२१

एकविंशोऽध्यायः।

.

.

.

भिमान्याहुर्देवतास्तोमसामच्छन्दांस्यहस्तस्य तस्यापि षण्णाम् ।। विद्वद्वाक्यादुत्तरं स्यात्समानं स्वान्खाल्लोकांखित्रिकोणेष्वासु ॥१॥ सिद्धानि शस्त्राणि षडेव हौत्राण्याज्येन सूक्तं मउगे हाथ ॥

मरुत्वतीये प्रतिपतृचौ च धाय्याः प्रगाथाश्च तथैव सूक्तम् ॥ २॥ निष्केवल्ये स्तोत्रियः पृष्ठयोनियोंनिस्थाने खस्वसाम अगायः ॥ वाक्ष्योत्सूक्तात्पूर्वमन्ये तु नित्ये स्वात्स्वात्सूक्ताज्जातवेदस्यमन्यत् ॥ .

छन्दोगानां वैश्वदेवात्पुरस्तादायाहीमावभुसूतानि चैव ॥३॥

रायंतरमयुग्मं स्याबृहत्सामेतरद्भवेत् ॥

वैरूप्या(पा)दि द्वितीयं स्यातृतीयादिष्वनुक्रमात् ॥ ४॥ अयेन्द्रपूर्वो निहवः प्रगायो धाय्याश्च ताक्ष्य च समानमहाम् ।। स्वात्स्वाचया जातवेदस्यमग्यं छन्दोम आधस्वयहस्तृतीयः ॥५॥ . अथ द्वादशाहान्तर्गतस्य नवरात्रस्य तृतीयमहनिरूपयति

विश्वे वै देवा देवतास्तृतीयमहर्वहन्ति सप्त

दशः स्तोमो वैरूपं साम जगती छन्दः, इति । देवतासु मध्ये विश्वे देवाः स्तोमानां मध्ये सप्तदशः सानां मध्ये वैरूप छन्दसां मध्ये जगती तान्येतानि तृतीयस्याहो निर्वाहकाणि । यद्यपि पृष्टये घडो प्रथमतृतीयपश्चमान्यहानि रार्थतराणि द्वितीयचतुर्थषष्ठान्यहानि पाई वानि तथाऽपि स्यंतरबृहत्सामसंबन्धः साधारणे(गो) वैकपादिसामसंबन्धे (न्यो) विशेषस्तृतीयेऽहनि । सत्यपि रथंतरपृष्ठे वैरूपं साम द्वितीयत्वेन प्रयु. ज्यते । अतो वैरूपस्यैतस्मिमहन्यसाधारणत्वात्रिर्वाहकत्वमुच्यते ।

वेदनं प्रशंसति

यथादेवतमेनेन यथास्तोमं यथासाम

यथाछन्दसं राध्नोति य एवं वेद, इति । उक्तदेवतादीनां वेदितैतान्य[न]तिक्रम्य तत्प्रसादेन सपदो भवति ।

1601111447

५४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२१एकविंशाध्याये-'

एतस्याः संबन्धिषु मत्रेषु पूर्ववल्लिङ्गानि निरूपयति

यदै समानोद तत्तृतीयस्याहनो रूपं यदश्ववद्य दन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्य स्तवयत्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरु च्यते यदसौ लोकोऽभ्युदितो यदैरूपं यजागतं

यत्कृतमेतानि वै तृतीयस्याहनो रूपाणि, इति । उदकः समातिः । समान उदर्कस्तुल्या समाप्तिर्यस्य मन्त्रभागस्य तत्समानो दकम् । तादृशं यदेवास्ति तत्तृतीयस्याहो रूपं निरूपकं लिङ्गमित्यर्थः । अश्व शब्दोपेतमश्ववत् । अन्तशब्दोपेतमन्तवत् । पठितस्यैव पुनः पाठः पुनराहत्वम् । पुनरपि नितरां (नृत्तं व(नतनं पुनर्निनृत्तम् । स्वरविशेषेणाक्षराणां पुनः पुनरावर्तनेन वा नर्तनसादृश्यम् । पुनरावृत्तं पठितस्यैव पादस्याऽऽवृत्तिः। अत्र तु स्वराक्षरमात्रस्यति विशेषः । रतवदिति धात्वर्थमात्रमत्र विवक्ष्यते । पर्यस्खव दिति पर्यासशब्दवत्रिवदिति त्रिशब्दोपेतम् । अन्तरूपमिति, अन्तशब्दोपेतम् । पूर्वमुक्तस्यैवायमनुवादः । अथवा पुनर्वचनं प्राधान्यप्रतिपादनार्थ तदीयार्यपरि प्रहार्य वा । उत्तमे पादे देवताया अभिधानं स्वर्गलोकस्य कथनं वैरूपसामसं पन्धित्वं जगतीछन्दःसंबन्धित्वं भूतार्थप्रत्ययोपेतः करोतिधातुर्षातुमात्रं वा। एतानि सर्वाणि तृतीयस्याहो रूपाणि।

इदानीमाज्यशस्त्र विधत्ते

युक्ष्वा हि देवहूतमाँ अश्वाँ अमे रथी

रिवेति तृतीयस्याहून आज्यं भवति, इति । . वदेवच्छवं प्रशंसितुमाख्यायिकामाह

देवा वै तृतीयेनाहुना स्वर्ग लोकमायंस्तान सुरा रक्षांस्यन्ववारयन्त ते विरूपा भवत विरूपा भवतेति भवन्त आयंस्ते यद्विरूपा भवत विरूपा भवतेति भवन्त आयंस्तदै रूपं सामाभवत्तदैरूपस्य वैरूपत्वम्, इति ।

युवा हि देवहूतमान्०-८-७९-१। Oye

१ प्रथमः खण्डः] ऐतरेयबामणम् ।

५१५ बदा देवास्तृतीयमहरनुष्ठाय तेन स्वर्ग लोकं गतास्तदानीमसुरा रक्षांसि च तान्देवाननुगम्य स्वर्गप्रवेशो यथा न भवति तथाऽवारयन्त निवारितवन्तः । वतस्ते देवास्तानसुरान्मति विरूपा विरुद्धरूपोपेता भवतेति शपित्वा भवन्तः स्वेन रूपेणैवाऽऽविर्भवन्त आयन्स्वर्ग प्रत्यागच्छन् । विरूपा भवतेति वीप्सा सर्वदेवोक्तिद्योतनार्याऽसुरशापेऽत्यन्तमादरार्था वा। ते देवा यस्मात्कारणा दसुरान्मति विरूपत्वशापं दत्तवन्तस्तस्मादसुराणां तद्विरुद्धं रूपं वैरूपाख्यं सामाभवन् । विरूपोक्तिसंबन्धादेव तस्य वैरूपं नाम संपनम् ।

उकार्यवेदनं प्रशंसति

विरूपः पाप्मना भूत्वा पाप्मा

नमपहते य एवं वेद, इति । वेदिता पूर्व केनचित्पाप्मना विरुद्धरूपयुक्तो भूत्वाऽपि पश्चाद्वेदनसाम र्थ्याचं पाप्मानमपहते विनाशयति ।

मासनिकं वैरूपशब्दनिर्वचनं कृत्वा प्राकृतमेवोपाख्यानशेषमाह

तान्ह स्मान्वेवाऽऽगच्छन्ति समेव मृज्यन्ते तानश्वा भूत्वा पगिरपाघ्रत यदश्वा भूत्वा

पद्भिरपानत तदश्वानामश्वत्वम् , इति । देवशापात्कुरूपत्वं प्राप्ता असुराः पुनरपि तान्देवाननु पश्चादागच्छन्त्येव नतु परित्यजन्ति । आगत्य च देवैः संसृज्यन्त एव न तु दूरे तिष्ठन्ति । वदानी देवाः सर्वेऽप्यश्वरूपधारिणो भूत्वा पृष्ठत आगतानसुरान्पद्भिरपानत स्वकीयपादताडनैईतवन्तः । यस्मादेवमश्वा भूत्वा पद्भिहतवन्तस्तस्माल्लोकेऽपि पादवाडनकुशलानां चतुष्पदामधनाम संपनम् ।

उक्कार्यवेदनं प्रशंसति

अश्नुते यद्यकामयते य एवं वेद, इति । देवैरश्ववेषकृतं व्यापारमिदानीतनेष्वश्धेषु दर्शयति

तस्मादश्वः पशूनां जविष्ठस्तस्मा

दश्वः प्रत्यङ्पदा हिनस्ति, इति । यस्मादश्वरूपैर्देवैगेन गमनं पद्भिस्ताडनं चाऽऽचरितं तस्माल्लोकेऽपि


क. ख. स. ट. रूपत्वं ना।

Digitzen in Google

५४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२१एकविंशाध्याये पशूनां मध्येऽश्वोऽत्यन्तं वेगवान् । तस्मादु तस्मादेव कारणाल्लौकिकोऽध: प्रत्यपृष्ठतः पादेन पुरुषं हिनस्ति ताडयति ।

उक्तार्थवेदनं प्रशंसति

अप पाप्मानं हते य एवं वेद, इति । युवा हीति सूक्तं प्रशस्याऽऽज्यविधि निगमयति

तस्मादेतदश्ववदाज्यं भवति तृतीयेऽ

हनि तृतीयस्याह्नो रूपम् , इति । यस्मादश्वस्येदृशो महिमा तस्मादश्ववदश्वब्दोपेतं युक्ष्वा हीति सूक्तं तृती येऽहन्याज्यशस्त्रं भवति । यदश्ववदिति पूर्व लक्षणस्योक्तत्वादिदमश्वशन्दोपेतं सूक्तं तृतीयस्याहो रूपकम् । अथ प्रउगशस्त्रं विधत्ते

वायवायाहि वीतये वायो याहि शिवा दिव इन्द्रश्च वायवेषां सुतानामा मित्रे वरुणे वयमश्विना वह गच्छतमा याद्यद्रिभिः सुतं सजूर्विश्वेभिर्देवेभि रुत नः प्रिया प्रियास्वियौष्णिहं प्रउगं समानो

दर्क तृतीयेऽहनि तृतीयस्याह्नो रूपम् , इति । वायवायाहि वीतय इत्येका । वायो याहि शिवा दिव इत्यादिके दे ऋचौ मिलित्वा सोऽयमेकल्य॒चः । इन्द्रश्च वायवेषां सुतानामित्यादिके द्वे ऋचौ।

चत्वसंपादनाय तयोरन्यतरा द्विरावर्तनीया । आ मित्रे वरुणे वयमित्या दिकस्यूचोऽश्विनावेह गच्छतमित्यादिकल्यच आ याद्रिभिः सुतमित्यादिक त्यूचः सर्विश्वेभिर्देवेभिरित्यादिकत्यूच उत नः मिया प्रियास्वित्यादिकस्य चस्त एते सप्त त्र्यूचा उष्णिक्छन्दस्कास्तत्सर्वमौष्णिहं प्रउगशस्त्रं कुर्यात् । तत्र समानोदर्कत्वं तृतीयस्याहो लिङ्गम् । आ मित्रे वरुण इति सूक्ते तिसृष्वप्यक्षु निबहिषीत्यादिकोऽन्तिमः पाद एक एव । अश्विनावेहेति सूक्तेऽपि हंसावि

वायवायाहि वीतये०-५-५१-५ । वायो याहि शिवा०-८-२६-२३ ।. इन्द्रश्च वायवेषां०-४-४७-२ । आ मित्रे वरुणे०-५-७२-१ । अश्विनावेह गच्छतं०-५-७८-१।आ याह्याद्रिभिः सुतं०-५-४०-१। सर्विश्वेभिर्देवेभिः० ९-५२-८ । उत नः प्रिया प्रियासु०-६-११-१० | by ६.६00g

१ प्रथमः खण्डः] ऐतरेयबामणम् ।

५४७ वेत्यादिकोऽन्तिमः पाद एक एव । आयाहीति सूक्तेऽपि वृषबिन्द्रेत्यन्तिमः पाद एक एव । सजूर्विश्वेभिरिति त्र्यूचेऽप्यायालम इत्यन्तिमः पाद एक एव । एवं कतिपयेषु समानोदर्कत्वं लिङ्गम् ।

अय मरुत्वतीयशस्त्रस्य चयं विधत्ते

तं तमिद्राधसे महे त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ निनृत्तवत्रि

तृतीयेऽहनि तृतीयस्याह्नो रूपम् , इति। . तं तमित्यादिकल्चो मरुत्वतीयशस्वस्य प्रतिपत् । तस्योपक्रमे तं तमिति रावृत्तः शब्दो नृत्तगततालानुकरणसदृशोऽन्ते च कृष्टीनां नृतुरिति नर्तनवाची शब्दः श्रूयते । तदिदं निनृत्तवल्लिङ्गम् । त्रय इन्द्रस्येत्ययमनुचरस्य॒चः। वस्याऽऽदौ त्रिशब्दश्रवणादिदं त्रिवल्लिङ्गम् ।'

अथ भगायद्वयं विधत्ते

इन्द्र नेदीय एदिहीयच्युतः प्रगाथः प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पयो निनृतवां

स्तृतीयेऽहनि तृतीयस्याह्नो रूपम्, इति । इन्द्र नेदीय इति प्रगाथस्य पूर्वयोरप्यहोर्विहितत्वादच्युतत्वम् । अथ प्रा बनेन त्र्यचत्वं संपादयितुं चतुर्थः पादः षष्ठः पादश्च त्रिविरभ्यस्यते । तस्य नृत्तसमानत्वादयं प्रगायो निवृत्तलिङ्गवान् । एवं ब्राह्मणस्पत्यप्रगायेऽपि दृष्टव्यम् । यद्वा यस्मिमिन्द्रो वरुणो मित्रो अर्यमेत्योकारस्य निरभ्यासो नृतसमानः।

अन्यास्तित्र ऋचो विधते

अग्निर्नेता वं सोम क्रतुभिः पिन्व

न्त्यप इति धाय्या अच्युताः, इति । यद्यप्यच्युतत्वं द्वितीयस्याहो .लिङ्गं तथाऽप्यत्र वाचनिकः प्रयोगो अहव्यः ।

तं तमिद्राधसे०-८-६८-७ । त्रय इन्द्रस्य सोमा:०-८-२-७ । इन्द्र नेदीय एदिहि०-८-५३-५ । प्रननं ब्रह्मणस्पतिः०-१-४०-५ ।५.३६7093e

५४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२१एकविंशाध्याये

अथान्य प्रगार्थ विषचे

नकिः मुदासो रथं पर्यास न रीरमदिति मरुस्वतीयः प्रगाथः पर्यस्तवांस्तृती

येऽहनि तृतीयस्याह्नो रूपम् , इति । सअस्मिन्मगाथे यस्य मरुत इति तृतीयपादे श्रवणादयं मरुत्वतीयः। . भत्र पर्यासेति श्रुतत्वादयं पर्यस्तलिवान् ।

सूक्तान्तरं विधत्ते

ज्यर्यमा मनुषो देवतातेति सूक्तं त्रिव

तृतीयेऽहनि तृतीयस्याह्नो रूपम्, इति । . भादौ त्रिशब्दस्य भुतत्वात्रिवल्लिङ्गयुक्तमिदं सूक्तम् । अथ निष्केवल्यशस्ने स्तोत्रियानुरूपौ प्रगायौ विधत्ते

यद्दयाव इन्द्र ते शतं यदिन्द्र यावतस्त्व मिति वैरूपं पृष्ठं भवति राथंतरेऽहनि

तृतीयेऽहनि तृतीयस्याह्नो रूपम्, इति । वैपसाना निष्पाचं तृतीयेऽहनि पृष्ठस्तोत्रं तस्य च सान्न आधारभूतो पद्याव इति प्रगाथः स्तोत्रियो यदिन्द्रेति भगायोऽनुरूपस्तदुभयं रयंतरसाम संबन्धिनि तृतीयेऽहनि युक्त(क्त)प्रथमतृतीयपश्चमान्यहानि रायंतराणि रयं. तरसाना पृष्ठस्तोत्रस्य गातव्यत्वात् । वैरूपसानाऽप्यत्र पृष्ठस्तोत्रं गातव्यम्। वैरूपशाकरयो रयतरपुत्रत्वेन तदीयेऽहनि युक्तत्वात् । तस्मात्तृतीयेऽहन्येतत्म गायद्वयं शंसनीयम् । वैरूपसामसंबन्धस्य तृतीयदिवसलिङ्गस्य विद्यमानत्वात् ।

ऋगन्तरं विधत्ते

यद्दावानेति. धाय्याऽच्युता, इति । सर्वेष्वहःसु(स्व)च्युतत्वं सर्वस्याप्यहो लिङ्गं भवतीति तृतीयेऽहन्यपि तयुक्तम् ।

नकिः सुदासो रथं०-७-३२-१० । व्यर्यमा मनुषो देव०-१-२९-१ । ययाव इन्द्र ते शतं०-८-७०-१ । यदिन्द्र यावतस्तं०-७-३२-१८ ।

यदावान पुरुतमं०-१०-७२-६ ।

neglized Google५४९

२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

अपरं प्रगाथद्वयं विधचे

अभि वा शूर नोनुम इति रथंतरस्य योनि

मनु निवर्तयति रायंतरं ह्येतदहरायतनेन, इति । अभि त्वा भूरेत्येषा रयंतरसानो योनिस्तां पूर्वोक्ताया धाय्याया अनु पवाभिवर्तयति शंसेदित्यर्थः । एतच तृतीयमहरायतनेन स्थानेन रायंतरमयु. ग्मानामहा रयंतरसंबन्धित्वात् । अयान्यं प्रगाथं विधत्ते

इन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रियां

स्तृतीयेऽहनि तृतीयस्याह्नो रूपम् , इति । ’ अत्रत्यस्य वैरूपसान्नः संबन्धीन्द्र त्रिधात्विति प्रगाथः । स च त्रिशब्दयु.

कत्वात्रिवान् । अतो लिङ्गसद्भावानृतीयेऽहनि योग्यः।

सूक्तान्तरं विधत्ते यमूषु वाजिनं देवजूतमिति ताक्ष्योऽच्युतः ॥१॥ इति । वायनान्नः सूक्तविशेषस्याच्युतत्वं सर्वदिनसंबन्धि लिङ्गम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण

भाष्य एकविंशाध्याये प्रथमः खण्डः ॥१॥ [१५४ ]

अथ निविद्धानीय सूक्तं विधत्ते

यो जात एव प्रथमो मनस्वानिति सूक्तं समा

नोदक तृतीयेऽहनि तृतीयस्याह्नो रूपम् , इति । ’ अस्मिन्सूक्ते नृम्णस्य महा स जनास इन्द्र इत्यन्तिमः पादः सर्वास्थक्षु

समानस्तस्मादिदं सूक्तं समानोदर्कलिङ्गोपेतम् ।

एतत्सूक्तं प्रशंसति

तदु सजनीयमेतद्दा इन्द्रस्येन्द्रियं यत्सजनीयमे

तस्मिन्वै शस्यमान इन्द्रमिन्द्रियमाविशति, इति । तदु तञ्च सूक्तं सजनीयं सजनशब्दोपेतं स जनास इन्द्र इति श्रुतत्वात् ।

अमि त्वा शूर नोनुम:०-७-३३-२२ । इन्द्र त्रिधातु शरणं०-६-४६-९।। समू पु वाजिनं०-१०-१७८-१ । यो जात एव प्रथमो०-२-१२-१।

..

-..-

-.

-.

-.–

-" .. —–

५५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२१एकविंशाध्याये बहुजनयुक्तत्वमेवैकमुत्कर्षकारणम् । किंच । यत्सजनीयं सूक्तमस्ति, एतदेवे. न्द्रस्येन्द्रियमुच्यते । कयं तदुच्यते । पुरा कदाचिदेतस्मिन्नेव सूक्ते शस्यमाने सतीन्द्रियं चक्षुरादिपाटवमिन्द्रं देवमाविशति । तस्मादिन्द्रियप्रवेशे हेतुत्वादिदं प्रशस्तम् ।

शाखान्तराध्येतृप्रसिद्ध्या प्रशंसति

तदाप्याहुश्छन्दोगास्तृतीयेऽहनि बह

वृचा इन्द्रस्येन्द्रियं शंसन्तीति, इति । तद्ध तस्मिन्नेव सजनीयसूक्ते छन्दोगाश्छन्दांसि गायन्तीति सामवेदिनः परस्परमेवमाहुः पृष्ठयस्य षडहस्य तृतीयेऽहनि बढचा ऋग्वेदाध्यायिनो होतार इन्द्रस्य संबन्धीन्द्रियरूपं सजनीयसूक्तं शंसन्तीति । अतोऽस्य सूक्तस्येन्द्रियपदत्वप्रसिद्धिर्महती।

ऋषिसंबन्धमुपजीव्य प्रशंसति

तदु गामिदमेतेन वै गृत्समद इन्द्रस्य प्रियं'

धामोपागच्छत्स परमं लोकमजयत् , इति । गृत्समदो नाम कश्चिदृषिस्तेन दृष्टत्वादिदं सूक्तं गामिदम् । कथामिति तदुच्यते । एतेनैव सजनीयसूक्तेन गृत्समदाख्यो महर्षिरिन्द्रं तोषयित्वा तस्ये. न्द्रस्य मियं स्थानं प्राप्य ततः स तेनेन्द्रेणानुगृहीत उत्तमं लोकं जितवान् ।

वेदनं प्रशंसति

उपेन्द्रस्य प्रियं धाम गच्छति जयति

परमं लोकं य एवं वेद, इति । वैश्वदेवशस्त्रस्य व्यचद्वयं विधत्ते

तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि

तृतीयेऽहनि तृतीयस्याह्नो रूपम् , इति । तत्सवितुरिति त्र्यचः प्रतिपत्स च रथंतरसामसंबन्धी । अधा नो देव सवितरित्यनुचरस्तदेतदुभयं रथंतरसंबन्धिन्यस्मिन्योग्यम् ।

तत्सवितुर्वृणीमहे०-५-८२-१ । अद्या नो देव सवितः०-६-८२-४ ।

२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

सवितृदेवताकं सूक्तान्तरं दर्शयति ___ तहेवस्य सवितुर्वार्य महदिति सावित्रम् , इति ।

तदेकं सावित्रं सवितृदेवताकम् । तत्र हि सवितुर्देवस्य संबन्धि वार्य वर पीयं महदधिकं तेज इत्ययमर्थः श्रूयते । अतः सवितृसंबन्धश्रवणात्सावित्रम् । पूर्वत्र त्र्यूचे रथंतरसंबन्धरूपं लिङ्गमुक्तम् । अत्र तु लिङ्गान्तरं दर्शयति

अन्तो वै महदन्तस्तृतीयमहस्तृती

येऽहनि तृतीयस्याह्नो रूपम्, इति । अत्र प्रथमपादे महच्छब्दोऽस्ति । महच्च वस्तु काम्यमानानां वस्तूनामन्तो भवति न खलु महतोऽप्यधिकं केनचित्कचित्किंचिदधिकं काम्यते तादृशस्या भावात् । तस्मान्महद्वस्त्वेवान्तो भवति । इदं च तृतीयमहः प्रथमस्य व्यह स्यान्तः । अतोऽन्तत्वसाम्यातृतीयेऽहनि तद्देवस्येत्यादिकं योग्यम् । यद्यप्य. तशब्दोऽत्र नास्ति तथाऽप्युक्तरीत्याऽन्तशब्दार्थस्य सद्भावादन्तवल्लिामस्ति ।

चान्तरं विधत्ते

वृतेन द्यावापृथिवी अभीकृते इति द्यावाटथिवीयं घृतश्रिया वृतटचा वृतावृधेति पुनरावृत्तं पुन

निनृत्तं तृतीयेऽहनि तृतीयस्याह्नो रूपम्, इति । . द्यावापृथिवीदेवताकत्वं विस्पष्टम् । घृतश्रियेत्यादिदितीयः पादस्तत्र धृतश

ब्दस्य पुनः पुनरावृत्तिरेकं लिङ्गम् । तया चाऽऽवृत्त्या नृतगततालानुकरणम. । वीतेः पुनर्निनृतं लिङ्गान्तरम् ।

ऋभुदेवताकं सूक्तान्तरं विधत्ते

अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवं रथस्त्रिचक्र इति त्रिवत्तृतीयेऽहनि तृतीयस्थाह्रो रूपम्, इति । द्वितीयस्या ऋचश्चतुर्थपाद ऋभवो वेदयामसीति श्रवणाभुदेवताकत्वम् । प्रथमाया ऋचो द्वितीयपादे रथस्त्रिचक्र इति त्रिशब्दोपेतं लिङ्गम् ।

….

…….

तद्देवस्य सवितुर्वाय०-४-५३-१ । घृतेन द्यावापृथिवी०-६-७०-४ । अनधो जातो अनभीशुः०-४-३६-१।।

Dişlizes in Google

५५२ . श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२१एकविंशाध्याये

बहुदेवताकं सूक्तान्तरं विधत्ते

परावतो ये दिधिषन्त आप्यमिति वैश्व देवमन्तो वै परावतोऽन्तस्तृतीयमहस्तृती

येऽहनि तृतीयस्याह्नो रूपम् , इति । द्वितीपस्या ऋचा पूर्वार्ध एवं पठ्यते–विश्वा हि पो नमस्यानि बन्या नामानि देवा उत यनियानि व इति । तत्र देवा इति बहुवचनम् । अत्र प्रथ माया ऋचश्चतुर्थपादे देवा आसत इति बहुवचनम् । तेन वैश्वदेवं बहुदेव. . ताकमिदम् । परावत इत्यनेन शब्देन दूरदेशोऽभिधीयते । स च निवासदेशा पेक्षयान्तो भवति । तृतीयमहश्च व्यहस्यान्तोऽतः पूर्ववदर्यतोऽन्तवल्लिामस्ति ।

तदेतद्वैश्वदेवसूक्तं प्रशंसति

तदु गायमेतेन वै गयः प्लातो विश्वेषां देवानां

प्रियं धामोपागच्छत्स परमं लोकमजयन्, इति । तदु तदेतत्सूक्तं गायं गयेन दृष्टम् । प्लतनामकस्य पुत्रो गयनामको मह पिरेतेन परावत इत्यादिसूक्तेन विश्वेषां देवानां प्रियं स्थानं प्राप्य तैरनुगृहीत

उत्तमं लोकं जितवान् । वेदनं प्रशंसति

उप विश्वेषां देवानां प्रियं धाम गच्छति - जयति परमं लोकं य एवं वेद, इति । शखान्तरस्य प्रतिपत्सूकं विधत्ते

वैश्वानराय धिषणामृतावृध इत्यानिमार तस्य प्रतिपदन्तो वै धिषणाऽन्तस्तृतीयमह

स्तृतीयेऽहनि तृतीयस्याह्नो रूपम्, इति । अत्र विषणेत्यन्तःकरणवाचकः श्रूयते । अन्तःकरणं च भूम्यादेरन्तं पातुं शक्नोति । तथा चान्यत्र श्रूयते-‘न वा इमामश्वरयो न वाऽश्वतरीरयः सद्यः पर्याप्तुमर्हति’ इति । अंतः सहसा भूम्याधन्तमाप्तिहेतुत्वादिषणाशब्दोऽन्तस्यो. पलक्षकः । अन्तस्तृतीयमित्यादि पूर्ववत् ।

परावतो ये दिधि०-१०-६३-१ । वैश्वानराय धिषणा०-३-२-१।।

१ ख. स. ट. ति यह। २ ख. अन्तः ।

१ द्वितीयः खण्डः] ऐतरेयबामणम् ।

५५३ मरुदेवताकं सूकं विधते

धारावरा मरुतो धृष्ण्वोजस इति मारुतं बह्वमिव्याहृयमन्तो वै बह्वन्तस्तृतीयमह

स्तृतीयेऽहनि तृतीयस्याह्नो रूपम्, इति । मारुतत्वमत्र विस्पष्टम् । बहुविधमभिव्याहृत्यमभिव्याहरणीयं शंसनीयम. ग्जातं यस्मिन्सूक्ते तनहमिव्याहत्यम् । अत्र हि पञ्चदशः शंसनीया इति बहुत्वम् । बहूनां देवानामभिव्याहरणीयानां विद्यमानत्वाबहुत्वम् । तस्य बहुत्वस्यानेकत्वद्वित्वापेक्षयाऽन्तत्वम् । अतोऽन्तवल्लिङ्गमस्ति ।

ऋगन्तरं विषचे जातवेदसे सुनवाम सोममिति जातवेद स्याऽच्युता, इति ।

अच्युतत्वं सर्वेषामहा साधारणं लिङ्गम् । जातवेदोदेषताकं सूक्तं विषत्ते

खमने प्रथमो अजिरा ऋषिरिति जातवेदस्यं पुरस्तादुदर्क तृतीयेऽहनि तृतीयस्याह्नो रूपं

खं खमित्युत्तरं व्यहमभिवदति संतत्य, इति । यद्यपि त्वमय इत्यग्निरेव देवता प्रतीयते तथाऽप्यसौ जातवेदःशब्दवाच्यो भवति । जातस्य सर्वस्य जगतो वेदितत्वात् । तस्मादेतत्सूक्तं जातवेदस्यम् । तच पुरस्तादुदर्कम् । उदकशब्दोऽवसानवचनः । अवसानं च विच्छेदः । सोऽपि दिविषः पुरस्तादुपरिष्टाच । उपक्रमात्पूर्व शंसनीयस्याभावादयं पूर्व कालीनो विच्छेदः पुरस्तादुदर्क इत्युच्यते । शंसनादूर्ध्वकालीनो विच्छेद उपरिष्टादुदर्कः। समानोदर्कलं च तृतीयस्याहो लिङ्गं युक्तम् । तत्रोपरिष्टा दुदर्कसाम्यं सजातीयादिषूदाहृतम् । अत्र पुरस्तादुदर्कसाम्यं लियत्वेनोदा हियते । तथा यस्मिन्सूक्ते सर्वास्वप्यक्षु त्वमग्न इति पदद्वयं समानातम् । तदिदं समानोदर्कत्वमेकं लिङ्गम् । असकृदभिधानादेव पुनरावृत्तलिङ्गं च वक्तुं शक्यम् । किंच । लोके कंचित्पुरुष संबोध्याभिमुखीकृत्य त्वमिति वदन्ति ।

धारावरा मरुतो०-२-३४-१ । जातवैदसे सुनवाम०-१-९९-१ । त्वमग्ने प्रथमो अङ्गिरा०-१-३१-१ ।

१. स. . ट. हृत्याभि । Anice by, ६.६Rogle.

.

.

.

५५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२१एकविंशाध्याये एवमत्राप्युत्तरत्र्यहमभिमुखीकृत्यैव प्रत्यूचं त्वं त्वमिति शन्दः प्रयुज्यते । तब प्रथपद्वितीययोड्यहयोश्च संतत्यै विच्छेदराहित्याय भवति ।

बेदनपूर्वकमनुष्ठानं प्रशंसति

संततैस्यहरव्यवच्छिन्नैर्यन्ति य एवं

विद्वांसो यन्ति ॥ २ ॥ इति । ये पुरुषाः प्रत्यूचं त्वंशब्दैः सूचितत्र्यहयोः सातत्यं विद्वांसोऽनुतिष्ठन्ति से : पुरुषाः संततैः परस्परं संबन्धैरत एव विच्छेदरहितैक्यौरनुतिष्ठन्ति तेषां विनो : न भवतीत्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण ’ ’ भाष्य एकविंशाध्याये द्वितीयः खण्डः ॥२॥[१५५]

द्वादशाहमध्यवर्तिनो नवरात्रस्य त्रयश्च वा एते त्र्यहा इति यत्पूर्वमुक्तं तत्र प्रथमरूपहोऽभिहितः । स च पृष्ठयषडहस्य पूर्वो भागः। अथ तस्योचरो भागो नवरात्रे मध्यमख्यहो वक्तव्यः। तस्मिंश्च यत्सयममहस्तमवरात्रे चतुर्यमहर्भवति। तत्र प्रखकृप्तिमुपरिष्टाद्विधास्यते। आदौ तावन्यूझो वक्तव्यस्तदर्य प्रस्तौति

आप्यन्ते वै स्तोमा आप्यन्ते छन्दांसि तृतीयेऽ हन्येतदेव तत उच्छिष्यते वागित्येव तदेतदक्षरं

ज्यक्षरं वागित्येकमक्षरमक्षरमिति यक्षरम्, इति । पूर्वोक्तेषु त्र्यहासु त्रिवृत्पञ्चदशसप्तदशाख्याः स्तोमा आप्यन्ते समाता इत्यर्थः । तथा गायत्रीत्रिष्टुन्जगतीत्येतानि च्छन्दांस्याप्यन्ते समातानि । तत ऊर्ध्वमेतदेव वक्ष्यमाणमुच्छिष्यते पूर्वमनुक्तत्वादुत्कर्षेणावशिष्यते । तस्यैवाव शिष्टस्य वागिति निर्देशः । एक्कारस्तु पूर्वोक्तदेवताच्यावृत्त्यर्थः । अनि देवता, इन्द्रो वै देवता, विश्वे वै देवा देवतेत्येवं तस्य तस्याको निर्वाहकं देवतात्रयं पूर्वमुक्तत्वामावशिष्टम् । वाग्देवता पूर्वमनुक्ताऽवशिष्टा । तस्य वाचकं वागित्सेतच्छब्दरूपं तदेतदक्षरं वकारादिवर्णात्मकं पुनरपि त्र्यक्षरं त्रिमिर सरैरुपेतम् । कथमेतदिति तदेतत्स्पष्टी क्रियते । वागित्युक्ते सत्येकाक्षरं भवति। वकारगकारोक्षराभ्यां युक्तस्याकाराक्षरस्यैकत्वात् । तदेवाशरमिति वाग्देव

ख. ट. तिरुप’ । २ क. अ. ट. ‘राभ्यां । ६.300ge

………

.

-. . .

. . . .

३ तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।

५५५ वानानोचार्यमाणं त्र्यक्षरं भवति। अतो वाग्देवताया नामन्येकरूपत्वं विरूपत्वं च संपमम् ।

वत्र रूपयसंपत्तौ प्रयोजनमाह

स एवैष उत्तरस्यहो वागेकं गौरकं चोरेकम्, इति । वाग्देवताया अक्षरशब्देन व्यवहारे सति योऽयमकारादीनां त्रयाणां समूहः स एष एवोचरस्यहश्चतुर्थपञ्चमषष्ठाहरूपोऽभवत् । उत्तरस्याहस्त्रयस्य निर्वाहक देवतात्रयस्वरूपं संपनमित्यर्थः । तत्र लोकत्रयमसिद्धा या वाग्देवता तदेकं स्वरूपं या च गौर्देवता तद्वितीयं स्वरूपं याऽपि चौर्देवता ततृतीय स्वरूपम् ।

एवं सति किं फलितमित्याशय फलितं दर्शयति

ततो वै वागेव चतुर्थमहर्वहति, इति । यस्मादेवतात्रयं निष्पनं ततो वै तस्मादेव कारणादागेव प्रथमदेवता मध्य मत्र्यहस्य प्रथमं नवरात्रापेक्षया चतुर्यमहर्वहति ।

एतस्मिनहनि न्यूझं विषये

तबच्चतुर्थमहyखयन्त्येतदेव तदक्ष रमभ्यायच्छन्त्येतदर्धयन्त्येतत्पविभाव

यिषन्ति चतुर्थस्याह्न उद्यत्यै, इति । यस्मात्कारणादागेव चतुर्यस्याहो निर्वाहिका तस्मात्कारणायदि चतुर्थ महरू(क)पेता न्यायन्ति, *(ओ कारस्य सूत्रोक्तमकारेणोचारणविशेष कुर्यु खदानीमेतदेव वागित्येतदक्षरं देवताया वाचकमभिलक्ष्याऽऽयच्छन्ति, उद्यमं कुर्वन्ति । न केवलमुधमः किं त्वेतदक्षरं वर्धयन्ति । वृद्धिमकार एवं प्रविभाव.. विषन्तीत्यनेन स्पष्टी क्रियते । प्रभुत्वं विभुत्वं वाक्षरस्य कर्तुमिच्छन्ति । प्रभुत्वं सामर्थ्य विभुत्वं विशालत्वम् । न्यूजस्वरूपमावलायनेन वर्णितम् ‘चतुर्येऽहनि पावरनुवाकप्रतिपद्यर्धर्चायो शो द्वितीयं स्वरमोकारं त्रिमात्र मुदा त्रिस्तस्य तस्य चोपरिष्टादपरिमितान्पश्च वाऽधौंकाराननुदाचानुत्त. मस्य तु श्रीन्पूर्वमक्षरं निहन्यते न्यूयमाने’ इति । अस्यायमर्थः । चतुर्येऽहनि माले सति मातरनुवाकस्य येयमृमयमाऽस्ति तस्या ऋचो यो दावर्षौं तयोरर्धर्चयोर्यावादी तयोराधोयूक: कर्तव्यः । नितरामत्यन्तविषम प्रकारेणोक्नमुश्चारणं न्यूजः । कयमिति तदेव स्पष्टी क्रियते । आपो रेवती: सयथेति मातरनुवाकस्य प्रतिपत् । तस्याः पूर्वार्धस्याऽऽदौ योऽयं द्वितीयः खर ओकारः पकारादूर्वभावी तं त्रिमात्रोपेतमुदासस्वरयुक्तं त्रिवारमुचारयेत् ।

.-

..

……………. -

t

५५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[२१एकविंशाध्याये त एते त्रय ओकाराः संपद्यन्ते । तत्रैकैकस्यौकारस्योपरि पुनरप्योकारा अर्ष स्वरूपा हस्वमात्रा अपरिमिताः पश्च वोच्चारणीयाः । ते चाधीकाराः सर्वेऽप्य नुदात्ताः । उत्तमस्य तु त्रिमात्रस्यौकारस्योपरि त्रीनौकारानुचारयेत् । तेष्व धौंकारेषु प्रथममक्षरं निहन्यादत्यन्तं नीचस्वरेणानुदात्तं कुर्यादिति। एवं सत्यु. दात्तास्त्रिमात्रास्त्रय ओकारा अओंकारात्रयोदशेत्येवमोकाराः षोडश संपचन्ते । प्रथमद्वितीययोखिमात्रयोर्मध्ये पश्चानुदाचा अर्धाकाराः। द्वितीयतृतीययोखि मात्रयोर्मध्ये पश्चानुदाचा अौंकाराः। तृतीयस्य त्रिमात्रस्योपरिष्टादनुदाचा अधीकारावयः । सोऽयमुच्चारणविशेषो न्यूज इत्युच्यते । सोऽयं न्यूजचतुर्य स्थान उद्यत्यै, उधमनाय सर्वसादुत्कर्षाय भवति ।

तमिमं न्यूझं प्रशंसति

अनं वै न्यूलो यदेल(ळ)वा अभिगे ष्णाश्चरन्त्यथावाचं प्रजायते तद्यच्चतुर्थम हyङ्खयन्त्यनमेव तत्पजनयन्त्यवाद्यस्य

प्रजात्यै तस्माच्चतुर्थमहर्जातवद्भवति, इति । योऽयमुक्तो न्यूझोऽस्ति तदेतदनं वा अनसाधनत्वादनस्वरूपमेव । कयमेव दिति तदुच्यते । ईळाशब्दोऽनवाची। तधेषां कर्षकाणामस्ति ते कर्षका इळवाः । ते च वर्षन्तं पर्जन्यमभिलक्ष्य गेष्णा हर्षेण गायन्तो यदा चरन्ति, अथ तदा. नीमनाचं प्रजायते । स्वकालदृष्टिसमृद्धिं च दृष्ट्वा कर्षका हृष्यन्ति । दृष्टाव गायन्तीति यदस्ति तत्साहशमिदं चतुर्थेऽहनि न्यूझरूपमुञ्चारणम् । अतोऽनेनो चारणेनाममुत्पादयन्ति । तदेषमनायस्य प्रजात्या उत्पादनार्य संपद्यते। तस्मा. दनप्रजातियुक्तत्वादेव चतुर्थमहर्जातवद्भवति । जातवत्त्वमेवस्मिनहनि मत्रवत्त्वे नोपरिष्टावक्ष्यते।

न्यूजस्य मत्रमध्ये स्थानविशेष विश्वे

चतुरक्षरेण न्यूखयेदित्याहुश्चतुष्पादा

वै पशवः पशूनामवरुद्ध्यै , इति । मन्ने योऽयमादौ चतुरखरो भागस्तेन न्यूजयेश्चत्वार्यतराव्युचार्य तदन्वे यथोक्तं न्यूझं प्रयुज्यादिति केचिद्यामिका आहुः । चतुःसंख्यया पादचतुष्टयो पेतानां पशूनां प्राप्तिर्भवतीति तदभिप्रायः।

क. इळा । स. ८. इलश । २ . इलवाः । ६.६ogle.

५५७

३ तृतीयः खण्डः] ऐतरेयबामणम् ।

पक्षान्तरं विधत्ते

ध्यक्षरेण न्यूखयेदित्याहुलयो वा इमे त्रिवृतो .

लोका एषामेव लोकानामभिजित्यै , इति । पूर्ववद्याख्येयम् । पक्षद्वयमुक्त्वा तृतीयपक्षं विधत्ते

एकाक्षरेण न्यूखयेदिति ह स्माऽऽह लागलायनो ब्रह्मा मौद्गल्य एकाक्षरा वै वागेष वाव संप्रति न्यूळे न्यूख

यति य एकाक्षरेण न्यूलयतीति, इति । लाइलाख्यस्य महर्षेः पौत्रो लागलायनः । मुद्गलाख्यस्य पुत्रो मौद्गल्यः । स च ब्रह्मेत्येतनामको ब्राह्मणः । स ोकमारमुच्चारयेन्न्यूजयेदिति वक्ति । तत्रेयमुपपत्तिः । येयं वागहर्देवतेति पूर्वमुक्ता सेयमेकाक्षरा। तथा सति यः . पुमानेकाक्षरेण न्यूजयत्येष एव संप्रति सम्यङ्न्यूजमनुतिष्ठत्यक्षरसंख्याया देव वानुसारित्वादिति तस्य महर्षेरभिमायः।

वदेवत्पक्षत्रयमङ्गीकृत्य स्वाभिप्रेतपक्षं विधत्ते

ब्यक्षरेणैव न्यूजयेत्प्रतिष्ठाया एवं विप्र तिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमान मेव तहिप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठा

पयति तस्माद्यक्षरेणैव न्यूजयेत् , इति । एवकारः पूर्वोक्तपक्षत्रयव्यावृत्त्यर्थः । प्रतिष्ठाया एव यजमानस्य पति छाया एव हि द्विसंख्या । द्वाभ्यां पदाभ्यामवस्थितत्वात्पुरुषो द्विपतिष्ठः । स्पष्टपन्यत् ।

मातरनुवाके विशेषेण स्थानं विधचे

मुखतः प्रातरनुवाके न्यूखयति मुखतो वै प्रजा अनमदन्ति मुखत एवं

तदनाद्यस्य यजमानं दधाति , इति । पावरनुवाके मुखतोऽर्धर्चस्याऽऽदौ द्वितीयस्मिन्नारे न्यूजयेत् । प्रजानां

१ क. ख. स. ट. छामेव ।

1601111447

५५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२१एकविंशाध्याये सर्वासां मुखेनैवामादनात् । तथा सति यजमानमनाथस्य मुखत एष समीप एव स्थापयति।

आज्यशस्ने स्थानविशेष विषते

मध्यत आज्ये न्यूखयति मध्यतो वै प्रजा अनं धिनोति मध्यत एव

तदनाद्यस्य यजमानं दधाति, इति । मध्यवस्तृतीयपाद इत्यर्थः। तथा चाऽऽवलायन आह-‘आऽमि न स्वा. क्तिभिरित्याज्यं तस्योत्तमावर्ज तृतीयेषु पादेषु न्यूज’ इति । अयं हि मध्य भागे धृतम् । तत्र(च) मजा घिनोति प्रीणयति ततस्तपाठेनामाघस्य मध्यवो भारणे यजमानमवस्थापयति ।

माध्यंदिने सवने स्थानविशेष विषचे

मुखतो मध्यंदिने न्यूजयति मुखतो वै प्रजा अनमदन्ति मुखत एक तद

बायस्य यजमानं दधाति, इति । मुखतोऽर्धर्चादौ । तथा चाऽऽश्वलायनो मरुत्वतीयं निष्केवल्यं च निरूप्प पचादिदमाह-सुधीहवीयस्य तु तृच आधेऽर्धर्चादिषु न्यूज इति ।

सवनदयगतं न्यूई प्रशंसति

तदुभयतो न्यूखं परिगृह्णाति सवना

भ्यामनाथस्य परिगृहीयै॥३॥ इति । उभयतः भातःसवने माध्यंदिनसक्ने च ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेया.

मणभाष्य एकविंशाध्याये तृतीयः खण्डः ॥३॥[१५६ ] चतुर्थमहर्विषते

वाग्वै देवता चतुर्थमहर्वहत्येकविंशः स्तोमो वैराज सामानुष्टुप्छन्दो यथादेवतमेनेन यथास्तोमं यथा साम यथाछन्दसं राम्रोति य एवं वेद, इति । पूर्ववयाख्येयम् ।

..

.

“.

५५९

। चतुर्थः खण्डः ] ऐतरेयत्रामणम् ।

चतुर्वस्याडो गमकानि मन्त्रगतानि लिङ्गानि दर्शयति

यहा एति च प्रेति च तच्चतुर्थस्याह्नो रूपं यद्ध्येव प्रथममहस्तदेतत्पुनर्यचतुर्थ यद्यु तवद्यद्रथवद्यदाशुमद्यपिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यजा तवद्यद्वववद्यच्छुक्रवद्यद्दाचो रूपं यदैमदं यहिरिफितं यदिच्छन्दा यदूनातिरिक्तं यहै राजं यदानुष्टुभं यत्करिष्यद्यत्प्रथमस्याह्रो ।

रूपमेतानि वै चतुर्थस्याह्नो रूपाणि, इति । आकार मशब्दवेति यदेवं पूर्वत्र प्रथमस्याहो निरूपकमुक्तं तदन चतुर्य स्याहो निरूपकं प्रथमत्र्यहापेक्षया प्रथममहः पूर्व यदुक्तं तदेतत्पुनरपि मध्य पत्र्यहापेक्षया प्रथममहरुच्यते । अतो नवरात्रापेक्षया चतुर्थम् । तस्य व्यहा. पेखमा भयमत्वालयमस्याको लिङ्गान्यत्र योग्यानि । तव एव तयुक्तवदित्या. रम्पायं लोकोऽभ्युदित इत्यन्तानि पूर्वोक्तान्येवाभिहितानि । जातवजनि पातुयुक्तम् । इववदिति इयतिधातुयुक्तम् । शुक्रवच्छुक्रशन्दयुक्तम् । वाचो रूपं वाक्मतिपादकसन्दयुक्तम् । वैमदं विमदाख्येन महर्षिणा युक्तम् । रिफि (कोतिषातुः लेशा वर्तते । विशेषलेशेन न्यूनोचारितं विरिफितम् । विच्छ न्दा इति विविषच्छन्दसा युक्तम् । तदूनं चातिरिक्तं चोनातिरिक्तम् । अक्ष. शासवादी इत्यर्थः । बैराजाख्यसामसंवदं वैराजम् । अनुष्टुप्छन्दःसंबदमा नुष्टुभम् । जातवदित्यादीन्यत्र विशेषलिङ्गानि । भविष्यदर्थवाचिप्रत्ययोपेतं धातुरूपं करिष्यदित्युच्यते । अत्र यभूतनं यच पूर्वोक्तं प्रथमस्याको रूपमस्ति वानि सर्वाग्यपि चतुर्थस्थाहो निरूपकाणि ।

इदानीमाज्यशत्रं विषचे

आमिं न स्वक्तिभिरिति चतुर्थस्याह्न आज्यं भवति वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थेऽहनि चतुर्थस्यानो रूपम्, इति ।

आऽग्निं न स्ववृक्तिभिः०-१०-२१-१। .pies av ६.300gfe

opana

५६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२१एकविंशाध्याये

आऽमिमित्यादिकं सूक्तं वैमदं विमदाख्येन महर्षिणा दृष्टम् । विरिफित न्यूजपेण विशेषक्लेशेनोचारितम् । अत एव विरिफितस्य विशेषलेशरूपतया युक्तस्य विमदाख्यस्य महर्षेः संबन्धि । अतो विमदेन दृष्टत्वं विरिफितत्वं चेतिलिङ्गद्वयसद्भावाच्चतुर्थेऽहन्येतत्सूक्तं योग्यम् । तस्माचतुर्थस्याहो निरू. पकम् ।

ऋक्संख्यां छन्दशोपजीव्यं(व्य) मूक्तं प्रशंसति

अष्टर्च पातं पाक्तो यज्ञः पा

ङ्क्ताः पशवः पशूनामवरुद्ध्यै, इति । ऋक्संख्योत्तरत्रोपयुज्यते । पतिच्छन्दोयोगात्पाङ्गम् । पूर्वोक्तहविष्पलया. दिभिर्यज्ञस्य पाङ्गत्वम् । चतुभिः पादैर्मुखेन च पञ्चावयवैः पशवः पाताः। तस्मादेतच्छंसनं पशुपाप्त्यै भवति । जगतीद्वारा पुनः प्रशंसति

ता उ दश जगत्यो जगत्प्रातःसवन एष

ज्यहस्तेन चतुर्थस्याह्नो रूपम् इति । ता उ तास्तु सूक्तगता अष्टाचो दश जगत्यः संपद्यन्ते । कथं संपचिरिति तदुच्यते । सूक्तस्याऽऽधन्तयोचोस्त्रिरावृत्त्या द्वादश पलयो भवन्ति । पति फकचत्वारिंशदक्षरा । ततो मिलित्वाऽशीत्यधिकचतुःशताक्षराणि संपधन्ते । अष्टाचत्वारिंशदक्षराणां जगतीनां दशसंख्याकानां तावन्त्येवाक्षराणि । एवं जगतीसंपत्तिः। जगतीछन्दोयुक्तं प्रातःसवनं यस्य मध्यमस्य व्यहस्य सोऽयं जगत्मातःसवनः । पूर्वमेव च्छन्दसां विवादो(दे) जगत्याः प्रातःसवनस्थान मुक्तम् । अतः प्रातःसवनजगतीसंबन्धश्चतुर्थस्याहो निरूपकः।

अनुष्टुप्संबन्धेन प्रशंसति

ता उ पञ्चदशानुष्टुभ आनुष्टुभं ह्येत

दहस्तेन चतुर्थस्याह्नो रूपम् , इति । तास्तु दश जगत्यः पञ्चदशानुष्टुभः संपद्यन्ते । तथा हि । अष्टाचत्वारिं शदक्षरा जगती । द्वात्रिंशदक्षराऽनुष्टुप् । तथा सत्येकैका जगती सार्धानुष्टुब्भ. वति । अहश्चैतदनुष्टुभः संबन्ध्यनुष्टुभो निर्वाकहत्वस्योक्तत्वात् । तेनेदं सूक्त मनुष्टुब्दारा चतुर्थस्याहो निरूपकम् ।

१ ख. यं जागतः प्रातः । १ क.. ट. गतः प्रातः ।




चतुर्षः खण्डः] ऐतरेयब्राह्मणम् । गायत्रीद्वारा प्रशंसति

___ ताउ विंशतिर्गायत्र्यः पुनः प्रायणीयं

ह्येतदहस्तेन चतुर्थस्याह्नो रूपम्, इति । वास्तु दश जगत्या पुनरपि प्रत्येकं द्वेषा विभज्यमानाश्चतुर्विशत्यक्षरा गायत्र्यो विंशतिर्भवन्ति । गायत्रीसंबन्ध चान्यत्र प्रायणीयं प्रयममहः, गायत्रो

पा ऐन्द्रवायवो गायत्रं मायणीयमहरिति श्रुत्यन्तरात् । इ(ऐ)न्द्रं चाहर्मध्यमे । अहे प्रथमत्वात्मायणीयम् । अतो गायत्रीद्वारा संबन्धस्य वतुं शक्यत्वादेत

सूचं चतुर्थस्याहो निरूपकम् ।। सारयुकत्वेन पुनः प्रशंसति

तदेतदस्तुतमशस्तमयातयामसूक्तं यज्ञ एव साक्षा __तबदेतचतुर्थस्याह्न आज्यं भवति यज्ञादेव तद्यज्ञ

तन्वते वाचमेव तत्पुनरुपयन्ति संतत्यै, इति । वदेवदाऽनिमित्यादिसूक्तमुद्रातृभिः पूर्वमस्तुतं होतृभिरप्यशस्वम् । तस्मा दयावयाम गतसारं न भवति साक्षाघा एव यामध्ये सारत्वात् । तथा सति यवत्सूकमत्राऽऽज्यं भवेचदानी यरूपादेव सूक्ताधारूपमहस्तन्वते विस्ता. रयन्ति । किंचाहर्देवता वाचमेव तेन सारयुक्तेन पुनः मामुवन्ति । तत्र(च) मध्यमस्य व्यहस्य संतत्यै विच्छेदराहित्याय भवति ।

वेदनपूर्वमनुष्ठानं प्रशंसति-.

संततैरुयहरव्यवच्छिन्नैर्यन्ति य

एवं विहांसो यन्ति, इति । पूर्ववयाख्येयम्। अथ प्रउगनवं विधत्ते

वायो शुक्रो अयामि ते विहि होत्रा अवीता

वायो शतं हरीणामिन्द्रश्च वायवेषां सोमाना वायो शुक्रो अयामि ते०-४-४७-१। विहि होत्रा अवीता०-४-४८-१। वायो शतं हरीणां०-४-४८-५ । इन्द्रश्च वायवेषां०-१-११-१।

१८.कम ।

1.11111

७१

५६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२१एकविंशाध्याये-’

माचिकितानसुक्रतू आ नो विश्वाभिरूति भिस्त्यमुवो अप्रहणमपत्यं वृजिनं रिपुमम्बितमे नदीतम इत्यानुष्टुभं प्रउगमेति च प्रेति च

शुक्रवञ्च चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्, इति । । वायो शुक्र इत्याचं प्रतीकं विहि होत्रा इति द्वितीय वायो शतमिति तृतीय मिन्द्रशेति चतुर्थमाचिकितानेति पश्चममा नो विश्वाभिरिति षष्ठं त्यमुव इति सप्तममपत्यमित्यष्टममम्बितम इति नवमम् । अत्राऽऽथैत्रिभिः प्रतीकैरेकल्यच इतरैः पदमतीकैः षट्यूचाः । एतत्सर्वमनुष्टुप्छन्दस्कं प्रउगशस्त्रं कार्यम् । अत्राऽऽकारः प्रशन्दः शुक्रशन्दश्चेति लिङ्गानि द्रष्टव्यानि।वायो, इत्यत्र शुक्रव लिङ्गम्। विहि हो।त्यस्याचि वायवाचन्द्रेणेत्याकारः। वायो शतमित्यत्र रय भा यात्वित्याकारः । इन्द्रश्चेत्यत्र द्वितीयस्यामुच्यायातमित्याकारः। आचिकि तानेत्यत्राऽऽ नो विश्वाभिरित्यत्र चाऽऽकारौ स्पष्टौ । त्यमु वो अपहणमित्यत्र प्रशब्दः अपत्यं वृजिनमित्यत्र तृतीयस्यामृच्या सुगमित्याकारः। अम्बितम इत्यत्र प्रशस्तिमम्बेति प्रशब्दः । अतो लिङ्गसद्भावेन चतुर्थेऽहनि योग्यत्वा. दिदं सर्वं चतुर्थस्याहो निरूपकम् ।

मरुत्वतीयशस्खस्य प्रतिपदं विधत्ते

तं वा यज्ञेभिरीमह इति मरुत्वतीयस्य प्रतिपदीमह इत्यभ्यायाम्यमिवैतद

हस्तेन चतुर्थस्याह्नो रूपम्, इति । अत्र यदेवदीमह इति पदमस्ति तथाचामह इत्यस्मिअर्थे वर्तते । यात्रा च दीर्घकालेन फलमदा। तस्मादेतदहरभ्यायाम्यामिवाभितो दीर्घ कर्तव्यमिव प्रयो गवाहुल्येन दृश्यते । तेन यावार्थवाचिधातुद्वारेण दीर्घत्वेन साम्पमतीवेरिदै मधवाक्यं चतुर्थस्थाडो निरूपकम् ।

मवान्तराणि विषते

आचिकितान सुक्रतू०-५-११-१ । आ नो विश्वाभिरूतिभिः०-७-२४ ४।८-८-१ । त्यमु को अप्रहणं०-१-४४-४ । अमत्यं वृजिनं०-६-५१ १३ । अम्बितमे नदीतमे०-२-४१-१६ । तं त्वा यज्ञेभिरीमहे०-८ १८-१०॥

___ १ चतुर्थः खण्डः] ऐतरेयबामणम् ।

५६१ इदं वसो सुतमन्ध इन्द्र नेदीय एदिहि प्रेतु ब्रह्म णस्पतिरमिर्नेता खं सोम क्रतुभिः पिन्वन्त्यपः प्र व इन्द्राय बृहत इति प्रथमेनाहा समान

जातानश्चतुर्थेऽहनि चतुर्थस्याहो रूपम्, इति । आतानः शत्रकृतिः । सा चेदं वसोः मुतमित्यादिकाऽस्मिश्चतुर्थेऽहनि पूर्वो केन प्रयमेनाहा समाना । सत्साम्यं चै लिङ्गम् ।

सूक्तान्तरं विधचे

श्रुधी हवमिन्द्र मा रिषण्य इति सूक्तं हव

वचतुर्थेऽहनि चतुर्थस्याह्नो रूपम्, इति । हवशन्दोपेतमेतस्याहो विशेषलिङ्गमिति पूर्वमुक्तम् । अन्यस्मिन्नपि सूक्त तल्लिङ्गं दर्शयति

मरुत्वाँ इन्द्र वृषभो रणायेति सूक्त मुग्रं सहोदामिह तं हुवेमेति हववच्च

तुर्थेऽहनि चतुर्थस्याह्नो रूपम् , इति । मरुत्वानित्यस्य सूक्तस्योगमित्यादिरन्तिमः पादस्तत्र हुवेमेति हवशन्दार्थ पाची धातुदृश्यते । अतो लिसद्भावादहो निरूपकम् ।

एतत्सूकं प्रशंसति

तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधा

राऽऽयतनादेवतेन न प्रच्यवते, इति । तदु तत् सूक्तं त्रिषुप्छन्दस्कम् । प्रतिष्ठितानि पदानि प्रतिनियताक्षरसं. ख्यायुक्ताः पादा यस्मिन्सूक्ते तत्मतिष्ठितपदम् । ताहशेन तेन सूक्तेन सवन माध्यदिनसवनगर्त मरुत्वतीयशवं दाधार धारितवान्भवति । एतेन सूक्तेन स्वयमायतनात्स्वकीयगृहात्कदाचिदपि न प्रच्यवते ।। । इदं वसो सुतमन्धः-८-२-१ । इन्द्र नेदीय एदिहि-८-५३-५ । प्रेतु ब्रह्मणस्पतिः०-१-४०-३ । अग्निर्नेता भगः०-३-२०-४ । त्वं सोम प्रतुभिः०-१-९१-२ । पिन्वन्त्यपो मरुतः०-१-१४-६ । प्र व इन्द्राय बृहते०-८-८९-३ । श्रुधी हवमिन्द्र मा रिषण्यः०-२-११-२ । मरुत्वा इन्द वृषभो०-३-४७-१।

५६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२१एकविंशाध्याये

अन्त्यं वृचं विधत्ते

इमं नु मायिनं हुव इति पर्यासो हवांश्च

तुर्थेऽहनि चतुर्थस्याह्नो रूपम् , इति । इमं वित्यादिचविशेषः परितः पूर्वोक्तानामन्ते प्रक्षेपणीयः । तत्र हुन इति विशब्दार्थे धातुरस्त्यतश्चतुर्थस्याहो निरूपकस्य॒चः।

तदेतत्पशंसति

ता उ गायत्र्यो गायत्र्यो वा एतस्य

यहस्य मध्यंदिनं वहन्ति, इति । वा उताः सूक्तगता ऋचो गायत्रीछन्दस्का गायत्र्यश्चैतस्य मध्यमस्य व्यहस्य माध्यंदिनं सवनं वहन्ति ।

पूर्वोक्तनिर्वाहक्रमेण जगत्या मातःसवनवाहित्वं गायत्र्या माध्यंदिनसवन वाहित्वं च दर्शितम् । अस्मिस्यूचे निविद्धानं विधत्ते

तदैतच्छन्दो वहति यस्मिन्निविधीयते

तस्मादायत्रीषु निविदं दधाति, इति । यस्मिंश्छन्दसि निवित्पदसमूहः प्रक्षिप्यते तदेतच्छन्दो वहति सवनस्य निर्वाहकं भवति । तस्माभिर्वाहणाय तासु गायत्रीषु निविदं दध्यात् ।

अथ वैराजसामसंबदं न्यूचद्वयं विधत्ते

पिबा सोममिन्द्र मन्दतु वा श्रुधी हवं विपि पानस्यारेरिति वैराजं पृष्ठं भवति बाईतेऽ

हनि चतुर्थेऽहनि चतुर्थस्याह्नो रूपम् , इति । पृष्ठस्तोत्रसाधनस्य वैराजसान्न आधार पिना सोममित्यादिः स्तोत्रिय सयुचः श्रुधी हवमित्याचनुरूपोऽतो वैराजसामसंबन्धो लिङ्गम् । किंच बृहत्सा नोऽपत्यं वैराजसाम । इदं चाहर्युग्मरूपत्वाबृहत्सामसंबन्धि । अतोऽपि कारणादस्मिनहन्येतत्र्यचद्वयं युक्तम् । __ ऋगन्तरं विधत्ते

यहावानेति धाय्याऽच्युता, इति । इमं नु मायिनं हुवे०-८-७१-१ । पिबा सोममिन्द्र मन्दतु०-७-२३-१।। श्रुधी हवं विपिपानस्याद्रेः०-७-२३-४ । यद्वावान पुरुतमं०-१०-७४-६।

.


-…–


– – -..-.

—–.-.

__५६५

!

"

पञ्चमः खण्डः] ऐतरेयब्रामणम् ।

अच्युतत्वं सर्वसंबन्धिलिङ्गमित्युक्तम् । तस्मा(स्या ऋ)च ऊर्ध्वमन्यं प्रगायं विषचे

खामिद्वि हवामह इति बृहतो योनिमनुनि

वर्तयति बार्हतं ह्येतदहरायतनेन , इति । वामिदीत्यस्याचि बृहत्सामोत्पत्रं तस्मादेत योनिभूतं प्रगार्य पूर्वोक्तधा य्यामनु पश्चाच्छंसेत् । एतचाहरायतनेन युग्माहस्वरूपस्थानेन वाहतं वृहस्सा. मसंबन्ध लिङ्गमित्युक्तम् ।

वैराजसाना संबन्धिनं प्रगाय विषये

त्वमिन्द्र प्रतूर्तिष्विति सामप्रगाथः, इति । तत्र लिङ्ग दर्शयति

अशस्तिहा जनितेति जातवांश्चतु

र्थेऽहनि जतुर्थस्याह्रो रूपम् , इति । ___ उक्त प्रगाथे तृतीयपादोऽयमत्राशस्तिहा जनितेति ततोऽयं जातवान् ।

जनिधातुयुक्तं जातवत्वं चैतस्याह्नो लिङ्गम् ।

त्यमू विति सूक्तविशेषस्याच्युतत्वं लिङ्ग दर्शयति

यमू षु वाजिनं देवजूतमिति .

तार्योऽच्युतः ॥४॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्यप्रकाश ऐतरेयनाम __णभाष्य एकविंशाध्याये चतुर्थः खण्डः ॥४॥ [१५७]

विमदेन महर्षिणा दृष्टं न्यूक्सहितं मूक्तं विषचे

कुह श्रुत इन्द्रः कस्मिनोति सूक्तं वैमदं विरिफितं विरिफितस्य ऋषेश्व

तुर्थेऽहनि चतुर्थस्याह्नो रूपम् , इति । पूर्ववयाख्येयम् ।

त्वामिद्धि हवामहे०-६-४६-१ । त्वमिन्द्र प्रतूर्तिषु०-८-९९-५ । त्यम् , पु वानिनं देवतं०-१०-१७८-१ । कुह श्रुत इन्द्रः०-१०-१२-१10

H

P

.

.

.

५६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[२१एकविंशाध्याये

मूक्तान्तरं विधते

युध्मस्य ते वृषभस्य स्वराज इति मुक्त मुरुं गभीरं जनुषाऽभ्युग्रमिति जातव

चतुर्थेऽहनि चतुर्थस्याह्नो रूपम् , इति । युध्मस्येति सूक्त उरूं गभीरमिति यः पादस्तत्र जनुषेति श्रवणाजातवज्ज निघातुयुक्तं लिङ्गमस्ति ।

मूक्तगतं छन्दोऽवलम्म्य प्रशंसति

तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं

दाधाराऽऽयतनादेवतेन न प्रच्यवते, इति । पूर्ववद्याख्येयम् । तृतीयं त्र्यचं विधत्ते

त्यमुवः सत्रासाहमिति पर्यासो विश्वासु गीर्वायतमि

यभ्यायाम्यमिवैतदहस्तेन.चतुर्थस्याह्नो रूपम्, इति । परितः प्रक्षेपणीया पर्यासोऽन्तिमस्चस्तस्मिन्विश्वास्विति या पादस्तत्राऽऽ यतमिति शब्दो दीर्घत्ववाचकः श्रूयते । अहचैतदभ्यायाम्यमिव प्रयोगाषि क्यादतिदीर्घमिवातोऽत्र दीर्घत्वं लिम् ।

छन्दोदारा प्रशंसति

ताउ गायत्र्यो गायत्र्यो वा एतस्य व्यहस्य माध्यंदिन वहन्ति तद्वतच्छन्दो वहति यस्मिनि

विधीयते तस्मादायत्रीषु निविदं दधाति, इति । पूर्ववव्याख्येयम् । शस्त्रान्तरं विषचे

विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं । सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बाह

तेऽहनि चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्, इति । युध्मस्य ते वृषभस्य०-३-४१-१ । त्यमुवः सत्रासाहं.-८-९२-७। विश्वो देवस्य नेतुः०-५-५०-१। तत्सवितुर्वरेण्यं०-३-१२-१० । मा विश्व देवं सत्पति०-६-८२-७ ।

figlizes in Google

५६७

५. पञ्चमः खण्डः] . ऐतरेयबामणम् ।

विषो देवस्येस्य॒गेका तत्सवितुरिति दे ऋचौ । एष त्र्यचो बृहत्सामसं बन्धी वैश्वदेवस्य प्रतिपत् । आ विश्वदेवमिति चोऽनुचरः । अहो युग्मत्वा. माईतत्वम् । बृहत्सामसंबन्ध एव मवलिङ्गम् ।

सवितृदेवताकं सूक्तं विधत्ते

आ देवो यातु सविता सुरत्न इति सावित्र मेति चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्, इति । नाकारोऽत्र लिम् । पचन्दलियोपेतं मूतं विपत्ते

प्र द्यावा यज्ञैः पृथिवी नमोभिरिति धावाएथि वीयं प्रेति चतुर्थेऽहनि चतुर्थस्याह्नो रूपम् , इति । पशन्दो वाक्संबन्धश्चेति लिङ्गदयोपेतं सूक्तं विधत्ते

प्र ऋभुभ्यो दूतमिव वाचमिष्य इत्यार्भवं प्रेति च वाचमिष्य इति च

चतुर्थेऽहनि चतुर्थस्याह्नो रूपम् , इति । मुदेवताकत्वं स्पष्टम् । प्रशब्दो वाक्संबन्धश्व प्रेति चेत्यादिना प्रदर्यते । मशन्देन शुक्रशब्देन चोपेतं सूक्तान्तरं विधत्ते

प्रशुतु देवी मनीषेति वैश्वदेवं प्रेति च शुक्र

बच्च चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्, इति । बहुदेवताकत्वाद्वैश्वदेवत्वम् । नानाविषच्छन्दोयुक्तत्वरूपं लिङ्गान्तरं दर्शयति

ताउ विच्छन्दसः सन्ति द्विपदाः सन्ति

चतुष्पदास्तेन चतुर्थस्याह्नो रूपम् , इति । वा उ तास्तु सूक्तगता ऋचो विच्छन्दसो विविधच्छन्दोयुक्ताः । तत्रैक विंशतिदिपदाः सन्ति । अवशिष्टाचतुष्पदाः सन्ति । तेन विच्छन्दस्त्वेनाहो निरूपकम् ।

आ देवा यातु सविता०-७-४६-१। प्र द्यावा यज्ञैः पृथिवी नमोभिः० ०-१४-१। प्रभुभ्यो दूतमिव०-४-३३-१। प्र शुकैतु देवी मनीषा

riçizen in Google

७-३४-१।

५६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२२द्वाविंशाध्याये ..अनान्तरस्थ प्रतिपत्सूक्तं विषये

वैश्वानरस्य सुमतौ स्यामेत्यानिमा रुतस्य प्रतिपदितो जात इति जातव

चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्, इति । तस्य सूक्तस्य प्रथमाया ऋचस्तृतीयपाद इतो जात इति श्रवणाजातवच्छ ग्दोपेतं लिमस्ति।

मोवताकं सूक्तं विषत्ते

कई व्यक्ता नरः सनीळा इति मारुतं नकिर्वेषां जनूंषि वेदेति जातवञ्चतु

थेऽहनि चतुर्थस्याह्नो रूपम् , इति । अस्मिन्सूक्ते तृतीयस्याचि मरुद्भिरस्त्विति श्रवणान्मारुत[स्वम् । नकिहीं सादिकः प्रथमाया ऋचस्तृतीयः पादस्तत्र जनूंषीति जनिधातुयुक्तत्वं लिम्।

विविधच्छन्दस्त्वं लिङ्गान्तरं दर्शयति

ताउ विच्छन्दसः सन्ति द्विपदाः सन्ति

चतुष्पदास्तेन चतुर्थस्याह्नो रूपम्, इति । अस्मिन्सूक्त एकादश द्विपदा इतराश्चतुष्पदाः। अच्युतत्वलिझोपेतामृचं विषचे

जातवेदसे सुनवाम सोम

मिति जातवेदस्याऽच्युता, इति । . जातवेदोदेवताकमन्यत्सूक्तं विधत्ते

अमिं नरो दीधितिभिररण्योरिति जात वेदस्यं हस्तच्युती जनयन्तेति जातवच्च

तुर्थेऽहनि चतुर्थस्याह्नो रूपम्, इति । जातस्य जगतो वेदितत्वादमिरेव जातवेदाः । हस्वच्युतीत्यादिद्वितीयः पादस्तत्र जनयन्तेति श्रवणाजनिधातुयुक्तं लिङ्गम् ।

वैश्वानरस्य सुमतौ०-१-९८-१ । क ई व्यका नरः०-७-५६-१ । अग्निं नरो दीधितिमिः०-७-१-१।

Perized by Google५६९

१ प्रथमः खण्डः] ऐतरेयबामणम् ।

विविधच्छन्दोरूपं लिशान्तरं दर्शयति

ता उ विच्छन्दसः सन्ति विराजः सन्ति

त्रिष्टुभस्तेन चतुर्थस्याह्नो रूपमह्नो रूपम् ॥५॥ मनाष्टादन विराज इतरास्टुिभः । अभ्यासोऽध्यायपरिसमाप्त्यर्थः॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

णभाष्य एकविंशाध्याये पञ्चमः खण्डः ॥५॥ [१५८] . इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्य

धुरंधरसायणाचार्यकृतावैतरेयबामणभाष्य

एकविंशोऽध्यायः ॥२१॥