२०

अथ विंशोऽध्यायः ।

‘ज्योतिष्मत्यो भारतो द्वादशाहो

दीक्षाकालो याजनं पाशुकं च ॥ व्यूढच्छन्दोद्वादशाहप्रशंसा

पृष्ठादीनां छन्दसां तत्र क्लुप्तिः ॥ १॥ इदानी द्वादशाहकतौ प्रायणीयोदयनीयावतिरात्रौ यच दशममहस्वत्रितयं वर्जयित्वा यो नवरात्रस्तं विधातुमुपक्रमते

अनिर्व देवता प्रथममहर्वहति त्रिट

स्तोमो रथंतरं साम गायत्री छन्दः, इति । देवतानामग्यो योऽयमग्निरस्ति सोऽयमत्र देवता भूत्वा नवरात्रस्य प्रय ममहर्वहति निष्पादयति । तथा स्तोमानां मध्ये त्रिवृत्स्तोमः प्रथमस्या

.

१ प्रथमः खण्डः] ऐतरेयब्रामणम् ।

५२७ निर्वाहक: साम्नां मध्ये रथंतराख्यं साम प्रथमस्याहः पृष्ठसामनिर्वाहक छन्दसां

मध्ये गायत्रीछन्दः प्रथमस्याहो निर्वाहकम् ।

उक्तार्थवेदनं प्रशंसति

यथादेवतमेनेन यथास्तोमं यथासाम

यथाछन्दसं रानोति य एवं वेद, इति । यः पुमानेवममित्रिवृद्रथंतरगायत्रीछन्दसां प्रथमेऽहनि देवतात्वं स्तोमत्वं प्रष्टसामत्वं छन्दस्त्वं च क्रमेण वेद स पुमाननेन वेदनेन यथादेवतं तस्याह उचितां देवतामनतिक्रम्य तथा स्तोमसामच्छन्दांस्यप्युचितान्यनतिक्रम्य समृद्धो भवति ।

प्रथमेऽह्नि विनियोज्यान्मबविशेषानादौ तावल्लक्षणमुखेन संक्षिप्य दर्शयति

यहा एति च प्रेति च तत्प्रथमस्याह्नो रूपं यद्युक्तव द्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरु च्यते यदयं लोकोऽभ्युदितो यद्राथंतरं यदायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाणि, इति । यदै यस्मिन्नेव मत्र एति च । आकारस्वरनिर्देशार्थमिति चशब्द उपरि प्रयुक्तः । उपसर्गेषु मध्ये योऽयमाङस्ति सोऽयमेतिपरो निर्दिश्यते । तथा प्रेत्युपसर्गनिर्देशः। आ प्रेत्यनयोरुपसर्गयोरन्यतर उपसर्गो यस्मिन्मत्रेऽस्ति तन्मत्रस्वरूपं प्रथमस्याहो रूपं लक्षणमित्यर्थः । तथा यन्मत्रस्वरूपं युक्तवधु निधातूपेतं रथवद्रथशब्दोपेतमाशुमदाशुशब्दोपेतं पिबवत्पिबतिधातूपेतम् । तथा मन्त्रस्य प्रथमे पादे देवता निरुच्यते निर्दिश्यते। तथाऽयं लोको भूलोकोऽभ्यु दितः कथितो भवति । तथा यद्राथंतरं रथंतरसामसंबन्धि गायत्रं गायत्रीछ न्दसः संबन्धि गायत्रं साम वा। करिष्यत्करोतेर्धातोभविष्यत्प्रत्ययान्तमी दृशं यद्यदस्त्येतानि वै सर्वाग्यपि प्रथमस्याह्नो रूपाणि निरूपकाणि लक्ष. णानीत्यर्थः।

एवं लक्षणमुखेन मत्रविशेषान्विधाय प्रतीकोदाहरणेन विस्पष्टं विधत्ते

उप प्रयन्तो अध्वरमिति प्रथ उप प्रयन्तो अध्वरं०-१-७४-१ । १क.म. ट. ‘यमन्वेति परोक्षनि । २ ख. ‘करिष्यते करो।

५२८

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२०विशाध्याये

मस्याह्न आज्यं भवति , इति । प्रकृतौ प्र वो देवायामय इत्यादिशस्त्रं तद्बाधित्वा नवरात्रस्य प्रथमेऽहन्युप प्रयन्त इति सूक्तेनाऽऽज्यशस्त्रं शंसनीयम् ।

तस्मिन्सूक्ते पूर्वोक्तलक्षणेष्वेकं लक्षणं योजयित्वा दर्शयति

प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपम् , इति । प्रशब्दरूपोऽयमुपसर्गः सोऽयं सूक्तगते प्रयन्त इति पदे दृश्यते । अतः . प्रथमेऽहनि विनियोक्तुं योग्यत्वात्प्रथमस्याह्नोऽनुकूलम् ।

मत्रान्तरे लक्षणान्तरं दर्शयति

वायवा याहि दर्शतेति प्रउगमेति प्रथ

मेऽहनि प्रथमस्याह्नो रूपम् , इति । यद्यपि वायवायाहीत्यादिकस्य प्रोपसर्गस्य प्राकृतत्वाचोदकेनैव तत्माप्ति स्तथाऽपि लक्षणं दर्शयितुमयमुपन्यासः । एत्याकाररूपं पदमत्रास्त्यायाहीति श्रुतत्वात् । अतः प्रथमेऽहनि विनियोक्तुं योग्यत्वात्प्रथमस्याहो रूपम् ।

अथ त्र्यचद्वये लक्षणद्वयं दर्शयति

आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ रथवच पिबवच्च प्रथमेऽहनि प्रथमस्याह्नो रूपम् , इति । आ त्वा रथमिति त्र्यूचो मरुत्वतीय शस्त्रस्य प्रतिपत्तच्च रथशब्दोपेतमिदं वसो सुतमिति तस्य शस्त्रस्यानुचरस्तच पिववत्पिवासुपूर्णमिति द्वितीयपादे श्रुतत्वात्मथमेऽहनीत्यादिकं पूर्ववत् ।

मवान्तरं लक्षणान्तरं च दर्शयति

इन्द्र नेदीय एदिहीतीन्द्रनिहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथ

मेऽहनि प्रथमस्याह्नो रूपम्, इति । इन्द्र नेदीय इत्ययमृग्द्वयरूपत्वात्मगाथः। इन्द्रो नितरामाहूयते यस्मिन्य वायवा याहि दर्शतेमे ०-१-२-१ । आ त्वा रथं यथोतये०-८-६८-१। इदं वसो सुतमन्धः०-८-२-१ । इन्द्र नेदीय एदिहि०-८-५३-५ ।।

१ ख. ‘येन ल।

५२९

१ प्रथमः खण्डः]

ऐतरेयब्राह्मणम् । गाये सोऽयमिन्द्रनिहवः। एदिहीत्येवमाहानमत्र श्रूयते । अस्य प्रगाथस्य प्रथमे पाद इन्द्रेति च देवता निर्दिश्यते । तदेतत्पथमस्याहो रूपं लक्षणम् ।

मत्रान्तरे लक्षणान्तरं दर्शयति

#तु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रेति

प्रथमेऽहनि प्रथमस्याह्नो रूपम्, इति । ब्राह्मणस्पत्यः प्रगाथ इत्यनुवर्तते । अत्र प्रशब्दो लक्षणम् ।

अथ मत्रत्रये लक्षणं दर्शयति- .

अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्यप इति धाय्याः प्रथमेषु पदेषु देवता निरुच्यन्ते

प्रथमेऽहनि प्रथमस्याह्नो रूपम् , इति । शस्त्रमध्ये प्रक्षेपणीया ऋचो धाय्याः । अभिनेतेति प्रथमा धाय्या त्वं सोम इति द्वितीया पिन्वन्त्यप इति तृतीया । एतासां तिसृणामृचां प्रथमेषु पादेव मिसोममरुद्देवता निर्दिश्यन्ते । पिन्वन्त्यपो मरुतः सुदानव इति श्रवणात् । सोऽयं देवतानिर्देशो लक्षणम् । ।

मन्त्रान्तरे प्रशब्दरूपं लक्षणं दर्शयति

प्र व इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः

प्रति प्रथमऽहनि प्रथमस्याहा रूपम्, इति । मत्रान्तर आकाररूपं लक्षणं दर्शयति

आ याविन्द्रो वस उप न इति सूक्तमेति

प्रथमेऽहनि प्रथमस्याह्नो रूपम्, इति । अथ निष्केवल्यशस्त्रगतस्य मत्रस्य रथंतरसंबन्धरूपं लक्षणं दर्शयति

अभि त्वा शूर नोनुमोऽभि त्वा पूर्व पीतय

इति रथंतरं पृष्ठं भवति रायंतरेऽहनि प्रथ प्रेतु ब्रह्मणस्पतिःप्र०-१-४०-३ । अग्निर्नेता भग इव०-३-२१-४ । त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं०-१-९१-२ । पिन्वन्त्यपो मरुतः०-१-६४-६ । प्रव इन्द्राय बृहते०-८-८९-३ । आ याविन्द्रो वस०-४-२१-१ । अभि वा शूर. नोनुमः०-७-३३-२२ । अभि त्वा पूर्वपीतये०-८-३-७ ।

….

.

…….

..

५३० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२० विशाध्याये

मेऽहनि प्रथमस्याह्नो रूपम् , इति । अभि त्वा शूरेति रथंतरसानो योनिभूतः। अभि त्वा पूर्वपीतय इति तस्यानुचरः। अतोऽभि त्वा शूरेत्यत्र रथंतरसामसाध्यं पृष्ठं भवति । इदं प्रगा. थद्वयं रथंतरसामसंबन्धिन्यहनि योग्यमतो रथंतरसंबन्धस्य रूपस्य लक्षणस्य सद्भावात्मथमेऽहनि प्रयुज्यते ।

मन्त्रान्तरे त्वाकाररूपं लक्षणं दर्शयति

यहावान पुरुतमं पुराषाळिति धाय्याऽऽ वृत्रहेन्द्रो नामान्यप्रा इत्येति प्रथ

मेऽहनि प्रथमस्याह्नो रूपम्, इति । यद्वावानेति शस्त्रमध्ये प्रक्षेपणीया । तस्या द्वितीयपादादावा हत्र हेत्या कारः श्रुतः।

मत्रान्तरे पिबतिधातुरूपं लक्षणं दर्शयति

पिबा सुतस्य रसिन इति सामप्रगाथः पिब

वान्प्रथमेऽहनि प्रथमस्याह्नो रूपम् , इति । पिबा सुतस्येत्ययं कस्यचित्सामविशेषस्याऽऽधारभूतः प्रगाथः । अथ निविद्धानीयस्य मूक्तस्याऽऽदौ किंचित्सूक्तान्तरं विधत्ते

त्यमू षु वाजिनं देवजूतमिति तार्य पुरस्तात्सूक्तस्य

शंसति स्वस्त्ययनं वै तायः स्वस्तितायै, इति । तायो देवताऽस्य ताय स्वस्त्ययनं क्षेममाप्तिरूपमतो निविद्धानीयमू क्तस्य पुरस्तात्तायसूक्तशंसनं स्वस्तितायै यजमानस्य क्षेमाय भवति ।

वेदनं प्रशंसति

वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य

पारमश्नुते य एवं वेद ॥ २९ ॥ इति ।

यद्वावावान पुरुतमं०-१०-७४-६ । पिबा सुतस्य रसिनः०-८-३-१॥ स्यमू षु वाजिनं०-१०-१७८-१।

१२. अभि।

२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

वेदिताऽनेन वेदनेन स्वस्त्ययनमेव क्षेमप्राप्तिमेव संपादयति । तथा द्वादशा. इद्वारा संवत्सरसत्रस्य पारमभुते समाप्ति पामोति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये विशाध्याये प्रथमः खण्डः ॥१॥ (२९) [ १५०]

यस्य मूक्तस्य पुरस्तात्तायशंसनं विहितं तस्मिमिविद्धानसूक्त आकार रूपं लक्षणं दर्शयति

आ न इन्द्रो दूरादा न आसादिति मूक्त

मति प्रथमेऽहनि प्रथमस्याह्नो रूपम्, इति । इदानीं निष्केवल्यमरुत्वतीययोः शस्त्रयोनिविद्धाने सूक्ते स्तोतुमाह

संपातौ भवतो निष्केवल्यमरुत्वतीययोनि विद्वाने वामदेवो वा इमाल्लोकानपश्यत्तान्सं पातैः समपतयसंपातैः समपतत्तसंपातानां संपातत्वं तद्यत्संपातौ प्रथमेऽहनि शंसति

स्वर्गस्य लोकस्य समष्टय संपत्त्यै संगत्य, इति । संपत्तिं प्रामुवन्त्याभ्यां यजमानाः सर्वाल्लोकानिति संपातौ निष्केवल्यमरु स्वतीयनिविद्धानयोः सूक्तयोर्वैकृतयोः संपात इति संज्ञा । आ याविन्द्रो वस इति मरुत्वतीयशस्त्रस्य निविद्धानं सूक्तम् । आ न इन्द्र इति निष्केव ल्यस्य निविद्धानं सूक्तम् । एतयोः संपात इति संज्ञा प्रतिपाद्यते। पुरा कदा. चिद्वामदेव इमान्भूरादील्लोकान्दृष्ट्वा तत्मात्प्युपायं विचार्य संपातसूक्तैस्तान्मा सवान् । अतः संपतति सम्यक्पामोति लोकानेतरिति संपातत्वं नाम संप मम् । तथा सत्यत्र प्रयमेऽहनि निष्केवल्यमरुत्वतीययोः संपातनामकसूक्ते यदि शंसेचदानीं तच्छंसनं स्वर्गलोकप्राप्तिभोग्यवस्त्रसंपत्तितद्भोगसंबन्धार्थ संपद्यते।

अथ द्वयोव्युचयो रयंतरसंबन्धरूपं लक्षणं दर्शयति

तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति __ आ न इन्द्रो दूरादा न०-४-२०-१ । तत्सवितुर्वृणीमहे ०-५-८२-१। अद्या नो देवसवितः०-५-८२-४ ।

’ १ ख. ‘नाः स्वर्गलोका । २ क. ‘सूक्तं य ।

.

५३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२० विंशाध्याये

वैश्वदेवस्य प्रतिपदनुचरौ रायंतरेऽहनि

प्रथमेऽहनि प्रथमस्याह्नो रूपम् , इति । अद्या न इति न्यूचस्तस्यानुचरोऽत उभयोरपि रथंतरसंबन्धोऽस्तीति रथ तरसंबद्धेऽहनि योग्यताऽस्ति ।।

सूक्तान्तरे युजिधातुरूपं लक्षणं दर्शयति

युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्त

वत्प्रथमेऽहनि प्रथमस्याही रूपम् , इति । प्रथमाया ऋचोऽवसाने देवस्य सवितुः परिष्टुतिरिति श्रुतत्वादिदं सवि. तृदेवताकम् । युजिधातुस्तु विस्पष्टः ।

सूक्तान्तरे प्रशब्दरूपं लक्षणं दर्शयति

प्र द्यावा यज्ञैः पृथिवी ऋताधेति द्यावाप्रथि वीयं प्रति प्रथमेऽहनि प्रथमस्याह्नो रूपम्, इति । अस्मिन्वैश्वदेवशस्त्रे सूक्तान्तरं विधत्ते

इहेह वो मनसा बन्धुता नर इत्यार्भवं यदा एति च प्रेति च तत्प्रथमस्याह्नो रूपं तद्य स्प्रेति सर्वमभविष्यत्प्रेष्यन्नेवास्माल्लोकाद्यज माना इति तद्यदिहेह वो मनसा बन्धुता नर इत्यार्भवं प्रथमेऽहनि शंसत्ययं वै

लोक इहेहास्मिन्नेवैनांस्तल्लोके रमयति, इति । इहेह व इत्येतत्सूक्तमृभुदेवताक द्वितीयाया ऋचोऽन्ते तेन देवत्वमुभवः समानशेति अषणात् । आकारमशब्दादिकं लक्षणं मत्रे नास्तीत्याशङ्क्य यद्वेत्यादिना तत्सद्भावे बाध उपन्यस्यते । यदेतदेति च प्रेति चेति तदेतत्पथ. मस्याहो रूपं लक्षणमिति पूर्वमुक्तं तत्तथा सति यदि प्रेत्यनेन लक्षणेन युक्तं सर्व सूक्तजातमभविष्यत्तदानीं यजमाना अस्माल्लोकात्पैष्यन्मेष्यन्ति मरिष्य

युञ्जते मन उत०-१-८१-१ । प्र द्यावा यज्ञैः पृथिवी०-१-१५९-१। इहेह वो मनसा०-३-६०-१।

. १ ख. त्र्यचः प्रतिपदनु । २ रोऽनयोरुभ।

२ द्वितीयः खण्डः]

ऐतरेयब्राह्मणम् । न्त्येवेति बाधोपन्यासः। तद्यदित्यादिना समाधानमुपन्यस्यते । यस्मात्मश ब्दयोगे बाधोऽस्ति तस्मात्कारणादिहेहेति सूक्तं यदि प्रथमेऽहनि शंसेत्त दानीमिहेहशब्देनास्य भूलोकस्य विवक्षितत्वादस्मिन्नेव भूलोके तत्सूक्तपाठे नैनान्यजमानारमयति चिरं क्रीडयति । ततः प्रशब्दप्रयुक्तो मरणबाधोऽपि परिहतो भवति ।

सूक्तान्तरस्य प्रथमपादे देवताभिधानं लक्षणं दर्शयति

देवान्हुवे बृहच्छ्वसः स्वस्तय इति वैश्व देवं प्रथमे पदे देवता निरुच्यन्ते प्रथ

मेऽहनि प्रथमस्याह्नो रूपम् , इति । देवानित्यादिके सूक्ते बहुवचनान्तस्य देवशब्दस्य श्रवणादेवतावाहुल्येनेदं सूक्तं वैश्वदेवम् । प्रथमपादे देवशब्दस्तु विस्पष्टः ।

तत्र स्वस्तिशब्दस्य तात्पर्य दर्शयति

महान्तं वा एतेऽध्यानमेष्यन्तो भवन्ति ये संवत्सरं वा दादशाहं वाऽऽसते तद्यद्दे वान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं

प्रथमेऽहनि शंसति स्वस्तितायै, इति । ये यजमानाः संवत्सरसत्रं द्वादशाहं वाऽनुतिष्ठन्ति, एते दीर्घमध्वानं गन्तु मुद्युक्ता भवन्ति । प्रयोगबाहुल्येनैकाहवत्सहसा समाप्त्यभावात् । अतो देवा नित्यादिसूक्ते स्वस्तय इत्येतस्य पदस्य शंसनं स्वस्तितायै क्षेमार्थ भवति ।

वेदनं प्रशंसति

स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद येषां चैवं विद्वा नेतरोता देवान्हुवे बृहच्छ्वसः स्वस्तय

इति वैश्वदेवं प्रथमेऽहनि शंसति, इति । उतार्थस्य वेदिता तेन स्वस्त्ययनमेव द्वादशाहस्य क्षेमप्राप्तिमेव कुरुते । क्षेमेणैव संवत्सरसत्रस्य समाप्ति प्रामोति । किंच येषां यजमानानामुक्तार्थवेदी

देवान्हुवे बृहच्छ्वसः०-१०-६६-१।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्– [२० विशाध्याये होता शंसति तेऽपि यजमाना द्वादशाहं क्षेमेणैव प्रामुवन्ति संवत्सरसत्रं च समापयन्ति ।

सूक्तान्तरस्य प्रथमे पादे देवताभिधानलक्षणं दर्शयति

वैश्वानराय पृथुपाजसे विप इत्यानिमारु तस्य प्रतिपत्प्रथमे पदे देवता निरुच्यते

प्रथमेऽहनि प्रथमस्याह्नो रूपम् , इति । आग्निमारुतशस्त्रस्य वैश्वानरायेति सूक्तं प्रतिपत्कर्तव्यम् । स एव शब्दो विस्पष्टं देवतामभिधत्ते।

सूक्तान्तरे प्रशब्दरूपं लिङ्गं दर्शयति

प्रत्वक्षसः प्रतवसो विरप्शिन इति मारुतं

प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपम्, इति । प्रत्वक्षस इति सूक्ते द्वितीयस्या ऋचो द्वितीयपादे वय इव मरुत इति श्रव णादिदं सूक्तं मरुद्देवताकं शंसेत् । अत्र प्रशब्दो विस्पष्टः । । वक्ष्यमाणस्य जातवेदस्यसूक्तस्य पुरस्तादेतामृचं विधते

जातवेदसे सुनवाम सोममिति जातवे दस्यां पुरस्तात्सूक्तस्य शंसति स्वस्त्य

यनं वै जातवेदस्याः स्वस्तितायै, इति । जातवेदा देवता यस्या ऋचः सेयं जातवेदस्या । तदेवताकत्वं प्रथमपादे देवताभिधानं लिङ्गं च विस्पष्टम् । अस्यामृच्यरातीयतो निदहातीति शत्रुदाह श्रवणानावेव सिंधुमिति नौदृष्टान्तेन दुरितात्ययश्रवणाच स्वस्त्ययनं क्षेमगम: नमत्र विद्यते । तस्मादियं क्षेममाप्तये भवति ।

वेदनं प्रशंसति

स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्स

रस्य पारमश्रुते य एवं वेद, इति । वैश्वानराय पृथुपाजसे०-३-३-१ । प्रत्वक्षसः प्रतवसः०-१-८७-१ । जातवेदसे सुनवाम०-१-९९-१ ।

१ ख. “देकाम।..

३ तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।

५१५ सूक्तान्तरे प्रशब्दलिङ्गं दर्शयति

प्रतव्यसी नव्यसी धीतिममय इति जातवेदस्यं

प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपम् , इति । यद्यप्यस्मिन्सूक्ते जातवेदःशब्दो न श्रुतस्तथाऽऽपि तदर्थवाची शब्दः श्रूयते । जातमुत्पन्न विश्वं तद्वेत्तीति जातवेदास्तत्पर्यायो विश्ववेदःशब्दः । स च यमेरिरे भृगवो विश्ववेदसमिति चतुर्थ्यामृचि श्रूयते । तस्मादिदं सूक्तं जात वेदस्यं निविद्धानीयं सेत् । अत्र प्रतव्यसीमिति प्रशब्दो विस्पष्टः । वैश्वानरायेत्यादिकं यदानिमारुतं शस्त्रमुक्तं तदेतत्पशंसति

समानमानिमारुतं भवति यचामिष्टोमे यदै यज्ञे समानं क्रियते तत्प्रजा अनु समनन्ति

तस्मात्समानमानिमारुतं भवति ॥३०॥ इति । अस्मिन्प्रयमेऽहनि यदानिमारुतं शस्त्रमुक्तं यच्चाग्निष्टोमे पूर्वनिरूपितमामिमा रुतशस्त्रं तदुभयं समानमेकविधं न्यूनाधिकमत्राणामभावात् । यज्ञे यदेवाएं समानं क्रियते तदामनु पश्चात्मजा ऋत्विग्रूपाः पुत्रादिरूपाश्च समनन्ति सम्य क्चेष्टन्ते सुखेन जीवन्तीत्यर्थः । तस्मात्समानं तुल्यमानिमारुतशस्त्रं कर्तव्यम् । अत्र प्रथमस्याह्रो लिङ्गेष्वाशुमद्गायत्रं करिष्यदयं लोकोऽभ्युदित इति लिङ्गचतु. टयमंत्र नोदाहृतं तद्यथासंभवमन्वेष्टव्यम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्म णभाष्ये विशेऽध्याये द्वितीयः खण्डः ॥२॥ (३०) [१५१]

द्वादशाहगतनवरात्रे प्रथममहनिरूप्य द्वितीयमहनिरूपयति

इन्द्रो वै देवता द्वितीयमहर्वहति पञ्च

दशस्तोमो बृहत्साम त्रिष्टुप्छन्दः, इति । देवतानां मध्य इन्द्रो देवता स्तोमानां मध्ये पञ्चदशस्तोमः सानां मध्ये बृहत्साम च्छन्दसां मध्ये त्रिषुप्छन्द इत्येतचतुष्टयं द्वितीयस्याह्नो निर्वाहकम् ।

प्रतव्यसी नव्यसी धीति०-१-१४३-१ ।

१ ख. यदै । २ ख. स. ट. °मत्र नोदा।

५३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२० विशाध्याये

वेदनं प्रशंसति

यथादेवतमेनेन यथास्तोमं यथासाम

यथा छन्दसं रानोति य एवं वेद, इति । वेदिता स्वकीयवेदनेन यथोक्तदेवतास्तोमसामच्छदास्यनतिक्रम्य तत्मसा देन समृद्धो भवति ।

अथ द्वितीयस्याहो गमकानि मत्रगतानि लिङ्गानि निर्दिशति

यदै नेति न प्रेति यत्स्थितं तद्वितीयस्याह्नो रूपं यदूर्ध्ववद्यत्पतिवद्यदन्तर्वद्यदृषण्वद्यहृध न्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्त रिक्षमभ्युदितं यद्वार्हतं यत्रैष्टुभं यत्कुर्वदे

तानि वै द्वितीयस्याह्नो रूपाणि, इति । प्रथमस्याह्न एति प्रेति लिङ्गद्वयं यद्वै यदेवोक्तं तदत्र द्वितीयस्याहो लिङ्गं न भवतीति नकारद्वयेनोभयं निषिध्यते । यत्स्थितं तिष्ठतिधातुरूपवद्बहुषु स्थानेष्वप्रच्युतत्वेनावस्थितं वा मन्त्रे दृश्यते तद्वितीयस्याहो रूपं लिङ्गम् । तथैवोर्ध्वशब्दोपेतं प्रतिशब्दोपेतमन्तःशब्दोमेतं वृषश(शब्दोपेतं वृधशब्दो पेतं च यदानातं तत्सर्वं द्वितीयस्याहो रूपम् । यत्र साक्षाच्छब्दो न धूयते तत्र तदर्थो द्रष्टव्यः । मध्यमे पदे देवताभिधानमन्तरिक्षलोकाभिधानं बृहत्सा मसंबन्धं त्रिष्टुप्छन्दःसंबद्धं वर्तमानार्थप्रत्यययुक्तं करोतिधातुरूपमित्येतानि सर्वाणि द्वितीयस्याहो रूपाणि निरूपकाणि लिङ्गानि द्रष्टव्यानि ।

अस्मिन्द्वितीयेऽहन्याज्यशस्त्रं विधत्ते

अनि दूतं वृणीमह इति द्वितीयस्याह्न आज्यं भवति कुर्वद्वितीयेऽहनि द्वितीयस्याह्नो रूपम् , इति । अत्र कुर्वदिति लिङ्गोपन्यासः । यद्यप्यग्निं दूतमित्यादौ साक्षात्कुर्वच्छब्दो न श्रूयते तथाऽपि करोत्यर्थस्य सर्वधातुगतसामान्यत्वाद्वर्तमानार्थवाचिप्रत्य यान्तं धातुमात्रं कुर्वच्छब्देन विवक्षितम् । अत्रापि वृणीमह इति वर्तमानार्थ वाचिप्रत्ययान्तो धातुः श्रूयते । तस्माद्वितीयेऽहन्येतत्सूक्तं विनियोक्तुं योग्यम् । ततो द्वितीयस्याहो लिङ्गम् ।

अग्निं दूतं वृणीमहे ०-१-१२-१ ।

१ ख. दृश्यते।

३ तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।

। ५३७ आज्यशस्खं विधाय प्रउगशस्त्रं विधत्ते वायो ये ते सहस्रिण इति प्रउगं सुतः सोम ऋता धेति वृधन्वद्दितीयेऽहनि द्वितीयस्याह्नो रूपम्, इति । वायो ये त इत्यादिकं शस्त्रं कुर्यात् । एतस्मिन्सूक्ते चतुर्ध्या ऋचो द्वितीयः पादः सुतः सोम ऋतारधेति । अस्य पादस्यान्ते वृषेति श्रवणादिदं मउगं वृधन्ववृषिधातुयुक्तम् । द्वितीयशस्खस्य त्र्यच इत्यादिकं पूर्ववत् ।

अथ मरुत्वतीयं शस्त्रं विधते

विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ वृधन्वन्चान्तर्वच

द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्, इति । विश्वानरस्येत्ययं त्र्यचः शस्त्रस्य प्रतिपत्तस्मिंत्र्यचे द्वितीयस्या ऋचःमय मपादे वृधन्वाधिधातुयुक्तं लिङ्गमस्ति । अभिष्टये सदाधमिति श्रवणात् । इन्द्र इदित्ययं त्र्यचोऽनुरूपस्तत्रान्तःशब्दयुक्तं लिङ्गमस्ति । प्रथमाया ऋच स्तृतीयपादेऽन्तर्देवानिति श्रवणात् ।

अथ प्रगाथट्ये लिङ्गद्वयं दर्शयति

इन्द्र नेदीय एदिहीत्यच्युतः प्रगाथ उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्य ऊर्ध्ववान्दि

तीयेऽहनि द्वितीयस्याह्नो रूपम् , इति । इन्द्र नेदीय इत्यादिकः प्रगायः प्रथमेऽहन्यपि विहित उत्तरत्रापि विधा स्पते । तस्मादत्र विधीयमानोऽच्युतो भवति अच्युतेरभावात् । तदिदमच्युतत्वं स्थितशब्दार्थत्वास्थितवल्लिङ्गम् । उत्तिष्ठेत्ययं प्रगाथ ऊर्ध्वलिङ्गवान् । ऊर्ध्व चाचिन उच्छब्दस्य श्रवणात् ।

अथ तिसृषु धाय्यास्वच्युतत्वलिङ्गं दर्शयति

अग्निता त्वं सोम क्रतुभिः पिन्वन्त्यप इति वायो ये ते सहस्रिणः०-२-४१-१ । विश्वानरस्य वस्पति०-८-६८-४ । इन्द्र इत्सोमपा एकः०-८-२-४ । इन्द्र नेदीय एदिहि०-८-५३-५ । उत्तिष्ठ ब्रह्मणस्पते०-१-४०-१ अग्निर्नेता मग०-३-२१-४ । त्वं सोम क्रतुभिः– १-९१-२ । पिन्वन्त्यपो मरुतः०-१-६४-६ ।

तत्वादच्युतकात दितीया

मगाथान्तरे

५३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२० विशाध्याये

धाय्या अच्युताः, इति । अमिर्नेतेति प्रथमा धाय्या त्वं सोमेति द्वितीया पिन्वन्तीति तृतीया । प्रय मेऽहन्यप्येतासां विहितत्वादच्युतत्वम् ।

प्रगाथान्तरे लिङ्गं दर्शयति

बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो येन ज्योतिरजनयनृताध इति वृधन्वान्दि

तीयेऽहनि द्वितीयस्याह्नो रूपम् , इति । बृहदिन्द्रायेत्येष मरुद्देवताको मरुतो वृत्रहन्तममिति द्वितीयपाद मरुतां श्रवणात् । तस्य येन ज्योतिरिति तृतीयः पादस्तत्र ऋताध इति श्रवणादयं मगायो वृधिधातुरूपलिङ्गवान् ।। लिङ्गदर्शनद्वारा सूक्तं विधत्ते

इन्द्र सोमं सोमपते पिबेममिति सूक्तं सजोषा रुद्रैस्तृपदा वृषवेति वृषण्वद्दि

तीयेऽहनि द्वितीयस्याह्नो रूपम् , इति । इन्द्र सोममित्यस्मिन्सूक्ते सजोषा इत्यादिको द्वितीयस्या ऋचश्चतुर्थः पाद स्तत्र वृषस्वेति श्रवणादृषण्वल्लिङ्गमस्ति । __ अथ निष्केवल्यशस्त्रस्य स्तोत्रियानुरूपयोः प्रगाथयोहत्सामसंबन्धरूपं लिङ्गं दर्शयति

खामिद्धि हवामहे वं ह्येहि चरेख इति बृहत्पृष्ठं भवति बार्हतेऽहनि द्विती

येऽहनि द्वितीयस्थाह्रो रूपम्, इति । स्वामिद्धीति बृहत्सान्न आधारभूतः स्तोत्रियः प्रगाथस्त्वं होहीत्यनुचरः प्रगायः। प्रथमे प्रगाथे बृहत्सामयुक्तं पृष्ठस्तोत्रं भवति । अत्र प्रगाथद्वयस्य बृहत्सामसंवन्धाबाईते बृहत्सामसंबन्धिन्यहनि तदुभयं योग्यम् । द्वितीयस्य

बृहदिन्द्राय गायते०-८-८९-१ । इन्द्र सोमं सोमपते०-३-३२-१। स्वामिद्धि हवामहे ०-६-४६-१ । त्वं ह्येहि चेरवे०-८-६१-७॥

१ क. स. ट. “दे

४ चतुर्थः खण्डः] ऐतरेयब्रामणम् ।

५३९ चाहो बृहत्सामसंबन्धित्वात्तस्मिन्नहनि विनियोक्तव्यम् । अयं च वृहत्सामसं बन्धो द्वितीयस्याहो लिङ्गम् ।

अथैकस्यामृच्यच्युतत्वलिङ्गं दर्शयति

यहावानेति धाय्याऽच्युता, इति । प्रथमेऽहन्यप्यस्या ऋचो विहितत्वादच्युतत्वम् । अथ प्रगाथान्तरे बृहत्सामसंबन्धिरूपं लिङ्ग दर्शयति

उभयं शृणवच्च न इति सामप्रगाथो यच्चे दमद्य यदु च ह्य आसीदिति बार्हतेऽहनि

द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्, इति । उभयमित्यादिको बृहत्साम्ना सह प्रयुज्यमानः प्रगाथः । उभयशब्दस्य कोऽर्थः सोऽभिधीयते । अद्यास्मिन्दिने यत्कार्यमासीदिदं च कार्यमेकं यदु च यदपि यः पूर्वेयुः कार्यमासीत्तदपीत्येवं कार्यद्वयं शृणवच्छूतमासीदिति मन्त्रगतस्योभयं शृणवदित्यस्यार्थः । वाहत इत्यादि पूर्ववत् ।

सूक्तान्तरे पूर्ववदच्युतत्वलिङ्ग दर्शयति त्यमू षु वाजिनं देवजूतमिति तार्योऽच्युतः ॥३१॥ इति ।

ताीदेवताकस्य सूक्तविशेषस्य प्रथमेऽहनि विहितत्वादुत्तरोचरोपयोक्ष्य माणत्वादच्युतत्वम् ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयग्रामण

भाष्ये विशाध्याये तृतीयः खण्डः ॥।॥ (३१) [१२] सूक्तान्तरे वृषशब्दोपेतं लिङ्गं दर्शयति

या त ऊतिरखमा या परमेति सूक्तं जहि वृष्ण्यानि कृणुही पराच इति वृषण्वद्

द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् , इति । या त ऊतिरित्यस्मिन्सूक्ते जहि वृष्ण्यानीति तृतीयस्या ऋचश्चतुर्थः पाद स्तत्र वृषशब्दादुक्तं लिङ्गं दृश्यते ।

यद्वावान पुरुंतमं०-१०-७४-६ । उभयं शृणवञ्च नः०-८-६१-१त्यम षु काजिनं देवनूतं.-१०-१७८-१। या त ऊविरवमा या परमा०-६-२१-१।

५४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२० विशाध्याये

अथ वैश्वदेवशस्त्रगतयोस्चयोद्धृहत्सामसंबन्धं रूपं दर्शयति

विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सप्ततिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽ

हनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्, इति । विश्वो देवस्येत्येका ऋक्तत्सवितुरिति द्वे ऋचौ । सोऽयमेकत्यूचो बृह सामसंबन्धभूतो वैश्वदेवशस्त्रस्य प्रतिपद्भवति । आ विश्वदेवमित्येष त्र्यचस्त स्यानुचरः । अत उभयोबृहत्सामसंबन्धः।

सूक्तान्तरे लिकं दर्शयति

उदु ष्य देवः सविता हिरण्ययेति सावित्रमूर्ध्व

वद्वितीयेऽहनि द्वितीयस्याह्नो रूपम् , इति । अस्मिस्यूचात्मके सावित्रसूक्त ऊर्ध्ववाचिन उच्छब्दस्य श्रवणादूर्ववल्लि जमस्ति ।

सूक्तान्तरे लिङ्गं दर्शयति

ते हि द्यावाप्रथिवी विश्वशंभुवेति द्यावापृथि वीयं सुजन्मनी धिषणे अन्तरीयत इत्यन्तर्व

द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् , इति । अस्मिन्यावापृथिवीये सूक्ते सुजन्मनी इत्येष प्रथमाया ऋचस्तुरीयः पादः। तत्रान्तःपदस्य श्रूयमाणत्वादन्तर्वल्लिङ्गम्।।

मूक्तान्तरे लिङ्गं दर्शयति

तक्षत्रथं सुकृतं विद्यनापस इत्यामवं तक्ष न्हरी इन्द्र वाहा वृषण्वसू इति वृषण्वहि ’ तीयेऽहनि द्वितीयस्याह्नो रूपम्, इति । तक्षन्रथमिति सूक्तमभुदेवताकम् । प्रथमाया ऋचस्तृतीयपादे तान्पिढभ्या विश्वो देवस्य नेतुः०-५-९०-१। तत्सवितुर्वरेण्यं०-३-१२-१०। आ विश्वदेवं सत्पति०-१-८२-७ । उदु ष्य देवः सविता०-६-७१-१॥ ते हि यावापृथिवी विश्व०-१-१६१-१॥तक्षत्रयं सुवृतं विद्मनाप सः०-१-१११-१॥

१. लिा।

४ चतुर्थः खण्डः] ऐतरेयबापणम् ।

५४१ मभव इति श्रवणात् । तत्रैव तक्षन्हरी इत्यादिको द्वितीयः पादस्तस्मिन्वृष ग्वसू इति वृषण्वल्लिङ्गं दृश्यते । सूक्तान्तरे लिङ्गं दर्शयति

यज्ञस्य वो रथ्यं विश्पति विशामिति वैश्व देवं वृषाकेतुर्यजतो द्यामशायतेति वृषण्व

इद्वितीयेऽहनि द्वितीयस्याङ्नो रूपम्, इति । यज्ञस्येत्यादिसूक्त इन्द्रो मित्रो वरुण इत्येवं बहुदेवताश्रवणादिदं वैश्व देवम् । वृषाकेतुरित्येष प्रथमायाश्चतुर्थः पादस्तत्र वृषण्वल्लिङ्गमस्ति ।

तदेतत्सूक्तं प्रशंसति

तदु शार्यातमङ्गिरसो वै स्वर्गाय लोकाय सत्र मासत ते ह स्म द्वितीयं द्वितीयमेवाहरागत्य मुह्यन्ति तान्वा एतच्छार्यातो मानवो द्वितीयेऽ हनि सूक्तमशंसयत्ततो वै ते प्र यज्ञमजानन्य स्वर्ग लोकं तदेतत्सूक्तं द्वितीयेऽहनि शंसति

यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्य, इति । तदु यज्ञस्य वो रथ्यमित्यादिकं सूक्तं शार्यातस्य कस्यचिन्महर्षेः संबन्धा दित्यवर्गन्तव्यम् । कथं संबन्ध इति तदुच्यते । पुरा कदाचिदहिरसो वै मह र्षयः स्वर्गार्थ सत्रमनुष्ठातुमुद्युक्तास्ते महर्षयो यस्मिन्यस्मिन्सो पृष्ठचपळ(द). हस्य द्वितीयमहरनुतिष्ठन्ति तत्र सर्वत्र द्वितीयेऽहनि शस्त्रबाहुल्यात्कुत्र किं शस्त्रं पठितव्यमित्यज्ञात्वा मुह्यन्ति । तदानीं शार्यातनामकः कश्चिन्मानव ऋत्विग्भूत्वा तानबिरसो महर्षीन्यज्ञस्य व इत्यादिकं सूक्तं द्वितीयेऽहन्यशंस यत् । ततः सूक्तमभावादेव ते महर्षयो यहं म(मा)जानन्यझं प्रकर्षेण हात वन्तः । तघनसाध्यं स्वर्ग लोकं च प्र(प्रा)जानन् । तस्माद्वितीयेऽहन्येतस्य

शस्त्रान्तरस्य प्रतिपदि लिङ्गं दर्शयति

यज्ञस्य वो रथ्यं विश्पति ०-१०-९२-१ । १ ख. शार्यातेः । २ ख. गतम । ३ ख. पलिक

५१२

सायण

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२०विंशोऽध्यायः पृक्षस्य वृष्णो अरुषस्य नू सह इत्या निमारुतस्य प्रतिपदृषण्वद्वितीये

हनि द्वितीयस्याह्नो रूपम् इति । तत्र वृष्ण इति श्रवणावृषण्वल्लिङ्गम् । मारुतसूक्ते लिङ्ग दर्शयति-. .

वृष्णे शर्धाय सुमखाय वेधस इति मारुतं वृष . वद्वितीयेऽहनि द्वितीयस्याह्नो रूपम् , इति ।

अत्र प्रथमाया ऋचो द्वितीयपादे प्रभरा मरुद्भ्य इति श्रवणादिदं सूक्तं मारु तम् । वृषण्वल्लिा स्पष्टम् ।

जातवेदस्यायामृच्यच्युतत्वलिङ्ग दर्शयति जातवेदसे सुनवाम सोममिति जातवेदस्याऽव्युता, इति । प्रथमेऽहन्यस्या ऋचो विहितत्वादच्युतत्वम् । सूक्तान्तरे लिङ्गं दर्शयति

यज्ञेन वर्धत जातवेदसमिति जातवे दस्यं वृधन्वद्वितीयेऽहनि द्वितीय

स्याह्नो रूपमह्नो रूपम् ॥ ३२ ॥ इति । जातवेदोदेवताकत्वं वृधन्वल्लिङ्गं चात्र विस्पष्टम् । अभ्यासोऽध्यायपरिस: माप्त्यर्थः ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवा

मणभाष्ये विशाध्याये चतुर्थः खण्डः ॥४॥ (३२) [१५३] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्यधुरंध.

रसायणाचार्यकृतावैतरेयबामणभाष्ये विंशोऽध्यायः ॥२०॥ Red. on…

इत्युतरेयब्राह्मणे चतुर्थपश्चिका समाप्ता ॥४॥ 25. …..Ja

विकाङ्काः-४ । अध्यायाङ्काः-२० । अण्डा:-१५३ ] 7. K. Ne..3.3.318

पृक्षस्य वृष्णो अरुषस्य-६-८-१वृष्णे शर्धाय सुमखायल- ‘-१४-१॥ * भातवेदसे मगवाम गेम०-१-९९-१। यजेन वर्धत आतवेद -१-१-१॥

SITU

1188108 11611TOTS

LIORAR