अथ द्वाविंशोऽध्यायः ।
-.
…–
.
अब नवरात्रापेक्षया पञ्चमं मध्यमत्र्यहापेक्षया द्वितीयमहविधत्ते
गौ% देवता पञ्चममहर्वहति त्रिणवः स्तोमः शाक्करं साम पङ्क्तिश्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम
यथाछन्दसं राध्नोति य एवं वेद, इति । पूर्वत्र वागेकं गौरकं चोरेकमिति देवताया रूपत्रयमुक्तम् । तत्र वागात्मक रूपं चतुर्थेऽहन्युक्तम् । पञ्चमस्याहो गौरेव देवता निर्वाहिका स्तोमानां मध्ये त्रिणको निर्वाहकः । तस्य त्रिणवस्य स्तोमस्य स्वरूपं छन्दोगैरेवमानातम् ‘नवभ्यो हिं करोति स तिसृभिः स पञ्चभिः स एकया। नवभ्यो हिं करोति स एकया स तिसृभिः स पञ्चभिः। नवभ्यो हि करोति स पञ्चभिः स एकया स तिमभिः । वज्रो वै त्रिणवः’ इति । अस्यायमर्थः । एकस्यचत्रिभिः पर्या पैरावर्तनीयः । तत्र प्रथमायात्रिः पाठगे द्वितीयायाः पञ्चकृत्वः पाठस्तृती. यस्याः सहदेव पाठः । द्वितीयपर्याये प्रथमायाः सकृत्पागे द्वितीयस्यास्त्रि: पाठस्तृतीयस्याः पञ्चकृत्वः पाठः। तृतीयपर्याये प्रथमायाः पञ्चकृत्वः पाठगे द्विती. यस्याः सकृत्पाठस्तृतीयस्यात्रिः पाठः । एवमावृत्ताभिः सप्तविंशतिसंख्याका मिर्जभित्रिणवः स्तोमो भवति । अन्यत्पूर्ववद्याख्येयम् । agreen by KOYTE
५७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२२द्वाविंशाध्याये
पञ्चमस्याहो मत्रलिङ्गानि दर्शयति
यदै नेति न प्रेति यस्थितं
तत्पश्चमस्याह्नो रूपम् , इति । आकारः प्रशन्दश्च नात्र लिङ्गमिति नकारद्वयेन प्रतिषिध्यते । यतु स्थित तिष्ठतिधात्वर्थरूपमप्रचलितं तत्पश्चमस्याहो निरूपकम् । द्वितीयेऽन्युक्तं लिङ्गजातं पश्चमेऽहन्यतिदिशति
यदेव द्वितीयमहस्तदेतत्पुनर्यत्पञ्चमम् , इति । नवरात्रापेक्षयां यत्पश्चममहविद्यते तत्पृथङ्न भवति । किंतु यदेव द्विती. यमहस्तदेव पञ्चमत्वेन पुनः क्रियते । तत्रत्यं लिङ्गजातमत्रानुसंधेयमित्यर्थः।
तानि लिङ्गानि दर्शयति
यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यदृषण्वद्य वृधन्वद्यन्मध्यमे पदे देवता निरु
च्यते यदन्तरिक्षमभ्युदितम् , इति । पूर्ववयाख्येयम् । अथ विशेषलिङ्गानि दर्शयति
यद्दुग्धवद्यदूधवद्यद्वेन्मद्यत्पृश्रिमद्यन्महद्यत्प शुरूपं यदध्यासवदिक्षुद्रा इव हि पशवो यजागतं जागता हि पशवो यद्वाहतं बार्हता हि पशवो यत्पातं पाता हि पशवो यहामं वामं हि पशवो यहविष्मद विर्हि पशवो यहपुष्मदपुर्हि पशवो यच्छा. करं यत्पातं यत्कुर्वद्यद्वितीयस्याह्नो रूप
मेतानि वै पञ्चमस्याइनो रूपाणि , इति । दुग्धोषधेनुपृश्निमच्छब्दैरुपेतं यद्यदस्ति तत्सर्व लिङ्गम् । तथाविधं च पशु. रूपं यदस्ति तदपि लिङ्गम् । पशुरूपस्य बहुविधत्वमेव यदध्यासवदित्यादिना अपश्यते । अधिकपादस्य प्रक्षेपोऽध्यासः। प्रकृतौ यावदस्ति तावतोऽप्यषि पादोपेतमध्यासवत् । पशूनामपि चतुर्यः पादेभ्योऽधिकं मुखमेक परिगण्यते।
१ प्रथमः खण्डः ] ऐतरेयब्रामणम् ।
५७१ मतोऽध्यासवत्पशुरूपं भवति । तदेव विक्षुद्रा इत्यनेन स्पष्टी क्रियते। विविधाः क्षुद्रा विखुद्राः। एकस्मादन्यो न्यूनस्तस्मादप्यन्यो न्यून: । गजापेक्षयाऽश्य: मुद्रस्वदपेक्षया महिषः . क्षुद्रस्ततो गौस्ततोऽजेत्येवं पशुषु मुद्रत्वं द्रष्टव्यम् । जागतं जगतीसंबद्धं यदस्ति तदपि पशुरूपम् । सोमाहरणप्रसङ्गे जगत्या पश् नामानीतत्वाज्जागतत्वम् । तथा बाईतं बृहतीसंबन्धं पशुरूपम् । पशुविषये छन्दसामाजिधावने बृहत्या विजयेन पशूनां बाईतत्वम् । पङ्गिच्छन्दःसंबद्ध मपि पशुरूपम् । पतिमुखेन पञ्चावयवैरुपेताः पशवः पालाः । यद्वामं रमणीयं सूकं स्वरवर्णादिभिः श्राव्यं भवति तदपि पशुरूपम् । लोकेऽपि गवाश्चादि पशव इति यदस्ति तद्वामं रमणीयं दृश्यते । हविष्मद्धविःसंझोपेतं यदस्ति वदपि पशुस्वरूपम् । पशवो हि देवतासंबद्धहविःस्वरूपेण हूयन्ते । वपुःसंशो पेवं यदस्ति तदपि पशुस्वरूपम् । पशवो हि वपुःपुष्टाभूता दृश्यन्ते । विदा मघवमित्यादिषु महानाम्नीपूत्पन शाकरं साम तत्संबदमेकं लिङ्गम् । पाह मिति यत्पुनर्वचनं तत्पञ्चसंख्यायुक्तं पूर्वत्र पलिच्छन्दःसंबद्धमिति विशेषः । कुर्वदिति वर्तमानार्थवाचिप्रत्ययोपेतं धातुमा विवक्षितम् । एतच द्वितीय स्याडो रूपमिति पूर्वमुक्तम् । एवं च सति यानि द्वितीयेऽहन्युक्तानि लिनानि यानि चात्र नूतनान्येतानि सर्वाण्यपि पश्चमस्याहो निरूपकाणि द्रष्टन्यानि ।
आज्यशवं विधत्ते
इममू षु वो अतिथिमुषर्बुधमिति पञ्चम स्याह्न आज्यं भवति जागतमध्यासक्त्पशु
रूपं पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । इममू वित्यादिसूक्ते जगतीछन्दोयुक्ता आधा नवर्चः शंसनीयास्तत्र तृतीय स्थाचि जगतीछन्दस्केभ्यश्चतुर्थ(भ्यः?)पादेभ्योऽधिकः पादो भरद्वाजाय समय इत्येष समानायते। अतोऽधिकपादयुक्तत्वादिदमध्यासवल्लिङ्गम् । तत्र(?) पशु स्वयं पशोरपि पादचतुष्टयादपिकस्य मुखस्य विद्यमानत्वात् । तदे. वल्लियुक्तं पञ्चमेऽहनि विनियोक्तुं युक्तं योग्यम् । तस्मादेतस्पश्चमस्याडो निरूपकम् ।
अथ मउगशस्त्रं विषते
17
इममू पु वो अतिथिमुषः०-६-१५-१ | arties is avagic
A
.
.
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् –[२२द्वाविंशाध्याये आ नो यज्ञं दिविस्पृशमा नो वायो महेतने रथेन पृथुपाजसा बहवः सूरचक्षस इमा उ वां दिविष्टयः पिबा मुतस्य रसिनो देवं देवं वो वसे देवं देवं बृहदुगायिषे वच इति वाहतं
प्रउगं पञ्चमेऽहनि पञ्चमस्याइनो रूपम् , इति । आ नो यामिति द्वे ऋचौ । आ नो वायो, इत्येका । सोऽयं प्रथमस्यूचो रथेनेत्यादिवितीयो बहव इत्यादिस्तृतीय इमा उ वामित्यादिश्चतुर्थः पिबा सुतस्येत्यादिः पञ्चमो देवं देवमिति षष्ठो बृहदिति सप्तमः । तदेतत्सतम वृहतीछन्दोयोगाढाईतम् । अतो लिासद्भावात्पञ्चमेऽहनि योग्यतया तस्य निरूपकम् ।
अथ शस्त्रान्तरस्प प्रतिपदं विषत्ते
यत्पाञ्चजन्यया विशेति मरुत्वतीयस्य प्रतिपत्पा श्वजन्ययेति पञ्चमेऽहनि पञ्चमस्याहूनो रूपम्, इति । अस्मिस्यूचे प्रथमायामूचि पाञ्चजन्ययेति पदे पञ्चशब्दयोगो लिङ्गम् । अथ द्वितीयेनाहा समानत्वलिङ्गयुक्तशस्त्रक्तृप्तिं विषचे
इन्द्र इत्सोमपा एक इन्द्र नेदीय एदिय त्तिष्ठ ब्रह्मणस्पतेऽग्निर्नेता वं सोम क्रतुभिः पिन्वन्त्यपो बृहदिन्द्राय गायतेति द्विती
येनाहुना समान आतानः पञ्चमेऽहनि पञ्चम __ आ नो यज्ञं दिविस्पृश०-८-११-९ । मा नो वायो महेतने०-८-११ २५ । रथेन पृथुपाजसा०-४-४६-५ । बहवः सूरचक्षसः०-७-११-१०॥ इमा उ वां दिविष्टयः०-७-७४-१ । पिवा सुतस्य रसिनः०-८-३-१। देवं देवं वो वसे०-८-१२-१९ । बृहदु गायिषे वचः०-७-९६-१ । यत्पाञ्चन न्यया विशा०-८-६३-७ । इन्द्र इत्सोमपा एकः०-८-२-४ । इन्द्र नेदीय एदिहि०-८-५३-५ । उत्तिष्ठ ब्रह्मणस्पते०-१-४०-१। अग्निर्नेता भग इव ३-२०-४ । त्वं सोम क्रतुभिः०-१-९१-२। पिन्वन्त्यपो मरुत०-१-६४ ६ । बृहदिन्द्राय गायते०-८-८९-
१
r ietiy 300
१प्रथमः खण्डः
ऐतरेयब्राह्मणम् ।
५७३ स्याह्नो रूपम्, इति । आतानः शस्त्रप्तिः। अथ मदशब्दलिङ्गेन पञ्चपादोपेतपातत्वलिङ्गेन चोपेतं सूक्तं विधत्ते
अविताऽसि सुन्वतो वृक्तबर्हिष . इति सूक्तं महत्पाङ्क्तं पञ्चपदं पञ्च.
मेऽहनि पञ्चमस्याह्नो रूपम् , इति । अत्र द्वितीयपादे पिबा सोमं मदायेति श्रवणादिदं सूक्तं महद्भवति । पत्र पादा विस्सष्टाः।
तादृशमेवान्यत्सूक्तं विधत्ते
इत्था हि सोम इन्मद इति सूक्तं महत्पार्क
पञ्चपदं पञ्चमेऽहनि पञ्चमस्याह्नोरूपम्, इति । पुनरपि मदशब्दलिङ्गोपेतं त्रिष्टुप्छन्दस्कं सूक्तं विधत्ते
इन्द्र पिब तुभ्यं सुतो मदायेति सूक्तं महत्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधा
राऽऽयतनादेवतेन न प्रच्यवते , इति । पूर्ववधाख्येयम् । आकारमशब्दवर्जितत्वमरुत्वतीयशस्त्रस्यान्ते प्रक्षेपणीयं त्र्यचं विधत्ते
मरुत्वा इन्द्र मीदव इति पर्यासो नेति न
प्रेति पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । परितोऽन्ते प्रक्षेपणीयः पर्यासः। तस्मिंस्यूचे निविद्धानं विषचे
ता उ गायच्यो गायत्र्यो वा एतस्य व्यहस्य मध्यंदिनं वहन्ति तद्वतच्छन्दो वहति यस्मिनि विधीयते तस्मादायत्रीषु निविदं दधाति ॥६॥ अविताऽसि सुन्वतो०-८-३६-१ । इत्था हि सोम इन्मदे०-१-८०-१।। इन्द्र पिन तुम्यं सुतो०-६-४०-१ । मरुत्वाँ इन्द्र मीढ्वः०-८-७६-७ ।
-.
–.-..–.-…-
-.-.
–…—.-…-
–.-..–.-.
- -.-.
. .-
…
…
..
५७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२२द्वाविंशाध्याये
पूर्ववयाख्येयम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबाम
णभाष्ये द्वाविंशाध्याये प्रथमः खण्डः ॥१॥ (६) [१५९]
अथ शाकरसामसंबन्धेन लिङ्गेन युक्ता ऋचो विधत्ते __महानानीष्वत्र स्तुवते शाक्वरेण साम्रा रार्थ
तरेऽहनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । विदा मघवमित्यादयो नवों महानाम्नीसंज्ञकास्तासूदातारः शाकराख्येन साना स्तुवते । अहश्चेदमयुग्मत्वाद्रायंतरं शाकरं च साम रथंतररूपजन्यत्वादा यंतरमतोऽत्र ता ऋचो योग्याः। महानान्नीशब्दं निर्वक्ति
इन्द्रो वा एताभिर्महानात्मानं निरमि मीत तस्मान्महानाम्न्योऽथो इमे वै
लोका महानाम्न्य इमे महान्तः, इति । पुरा कदाचिदिन्द्रः स्वयमेवैश्वर्यादिगुणैर्महान्भविष्यामीति विचार्य विदा मघवमित्यादिभिर्ऋग्भिः स्वात्मानं गुणैर्महान्तं निर्मितवान् । तस्मान्महत्त्वनि माणसाधनत्वान्महानाम्नीशब्दवाच्याः संपनाः। अपि च महानाम्न्यो भूरा. दिलोकत्रयस्वरूपा लोकाश्च महान्तस्तस्मादप्यासां महानाम्नीत्वम् ।
ननु शकरीषत्पनं साम शाकरमिति वक्तव्यम् । शकरी च सप्तपादोपेता। न चैता ऋचस्तथाविधाः। किंतु पादचतुष्टयोपेता अनुष्टुभस्तत्कयमासां शक रीवमित्याशक्य शक्तिप्रदत्वाच्छकरीत्वमिति निर्वचनं दर्शयति
इमान्दै लोकान्प्रजापतिः सृष्टेदं सर्वम शक्नोद्यदिदं किंच यदिमाल्लोकान्प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद्यदिदं किंच तच्छक्क
र्योऽभवंस्तच्छक्करीणां शक्करीत्वम् , इति । पुरा प्रजापतिविदा मघवमित्यादिका महानानीरनुसंधाय तदात्मकाल्लोकान्य जापतिः मु(कान्स)ष्ट्वा ताभिर्महानाम्नीभिरनुगृहीतं(तः) पश्चादेषु लोकेषु यतिक चित्स्यावरं जगमं प्राणिजातं स्रष्टव्यमस्ति तत्सर्वं स्रष्टुमशक्नोच्छकिमानभूत् ।
५७५
२ द्वितीयः खण्डः ] ऐतरेयबामणम् । यस्मादेवं प्रजापतिरकरोत्तस्माच्छक्तिहेतुत्वादेता ऋचः शकरीनामिका अभ.
वन् । अनेन प्रकारेण तासां शकरीत्वं संपन्नम् ।
प्रकारान्तरेण महानान्नीः प्रशंसति
ता ऊर्धाः सीम्रोऽभ्यसृजत यदूर्ध्वाः सीम्रोऽभ्यस जत तत्सिमा अभवंस्तत्सिमानां सिमात्वम्, इति । या एता महानाम्न्यः सन्ति ताः सीन ऊर्ध्वा अभ्यस्जत । अमिमीळ इत्यारभ्य यथा वःसुसहासतीत्यन्ता दाशतयीनां सीमा तस्याः सीनः ऊर्श्वभा. विनीः कृत्वा प्रजापतिरभितः सृष्टवान् । अत एवैताः संहिताः संहितायां नाss प्रायन्ते । किंवारण्यकाण्ड आन्नायन्ते । अथवा नवता ऋचत्रिवेदेभ्य उपरि स्थितत्वेन प्रयुज्यन्ते । तथाचाऽऽश्वलायन आह-‘शाकरं चेत्पृष्ठं महानाम्न्यः स्वोत्रिय इति ता अध्यर्षकारं नव प्रकृत्या तिस्रो भवन्ति’ इति । अस्यायमर्थः। यदा भाकरसाना पृष्ठस्तोत्रं निष्पाद्यते तदानीं महानाम्न्य ऋचः स्तोत्रिय स्यूचो भवति । तास्तु प्रकृत्या खभावेन नवसंख्याकास्तथाऽपि तिस: कर्तव्या अध्यर्धकारमिति तत्रोपाय उच्यते । अधिकेनार्थेन युक्तामेकामचमे कमर्च कृत्वेत्युक्तं भवति । ततस्त्रयाणामधंर्चानामेकार्थत्वे सति तिस्र ऋचो भवन्तीति । सोऽयं सीन्न उल्लङ्घनप्रकारः। यस्मात्सीन ऊर्ध्वाः सती: प्रजापतिरस्जत तस्मात्सिमा इत्येतमामिका अभवन् । महानानीनामेतेन प्रकारेण सिमानामकत्वं विनेयम् ।
स्तोत्रियमुक्त्वाऽनुरूपं त्र्युचं विधत्ते
स्वादोरित्था विषूवत उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधनित्यनुरूपो वृषण्वान्पृश्निमान्मदा न्वृधन्वान्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् , इति । स्वादोरित्यादिरध्ययनप्रकारेणैकस्यच उप न इत्यादिद्वितीय इन्द्रं विश्वा इति तृतीयः । एतत्रयं मिलित्वा पूर्वोक्तस्तोत्रियसादृश्यादनुरूपस्युचो भवति । तत्र खादोरित्येतस्मिन्वृष्णा मदन्तीति वृषण्वत्वं महत्त्वं च दृश्यते । सोमं श्रीणन्ति पृश्नय इति पृश्निमत्त्वम् । इन्द्रं विश्वा अवीवृधमिति वृधन्वत्त्वम् । तान्येतानि पञ्चमेऽहनि योग्यत्वात्पश्चमस्य गमकानि ।
स्वादोरित्था विष्वतः०-१-८४-१ । उप नो हरिभिः०-८-७३-३१। . इन्द्रं विश्वा अवीवृधन्०-१-११-१।
५७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२२द्वाविंशाध्याये
अच्युतत्वलिङ्गन धाय्यां विधत्ते
___ यहावानेति धाय्याऽच्युता, इति । तो पाय्यामनु स्यंतरसामयोनेः शंसनं विधत्ते
अभि वा शूर नोनुम इति रथंतरस्य योनि
मनु निवर्तयति राथंतरं ह्येतदहरायतनेन, इति । अयुग्मत्वादहो रयंतरायतनत्वमेतदेव तल्लिङ्गम् । शाकरसामसंबन्धिसामनगाथं विधत्ते
मो षु त्वा वाघतश्चनेति सामप्रगाथोऽध्यासवा
न्पशुरूपं पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । ऋग्द्वयमेव सर्वत्र प्रगाथस्य स्वरूपम् । अत्र तु रायस्काम इत्येषा दिप दाऽधिकत्वेन प्रक्षिप्ता तस्मादयं प्रगायोऽध्यासवान् । तच पशुरूपत्वात्पन. मेऽहनि योग्यम् ।
अच्युतत्वलिङ्गन सूक्तविशेष विधत्ते
त्यमू षु वाजिनं देवजूतमिति
तार्योऽच्युतः ॥ ७ ॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण
भाष्ये द्वाविंशाध्याये द्वितीयः खण्डः ॥२॥ (७) [१६०] पञ्चपादोपेततया पाङ्गत्वलिायुक्तं सूक्तं विधत्ते
प्रेदं ब्रह्म वृत्रतूर्येष्वाविथेति सूक्तं पातं पञ्च
पदं पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । मदशब्देन पाङ्गत्वेन च लिाद्वयेनोपेतं सूक्तं विधत्ते- .
इन्द्रो मदाय वावृध इति सूक्तं महत्पाङ्क्तं
पश्चपदं पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । यद्वावानपुरुतम०-१०-५४-६८ । अभि त्वा शूर नोनुमः०-७-३३-२२। मोषु त्वा वाघतश्चन०-७-३२-१। त्यमू षु वाजिनं०-१०-१७८-१। प्रेदं ब्रह्म वृत्रतूर्ये०-८-३७-१ । इन्द्रो मदाय वावृधे०-१-८१-१। ।
३ तृतीयः खण्डः] ऐतरेयत्रायणम् ।
५७७ . मदिधातुलिङ्गकं त्रिष्टुप्छन्दस्कं सूक्तं विघचे
सत्रा मदासस्तव विश्वजन्या इति सूक्तं महत्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं
दाधाराऽऽयतनादेवैतेन न प्रच्यवते, इति । शस्त्रान्ते प्रक्षेपणीयं चं विधत्ते
तमिन्द्रं वाजयामसीति पर्यासः स वृषा वृषभो मुव दिति पशुरूपं पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । स वृषेत्यादिस्तृतीयः पादस्तत्र वृषभशब्दश्रवणात्पशुरूपत्वम् । वस्मिल्यूचे निविद्धानं विधत्ते
ता उ गायत्र्यो गायच्यो वा एतस्य व्यहस्य मध्यंदिन वहन्ति तद्वतच्छन्दो वहति यस्मि
त्रिविधीयते तस्मादायत्रीषु निविदं दधाति, इति । वैश्वदेवशस्त्रस्य त्र्यचद्वयं विधत्ते
तत्सवितुर्वृणीमहेऽद्या नो देव सवित रिति वैश्वदेवस्य प्रतिपदनुचरौ रायंतरेऽ
हनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । तत्सवितुरिति त्र्यचः प्रतिपत् । अद्या इति न्यूचोऽनुचरः । तावुभौ रयं वरसंबन्धिनौ । अहश्चायुग्मत्वाद्रायंतरमेवं लिङ्गं संपादनीयम् । रमणीयत्ववाचकेन वामशब्दलिङ्गेन युक्तं चं विधत्ते
उदुष्य देवः सविता दमूना इति सावित्रमा दाशुषे सुवति भूरि वाममिति वामं पशु
रूपं पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । सावित्रत्वं स्पष्टम् । आ दाशुष इति चतुर्थः पादस्तत्र भूरि वाममिति वाम शब्दरूपं लिङ्ग पशुरूपमस्ति ।
सत्रा मदासस्तव०-६-३६-१ । तमिन्द्रं वाजयामसि०-८-९३-७ । तत्सवितुर्वृणीमहे ०-५-८२-१ । अद्या नो देवसवितः०-१-८२-४ । उदुष्य देवः सवितादमूना०-६-७१-४ ।
Deizen in Google
.
..- …- … - –..
.
५७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२२द्वाविंशाध्याये- .
पशुवाचकेनोक्षशब्दरूपेण लिङ्गेन युक्तं चतुर्थीचं विधत्ते
मही द्यावापृथिवी इह ज्येष्ठे इति द्यावापृथिवीयं स्वदोक्षेति पशुरूपं
पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । रुवदित्यादिश्चतुर्थः पादस्तत्राक्षेति पुंगवाभिधायकः शब्दोऽस्ति । प्रभुदेवताकं सूक्तं विधत्ते
ऋभुर्विभ्वा वाज इन्द्रो नो अच्छे यार्भवं वाजो वै पशवः पशुरूपं
पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । पशोहविष्ट्वेन देवतात्रत्वादभवाची वाजशब्दः पशुरूपं लिङ्गम् ।
अध्यासलिङ्गक सूक्तं विधत्ते
स्तुषे जनं सुव्रतं नव्यसीभिरिति वैश्वदेवमध्यास
वत्पशुरूपं पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्, इति । त्रिष्टुप्छन्दस्के सूक्ते विश आ देवीरित्येकः पादोऽधिकः प्रतिप्यते सोऽय , मध्यासो लिङ्गम् ।
शस्त्रान्तरस्य प्रतिपदं सूक्तं विधत्ते
हविष्पान्तमजरं स्वर्विदीयाग्निमारुतस्य प्रति
पद्धविष्मत्पञ्चमेऽहनि पञ्चमस्यालो रूपम्, इति । हविशब्दोपेतत्वमत्र लिङ्गम् । वपुःशब्दोपेतं मरुदेवताकं सूक्तं विधत्ते
वपुर्नु तचिकितुषे चिदस्त्विति मारुतं वपु
ष्मत्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् , इति । मरुतो वावृधन्त इति श्रवणातत्सूक्तं मारुतम् । वपुःशब्दलिकं तु स्पष्टम् । मही द्यावापृथिवी० – ४-५६-१ । अमुर्विम्वा वाज इन्द्रो०-४-३४-१॥ स्तुषे जनं सुव्रतं नव्य०-१-४९-१ । हविष्पान्तमजरं०-१०-८८-१ । वपुर्नु तचिकितुषे०-६-१६-१।
Sicurea in Google
.– ——
-
— …- … - —–
-
— •vr . - ——
-’
–
–
-… –
- …
-… –
-..
-..–
.—
-.-"- …- .." -
— …- … -
— …-
..- -
— …-
… - .र
)
१ चतुर्थः खण्डः] ऐतरेयब्राह्मणम् ।
अच्युतत्वलिायुक्तामृचं विधत्ते
जातवेदसे सुनवाम सोममिति
जातवेदस्याऽच्युता , इति । अध्यासलिङ्गेन युक्तं जातवेदोदेवताकं त्र्यूचं निधत्ते
अनिर्होता गृहपतिः स राजेति जात वेदस्यमध्यासवत्पशुरूपं पञ्चमेऽहनि
पञ्चमस्याह्नो रूपम् ॥८॥ इति । त्रिष्टुप्छन्दस्कस्य त्र्यचस्यावसाने ता तरेमेत्यधिकः पादोऽध्यासः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थमकाश ऐतरेयब्रामण
भाष्ये द्वाविंशाध्याये तृतीयः खण्डः ॥३॥(८)[ १६१] अय षष्ठमहरारभ्यते
देवक्षेत्रं वा एतद्यषष्ठमहर्देवक्षेत्रं वा एत
आगच्छन्ति ये षष्ठमहरागच्छन्ति, इति । द्वादशाहमध्ये नवरात्रान्तर्गते पृष्ठयषडहे यषष्ठमहरस्ति तदेतोवक्षेत्रं वै देवानां निवासस्थानमेव । एवं सति ये यजमानाः षष्ठमहरनुतिष्ठन्ति, एते देवानां निवासस्थानमागच्छन्ति ।
अथास्मिन्पष्ठेऽहनि ऋतुषेषु ऋतुयाण्यासूक्ते कंचिद्विशेष विधातु मस्तौति
न वै देवा अन्योन्यस्य गृहे वसन्ति नर्तुतोहे वसतीयाहुस्तद्यथायथमृविज ऋतुयाजान्यजन्त्यसंप्रदायं तद्यथलतून्क
ल्पयन्ति यथायथं जनताः, इति । देवाः सर्वेऽप्यन्योन्यस्य गृहे वासं नैव कुर्वन्ति किंतु स्वे स्व एव रहे। एवं च सत्यूतुरप्तोरन्यस्य स्थाने न वसति किंतु सर्वोऽपि वसन्तातुः स्वे स्व एव स्थाने निवसति । तस्मात्कारणायथायथं स्वस्वस्थानमनतिक्रम्य सर्वेऽप्यत्विज जातवेदसे सुनवाम०-१-९९-१। अग्निहोता गृहपतिः०-६-१६-१३
५०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२२द्वाविंशाध्याये– ऋतुयाजान्यजेयुरसंप्रदायमन्यस्मा अदत्वा । अयमर्थः । ऋतुग्रहाणां प्रचारो यदा वर्तते तदानी मैत्रावरुणः श्रेषसूक्तगतेन मत्रेण होत्रादीन्प्रेष्यति ते च याज्यया वर्षट्कुर्वन्ति। अध्वर्युयजमानौ तु प्रेषितौ स्वस्वयाज्यां होने प्रयच्छतः । तदिदं प्रकृतावनुष्ठानम् । अत्र तु तौ होने न प्रयच्छतः किंतु स्वयमेव याज्यां पठत इति । तथा सति यतुं तं तमृतुमनतिक्रम्य सर्वानृतऋत्विजः कल्पयन्ति खस्वप्रयोजनसमर्थान्कुर्वन्ति । ऋतूनां तथा कल्पने सति जनता जनसमूहा यथायथं स्वं स्वं स्थानमनविक्रम्य व्यवस्थिताः मुखिनो भवन्ति । एवमतुयाजा अत्र प्रस्तुतास्तत्रैतचिन्त्यते किमृतुयाजेषु औषवषट्कारौ प्रकृतिवन कर्तव्याबुत कर्तव्यावाहोस्वित्प्रकारान्तरेण कर्तव्याविति ।
तत्र तावदकरणपक्षमुपन्यस्यति . तदाहुर्नप्रेषः प्रेषितव्यं नर्तुप्रैषैर्वषट्कृत्यं वाग्वा
ऋतुप्रैषा आप्यते वै वाक्षष्ठेऽहनीति, इति । ऋतुयाजाथै मैत्रावरुणेन पठितव्या मत्रा ऋतुषाः । तैः प्रैषमहोत्रा दीन्मति च न प्रेषितव्यम् । होता यक्षदिन्द्रमित्यादिभिः प्रैषणं न कर्तव्यम् । होत्रादिभिश्चर्तुप्रैषमन्त्रैर्न वषट्कर्तव्यम् । याज्यात्वेन न पठितव्या इत्ययः। तत्रयमुपपत्तिः । य ऋतुप्रैषास्ते सर्वेऽपि वाग्वै वापूपा एव । वाक्च षष्ठेऽह न्यायायते समाप्याय(प्यते । न हि समासायां वाचि मत्रमयोगो युज्यत इति निषेधवादिनामभिप्रायः।
तेषामेव मतमाश्रित्य विधिवादिना पक्षे दोषं दर्शयति
यहतुप्रैषैः प्रेष्येयुर्यहतुप्रैषैर्वषट्कुर्युचमेव तदाप्तां
श्रान्तामृणवहीं वहराविणीमृच्छेयुः , इति । य ऋ()तुषास्तत्पूर्वको वषट्कारश्चानुष्ठीयेरंस्तदानीमाता समाप्तां वाच मेव ऋच्छेयुः । कीदृशीं वाचमुक्णवहीं वहो बलीवर्दस्य लालादिवहनप्रदेशः। (अ)क्णो भनः । (रु)जो भा इति धातुः । (क)क्णो भग्नो वहो वहन प्रदेशो यस्या वाचः सा, +ऋक्षवही श्रान्तत्वायज्ञभारं वोदुमशक्तेत्यर्थः। पहराविणीमशक्यवहननिमित्तो रावो रोदनरूपो ध्वनिर्यस्याः सा बहराविणी बाहशीमुपदवद्धययुक्तां कृत्वा वाचं विनाशयेयुः।
- छान्दसं संप्रसारणम् ।
क.स.स. ट अन्ते।
५८१
तुः खण्डः] ऐतरेयब्राह्मणम् । एवमनुष्ठानपक्षे दोषमुक्त्वा निषेधपक्षे व्यवस्थिते सति विधिवादी स्वाभि प्रेवमनुष्ठानं हृदि निधाय निषेधपक्षे बाधमुपन्यस्यति
यहेभिर्न प्रेष्येयुर्यदेभिर्न वषट्कुर्यु रच्युतायज्ञस्य च्यवेरन्यज्ञात्माणात्प्र
जापतेः पशुभ्यो जिह्मा ईयुः, इति । यदु यदि वा एमिर्मचैन प्रेष्येयुर्यदि वा एभिर्याज्यामरैर्न वषट्कु युवदानीमृत्विजो यहस्याच्युतादविनष्टात्प्रयोगाच्यवेरन्विनश्येयुर्यज्ञमयोगः साहो न भवेदित्यर्थः। किंचैतस्माद्यात्स्वकीयमाणात्मजापतेः स्वकीययज मानाद्वादिपत्रुभ्यश्च जिमा ईयुर्ऋत्विजः सर्वेऽपि कुटिला भूत्वा गच्छेयु
माणयजमानपधुभ्यो भ्रष्टा भवेयुरित्यर्थः। इत्वं विधिनिषेधपक्षयोरुभयोरपि बाधमुक्त्वा प्रकारान्तरेणानुष्ठानं सिया. न्वयति
तस्मादृग्मेभ्य एवाधि प्रेषितव्यमृग्मेभ्योऽधि वषट्कृयं तन वाचमाप्तां श्रान्तामृक्णवहीं वहरा विणीमृच्छन्ति नाच्युताद्यज्ञस्य च्यवन्ते न यज्ञा स्माणात्प्रजापतेः पशुभ्यो जिह्मा यन्ति ॥९॥ इति । यस्मादनुष्ठानपक्षे श्रान्तामित्याधुक्तदोषः परित्यागपक्षे त्वच्युतादित्याधु कदोषस्तस्माद्दोषद्वयपरिहाराय प्रकारान्तरेणानुष्ठेयम् । प्रकृतौ हि मैत्रावरु गस्तं तं भैषमत्रं पठित्वा होतर्यजेत्यादिना प्रेष्यति । होत्रादयश्च तत उर्व याज्यां प्रैपरूपामेव पठित्वा तदन्ते वौषडिति वषट्कुर्वन्ति । अत्र तु न तथा कर्तव्यम् । किं तहि ऋग्मेभ्य एवाधि ऋक्शिरस्केभ्यो होत्रादिविषयौवेभ्य एवोज़ मैत्रावरुणो होतर्यजेत्यादिना प्रेष्येत् । होत्रादयश्च तथैव ऋग्मेभ्योऽपि वषद्कृत्य तुभ्यं हिन्वान इत्याक्शिरस्कैः गैर्यजेयुः । तथा सति प्रकृति वदनुष्ठानाभावाद्वाचमाशामित्यादिरनुष्ठानपक्षे प्रोक्तो दोषो न भवति । अनुष्ठानपरित्यागस्याप्यभावात्पतिषेधपक्षे प्रोक्तोऽच्युतादित्यादिदोषोऽपि न भविष्यति ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्ये द्वाविंशाध्याये चतुर्थः खण्डः ॥४॥ (९) [१६२]
१८. भवति ।
.
.-
.-
1.11111
–.-.
–
–
५८२ . श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२२द्वाविंशाघ्याये
अथ सवनद्वये कांश्चिदग्विशेषान्विधत्ते
पारुच्छेपीरुपदधति पूर्वयोः सवनयोः पुरस्तात्म स्थितयाज्यानां रोहितं वै नामैतच्छन्दो यत्पारु
च्छेपमेतेन वा इन्द्रः सप्त स्वर्गाल्लोकानरोहद, इति । प्रातःसवने माध्यंदिनसवने च याः प्रस्थितयाज्याश्चोदकेन प्रकृतितः माता स्तासां पुरस्तात्पारुच्छेपी: परुच्छेपाख्येन महर्षिणा दृष्टा ऋच उपदध्युः । एकैकां पारुच्छेपीमृचमुक्त्वा पश्चादेकैकां प्रस्थितयाज्यां पठेत् । वृषमिन्द्र वृष पाणास इन्दव इत्याद्याः पिबा सोममिन्द्र सुवानमद्रिभिरित्याचाच पारुच्छेप्य ऋचः सूत्रकारेण विस्पष्टमुदाहृताः । पारुच्छेपीष्वृक्षु यच्छन्दोऽस्ति तदिदं रोहितनामकम् । कथमिति तदुच्यते । एतेन पारुच्छेपीयेन च्छन्दसा पुरा कदाचिदिन्द्रः सप्त स्वर्गाल्लोकानरोह । उसमाधमभोगावस्थानविशेषाः सन संख्याकाः स्वगाः। रोहत्यनेन च्छन्दसेति रोहितनाम संपनम् ।
वेदनं प्रशंसति
रोहति सप्त स्वर्गाल्लोकान्य एवं वेद, इति । तस्मिंश्छन्दसि चोद्यमुद्भावयति
तदाहुर्यत्पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात्सप्त
पदाः षष्ठेऽहञ्छस्यन्त इति, इति । संख्यासाम्यात्पश्चपदोपेता ऋचः पञ्चमेऽहनि युक्ताः षट्पदोपेताः पठेऽ हनि पारुच्छेप्यस्तु सप्तपदोपेता अतः षष्ठेऽहनि तच्छंसनमयुक्तमिति चोधवा दिनामभिप्रायः। तत्रोत्तरमाह
षडभिरेव पदैःषष्ठमहराप्नुवन्यपच्छिये()वे तदहर्यत्सप्तमं तदेव सप्तमेन पदेनाभ्यारभ्य
वसन्ति वाचमेव तत्पुनरुपयन्ति संतत्य, इति । एकैकस्यामृचि य एते प्रथमभाविनः पैदपादास्तैः सर्वैर्यदा पष्टमहरामुवन्ति
क. स. झ. ट. ते । त ए। २ ख. षट्पदा ।
१षष्ठः खण्डः] ऐतरेयब्राह्मणम् ।
५८३ म्दानीमुपरितनं यत्सप्तममहस्तदपच्छिद्यैव पृथक्त्वेन तस्य विच्छेदं कृत्वैव पामोति । तस्माद्विच्छिवं सप्तममहस्तेन सप्तमेन पा(प)देनाऽऽभिमुख्येनोप ब्रम्य वसन्ति । तथा सति विच्छिनां वाचमेव पुनरपि प्रामुवन्ति । तच्च मध्य पयोत्यहयोः संतत्यै संपद्यते।
बेदनपूर्वकमनुष्ठानं प्रशंसति
संततैत्यहरव्यवच्छिन्नैर्यन्ति य
एवं विद्वांसो यन्ति ॥३०॥ इति । पूर्ववयाख्येयम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण
भाष्ये दाविंशाध्याये पञ्चमः खण्डः ॥५॥ (१०) [१६३ ]
पारुच्छेपीय छन्द उपाख्यानेन प्रशंसति
. देवासुरा वा एषु लोकेषु समयतन्त ते वै देवाः षष्ठेनैवाभ्यो लोकेभ्योऽसुरान्प्राणुदन्त तेषां यान्यन्तहस्तीनानि वसून्यासंस्तान्यादाय समुद्रं प्रौप्यन्त त एतेनैव च्छन्दसाऽनुहायान्त हस्तीनानि वसून्याददत तघदेतत्पदं पुनः
पदं स एवाङ्कुश आसञ्जनाय , इति । देवाचासुराश्च लोकविषये यदा समयतन्त सकाममकुर्वत तदानीं ते देवाः महरनुष्ठाय तत्सामर्थेनासुराल्लोकेभ्यो निःसारितवन्तः । तदानीं तेषामसु राणां संबन्धीनि वस्तूनि धनानि बहून्यासन् । कीदृशान्यन्तहस्तीनानि हस्तिनां गजानामुपरि भारवहनाय स्थापितानि । यद्वा स्वकीयस्य हस्तस्या तमध्ये गोप्यत्वेन स्थापितान्यन्तहस्तीनानि । तानि सर्वाण्यादायासुराः समुद्र गोप्यन्त । समुद्रं गतवद्भिरसुरैस्तस्मिन्समुद्रे तानि धनानि प्रक्षिप्तानि । ततो देवा एवत्पारुच्छेपीयं छन्दोऽनुष्ठाय तस्मात्सामर्थ्यादनुहाय पृष्ठतो गत्वा हस्तिनामुपरि स्थितानि तदीयहस्तेऽवस्थितानि वा सर्वाणि धनान्याददत स्वीकृतवन्तः । समुद्रमध्यस्थितानां धनानामाकर्षणे किं साधनमिति तदुच्यते । बचत्र पारुच्छेपीयास्त्रक्षु यदेतत्पदं पागेऽस्ति कीदृशं पुनःपदं षट्भु पादेषु
५८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२२द्वाविंशाध्याये समानेषु पुनः पश्चादुचार्यमाणः सुमुळीको न आगहीत्येवंविधः सप्तमः पादः । स एव धनानामासञ्जनायाऽऽसक्तानि कृत्वा समाकर्षणायार कुशोऽभूत् । यथा लोकेऽङ्कुशेनाऽऽकुष्यते तद्वत्सप्तमेन पादेनामुरघनान्या कृष्टानि ।
वेदनं प्रशंसति
आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो
लोकेभ्यो नुदते य एवं वेद ॥ ११ ॥ इति । वेदिता द्विषतः शत्रोः संबन्धि वसु धनं सर्वमादत्ते । एवं(न) च द्विषन्तं शत्रु लोकेभ्यो निर्गुदते निःसारयति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयना मणभाष्ये द्वाविंशाध्याये षष्ठः खण्डः ॥ ६ ॥ (११) [१६४]
इदानीं षष्ठमहविधत्ते
चौः देवता षष्ठमहर्वहति त्रयस्त्रिंशः स्तोमो रैवतं सामातिच्छन्दाश्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम
यथाछन्दसं रानोति य एवं वेद, इति । पूर्वत्र वागेकं गौरेकं चौरेकमिति यत्तृतीयं देवतास्वरूपमुक्त सेयं देवता षष्ठ महनिर्वहति । तथा स्तोमानां मध्ये त्रयस्त्रिंशः स्तोमो निर्वाहकः। तस्य स्तोमस्य रूपं छन्दोगैरेवमाम्नायते-‘एकादशभ्यो हिं करोति स तिसृभिः स सप्तभिः स एकया। एकादशभ्यो हिं करोति स एकया स तिसृभिः स सप्तभिरेकाद. सभ्यो हिं करोति स सप्तभिः स एकया स तिसृभिरन्तो वै त्रयस्त्रिंशः’ इति । अस्यायमर्थः । एक एव त्र्यचत्रिभिः पयोयैरावर्तनीयः। तत्र प्रयमे पर्याये प्रथमायात्रिरभ्यासो मध्यमायाः सप्तकृत्वोऽभ्यास उत्तमायाः सकृत्पाठः। द्वितीयपर्याये प्रथमायाः सकृत्पाठो मध्यमायाविरभ्यास उत्तमायाः सप्तक त्वोऽभ्यासः। तृतीयपर्याये प्रथमायाः सप्तकृत्वोऽभ्यासो मध्यमायाः सक पाठ उत्तमायात्रिरभ्यासः। एवं त्रयस्त्रिंशस्तोमनिष्पत्तिरिति । रेवतीन: सधमादे, इत्यस्यासच्युत्पनं साम रैवतम् । गायत्र्यादिभ्यश्छन्दोभ्योऽक्षरैरषि कत्वादतिच्छन्दा इति कस्यचिच्छन्दसो नामधेयम् । अन्यत्पूर्ववयाख्येयम् ।
• सप्तमः खण्डः] ऐतरेयबामणम् । अत्र शस्त्रगतमबलिङ्गानि दर्शयति
यदै समानोद तत्षष्ठस्याह्रो रूपं यद्ध्येव तृतीयमहस्तदेतत्पुनर्यषष्ठं यदश्ववद्यदन्तव यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्त वद्यत्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरु
च्यते यदसौ लोकोऽभ्युदितः, इति । समानोदर्क तुल्यसमाप्तिकं यदस्ति तत्पष्ठस्याह्नो रूपम् । यद्ध्येव यदप्यन्य त्पूर्वत्र प्रयमे व्यहे तृतीयमहरस्ति तदेतत्पुनरत्रानुसंधेयम् । यदिदानी षष्ठमहः अस्तूयते तदेव भवति पूर्वस्मिंस्तृतीयेऽहनि यद्यल्लिङ्गमुक्तं तत्षष्ठेऽपि द्रष्टव्य मित्यर्थः । यदश्ववदिलादिना यदसौ लोकोऽभ्युदित इत्यन्तेन तान्पेव निहानि दर्शितानि ।
अथ विशेषलिकानि दर्शयति
यत्पारच्छेपं यत्सप्तपदं यनाराशंसं यवाभाने दिष्ठं यदैवतं यदतिच्छन्दा यत्कृतं यत्तृतीय
स्याह्नो रूपमेतानि वैषष्ठस्याह्रो रूपाणि, इति । परच्छेपेन दृष्टं पारुच्छेपम् । सप्तभिः पादैरूपेतं सप्तपदम् । नराशंसाख्य मनसंबन्धि नाराशंसम् । नाभानेदिष्ठेन दृष्टं नाभानेदिष्ठम् । रैवतसामसंबन्धि रैवतम् । सप्तभ्यश्छन्दोभ्योऽधिकाक्षरत्वादतिच्छन्दाः । भूतार्थवाचिप्रत्यययुक्तं धातुमात्रं कृतं तदप्युक्तमनुक्तं वा तृतीयस्याहो निरूपकम् । एतानि सर्वाणि पशुस्याहो निरूपकाणि वेदितव्यानि ।
अयाऽऽज्यशत्रं विधत्ते
अयं जायत मनुषो धरीमणीति षष्ठ स्याह्न आज्यं भवति पारुच्छेपमतिच्छन्दाः
सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपम् , इति । परुच्छेपेन दृष्टत्वमेकं लिङ्गम् । अतिच्छन्दस्त्वं द्वितीयं सप्तपादोपेतत्वं तृती. यम् । एतेन लित्रयेण षष्ठस्याहो निरूपकम् ।
____ अयं जायत मनुषो धरीमणि०-१-१२८-१ ।
१ क. ख. ट. प्रसूयते।
५८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२२द्वाविंशाध्याये
अथ प्रउगशखं विधत्ते
स्तीर्ण बर्हिरुप नो याहि वीतय आ वां रथो नियुत्वान्वक्षदवसे सुषुमायातमद्रिभिर्युवां स्तो मेभिर्देवयन्तो अश्विनाऽवर्मह इन्द्र वृषनि न्द्रास्तु श्रौषळोषूणो अग्ने शृणुहि खमीळितो ये देवासो दिव्येकादशस्थेयमददाभसमृण च्युतमिति प्रउगं पारुच्छेपमतिच्छन्दाः
सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । स्वीर्ण बहिरित्याधस्च आ वां रथ इति द्वितीयः सुषुमायातमिति तृतीयो युवां स्तोमेभिरिति चतुर्थोऽवमह इति द्वे ऋचौ वृषभिन्द्रत्येकोभाभ्यां पक्षम स्य॒चः । अस्तु औषळित्येका । ओषूण इत्येका । ये देवास इत्येका । एव. त्रितयं षष्ठः । इयमददादिति सप्तमः । इत्येतत्सर्वं प्रउमशस्त्रं कुर्यात् । लिङ्गानि पूर्ववत् ।
शस्त्रान्तरस्य प्रतिपदं यचं विधत्ते
स पूर्णे महानामिति मरुत्वतीयस्य प्रतिपदन्तो वै महदन्तः षष्ठमहः
षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । अत्र महानामिति महच्छन्दः पादस्यान्ते दृश्यते । षष्ठं चाहः पृष्ठयाख्यस्य षडहस्यान्तो भवति । तस्मादन्तत्वलिङ्गेन षष्ठेऽहनि योग्यम् । यद्वा महतोड़ प्यधिकस्यान्यस्याभावान्महदन्त इत्यन्तवत्वं व्याख्येयम् ।
स्तीर्ण बहिरुप नो याहि०-१-१३५-१ आवां रथो नियुत्वा०-१-१३५ . ४ । सुषुमायातमद्रिभिः०-१-१३७-१। युवां स्तोमेभिर्देवयन्तो०-१-१३९
३ । अवर्मह इन्द्र०-१-३३-६ । वृषन्निन्द्र वृषणा०-१-१३९-६ । अस्तु श्रौषट्पुरो अग्निं०-१-१३९-१। ओषूणो अग्ने०-१-१३९-७ । ये देवासो
दिव्येकादशस्थ०-१-१४०-११ । इयमददाद्रमसं०-६-११-१ । स पूर्यो ’ महानां०-८-६३-१।
Digitized by Google
७ सप्तमः खण्डः] ऐतरेयबामणम् ।
तृतीयेनाहा सह समानशस्त्रकृप्तियुक्तं मन्त्रजातं दर्शयति
त्रय इन्द्रस्य सोमा इन्द्र नेदीय एदिहि प्र नूनं ब्रह्मणस्पतिरनिनेता वं सोम क्रतुभिः पिन्व न्यपो नकिः सुदासो स्थमिति तृतीयेनाहा
समान आतानः षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । परच्छेपेन दृष्टं सूक्तं दर्शयति
यं त्वं स्थमिन्द्र मेघसातय इति सूक्तं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठेऽ
हनि षष्ठस्याहनी रूपम्, इति । तुल्यावसानत्वलिझोपेतं सूक्तं दर्शयति
स यो वृषा वृष्ण्येभिः समोका इति सूक्तं
समानोद षष्ठेऽहनि षष्ठस्याह्नो रूपम् , इति । मरुत्वानो भवत्वित्यस्य चतुर्थपादस्य सर्वास्थक्षु विद्यमानत्वात्समानोद कत्वम् ।
चात्मकं सूक्तान्तरं विधत्ते
इन्द्र मरुत्व इह पाहि सोममिति सूक्तं तेभिः साकं पिबतु वखाद इत्यन्तो वै खादोऽन्तः
पष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । अस्मिन्सूक्ते तेभिः साकमित्यादिस्तृतीयस्याचि तृतीयः पादः । तत्र हुत्र खादति भक्षयतीति वृत्रखादस्तेन भक्षणेन वृत्रस्यावसानं मरणं संपद्यते । तस्मात्खादो तस्यान्तः । षष्ठस्यान्तत्वं पूर्वमेवोक्तमतोऽन्तवचलिङ्गम् । यद्य पीदं सूक्तं न भवति तथाऽपि सूक्तस्थानापनत्वात्सूक्तमित्युक्तम् ।
प्रय इन्द्रस्य सोमाः०-८-२-७ । ‘प्र नूनं ब्रह्मणस्पतिः०-१-१०-५॥ अमिर्नेता भग इव०-३-२०-४ । त्वं सोम ऋतुमिः०-१-९१-२ । पिन्व न्त्यपो मरुतः०-१-१४-१ । नकिः सुदासो रयं०-७-३२-१ । यं त्वं रथः । मिन्द्र मेघसातये०-१-१२९-१ । स यो वृषा वृष्ण्यमिः०-१-१००-१। '
इन्द्र मरुत्व इह पाहि०-३-११-७।
… .
. .
.
.
–
..-.
५४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२२द्वाविंशाध्याये
सूक्तगतं छन्दः प्रशंसति
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं
दाधाराऽऽयतनादेवैतेन न प्रच्यवते, इति । पूर्ववयाख्येयम्। शस्त्रस्यान्तिमं च विषचे
अयं ह येन वा इदमिति पर्यासः स्वर्मरु खता जितमित्यन्तो वै जितमन्तः षष्ठ
महः षष्ठेऽहनि षष्ठस्याह्नो रूपम् , इति । स्वर्मरुत्वता जितमिति द्वितीयः पादस्तत्र भूतार्थवाचिक्तमत्ययान्तो यज (जयोतिधातुरेकं लिङ्गम् । किंच जयस्य युद्धावसानत्वाज्जितमिति शब्दोऽन्त. प्रतिपादकस्तदेतदन्तवत्त्वमपरं लिाम् ।
तत्रावस्थितच्छन्दःमशंसाद्वारा निविद्धानं विधत्ते
ता उ गायत्र्यो गायत्र्यो वा एतस्य व्यहस्य मध्यंदिनं वहन्ति तद्वतच्छन्दो वहति यस्मिनि
विडीयते तस्मादायत्रीषु निविदं दधाति, इति । पूर्ववव्याख्येयम् ।
रैवतसामसाध्यपृष्ठस्तोत्रस्याऽऽधारभूतं स्तोत्रियं त्र्यचमनुरूपं चं च विधत्ते
खतीनः सधमादे खाँ इद्रेवतः स्तो तेति रैवतं पृष्ठं भवति बार्हतेऽहनि
षष्ठेऽहनि षष्ठस्याह्नो रूपम् , इति । रेवतीनः सधमाद इति स्तोत्रियब्यूचो रेवानित्यनुरूपः । रैवतं साम वृह हत्सान्न उत्पममहश्च युग्मत्वाद्वाहतम् । सोऽयं बृहत्संबन्धो भवति लिङ्गम् ।
अयं ह येन वा इदं०-८-७६-४ । रेवतीर्नः सधमादे०-१-३०-१२ । रेवा इद्रेवतः स्तोता०-८-२-१३ ।
24.2014
१क, ख. श. ट. “स्थितं छन्दः ।८ अष्टमः खण्डः] . ऐतरेयबामणम् ।
अच्युतत्वलिझोपेतामृचं विधत्ते
यद्दावानेति धाय्याऽच्युता, इति । वो धाय्यामनु बृहत्सानो योनिभूतं प्रगाथं विधत्ते
वामिद्धि हवामह इति बृहतो योनिमनु
निवर्तयति बार्हतं ह्येतदहरायतनेन , इति । अहो बाईवत्वं पूर्वमेवोक्तं तदेवात्र बृहत्सामसंबन्धरूपं लिङ्गम् । रैवतसामसंबन्धिनं सामप्रगाथं विधत्ते
इन्द्रमिद्देवतातय इति सामप्रगाथो निन
त्तवान्पष्ठेऽहनि षष्टस्याह्नो रूपम् , इति । अस्य प्रगाथस्य सर्वेष्वपि पादेविन्द्रशब्दासत्तेस्तालध्वनिसहशत्वामिन चवल्लिनम्।
अच्युतत्वलिङ्गक सूक्तविशेष विषते
यमू षु वाजिनं देवजूतमिति
तायोऽच्युतः ॥ १२॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण __ भाष्ये द्वाविंशाध्याये सप्तमः खण्डः ॥७॥ (१२) [ १६५ ]
पारुच्छेपत्वादिलिङ्गत्रयोपेतं सूक्तं विधत्ते
एन्द्र याद्युप नः परावत इति सूक्तं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठेड
हनि षष्ठस्याह्नो रूपम् , इति । तुल्यसमाप्तिकत्वलिङ्गोपेतं सूक्तं विधत्ते
प्रघा न्वस्य महतो महानीति सूक्तं समा
नोद षष्ठेऽहनि षष्ठस्याह्नो रूपम् , इति । __ यद्वावान पुरुतमं०-१०-७४-६ । त्वामिद्धि हवामहे०-१-४१-१ इन्द्र मिद्देवतातये०-८-१-१ । त्यमू षु वाजिनं०-१०-१७८-१ । एन्द्र यायुप नः
परावतः०-१-१३०-१। प्रघा न्वस्य महतो महानि०-२-१५-१।
५९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२२द्वाविंशाध्याये
सोमस्य ता मद इन्द्रश्चकारेत्यस्य चतुर्थपादस्य बहुष्चक्षु विद्यमानत्वा समानोदर्कत्वम् ।
तिष्ठतिधातुरूपलियुक्तं सूक्तं विधत्ते
अभूरेको रयिपते रयीणामिति सूकं रथमा तिष्ठ तुविनृम्ण भीममित्यन्तो वै स्थितमन्तः
षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपम् , इति । अभूरेक इत्यस्य सूक्तस्य पञ्चम्याचि रथमा तिष्ठेति द्वितीयः पादस्वत्र स्थितशब्दार्थवाची. तिष्ठतिधातुर्विद्यते । स च गतिनिवृत्तिरूपत्वादन्तो भवति
षष्ठस्याहोऽन्तत्वं पूर्वमुक्तम् । अतोऽन्तवत्वं लिङ्गम् ।
तत्रत्यं छन्दः प्रशंसति
. तदु त्रैटुभं तेन प्रतिष्ठितपदेन सवनं
दाधाराऽऽयतनादेवैतेन न प्रच्यवते, इति । पूर्ववद्याख्येयम् । निष्केवल्यस्य शस्त्रस्यान्तिमं त्र्यचं विधत्ते
उप नो हरिभिः सुतमिति पर्यासः समा
नोदकः षष्ठेऽहनि षष्ठस्याह्नो रूपम् , इति । तिसृष्वप्यृथप नो हरिभिरिति पादस्यैकत्वात्समानोदर्कत्वम् । तत्र निविद्धानं विधत्ते
ता उगायच्यो गायत्र्यो वा एतस्य व्यहस्य मध्यंदिन वहन्ति तद्वतच्छन्दो वहति यस्मिन्नि विडीयते तस्मादायत्रीषु निविदं दधाति, इति । पूर्ववद्याख्येयम् । शस्त्रान्तरस्य प्रतिपदेकामृचं विधत्ते
अभि यं देवं सवितारमोण्योरिति वैश्वदेवस्य अभूरेको रयिपते०-६-३१-१ । उपनो हरिभिः सुतं०-८-७३-१ ।
Tik
126111115
१क. स. स.ट, कं वि।
८ अष्टमः खण्डः] . ऐतरेयब्रामणम् ।
प्रतिपदतिच्छन्दाः षष्ठेऽहनि षष्ठस्याह्नो रूपम् , इति । अतिच्छन्दस्त्वमत्र लिम् । भतिपच्छेषमृद्वयमनुचरव्यूचं च विधत्ते
तत्सवितुर्वरेण्यं दोषो आगादित्यनुचरोऽन्तो वै गत. मन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । तत्सवितुरिति द्वे ऋचौ प्रतिपच्छेषभूते । दोषो आगादित्येष सूत्रे पठित ज्यूचोऽनुचरः । अत्र भूतार्थवाची गमिधातुर्योऽस्ति तस्यार्थ आगादिति शब्दे नोच्यते । भूतार्थवाचित्वाद्गतं गमनसमाप्तिरन्तो भवति । तदेतदन्तवत्वं लियम् । यस्मादत्र सूत्रकारोऽभि त्यमित्येकामृचं तत्सवितुरिति दे ऋचौ मिलित्वा मतिपञ्चत्वेनोक्त्वा दोषो आगादित्यादिकत्यूचोऽनुचर इत्युक्त बांस्तस्मादस्माभिस्तत्सवितुरिति वाक्यं पूर्वशेषत्वेन विच्छेदनीयम् । '
सवितृदेवताकं सूक्तं विधत्ते
उदुष्य देवः सविता सवायेति सावित्रं शश्व त्तमं तदपा वह्निरस्थादित्यन्तो वै स्थितमन्तः
षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । शश्चत्तममित्यादिवितीयः पादस्तस्मिन्नस्थादिति भूतार्थवाचिप्रत्ययान्त स्तिष्ठतिधातुः श्रुतः। तच स्थितत्वं गमनस्यान्तस्तदिदमन्तवत्वं लिङ्गम् ।
तुल्यसमाप्तिलिङ्गक सूक्तं विधत्ते
कतरा पूर्वा कतराऽपराऽयोरिति द्यावाथिवीयं
समानोद षष्ठेऽहनि षष्ठस्याह्नो रूपम् , इति । द्वितीयस्या ऋचश्चतुर्थे पादे चावा रक्षतं पृथिवी इत्युक्तत्वादिदं सूक्तं धावापृथिवीयम् । तत्र द्यावा रक्षतमिति पादस्य बहुषु ऋक्षु विद्यमानत्वा
समानोदर्कत्वम् ।
ऋभुदेवताकं सूक्तद्वयं विधत्ते किमु श्रेष्ठः किं यविष्ठो न आजगन्नुप नो वाजा अध्वर तत्सवितुर्वरेण्यं०-३-१२-१०। उनुष्य देवः सविता सवाय०-२-३८-१। कतरा पूर्वा कतराऽपराऽयोः०-१-१८५-१ । किमु श्रेष्ठः किं यविष्ठो०-१ १६१-१ । उप नो वाजा अध्वरं०-४-३७-१।
+-+11111++:
५९२ श्रीमत्सायणाचार्यविरचिवभाष्यसमेतम्-[२२द्वाविंशाध्याये–
मृभुक्षा इत्यार्भवं नाराशंसं त्रिव
षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । किमु श्रेष्ठ इत्यस्मिन्सूक्ते त्रयोदशः शंसनीयाः। तत्र चतुर्थ्या ऋचः प्रथमपादे चकुवांस ऋभव इति श्रुतत्वादिदमार्भवम् । उप न इति सूक्त चतस्रः । तत्र प्रथमपाद ऋभुक्षा इति श्रुतत्वाचदप्यार्भवम् । ऋभवो हि नरा मनुष्या अत एव मनुष्यानन्तः प्रवेशयितुमसहमाना अग्निवस्वादयः सोमपा नवेलायामृभूनिःसारितवन्तः । एतच्चाऽऽर्भवं शंसयभवो वै देवेष्वित्यादा वुपाख्याने तुल्यमवगम्यते । ते च नरा ऋभवः शस्यन्ते कथ्यन्ते यस्मिन्सूक्ते तबाराशंसं तदेकं लिङ्गम् । तथैवोप नो वाजा इति सूक्तस्य तृतीयायामूचि त्र्युदयमिति त्रिशब्दः श्रुतस्तदेतत्रित्वं द्वितीयं लिङ्गम् ।
अथ बहुदेवताकं सूक्तं विधचे
इदमित्था रौद्रं गूर्तवचा ये यज्ञेन दक्षि
णया समक्ता इति वैश्वदेवम् ॥ १३ ॥ इति । इदमित्येत्येकं सूक्तं ये यझेनेत्यपरम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा. मणभाष्ये द्वाविंशाध्यायेऽष्टमः खण्डः ॥ ८॥ (१३) [१६६]
. . .
. .
.
. . . .
.
. . …….
-
- .
. . . .
. . . . . . … ..–… - … . ..
– … …
….. …..
…
–
.
.
.
.
. . .- … …….
… …. ..
पूर्वोक्ते सूक्तद्वये लिङ्ग दर्शयति
नाभानेदिष्ठं शंसति, इति । नाभानेदिष्ठाख्यः कश्चिन्महपिस्तेन दृष्टं पूर्वोक्तं सूक्तद्वयं नाभानेदिष्ट तच्छंसेत् । अयं महर्षिसंबन्ध एवात्र लिङ्गम् ।
तदेतत्सूक्तद्वयं प्रशंसितुमुपाख्यानमाह- .
नाभानेदिष्ठं वै मानवं ब्रह्मचर्य वसन्तं भ्रातरो निरभजन्सोऽब्रवीदेय किं मह्यमभाक्तयेत मेव निष्ठावमववदितारमित्यब्रुवंस्तस्माद्धाप्येतर्हि
पितरं पुत्रा निष्ठावोऽववदितेत्येवाऽऽचक्षते, इति । इदमित्या रौद्रं०-१०-१६१-१ । ये यज्ञेन दक्षिणया-१०-६२-१ ।
.
… … ….
… ..
. .
..
५९३
९ नवमः खण्डः] ऐतरेयब्राह्मणम् ।
मनोः पुत्रो नाभानेदिष्ठो नाम बालको गुरुगृहे ब्रह्मचर्य वसत्युपनीतः सन्वेदमध्येतुं तत्र तिष्ठति । तदानीं तस्य ज्येष्ठभ्रातरो मनोः पितुर्धनं वार्य विभजन्तस्तं वालकं निरभजन्मागरहितमकुर्वन् । बालोऽयं ब्रह्मचारी वेदमे पाभ्यस्यतु किं तस्य धनेनेति मत्वा भागं न दत्तवन्तः । तदानीं स नाभाने दिष्ट एत्य वेदाभ्यासं कृत्वा समागत्य भ्रातृनिदमब्रवीत् । हे भ्रातरो मचं किमभाक्त किं नाम वस्तु भागत्वेन यूयं पृथक्त्वेन कृतवन्त इति । ते च भ्रातर एतमेव मनुं पितरं हस्तेन प्रदर्य हे नाभानेदिष्ठ वयं नो जानीमस्तमेव पृच्छेत्यब्रुवन् । कीदृशं मनुम् । निष्ठावम् । धनविभागादेधेमेरहस्य(स्यस्य) निःशे. षेण स्थितिनिर्णयो निष्ठा सा यस्मिन्नस्ति स निष्ठावः । तादृशं धर्मरहस्यनि मेंतारमित्यर्थः । अववदितारम् । ज्येष्ठपुत्रस्यैतावत्, द्वितीयस्यैतावत्, अन्यस्यैः तावत, इत्यवच्छिय वे(व)दितुं समर्थोऽववदिता तादृशम् । अयमर्थः । अयं मनुर्धर्मशास्त्रकर्तृत्वाद्धर्मरहस्यनिर्णयवान्पितृत्वेन तवैतावदित्यवच्छिद्य वक्तुं समर्थश्च । तस्मान्मदीयो भागः क इति मनुमेव पृच्छेत्यब्रुवन् । यस्मादस्य भ्रातर एवमुक्तवन्तस्तस्मादिदानीमपि पितरं पुत्रा इत्यनेन प्रकारेणाऽऽचक्षते । केन प्रकारेणेति सोऽभिधीयते । अयं पिता निष्ठावो निर्णयवानस्यैतावदि त्सवच्छिद्य वदिता चेति ।
वत ऊर्ध्व नामानेदिष्ठस्य कृत्यं दर्शयति
स पितरमेत्याब्रवीत्त्वां ह वाव मह्यं त(ता)ता भाधुरिति तं पिताऽब्रवीन्मा पुत्रक तदाथा अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते ते षष्ठं षष्टमेवाहरांगय मुह्यन्ति तानेते सूक्ते षष्ठेऽहनि शंसय तेषां यत्सहस्रं सत्रपरिखे
षणं तत्ते स्वर्यन्तो दास्यन्तीति तथेति, इति । स नाभानेदिष्ठो भ्रातृभिस्तथोक्तः सन्पितरं प्रत्यागत्येदमब्रवीत् । हे पित मेवं त्वा(त्वां)ह वाव त्वामेव भ्रातरः सर्वेऽप्यमाक्षुर्भागमकार्पुरतो मदीयो भाग स्त्वय्यस्ति तं मे देहीत्यभिप्रायः । ततस्तं नाभानेदिष्ठं पिता मनुरेवमब्रवीत् । हे पुत्रक बालक भ्रातूणां वचनं माऽऽथास्तस्मिन्वचन आदरं मा कार्षीः । नास्त्येव मद्धस्ते त्वदीयो भागः सर्वमपि धनं त्वदातृभिहीतम् । तव तु धन-… माप्त्यर्थमेकमुपायं कथयिष्यामि । अनिरोनामका महर्षय इमे समीपदेशव
।
७५
५९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२२द्वाविंशाध्याये तिनः स्वर्गार्य सत्रमनुतिष्ठन्ति ते पुनः पुनः सत्रमुपक्रम्य तदा तदा भात तत्तषष्ठमेवाहरागत्य तत्र तत्र मत्रबाहुल्ये मुखन्ति भ्रान्ताः सन्तः सत्रसमाति ममाप्य सर्वदा क्लिश्यन्ति । तान्महर्षीन्पष्ठेऽहनि त्वं गत्वेदमित्येति ये योनेति चैते उभे सूक्ते शंसय । ततस्तेषामृषीणां यत्सहस्रसंख्याकं धनं सत्रपरिवे. पणं सत्रार्थ परिवः संपादितमस्ति तत्सर्वमनुष्ठानादूर्ध्वमवशिष्टं धनं से तुभ्य. मदिरसो महर्षयः स्वर्ग प्रामुवन्तो दास्यन्तीति । तयाऽस्त्विति तस्पितृवचनं नाभानेदिष्ठोजी चकार।
श्रीकारादूर्ध्व किं कृतवानिलाशय तत्वृत्तान्तं दर्शयति
तानुत्पतिगृभ्णीत मानवं सुमेधस इति तमब्रुवन्किकामो, बदसीतीदमेव वः षष्ठ. महः प्रज्ञापयानीत्यब्रवीदथ यह एतत्सहस्रं सत्रपरिवेषणं तन्मे स्वर्यन्तो दत्तेति तथेति तानेते सूक्ते षष्ठेऽहन्यशंसयत्ततो
वै ते प्र यज्ञमजानन्प्र स्वर्ग लोकम् , इति । तानबिरसो महर्षीनुपैव, नाभानेदिष्ठः समीपं प्राप्तवान् । प्राप्य च प्रति गृभ्णीतेत्यादिमत्रपादेनैव महर्षीणामग्रे किंचिद्वचनमुक्तवान् । तस्य पादस्या यमर्थः। हे सुमेधसः शोभनमेधायुक्ता अनिरसो मानवं मनोः पुत्रं नाभाने दिष्ठाख्यं मां प्रतिगृभ्णीत यूयं स्वीकुरुतेति । तथा वदन्तं नाभानेदिष्ठं प्रति मुनय इदमब्रुवन् । हे नाभानेदिष्ठ किंकामः कीदृगपेक्षायुक्तः समस्मान्मत्येवं बदसीति । ततः स नाभानेदिष्ठोऽब्रवीत् । हे महर्षयो वो युष्माकमिदमेव षष्ठमहः प्रज्ञापयानि प्रकर्षण बोधयामीति । अथ बोधनानन्तरं सत्रपरिवेषणं भवद्भिः सधार्थे संपादितमनुष्ठानादूर्ध्वमवशिष्टं यदेतत्सहस्रसंख्याकं धनमस्ति तत्सर्व यूयं मे माझं स्वर्ग प्रति गच्छन्तो दत्तेति । तथेति मुनिभिरकीकृते सति तान्मुनीनेते उभे सूक्के षष्ठेऽहन्यशंसयत् । तत एव ते पुनयो यकं प्रकर्षेणा जानसातवन्तः । तदनुष्ठानेन स्वर्ग लोकमपि प्राजानन् ।
सूकद्वयं प्रशस्य तविधि निगमयति
तघदेते सूक्ते षष्ठेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै, इति ।
५९५
९ नवमः खण्डः] ऐतरेयब्रामणम् ।
यस्मात्सूक्तद्वयशंसनेनाङ्गिरोभिर्यज्ञः स्वर्गश्च प्रभातस्तस्मादोता तदुभयं शंसेत् । तच्च यज्ञस्वर्गयोरवगमाय भवति । पुनरपि सूक्तयोर्महिमानं दर्शयितुमुपाख्यानमेवाऽऽह
तं स्वर्यन्तोऽब्रुवनेतत्ते ब्राह्मण सहस्रमिति तदनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदं मम वै वास्तुह मिति सोऽब्रवीन्मह्यं वा इदमदुरिति तमब्रवी त्तदै नौ तवैव पितरि प्रश्न इति स पितरमैत्तं पिताऽब्रवीबनु ते पुत्रकादूरित्यदुरेव म इत्य. ब्रवीत्तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोद तिष्ठन्मम वा इदं मम वै वास्तुहमित्यादितेति तं पिताऽब्रवीत्तस्यैव पुत्रक तत्तत्तु स तुभ्यं दास्यतीति स पुनरेत्याब्रवीत्तव ह वाव किल भगव इदमिति मे पिताऽऽहेति सोऽब्रवीत्तदहं
तुभ्यमेव ददामि य एव सत्यमवादीरिति, इति । तं नामानेदिष्ठ स्वर्यन्तः स्वर्ग प्रामुवन्तोऽकिरसोऽब्रुवन् । हे ब्रामण नामा दिष्ठतद्वोसहस्रं यज्ञभूमाववशिष्टं ते तुभ्यं दत्तमिति शेषः । अत्र शाखान्तरा नुसारेण गोसहस्रमित्यर्थो लभ्यते । शाखान्तरे चैवमानायते-‘ते सुवर्ग लोकं यन्तो य एषां पशव आसंस्तानस्मा अददुः’ इति । तद्गोसहवं समाकुर्वाणं सम्यगात्मसात्कुर्वन्तमेनं नाभानेदिष्ठं कश्चित्पुरुषो याभूमेरुत्तरत उपोत्याय समीप एवोत्थितो भूत्वेदमब्रवीत् । कीदृशः पुरुषः। कृष्णशवासी, अतिशयेन कृष्णं मलिनं वस्त्रं कृष्णशं तद्वस्त आच्छादयतीति कृष्णशवासी । अत्रायं मलि. नवस्त्रः पुरुषः पशुस्वामी रुद्र इत्यवगन्तव्यम् । तथा च शाखान्तरे पव्यते ‘तं पशुभिश्चरन्तं यज्ञवास्तौ रुद्र आगच्छत्’ इति । स रुद्रः किमब्रवीदिति तद भिधीयते । हे नाभानेदिष्ठेदं पशुसहस्रं ममैव स्वम् । तत्रेयमुपपत्तिः। वास्तुह वास्तु(स्तौ)यभूमौ हीनं कर्मान्ते परित्यक्तं वास्तुहं ताशे सर्व ममैव स्वमिति सर्वत्र संप्रतिपत्रमिति । एवं पुरुषेणोक्तः स नाभानेदिष्ठः पुनरेनमब्रवीत् । हे रुद्र मखमेवेदं सहस्रमबिरसो दत्तवन्त इति । तं तथा वदन्तं नाभानेदिष्ठं पुन:
५९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२२द्वाविंशाध्याये पुरुषोऽब्रवीत् । हे नाभानेदिष्ठ तदै तस्मिन्नेव त्वदीयं मदीयमिति संदेहे सति नावावयोरुभयोरपि तवैव पितरि मनौ निर्णयार्थ प्रश्नोऽस्त्विति । ततः स नाभानेदिष्ठः पितरं प्रष्टुमैत, आगतवान् । स पिता तेन पृष्टस्तमब्रवीत् । हे पुत्रक बालक तुभ्यमशिरसो महर्षयोऽदुर्ननु दत्तवन्तः किम् । लुतिः प्रश्नार्था । एवं पित्रा पृष्टः स नाभानेदिष्ठो मे महमदुरेव दत्तवन्त एवेत्य ब्रवीत् । तर्हि कस्तव विचार इत्याशक्तेि स नाभानेदिष्ठ एवमुवाच । ते मह र्षयो दत्तवन्त एव किं तु तद्गोसहस्रं कश्चित्पुरुषो मलिनवस्त्रः सन्यज्ञभूमेरुत्तरत उत्थायेदं गोसहस्रं ममैव स्वं यज्ञवास्तौ हीनत्वादित्यभिधायाऽऽदिताऽऽदानं कृतवानपहृतवानित्यर्थः । तथा ब्रुवन्तं पुत्रं प्रति पिताऽब्रवीत् । हे पुत्रक शिशो तयज्ञवास्तौ हीनं गोसहस्रं तस्यैव रुद्रस्य स्वं पशुपतित्वाधज्ञावशिष्ट स्वामित्वाच्च । किंतु तथा सत्यपि तव हानिर्नास्ति । स रुद्रस्तद्गोसहस्रं तुभ्यं दास्यतीति । यज्ञकाले तत्सर्वमगिरसां धनं भवति समासे तु यज्ञे यदवशिष्टं तस्य रुद्र एव स्वामीति नाङ्गिरसां दातुमधिकारोऽस्तीत्यभिप्रायः । तथा रुद्र वचनं शाखान्तर एवमानायते-‘न वै तस्य तदीशत इत्यब्रवीद्यज्ञवास्तो हीयते मम वै तत्’ इति। ततो दास्यतीति वचनं श्रुत्वा स नाभानेदिष्ठः पुनरपि रुद्रस्य समीपमेत्येदमब्रवीत् । हे भगवन्पूज्य रुद्र तव ह वाव किल तवैव सर्व मिदं स्वमिति मदीयः पिता पाहेति । ततः स रुद्रोऽब्रवीत् । हे नामानेदिष्ट तत्सर्व तुभ्यमेव ददामि यस्त्वं सत्यमेवावादीन त्वनृतमुक्तवानसि तस्मात्परि तोषात्सत्यवादिने तुभ्यमेव ददामीति ।।
इत्यमुपाखयानं परिसमाप्य प्रसङ्गात्पुरुषार्थत्वेन सत्यवदनं विषचे
तस्मादेवंविदुषा सत्यमेव वदितव्यम् , इति । एवं विदुषा सत्यस्य श्रेयोहेतुत्वं जामता । उपाख्यानस्य सर्वस्य तात्पर्य दर्शयति–
स एष सहस्रसनिमन्त्री यन्नाभानेदिष्ठः, इति । मामानेदिष्ठेन महर्षिणा दृष्टो यो मन्त्रसमूहः स एष सहस्रसनिः सहस्रसं ख्याकस्य वस्तुनः सनिलाभो यस्मिन्मने सोऽयं सहस्रसनिः।
बेदनं प्रशंसति
उपैनं सहस्रं नमति प्र षष्ठेनाहा स्वर्ग लोके जानाति य एवं वेद ॥ १४ ॥ इति ।
1601111447
-.
-.–
….-…-
…………
– ..
–
..
.-
१० दशमः खण्डः] ऐतरेयबामणम् ।
५९७ एनं वेदितारं सहस्रसंख्याकं धनमुपनमति पामोति । स च कालान्तरे पष्टमहरनुष्ठाय तेन स्वर्ग लोकं प्रजानाति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम
भाष्ये द्वाविंशाध्याये नवमः खण्डः ॥९॥ (१४)[ १६७]
अथ नाभानेदिष्ठीयेन सूक्तद्वयेन सह पठितव्यानि मत्रान्तराणि विषते
तान्येतानि सहचराणीयाचक्षते नाभा नेदिष्ठं वालखिल्या वृषाकपिमेवया
मरुतं तानि सहैव शंसेव , इति । तान्येतानि वक्ष्यमाणानि चतुर्विधमत्रजातानि सहचराणि प्रयोगकाले सहैव वर्तन्त इत्येवं यानिका आचक्षते । तत्र नाभानेदिष्ठं सूक्तद्वयं यदस्ति, वाल खिल्यैर्महषिभिदृष्टा अभि प्र वः सुराधसमित्याद्या वालखिल्यनामका मवा ये सन्ति, वृषाकपिना महर्षिणा दृष्टं वि हि सोतोरसृक्षतेति सूक्तं यदस्ति, एव यामरुनान्ना महर्षिणा दृष्टं प्र वो महे मतयो यन्तु विष्णव इति सूक्तं यदस्ति, तानि चत्वारि सहैव शंसेत् ।।
सहशंसनाभावे बाधं दर्शयति
यदेषामन्तरियात्तयजमानस्यान्तरियाव , इति । यदि कथंचिदेषां चतुर्णा मध्य एकमप्यन्तरियादन्तरितं लुप्तं कुर्यात्तदानी यजमानस्य संबन्धि श्रेयोऽन्तरियाद्विनाशयेत् ।।
सामान्याकारेण बाधमुक्त्वा पुर्नावशेषाकारेण बाधं दर्शयति
यदि नाभानेदिषं रेतोऽस्यान्तरियाद्यदि वाल खिल्याः प्राणानस्यान्तरियाद्यदि वृषाक पिमात्मानमस्यान्तरियाद्यद्यवयामरुतं प्रति
पाया एनं च्यावयेहैव्यै च मानुष्य च, इति । यद्ययं होता नामानेदिष्ठमवान्विलोपयेत्तदानीमस्य यजमानस्य पुत्राघुत्पा दकं रेतो विलोपयेत् । वालखिल्यानामन्तराये यजमानस्य प्राणविच्छेदः।
अभि प्र वः सुराधसं०-८-१९-१ । विहि सोतोरसृक्षत०-१०-८१-१। प्र वो मतयो यन्तु०५-८५-१।
1.11111
५९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२२द्वाविंशाध्याये वृषाकपिसूक्तस्यान्तराये यजमानस्याऽऽत्मानं मध्यदेहं विच्छिन्यात् । एक्या मरुतस्यान्तराये यजमानं दैव्या मानुष्याश्च प्रतिष्ठायाः प्रच्यावयेत् । अविनेन कर्मसमासिदैवी प्रतिष्ठा । तत्साधनभूतधनादिसंपत्तिर्मानुषी प्रतिष्ठा ।
अन्तराये षाधमुक्त्वा तदनुष्ठाने लाभं दर्शयति
नाभानेदिष्ठेनैव रेतोऽसिञ्चत्तहालखिल्याभि
यंकरोत्सुकीर्तिना काक्षीवतेन योनि व्यहा पयदुरौ यथा तव शर्मन्मदेमेति तस्माज्ज्या यान्सन्गर्भः कनीयासं सन्तं योनि न हिनस्ति ब्रह्मणा हि स क्लप्त एक्यामरुतैतवै करोति
तेनेदं सर्वमेतवै कृतमेति यदिदं किंच, इति । अत्र मवसमूहायजमानस्य नूतनं जन्म वर्ण्यते । यद्वा पुत्रोत्पादनं वर्ण्यते । यमाभानेदिष्ठं सूक्तद्वयमस्ति तेनैव होता रेतः सिक्तवान्भवति । यास्तु वाल खिल्या ऋचस्ताभिस्तद्रेतो व्यकरोत, विकृतं गर्भाकारमकरोत् । कक्षीवानित्य भिहितः कश्विदृषिस्तस्य पुत्रः सुकीर्तिनामकस्तेन दृष्टमप पाच इन्द्रेति सूक्तमपि तनामकं तच वृषाकपिसूक्तात्मागेव समीपे शंसनीयम् । तेन सुकीर्तिना होता योनि व्यहापयत्, गर्भनिर्गमाय विवृतमकरोत् । अत एव तस्या ऋचश्चतुर्थपाद उरौ यथेत्यादिरानायते । तस्यायमर्थः । हे, इन्द्र यथा जन उरौ विस्तीर्णे शर्मशमणि सुखहेतौ रहे विलम्भेण तिष्ठति । तथा तव प्रसादाद्वयं विस्तीर्णे योनिप्रदेशे मदेम संकोचाभावेन हृष्टाः सः । इत्येष पादो योनिविकृतेर्गमकः। यस्मादनेन विवृतिः कृता तस्माल्लोके जायमानो गर्भो ज्यायान्सन्योनिद्वारा पेक्षयाऽत्यन्तं प्रौढः सबपि स्वापेक्षया कनीयांसमत्यल्पं सन्तं योनि न हिन. स्ति न विनाशयति। यस्माइह्मणा सुकीर्तिनामकेन मवेण स योनिः कृतो निर्मि तस्तस्मादविनाशो युक्तः । एक्यामरुमामकेन सूक्तेन यजमानमेतवै सर्वत्र गन्तुं समर्थ करोति यदिदं किंच जगदस्ति तदिदं सर्व तेन सूक्तेनैतवै कृतं गन्तुं समर्थ कृतं सत्पश्चादेति गच्छति । तस्मादिदमेव सूक्तं यजमानस्यापि गमनसामर्थ्य प्रयच्छति।
आनिमारुतशस्त्रस्य प्रतिपत्सूक्तं विधत्ते
अहश्च कृष्णमहरर्जुनं चेत्याग्निमारुतस्य
अहश्च कृष्णमहरर्जुनं०-१-९-१1700-
१० दशमः खण्डः] ऐतरेयब्रामणम् ।
प्रतिपदहश्चाहश्चेति पुनरावृत्तं पुनर्नि
नृत्तं षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । महाशब्दोऽत्र पुनः पुनः पठ्यमानत्वात्पुनरावृत्तमित्युच्यते । तालध्वनि समानत्वाच पुनर्निनृत्तमिति लिनद्वयम् ।
मरुदेवताकं सूक्तं विधत्ते
मध्वो वो नाम मारुतं यजत्रा इति मारुतं बहभिव्याहत्यमन्तो वै बह्वन्तः
षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । अस्मिन्सूक्त मरुद्विषयमभिव्याहरणीयमर्थनातं बहस्ति । बहुत्वं चैकत्व दित्वापेक्षया संख्यायामवसानत्वादन्तो भवति तदेतदन्तवत्वं लिङ्गम् ।
अच्युतत्वलियुक्तामृचं विधत्ते- ..
जातवेदसे सुनवाम सोम
मिति जातवेदस्याऽच्युता, इति । नातवेदोदेवताक सूक्तं विधत्ते
‘स प्रत्नथा सहसा जायमान इति जातवेदस्यं
समानोद षष्ठेऽहनि षष्ठस्याह्नो रूपम्, इति । देवा अग्निमित्यस्य चतुर्थपादस्य सर्वास्वप्नु पठितत्वात्समानोदर्कत्वम् । . . धारयमित्येतस्य पुनः पुनः पठितस्यानुवादेन तदभिप्रायं सदृष्टान्तं दर्शयति
धारयन्धारयनिति शंसति प्रसंसाहा अन्तस्य बिमाय तद्यथा पुनराग्रन्थं पुनर्निग्रन्थमन्तं बधीयान्मयूखं वाऽन्ततो धारणाय निहन्यात्ता
दृक्तद्यद्धारयन्धारयनिति शंसति संतों, इति । होताऽस्मिन्सूक्ते चतुर्थेषु पादेषु धारयन्धारयमिति पुनः पुनः पठित्वा शंसति । तस्य कोऽभिमाय इति सोऽभिधीयते.। अन्तः शत्रस्यावसानमदेशा
मध्वो वो नाम मारुतं०-१-१७-१ । जातवेदसे सुनवाम सोमं०-१-९९ १।स प्रत्नथा सहसा जायमानः०-१-९१-१।
Exech by ६.१६ NO .
–..—.
६०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२३त्रयोविं ध्याये त(शस्त)स्य प्रशं(सं)साप(त्य)कर्षेण संसनाच्छैथिल्यादयं होता बिभाय भीति प्राप्तवान् । स्रेसनपरिहारार्थे दृष्टान्तोऽभिधीयते । तद्यथा । लोके रज्जु निर्मिमाणः पुरुषः पुनराग्रन्थं पुनः पुनराग्रथ्याऽऽअथ्य पुनर्निग्रन्यं पुनः पुन निग्रंथ्य निर्घध्य तस्या रज्जोरन्तं बधीयात् । दीर्घरज्ज्वा अपं. सूक्ष्म पुनः पृष्ठतः पत्याकृष्य वेष्टनं कृत्वा प्रथनं नाम तस्य दृढीभावो निम्रन्यनामको दृष्टान्तः । अन्योऽप्यभिधीयते । यथा वा लोके चर्मकार आर्द्रस्य चर्मणः संकोचनिवारणाय भूमौ तत्मसार्य दृढमाकृष्य चर्मणोऽन्ते मयूखं शड्डू चर्मणो धारणाय भूमौ निहन्यात् । दृढं भूमिपविष्टं कुर्यात् । होतुः पुनर्धारयमिति शंसनं यदस्ति तदेतत्तादृशं पूर्वोक्तदृष्टान्तसमानं द्रष्टव्यम् । तदेतच्छंसनं यास्य संतत्यै भवति। . वेदनपूर्वकमनुष्ठानं प्रशंसति
. संततैस्यहरव्यवच्छिन्नैर्यन्ति य एवं
. विद्वांसो यन्ति यन्ति ॥ १५॥ इति । पूर्ववद्याख्येयम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम
णभाष्ये द्वाविंशाध्याये दशमः खण्डः॥१०॥ (१५) [१६० इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्रा
. ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये
द्वाविंशोऽध्यायः ॥२२॥
…. —