पीवो अभानिति द्वितीयम् । उच्छनुषस इति तृतीयम् । उशन्तेति चतुर्थम् । यावत्तर इति पञ्चमम् । प्रति वामिति षष्ठम् । धेनुः मत्नस्येति सप्तमम् । ब्रह्मा ण इत्यष्टमम् । ऊर्यो अपिरिति नवमम् । उत स्था न इति दशमम् । अत्राऽऽद्यैत्रिभिः प्रतीकैरेकल्यूचश्चतुर्थे (थए?)का पक्षमे दे तदुभयं मिलित्वा द्वितीयस्युचः । इतरे पच ज्यूचा एतत्सर्वे मउगम् । तत्र दशमे प्रतीके प्रतिस्तोममिति प्रतिशब्दोपेतं लिङ्गमस्ति । धेनुः प्रत्नस्येत्यस्य द्वितीयपादेऽन्तः पुत्र इत्यन्तःशब्दोपेतं लिङ्गम् । ऊो अग्निरित्यस्मिवंश न्दोपेतं लिङ्गम् । अवशिष्टेषु दयोराहानं लिङ्गम् । कचिदिन्द्रवाय्वोः कचिन्मि प्रावरुणयोरिति द्रष्टव्यम् ।
उक्तमत्रगतं छन्दः प्रशंसति
तदु त्रैष्टुभं त्रिष्टुप्पातःसवन एष व्यहः, इति । कुविदङ्ग नमसा ये वृधासः०-७-९१-१ । पीवो अनाँ रयिवृधः०-७ ९१-३ । उच्छन्नुषसः सुदिना०-७-९०-४ । उशन्ता दूता न दभाय०-७ ९१-२ । यावत्तरस्तन्वो३ यावदोनः०-७-९१-४। प्रति वां सूर उदिते सूकैः०-७-११-१ । धेनुः प्रत्नस्य काम्यं०-३-१८-१। ब्रह्मा ण इन्द्रोप याहि०-७-२८-१। जो अग्निः सुमति०-७-३९-१ । उत स्या नः सर स्वती०-७-९१-४ ।
phelizes in Google
६१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२३त्रयोविंशाध्याये अथ मरुत्वतीयशने तुल्यामकृप्त्याख्येन लिनोपेतान्यनान्निधरे
विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इन्द्र नेदीय एदिद्युत्तिष्ठ ब्रह्मणस्पतेऽमि. नेता लं सोम क्रतुभिः पिन्वन्त्यपो बृह दिन्द्राय गायतेति द्वितीयेनाइना समान
आतानोऽष्टमेऽहन्यष्टमस्याह्नो रूपम् , इति । महच्छन्दलिजक सूक्तं विषते
शंसा महामिन्द्रं यस्मिन्विश्वा इति सूक्तं
सहबदृष्टमेऽहन्यष्टमस्याह्नो रूपम् , इति । अत्र महामित्येष महच्छन्दः। पुनरपि महच्छब्दयुक्तं सूक्तान्तरं विषते
महश्चित्त्वमिन्द्र यत एतानिति मुक्तं
महबदृष्टमेऽहन्यष्टमस्याह्नो रूपम्, इति । अत्र मह इत्येष एव महच्छन्दः। पुनरपि महच्छब्दयुक्तं सूतान्तरं विधचे
पिबा सोममभि यमुन तर्द इति मुक्त मूर्व गव्यं महि गृणान इन्द्रेति महद्द
दष्टमेऽहन्यष्टमस्याह्नो रूपम् , इति । पिया सोममित्यादिसूक्तस्योर्व गव्यमिति द्वितीयः पादस्वत्र महीत्येष पर छब्दः ।
विश्वानरस्य वस्पति०-८-१८-४ । इन्द्र इत्सोमपा एक:०-८-२-४ । इन्द्र नेदीय एदिहि०-८-५३-५ । उत्तिष्ठ ब्रह्मणस्पते०-१-४१-१। भनि नेता भग इव०-३-२०-४ । त्वं सोम क्रतुभिः०-१-९१-२ । पिन्वन्त्यपो मरुतः०-१-१४-१। वृहदिन्द्राय गायत०-८-८९-१। शंसा महामिन्द्रं. १-१९-१। महश्चित्त्वमिन्द्र यत एतान्०-१-१९९-१। पिवा सोमममि पमुम०-१-१-१॥
pricotizen in Google
११९
""
""
"
"
""
""
"
३ तृतीयः खण्डः] ऐतरेयबामणम् ।
पुनरपि महच्छब्दयुक्तं सूक्तं विधत्ते
महाँ इन्द्रो नृवदा चर्षणिमा इति सूक्तं
महद्दष्टमेऽहन्यष्टमस्याइनो रूपम्, इति । __ अब महानित्येष पहच्छब्दः । उक्तेषु चतुलपि महच्छन्देष्वन्तस्प बैला
न्येऽप्यादिभागस्यैकविषत्वान्महच्छब्दत्वं द्रष्टव्यम् ।
एतत्सूक्तचतुष्टयगतं छन्दः प्रशंसति
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं
दाधाराऽऽयतनादेवतेन न प्रच्यवते, इति । मयान्यन्महच्छब्दोपेतं सूक्तं विधत्ते
तमस्य ध्यावापृथिवी संचेतसेति मुक्तं यदे स्कृण्वातो महिमानमिन्द्रियमिति महह
दृष्टमेऽहन्यष्टमस्याइनो रूपम् , इति । समस्येति सूक्तस्य यदैत्कृण्वान इति तृतीयः पादस्ता महिमानपदे महीति महच्छन्दः भूयते।
वस्मिन्सूक्ते निविद्धानं विधत्ते
तदु जागतं जगत्यो वा एतस्य व्यहस्य मध्यं दिन वहन्ति तदैतच्छन्दो वहति यस्मिन्निवि
दीयते तस्माजगतीषु निविदं दधाति , इति । छन्दोदयं मिलित्वा प्रशंसति
मिथुनानि मुक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः
पशवश्छन्दोमाः पशूनामवरुद्धये, इति । उक्तेषु सूक्तेषु महच्छब्दं प्रशंसति
महद्दन्ति सूक्तानि शस्यन्ते महद्दा महाँ इन्द्रो नृवदा०-६-१९-१ । तमस्य द्यावापृथिवी सचेतसा -१० ११३-१।
figlizes in Google
MARAHAR
६१६ , श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२३त्रयोविंशाध्याये
अन्तरिक्षमन्तरिक्षस्याऽऽप्त्यै, इति । अन्तरिक्षस्य महत्त्वं विस्तीर्णत्वं प्रसिद्धम् । महच्छब्दयुक्तानां सूक्तानां संख्यां प्रशंसति
पञ्च सूक्तानि शस्यन्ते पञ्चपदा पक्तिः पातो यज्ञः पाङ्क्ताः पशवः पशव
श्छन्दोमाः पशूनामवरुद्ध्यै , इति । शंसा महामिति प्रथमे सूक्ते महच्छब्दो महश्चित्त्वमिति द्वितीये महि गृणान इति तृतीये महाँ इन्द्र इति चतुर्थे महिमानमिति पञ्चम एवं पञ्च सूक्तानि मह छब्दयुक्तानि शस्यन्ते । पञ्चसंख्यायोगात्पञ्चपादोपेता पनिश्छन्दोम्पा भवति । यसच हविष्पतयादिना पारः । पशवश्व पक्तिमुखेन पाहाश्छन्दो. मानां च पशुसाधनत्वात्पशुत्वम् । अनेन संबन्धेन सूक्तपञ्चकं पशुपाप्त्यै संपद्यते।
अथ निष्केवल्यशस्त्रस्य रथंतरसामसाध्यपृष्ठस्तोत्रस्याऽऽधारभूतं स्तोत्रियम नुरूपं च विधत्ते
अभि वा शूर नोनुमोऽभि वा पूर्वपीतय '
इति रथंतरं पृष्ठं भवत्यष्टमेऽहनि , इति ।
· यद्यपि युग्मदिनत्वाभ्यायतो बृहत्पृष्ठं प्राप्तं तथाऽपि वचनबलाद्रयंतरपृष्ठत्वं द्रष्टव्यम् ।
अच्युतत्वलिङ्गयुक्तामृचं विधत्ते
यहावानेति धाय्याऽच्युता, इति । तस्या उपरि बृहत्सामयोनेः शंसनं विधत्ते
स्वामिद्धि हवामह इति बृहतो योनिमनु निव
तयति बार्हतं ह्येतदहरायतनेन, इति । अष्टमस्य युग्मदिनत्वाबृहत्संबन्धिस्थानत्वम् । तस्यैव बृहत्संबन्धिनं सामप्रगाथं विषचे
उभयं शृणवचन इति सामप्रगाथो यच्चेदमद्य भमि त्वा शूर नोनुमः०-७-३३-२२ । उभयं शृणवञ्च न –81-11
-पाव
१ चतुर्षः खण्डः] ऐतरेयब्रामणम् ।
यदु च य आसीदिति बार्हतेऽहन्य
ष्टमेऽहन्यष्टमस्याह्नो रूपम्, इति । उभयभन्दतात्पर्य यश्चेदमित्यादिनोच्यते । अद्य यदिदं कार्यमासीत्, सच पूर्वेपुरपि यदु यदेव कार्यमासीत्, तदेतदुभयमपि श्रुतमिति तस्य पादस्यार्थः । युग्यरूपे वाहतेऽहनि बृहत्सामसंबन्धः भगायो युक्त एव ।
अच्युतलिक सूक्तविशेषं विधत्ते
त्यमू षु वाजिनं देवजूतमिति
तार्योऽच्युतः ॥ १८॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयनाम
भाष्ये त्रयोविंशाध्याये तृतीयः खण्डः ॥३॥ (१८) [१७१]
.
.
महच्छन्दयुक्तसूक्तचतुष्टयं विधत्ते
अपूर्व्या पुरुतमान्यस्मा इति सूक्तं महे वीराय तवसे तुरायति महददष्टमेऽहन्यष्टमस्याह्नो रूपं तां सुते कीर्ति मघवन्महि खेति सूक्तं महहद ष्टमेऽहन्यष्टमस्याह्नो रूपं वं महाँ इन्द्र यो ह शुष्मैरिति सूक्तं महबदष्टमेऽहन्यष्टमस्याह्नो रूपं वं महाँ इन्द्र तुभ्यं ह क्षा इति
सूक्तं महहदष्टमेऽहन्यष्टमस्याह्नो रूपम्, इति । अपूयेति सूक्तस्य द्वितीयपादे महे वीरायेति महच्छब्दः भुतः। इतरस्मि. न्सूक्तत्रये प्रथमपाद एव महच्छब्दः स्पष्टः ।
मूक्तचतुष्टयगतं छन्दः प्रशंसति
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधा
राऽऽयतनादेवतेन न प्रच्यवते, इति । त्यमू षु वाजिनं देवतं०-१०-१७८-१। अपूर्व्या पुरुतमान्यस्मै०-१ ३२-१ । तां सुते कीर्ति०-१०-१४-१। त्वं महाँ इन्द्र यो ह.-१-१३-… १। त्वं महाँ इन्द्र तुभ्यं०-४-१७-१।
६१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२३त्रयोवि०ध्याये
यथा मरुत्वतीयशने महच्छन्दयुक्तं त्रिष्टुप्छन्दस्कं सूक्तचतुष्टयमुक्त्वा पश्चाज्जगतीछन्दस्कं महच्छन्दयुक्तं सूक्तान्तरमुक्तमेवमत्र निष्केवल्येऽपि त्रि. पूछन्दस्कं सूक्तचतुष्टयमभिधाय जगतीछन्दस्कं मूक्तं विपत्ते
दिवश्चिदस्य वरिमा विपप्रथइति सूक्तमिन्द्रं न
महति महबदष्टमेऽहन्यष्टमस्याह्नो रूपम् , इति । दिवश्चिदस्येति सूक्तस्येन्द्रमिति द्वितीयपादे महेति महच्छन्दः श्रुतः । तस्मिन्सूक्ते निविद्धानं विधत्ते __तदु जागतं जगयो वा एतस्य व्यहस्य मध्यं - दिन वहन्ति तद्वैतच्छन्दो वहति यस्मिनिवि
द्वीयते तस्माजगतीषु निविदं दधाति, इति । छन्दोद्वयं मिलित्वा प्रशंसति
मिथुनानि सूक्तानि शस्यन्ते त्रैटुभानि च जागतानि च मिथुनं वै पशवः
पशवश्छन्दोमाः पशूनामवरुद्ध्यै, इति । मूक्तेषु महच्छन्द पश्चसंख्यां च पूर्ववत्मशंसति
महद्दन्ति मुक्तानि शस्यन्ते महद्दा अन्तरिक्ष मन्तरिक्षस्याऽऽप्त्यै पञ्च पञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाताः
पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै, इति । शस्त्रद्वयगतानि महच्छन्दयुक्तानि मिलित्वा प्रशंसति
तानि वेधा पञ्चान्यानि पञ्चान्यानि दश , संपद्यन्ते सा दशिनी विराळनं विराळनं
पशवः पशवश्छन्दोमाः पशूनामवरुद्धये, इति । पूर्वोक्तानि महच्छब्दयुक्तानि सर्वाणि सूक्तानि देषा विभक्तानि । कथ
दिवश्चिदस्य वरिमा०-१-५९-११re
-..-.-..-.
-.–
-.
.-.-.-.
. …
—४ चतुर्थः खण्डः] ऐतरेयब्रामणम् ।
११९ मिति तदुच्यते । पश्चान्यानि मरुत्वतीयशस्वगतानि पञ्चसंख्याकानि पृथगेवा बस्थितानि पुनरपि पश्चान्यानि निष्केवल्यशस्नगतानि पञ्चसंख्याकानि पृथगे वावस्थितानि तानि सर्वाणि मिलित्वा दशसंख्याकानि संपद्यन्ते । सा दशिनी दशसंख्यासमूहरूपा विराड्भवति । दशाक्षरा विरानिति श्रुतेः। अन्नसाधन वाद्विरादछन्दोऽनम् । तच्चा क्षीरादिरूपं पशुपूत्पनत्वात्पशव एव । ते च पनवश्छन्दोमैश्चतुर्विशादिभिः स्तोमैस्तयुक्तैरहोभिर्वा संपाद्यत्वाच्छन्दोमस्व रूपाः । भनेन संबन्धेन तत्पश्चकद्वयं पशुमाप्त्यै भवति ।
शखान्तरस्य प्रतिपदनुचरौ विधत्ते
विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बाह
तेऽहन्यष्टमेऽहन्यष्टमस्याह्नो रूपम्, इति । विश्वो देवस्येत्येका तत्सवितुवेरयेमिति द्वे। एतत्रयं बहत्सामसंबन्धी शृचः शास्त्रस्य पतिपत् । आ विश्वदेवमिति त्र्यूचोऽनुचरः । तदुभयं बृहत्सा मसंबन्धाद्वाहतं युग्मत्वेन बृहत्सामसंबन्धिन्यष्टमेऽहनि योग्यम् ।
अर्ध्वलिकोपेतं सवितृदेवताकं सूक्तस्थानीयं चतुर्कचं विधत्ते
हिरण्यपाणिमूतय इति सावित्रमूर्ध्व
दष्टमेऽहन्यष्टमस्याह्नो रूपम् , इति । द्वितीयपादे सवितारमुपहय इति श्रवणात्सवितृदेवताकं सूक्तम् । ऊपर ब्दस्याश्रवणेऽपि सवितृमण्डलस्योपरिदेशवर्तित्वादर्यत ऊर्ध्ववस्वम् ।
महच्छब्दोपेतं सूक्तस्थानीयं त्र्यचं विधत्ते
मही द्यौः पृथिवी च न इति द्यावाएथि
वीयं महद्ददृष्टमेऽहन्यष्टमस्याह्नो रूपम्, इति । महीत्येष एव महच्छन्दः। पुनःशब्दोपेतं सूक्तस्थानीयं त्र्यूचं विधत्ते
युवाना पितरा पुनरियार्भवं पुनर्व विश्वो देवस्य नेतः०-५-५०-१ । तत्सवितुर्वरेण्यं०-३-१२-१० । आ विश्वदेवं सत्पति०-५-८३-७ । हिरण्यपाणिमूतये०-१-२२-६ । मेंही चौः पृथिवी च नः-१-२२-१३ । युवाना पितरा पुनः-१-२०-४।
4
.
६२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२४चतुर्वि ध्याये
दृष्टमेऽहन्यष्टमस्याह्नो रूपम्, इति । तृतीयपाद ऋभवो विष्टयक्रतेति श्रवणाभुदेवताकं सूक्तम् । द्विपदा ऋचो विधाय प्रशंसति
इमा नु कं भुवना सीषधामेति विपदाः शंसति हिपादै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनामवरुद्धयै तयद्विपदाः शंसति यजमानमेव
तहिप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति । महच्छब्दोपेतं बहुदेवताकं सूक्तं विधत्ते
देवानामिदवो महदिति वैश्वदेवं मह
हदृष्टमेऽहन्यष्टमस्याह्नो रूपम्, इति । महच्छब्दोऽत्र विस्पष्टः। द्विपदाव्यतिरिक्तानां तत्सवितुर्वरेण्यमित्यारभ्य देवानामिदयो महदित्य न्तानां छन्दः प्रशंसति
तान्यु गायत्राणि गायत्रतृतीयसवन एष व्यहः, इति । शस्त्रान्तरस्य प्रतिपदं विधत्ते
ऋतावानं वैश्वानरमित्याग्निमारुतस्य
प्रतिपदनिश्वानरो महानिति मह . हदृष्टमेऽहन्यष्टमस्याह्नो रूपम्, इति । ऋतावानमित्यादिके सूक्तगते त्र्यूचे द्वितीयस्यामृच्यनिर्वैश्वानर इति द्वितीयः पादस्तत्र महानिति महच्छब्दः श्रूयते ।
वृधशब्दोपेतं सूक्तं विषत्ते
क्रीळं वः शङ्ख मारुतमिति मारुतं जम्भे रसस्य वावृध इति वृधन्वदष्टमेऽहन्यष्टमस्याह्नो रूपम् , इति । क्रीळं व इति सूक्तस्य पञ्चम्यामृचि जम्भे रसस्येति पादः श्रूयते । तत्र वावृध इति वृधिधातुमत्त्वम् ।।
देवानामिदवो महत्०-८-८४-१ | ऋतावानं०-२-२३-९।१०-११ ६।४-७-३ । ३-२-१३ । क्रीळं वः श| मारुतं०-१-३७-१ ।
१ प्रथमः खण्डः] ऐतरेय ब्राह्मणम् ।
६२१ अच्युतत्वलिङ्गामृचं विधत्ते
जातवेदसे सुनवाम सोममिति
जातवेदस्याऽच्युता, इति । महच्छन्दयुक्तं जातवेदोदेवताकं सूक्तं विधत्ते
अग्ने मूळ महाँ असीति जातवेदस्यं मह
हदष्टमेऽहन्यष्टमस्याहनो रूपम्, इति । आधिमारुतशस्त्रगतेषु सूक्तेषु च्छन्दः प्रशंसति
तान्यु गायत्राणि गायत्रतृतीयसवन
एष यह एष व्यहः ॥ १९॥ इति । अभ्यासोऽध्यायसमाप्त्यर्थः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण
भाष्ये त्रयोविंशाध्याये चतुर्थः खण्डः ॥ ४ ॥ (१९) [ १७२] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य
धुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये
त्रयोविंशोऽध्यायः ॥ २३ ॥