अथैकोनविंशोऽध्यायः।
अभिप्लवः स्यात्पडहोऽय मास
स्यहोऽय पूर्वः स्वरसामनामा ॥
५०६ श्रामत्सायणाचार्यविरचितभाष्यसमेतम् - [१९एकोनविं०ध्याये
गवां च शस्त्रस्य ततः प्रशंसा
मध्ये दिवाकीर्त्यमहश्च तस्य ॥ १॥ अथ द्वादशाहो वक्तव्यः । तदर्थमाख्यायिकामाह
प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमं द्वादशाहम पश्यदात्मन एवाङ्गेषु च प्राणेषु च तमा स्मान एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत तमाहरत्तेनायजत ततो वै सोऽ
भवदात्मना प्र प्रजया पशुभिरजायत, इति । प्रजापतिः प्रजोत्पादनेनातिप्रभूतः स्यामिति कामयित्वा तत्साधनं निणेतुं चित्तैकाव्यलक्षणं तपः कृत्वा स्वाभीष्टसाधनत्वेन स्वकीयेषु हस्तपादायङ्गेषु प्राणादिवायुषु चावस्थितं द्वादशाहं दृष्ट्वा तं स्वाङ्गेभ्यः प्राणेभ्यश्च निःसार्य द्वादशधा कृत्वा निर्मितवान् । ततो निर्मितमाहृत्य तेनेष्ट्वा स. प्रजापतिरभवत्, भूति प्राप्तवान् । आत्मना स्वेनैव रूपेण सर्वाधिको भूत्वा प्रजापशुरूपेण बहुलं पाजायत।
वेदनं प्रशंसति
अवत्यात्मना प्र प्रजया पशु
भिर्जायते य एवं वेद, इति । अनेनार्थवादेन द्वादशाहयागविधिरुन्नेयः । तथा च शाखान्तरे विधिः श्रूयते-‘यः कामयेत प्रजायेयेति स द्वादशरात्रेण यजेत मैव जायते’ इति ।
सोऽकामयत कथं नु गायत्र्या सर्वतो हादशाह परिभूय सर्वामृद्धिमृध्नुयामिति तं वै तेजसैव पुर स्तात्पर्यभवच्छन्दोभिर्मध्यतोऽक्षरैरुपरिष्टागायच्या सर्वतो हादशाहं परिभूय सर्वामृद्धिमाोद, इति । स प्रजापतिः पुनरेवमकामयत । कथं नु केन खलु प्रकारेण गायत्र्या सर्वतो द्वादशाहं व्याप्य सर्वां भोग्यवस्तुसमृद्धिमामुयामिति विचार्य गायत्री
१ ख. स.’ त तत्प्रजा’ । २ ख. श. बहु ।
१ प्रथमः खण्डः ] ऐतरेयब्राह्मणम् ।
५०७ अंधा व्यभजत । ध्वनिरूपं तेज एको भागोऽक्षरसंख्ययाऽभिव्यज्यमानं छन्दो द्वितीयो भागोऽक्षराणि तृतीयो भागः । तैत्रिभिर्भागैरादिमध्यावसानेषु सर्वतो द्वादशाहं गायच्या व्याप्य समृद्धि प्राप्तवान् । छन्दोभिरिति बहुव चनं पूजार्थम् ।
वेदनं प्रशंसति
सर्वामृद्धिमृघ्नोति य एवं वेद, इति । अथ द्वादशाहस्याहालप्तिमुपकल्पनामुखेन दर्शयति
यो वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती वेद गायत्र्या पक्षिण्या चक्षुष्मया ज्योतिष्मत्या भास्वत्या स्वर्ग लोकमेयेषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती यवादशाहस्तस्य यावभितोऽति रात्रौ तौ पक्षौ यावन्तराऽग्निष्टोमी ते चक्षुषी
येऽष्टौ मध्य उक्थ्याः स आत्मा , इति । आदिमध्यावसानेषु द्वादशाहस्य गायच्या व्याप्तत्वादभेदमभिप्रेत्य द्वाद शाहमेव गायत्रीशब्देन व्यहरति । सा च गायत्री पक्षद्वयोपेता चक्षुयोपेता ज्योतिःशब्दोपलक्षितमध्यशरीरोपेता तत एव सा भास्वती प्रकाशवती। अहीनसत्राणां सर्वेषां प्रकृतित्वेन भासकत्वाद्भास्वत्त्वम् । ईदृशी गायत्री यो वेद स तामनुष्ठाय यथोक्तगुणवत्त्वविशिष्टया गायत्र्या स्वर्ग लोकं मामोति । गूढाभिप्रायेण रूपकं परिकल्प्यैषा वा इत्यादिना स्वाभिप्रायः प्रकटी क्रियते । द्वादशाह एव यथोक्तगणविशिष्टा गायत्री तस्येत्यादिना द्वादशाहे ने गुणाः प्रदर्श्यन्ते । तस्य द्वादशाहस्याऽऽधन्तावहर्विशेषावतिरात्रसंस्थौ । नावेव पक्षस्थानीयौ तयोरन्त विनौ द्वितीयैकादशाहविशेषावमिष्टोमसंस्थौ । तौ चक्षुःस्वरूपौ । ये च तृतीयमारभ्य दशमपर्यन्ता अष्टावहर्विशेषा मध्ये वर्तन्ते । सर्वेऽप्युक्थ्यसंस्थाः। सोऽष्टाहसमूह आत्मा मध्यशरीरम् ।
वेदनं प्रशंसति
गायच्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्ग लोकमेति य एवं वेद ॥२३॥ इति ।
५०८
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१९एकोनवि०ध्याये. यथोक्ताह कृप्तिराश्वलायनाचार्यैदेर्शिता-‘अथ भरतद्वादशाह उममेडी पृथक्संस्थाभिरुपेयुरतिरात्रमग्रेऽथाग्निष्टोममथाष्टा उक्थ्यानथाग्निष्टोममयाति रात्रम्’ इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्य एकोनविंशाध्याये प्रथमः खण्डः ॥१॥ (२३) [१४४॥
भरतद्वादशाहं विधाय व्यूढद्वादशाहं विधत्ते
त्रयश्च वा एते ज्यहा आदशमम
हरा दावतिरात्रौ यहादशाहः, इति । योऽयं व्यूढद्वादशाहोऽस्ति सोऽयमेतादृशः। तत्राऽऽद्यन्तौ यौ द्वावति रात्रौ प्रथमद्वादशौ यच दशममहस्तत्परित्यज्यावशिष्टेष्वहःसु नवसंख्याकेषु प्रयत्यहाः कर्तव्याः। त्रिरात्रः कश्चित्कर्मविशेषः । सोऽयं त्रिवारमावर्तनीयः। आदशममित्यत्र योऽयमाकारः स वर्जनार्थः । निपातानामनेकार्थत्वात् । यता मर्यादायामयमाङ्भविष्यति । आद्यन्तावतिरात्रौ दशममहश्च मर्यादां कृत्वाऽ वशिष्टो नवरात्रस्त्रिरावृत्तस्यहात्मक इत्यर्थः । तत्र चोदकेन दीक्षादिसंख्यावि कल्पः प्राप्त एका दीक्षा तिस्रो दीक्षा इत्यादिविकल्पस्य प्रकृतौ श्रुतत्वात् ।
तं विकल्पमपवदितुं नियमविशेषं विधत्ते
द्वादशाहानि दीक्षितो भवति
यज्ञिय एव तैर्भवति, इति । द्वादशसु दिनेषु दीक्षाख्यनियमेऽनुष्ठिते सति तैादशभिर्दीक्षाविशेषरयं पुरुषो यज्ञयोग्य एव भवति । उपसत्सु विशेष विधत्ते हादश रात्रीरुपसद उपैति शरीरमेव ताभिधूनुते, इति । प्रकृतौ तिस्र एवोपसदस्ताश्चैकैकां चतुर्पु दिनेष्वावर्त्य द्वादशसु दिनेषूपस दोऽनुतिष्ठेत् । स ताभिदशभिरुपसद्भिः शरीरमेव धूनुते कम्पयति शरीरंग तमांसादिधातुशोषणेन पापक्षयो भवति । तथा च सूत्रकारेणोपसंहृतम् - ‘यदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति’ इति । उपसदिनेष्वस्य क्षीरमात्राहारत्वाद्भवत्येव कार्य तदिदं सर्व धूनुत इत्यनेन विवक्षितम् ।
१ ख. अतिरानं। २ ख. ‘त्सु यज्ञवि । ३ क. स. ट. ‘नुष्ठिते सति ता ।
२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् । अथ द्वादशसु दिनेषु सोमाभिषवं विधत्ते
द्वादशाहं प्रसुतः, इति। भवेदिति शेषः । दीक्षोपसदावङ्गकर्मणी अभिषवस्तु प्रधानकर्म । वेदनं प्रशंसति
भूत्वा शरीरं धूत्वा शुद्धः पूतो
देवता अप्येति य एवं वेद, इति । द्वादशाहं प्रसुत इति पदद्वयमनुवर्तनीयम् । वेदिता द्वादशसु दिनेषु सोमा भिषवयुक्तो भूत्वा पूर्वोक्ताभिरुपसद्भिः शरीरं धूत्वा शरीरगतं पापं परित्य ज्यात एव शुद्ध इह लोके भूत्वा परलोकेऽपि पूतः सर्वा देवताः पामोति । अथवा शुद्ध इत्यन्तो विधिवाक्यशेषः । पूत इत्यादिका वेदनप्रशंसा द्रष्टव्या।
यथोक्तदीक्षोपसेत्सुत्यादिनसंख्याः प्रशंसति
पत्रिंशदहो वा एष यद्दादशाहः पत्रिंशद क्षरा वै बृहती बृहत्या वा एतदयनं यद्दाद शाहो बृहत्या वै देवा इमाल्लोकानाश्नु वत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षं दशभिर्दिवं चतुर्भिश्चतस्रो दिशो दाभ्यामेवास्मिल्ँलोके प्रत्यतिष्ठन् , इति । यो द्वादशाहोऽस्त्येष पूर्वोक्तरीत्या पत्रिंशदिनात्मकः । बृहतीछन्दश्च षट् त्रिंशदक्षरं तस्माद्यो द्वादशाहोऽस्त्येतबृहत्या अयनं स्थानमित्यर्थः । देवाश्च
जयमाप्तिः । चतुभिरक्षरैदिक्चतुष्टयप्राप्तिः। द्वाभ्यामक्षराभ्यामस्मिल्लोके प्रतिष्ठा भाप्ताः । तथाविधबृहतीसाम्यादिनगता षट्त्रिंशत्संख्या प्रशस्ता। . वेदनं प्रशंसति
प्रतितिष्ठति य एवं वेद, इति । अत्र किंचिचोद्यमुद्भावयति
तदाहुर्यदन्यानि च्छन्दांसि वर्षीयांसि भूयोक्ष रतराण्यथ कस्मादेतां बृहतीयाचक्षत इति, इति ।
१ ख. योका दी । २ ख. सरिस्वत्यादिना से।
५१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१९एकोनविं०ध्याये.
यस्मात्कारणाबृहत्या अन्यान्युत्तराणि पतित्रिष्टुब्जगतीछन्दांस्यतो सरं चतुरक्षराधिकान्यतो वर्षीयांसि । तस्यैव व्याख्यानं भूयोक्षरतराणीति अथैवं सति पतयादीनि च्छदास्युपेक्ष्य कस्मात्कारणादेतां पत्रिंशदक्षरमात्र युक्तां वैदिका बृहतीत्याचक्षत इति चोद्यम् । पूर्वोक्तमेवार्थवादमुपजीव्य परिहारमाह
एतया हि देवा इमाल्ँलोकानाश्नुवत ते वै दशभि वाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षं दश भिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते, इति । अक्षरसंख्यान्यूनत्वेऽपि लोकत्रयप्राप्तिहेतुत्वात्प्रौढत्वमभिप्रेत्य बृहतीत्य भिधानम् ।
उक्तार्थवेदनं प्रशंसति
अश्नुते यद्यत्कामयते य एवं वेद ॥२४॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्य एकोनविंशाध्याये द्वितीयः खण्डः ॥२॥ (२४) [१४५]
H
अस्मिन्काण्डे कर्मणि यजनयाजनयोरधिकारिविशेषौ दर्शयति
प्रजापतियज्ञो वा एष यहादशाहः प्रजाप तिर्वा एतेनाग्रेऽयजत दादशाहेन सोऽब्रवीतूंश्च मासांश्च याजयत मा द्वादशाहेनेति तं दीक्ष यित्वाऽनपक्रमं गमयित्वाऽब्रुन्देहि नु नोऽथ खा याजयिष्याम इति तेभ्य इषमूर्ज प्रायच्छ सैषोतृषु च मासेषु च निहिता ददतं वै ते तमयाजयंस्तस्माददद्याज्यः प्रतिगृह्णन्तो वै ते
तमयाजयंस्तस्मात्प्रतिगृह्णता याज्यम् , इति । यो द्वादशाहः स प्रजापतेर्यज्ञः। कथमिति तदुच्यते । प्रजापतिरेवान
१ क. स. ट. ‘स्मिन्कर्म ।
३ तृतीयः खण्डः ] ऐतरेयब्राह्मणम् ।
या पूर्वमेतेन द्वादशाहेनायजत तस्मादयं प्रजापतियज्ञ इति । तद्यजन कार उच्यते । स प्रजापतिर्वसन्तावृतुदेवांश्चैत्रादिमासदेवांश्चाब्रवीत् । हे देवा यूयमृत्विजो भूत्वा मां द्वादशाहक्रतुना याजयतेति । ते च मासर्तुदेवा विजो भूत्वा तं प्रजापतिं दीक्षयित्वा तत्राध्वानमनपक्रमं निर्गमनरहितं गमयित्वाऽब्रुवन् । न हि यज्ञं संकल्प्य दीक्षां कृत्वा तदनुष्ठानमन्तरेण देव पजनदेशानिर्गन्तुं शक्यते । हे प्रजापते नु क्षिप्रमेव नोऽस्माकं देहि अपेक्षित प्रयच्छ । अथानन्तरं त्वां याजयिष्याम इत्यूतुभिर्मासैश्वोक्तः प्रजापतिस्तेभ्य ऋतुभ्यो मासेभ्य इषमन्नमूर्ज क्षीरादिरसं प्रायच्छत् । सैषोतुरूपा मास कपा, ऋतुषु च मासेषु चेदानीमपि निहिता । अतश्च स्वकालोचितप्रकारेण ऋतषु मासेषु च प्रवर्तमानेषु गोक्षीरादिवाहुल्यं भवति । ततोऽनपाने ददतं तं प्रजापति त ऋतवश्च मासाश्चायाजयन् । तस्माद्ददत्पुरुषो याज्यो यषु योग्यः । न हि दानहीनस्याधिकारोऽस्ति । तथा ते मासाश्चर्तवश्व प्रतिगृ. हन्तो वै प्रजापतिदत्ते अन्नपाने स्वीकुर्वन्तः सन्तः प्रजापतिमयाजयन् । तस्मादिदानीमप्यत्विजा दक्षिणां प्रतिगृह्नता याज्यं यजनं कर्तव्यम् ।
यजमानानामृत्विजां च वेदनं प्रशंसति
उभये राध्नुवन्ति य एवं विद्वांसो
यजन्ते च याजयन्ति च, इति । द्वादशाहे दीक्षा प्रामुवत्सु यजमानेषु दीक्षापाप्ति प्रशंसति
ते वा इम ऋतवश्व मासाश्व गुरव इवामन्यन्त बादशाहे प्रतिगृह्य तेऽब्रुवन्प्रजापति याजय नो बादशाहेनेति स तथेत्यब्रवीत्ते वै दीक्ष. ध्वमिति ते. पूर्वपक्षाः पूर्वेऽदीक्षन्त ते पाप्मा नमपाहत तस्मात्ते दिवेव दिवेव द्यपहतपा प्मानोऽपरपक्षा अपरेऽदीक्षन्त ते नतरां पाप्मानमपाहत तस्मात्ते तम इव तम इव ह्यनपहतपाप्मानस्तस्मादेवं विद्वान्दी क्षमाणेषु पूर्वः पूर्व एव दिदीक्षिषेत, इति ।
- व्यत्ययेनकवचनम् ।
1881 Memorial Collection Dr. Amritansusekhar Bagchi
.
ये पूर्वभत्विवा प्रतिष गुरव द्वादशाहेन ऋमित्यब्रवीत् । तेषु मान्ने
५१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[१९एकोनविं०ध्याये
ये पूर्वमृत्विक्त्वेन व्यवस्थिता ऋतवश्च मासाश्च ते वा इमे द्विविधा की द्वादशाहे दक्षिणां प्रतिगृह्य गुरव इव पापभारगौरवेणाऽऽकान्ता एव व त्यमन्यन्त । ततस्ते पापपरिहाराय द्वादशाहेन ऋतुना नोऽस्मान्याजयेति प्रजा पतिमब्रुवन् । प्रजापतिरङ्गीकृत्य ते यूयं दीक्षां कुरुध्वमित्यब्रवीत् । तेषु मासे पूर्वपक्षाः शुक्लपक्षाभिमानिनो देवा ये सन्ति ते पूर्व प्रथमभाविनः सन्तं दीक्षामकुर्वत । तादृशास्ते पूर्वपक्षाः स्वकीयं पाप्मानमपाहत नाशितवन्तः तस्मात्पापराहित्यात्ते शुक्लपक्षा दिवेव दिवसा इव प्रकाशयुक्ता लोकेऽप्यपहात पाप्मानः पुरुषा दिवेव हि दिवसा इव पुण्यरूपेण तेजसा युक्ता भवन्ति अथापरपक्षाः कृष्णपक्षाभिमानिनो देवा ये सन्ति ते त्वपरे पश्चात्मवर्तमान दीक्षां कृतवन्तस्ते मालिन्यदोषेण पाप्मानं नतरामपाहतातिशयेन विनाश : कृतवन्तः । तस्मात्कृत्स्नपापविनाशाभावात्ते कृष्णपक्षास्तम इव कृष्णवर्ण दृश्यन्ते तदीयरात्रिषु चन्द्रप्रकाशस्याभावात् । लोकेऽप्यनपहतपाप्मानः पाप विनाशरहिताः पुरुषास्तम इव ह्यन्धकारतमोलिप्सत्वेन निन्द्या भवन्ति । तस्मा कारणादेव पूर्वापरकालवैषम्यं विद्वान्पुरुषो दीक्षमाणेषु यजमानेष्वेकैकस्मा त्पूर्वः पूर्व एव पूर्वपक्षे दिदीक्षिषेत दीक्षितुमिच्छेत् ।
वेदनं प्रशंसति
अप पाप्मानं हते य एवं वेद, इति । यजमानपापविनाशहेतुत्वात्विज प्रशंसति
स वा अयं प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठते वा इम ऋतवश्व मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठस्त एतेऽन्योऽन्यस्मिन्प्रतिष्ठिता एवं ह वाव स ऋत्विजि प्रतितिष्ठति यो द्वादशाहेन यजते तस्मादाहुर्न पापः पुरुषो याज्यो द्वाद
शाहेन नेदयं मयि प्रतितिष्ठादिति, इति । यः प्रजापतिर्दादशाहेनायष्ट स प्रजापतिः संवत्सरकालात्मको भूत्वर्तुषु च मासेषु च प्रत्यतिष्ठत्मतिष्ठितोऽभवत् । तदात्विज्यबलात्मजापतेरुत्कर्षात् ।
१ स. ट. “त्कर्षत्वात् ।
३ तृतीयः खण्डः] ऐतरेयब्रामणम् । काम ऋतवश्व मासाश्च प्रजापतिरूपे संवत्सरे प्रतिष्ठिता अभवन् । प्रजापति प्रसादेन तत्पापविनाशात् । त एते प्रजापतितवो मासाश्चान्योन्यपापवि नाशादन्योन्यस्मिन्प्रतिष्ठिताः । एवमेवेदानीमपि यो द्वादशाहेन यजते सोऽय प्रविजि प्रतितिष्ठति । ऋत्विक्प्रसादेन यजमानस्य पापविनाशात् । यस्मादेवं तस्मादभिज्ञा एवमाहुः । पापपुरुषो द्वादशाहेन ऋत्विग्मिन याज्यस्तस्य कर्म ग्यात्विज्यं न कार्यमिति । अयं पापो मत्विजि न प्रतितिष्ठात्सर्वथा मा प्रवि शत्ये(त्वे)वमभिजानामीत्यभिप्रायः।
द्वादशाहं प्रकारान्तरेण प्रशंसति
ज्येष्ठयज्ञो वा एष यहादशाहः स वै देवानां ज्येष्ठो य एतेनाग्रेऽयजत श्रेष्ठयज्ञो वा एष यदाद शाहः स वै देवानां श्रेष्ठो य एतेनाग्रेऽयजत, इति । यो द्वादशाहोऽस्त्यसौ ज्येष्ठस्य यज्ञः। कथमिति तदुच्यते । यः पुमाने तेन द्वादशाहेनाग्रे प्रथममयजत स एव देवानां मध्ये ज्येष्ठो वयसा प्रवृद्धो भवति । किं चायं द्वादशाहः श्रेष्ठस्य यज्ञो यः प्रथममयजत स देवेषु मध्ये गुणतः श्रेष्ठः।
एतां द्वादशाहप्रशंसामुपजीव्याधिकारिविशेषं दर्शयति
ज्येष्ठः श्रेष्ठो यजेत कल्याणीह संमा भवति न पापः पुरुषो याज्यो दादशा
हेन नेदयं मयि प्रतितिष्ठादिति, इति । ’ पुमान्भ्रातूणां मध्ये वयसा ज्येष्ठो गुणैः श्रेष्ठश्च तादृशोऽनेन यजेत । त(य) स्मिन्देशे तथाविधकर्तृको याग इहास्मिन्देशे समा कल्याणी भवति संवत्सरः सर्वोपद्रवरहितः सुखकरो भवति । यस्माज्ज्येष्ठस्य श्रेष्ठस्य चाधिकारस्तमा पापः कनिष्ठो गुणहीनश्च पुरुषो न तेन याजनीयः । ऋत्विजि मयि पापी पुरुषोऽयं नैव प्रतितिष्ठत्विति तस्यत्विजोऽभिप्रायः।।
प्रकारान्तरेण द्वादशाहं ज्यैष्ठयश्रेष्ठपहेतुतया प्रशंसति
इन्द्राय वै देवा ज्यैष्ठ्याय श्रेष्ठयाय नाति ष्ठन्त सोऽब्रवीबृहस्पतिं याजय मा
१ क. ट. मां।
५१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१९एकोनविं०ध्याये
दादशाहेनेति तमयाजयत्ततो वै तस्मै
देवा ज्येष्ठयाय श्रेष्ठयायातिष्ठन्त, इति । इन्द्रस्य वयसा ज्येष्ठत्वं गुणैः श्रेष्ठत्वं च देवा नागी कृतवन्तः । ततः सोऽङ्गीकारो द्वादशाहेन लब्धः।
वेदनं प्रशंसति
तिष्ठन्तेऽस्मै स्वा ज्येष्ठयाय श्रेष्ठ्याय समस्मि
स्वाः श्रेष्ठतायां जानते य एवं वेद, इति । अस्मा अस्य वेदितुः वा ज्ञातयो ज्यैष्ठयाय श्रेष्ठयाय तिष्ठन्ते ज्येष्ठ श्रेष्ठयं चाङ्गी कुर्वन्ति । किंचास्मिन्वेदितरि येयं श्रेष्ठता तस्यां ज्ञातयः संजा नत ऐकमत्यं प्राप्नुवन्ति ।
यथा(अथ) व्यूहळे द्वादशाहे प्रथमदशमद्वादशदिनव्यतिरिक्तो यो नवरा त्रस्तत्र ये त्रयस्ख्यहाः पूर्वमुक्तास्तान्प्रशंसति
ऊो वै प्रथमलयहस्तियङ्मध्यमोऽर्वाडुत्तमः स यदूर्ध्वः प्रथमस्यहस्तस्मादयमग्निरूल उद्दी प्यत ऊर्ध्वा ह्येतस्य दिग्यत्तिर्यमध्यमस्तस्मा दयं वायुस्तिर्यपवते तिरश्चीरापो वहन्ति तिरश्ची ह्येतस्य दिग्यदर्वाङत्तमस्तस्मादसावर्वाङ्तपत्या वर्षयर्वाचि नक्षत्राण्यर्वाची ह्येतस्य दिक्स म्यञ्चो वा इमे लोकाः सम्यञ्च एते ज्यहाः, इति । योऽयं नवरात्रे प्रथमख्यहः सोऽयमों वा आरोहप्रकार एव । तद्यथा गायत्रं प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनमित्ययं खभाव सिद्धः क्रमस्तस्य व्यत्यासभावादूर्ध्व इत्युच्यते । यस्तु मध्यमरूयहः सोऽयं तिर्यवर्तते । तद्यथा-जागतं प्रातःसवनं गायत्रं माध्यंदिनं त्रैष्टुभं तृतीय मित्यत्र नात्यन्तमनुक्रमो नाप्यत्यन्तं व्युत्क्रमः । तस्मादयं तिर्यड्य उत्तमल्यहः सोडिधोमुखः । तद्यथा-त्रैष्टुभं प्रातःसवनं जागतं माध्यंदिनं गायत्रं तृती यसवनमित्येतदहरक्त्विं प्रथमो जागतान्तो द्वितीयस्यैष्टुभान्तस्तृतीयो गायत्रान्त इत्येवमूर्ध्वतिर्यक्त्वाक्त्विानि त्रिष्वपि त्र्यहेषु द्रष्टव्यानि । यस्मात्स प्रथम
१ ख. ‘स्तु भूयो म । २ स. स. ट. ‘हर्वा ।४ चतुर्थः खण्डः] ऐतरेयब्राह्मणम् ।
५१५ यह ऊर्ध्वस्तस्मात्तदात्मकोऽयमग्निरूर्वाभिमुखो दीप्यते तस्य चामेरूळ दिकप्रिया । मध्यमस्य व्यहस्य तिर्यक्त्वात्तद्रूपो वायुस्तिर्यवर्तते । वायुना प्रेरिता आपस्तिरश्चीस्तिर्यग्भूताः प्रवहन्ति । एतस्य वायोस्तिर्यक्त्वात्तिरची दिपिया। उत्तमस्य व्यहस्याक्त्विात्तद्रूपोऽसावादित्योऽधोमुखस्तपत्यादित्य प्रेरितः पर्जन्योऽधोमुखो वर्षति । आदित्यवनक्षत्राण्याश्यधोमुखानि प्रका शन्ते । एतस्याऽऽदित्यस्याची दिप्रिया । किं चेमे त्रयो लोकास्तत्तद्वा सिनां सुखहेतुत्वात्सम्यञ्चः । एते च त्र्यहा लोकत्रयसाम्येनानुष्ठातॄणां मुख हेतुत्वात्सम्यञ्चः।
वेदनं प्रशंसति
सम्यञ्चोऽस्मा इमे लोकाः श्रियै
दीद्यति य एवं वेद ॥ २५॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्य एकोनविंशाध्याये तृतीयः खण्डः ॥ ३ ॥ (२५) [१४६ ]
अथ द्वादशाहे दीक्षायाः कालविशेष विधातुं प्रस्तौति
दीक्षा वै देवेभ्योऽपाक्रामत्तां वासन्तिकाभ्यां मासाभ्यामन्वयुनत तां वासन्तिकाभ्यां मा साभ्यां नोदाप्नुवंस्तां ग्रैष्माभ्यां तां वार्षिका भ्यां तां शारदाभ्यां तां हैमन्तिकाभ्यां मासा. भ्यामन्वयुञ्जत तां हैमन्तिकाभ्यां मासाभ्यां नोदाप्नुवंस्तां शैशिराभ्यां मासाभ्यामन्वयुञ्जत
ता शशिराभ्यां मासाभ्यामाप्नुवन् , इति । पुरा कदाचिदीक्षा स्त्रीमूर्तिरूपा सती देवेष्वपरक्ता तेभ्यो देवेभ्यो निर्गता देवाश्च वासन्तिकाभ्यां चैत्रवैशाखमासाभ्यां तां दीक्षामनुगताभ्यां दीक्षा. मनुगम्यायुञ्जत तयुक्ता भवाम इत्येवमपेक्षितवन्तः । ततस्त्वरया गच्छन्ती दीक्षां ताभ्यां मासाभ्यामुत्कर्षेण नोदामुवन् , ना[सुम] शक्नुवन्। एवं त्रैष्णवार्षि कशारदेषु मासेषु यथायोगं पदान्यध्याहृत्य व्याख्येयम् । अध्याहारविवक्षा
१ क. ट. स्तद्वा ।
५१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१९एकोनवि०ध्याये दयितुमेव हैमन्तिके पर्याये संपूर्ण वाक्यमानातम् । यथोक्तपञ्चर्तुगतैर्मास स्तत्माप्त्यभावेऽपि शैशिरमासाभ्यां तत्माप्तिर्जाता।
वेदनं प्रशंसति
आमोति यमीप्सति नैनं विष
बानोति य एवं वेद , इति । वेदिता पुरुषो यं काममातुमिच्छति तमामोति । किंचैनं वेदितारं द्विषन्वैरी न पामोति ।
इदानीं कालं विधत्ते
तस्माद्यं सत्रिया दीक्षोपनमेदेतयोरेव शैशिरयो सियोरागतयोर्दीक्षेत साक्षादेव तद्दीक्षायामाग तायां दीक्षते प्रत्यक्षादीक्षां परिगृह्णाति तस्मादे तयोरेव शैशिरयोर्मासयोरागतयोर्ये चैव ग्राम्याः पशवो ये चाऽऽरण्या अणिमानमेव तत्परुषि
माणं नियन्ति दीक्षारूपमेव तदुपनिप्लवन्ते, इति । यस्माच्छैशिराभ्यां मासाभ्यां देवानां दीक्षाप्राप्तिस्तस्माद्यं पुरुषं द्वादशा हादिसत्रसंवन्धिना दीक्षा प्रामुयात् । दीक्षां तत्र करिष्यामीति यस्येच्छा जायते स पुमानेतयोरेव शिशिरसंबन्धिमाघफाल्गुनयोर्मासयोः प्राप्तयोः सतो. र्दीक्षां कुर्यात् । तथा सति दीक्षायां साक्षादेवाऽऽगतायां बलात्कारमेन्तरेण स्वप्रिये काले स्वतुल्यये(मे)व समागतायां सत्यामयं दीक्षितो भवति । अतः प्रत्यक्षात्प्रत्यक्षेण दृश्यमानामिव मुख्यां दीक्षां परिगृह्णाति । यस्मादुक्तमास: द्वयागमे दीक्षा तस्मात्तयोर्मासयोरागतयोः सतोम्या गवादिपशव आरण्या द्विखुरादिपशवश्वाणिमाणं(नं) कृशत्वं परुषिमाणं पारुष्यं च नियन्ति नितरां प्रामुवन्ति । वर्षाशर मन्तेष्वृतुषु संतापराहित्यात्सर्वत्र हरिततृणं भक्षयित्वा पशवः पुष्टाङ्गाः स्निग्धाश्चावभासन्ते । शैशिर ऋतौ तृणस्य शोषणोपक्रमत्वा संपूर्णभक्षणाभावेन पशवः कृशा भवन्ति । अत एवास्थिदर्शनात्परुषा दृश्यन्ते । एतच्च युक्तमेव तत्तस्मिन्शिशिरतौं दीक्षारूपमेवोपेत्य नितरां प्लवन्द
१ क. ग. घ. ङ. च. छ. स. ट. ‘माणमें । २ क. स. ट. द्विकरा।
४ चतुर्थः खण्डः] ऐतरेयब्राह्मणम् ।
५१७ चरन्ति । दीक्षितोऽपि नियमविशेषैः पीडितः कशा परुषश्च भवति । अतः पशनां कृशत्वं पारुष्यं च दीक्षाकाललिङ्गम् ।
दीक्षार्थिनः कंचित्पशुं विधत्ते
स पुरस्तादीक्षायाः प्राजापत्यं पशुमालभते, इति । यो दीक्षां वाञ्छति स पुमान्दीक्षोपक्रमात्पुरा प्रजापतिदेवताकं पशुमा लभेत । द्विविधो हि द्वादशाहः साग्निचित्यो निरग्निचित्यश्च । तत्राग्निचयन युक्त पशुरयमवगन्तव्यः ।
सामिधेनीषु चोदकप्राप्तं पाश्चदश्यमपवदितुं विशेष विधत्ते
तस्य सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो
वै प्रजापतिः प्रजापतेराप्त्य, इति । दयोर्धाय्ययोः प्रक्षेपेण सप्तदशसंख्या संपद्यते । सप्तदश द्वादश मासा इत्यादिना पूर्वमेवोक्तम् । अतः सप्तदशसंख्या प्रजापतेः प्राप्त्यै संपद्यते।
आमीयाज्यासु विशेषं विधत्ते
तस्याऽऽप्रियो जामदग्न्यो भवन्ति, इति । पशोः प्राप्तिहेतुत्वात्प्रयाजा आप्रिया(य) इत्युच्यन्ते । तदत्र जमदग्निना दृष्टाः समिद्धो अद्यमनुषः [१०-११०-१] इत्यादिसूक्ते समानाता द्रष्टव्याः ।
अत्र चोद्यमुद्भावयति
तदाहुर्यदन्येषु पशुषु यथ ऋष्याप्रियो भवन्यथ
कस्मादस्मिन्सर्वेषां जामदग्न्य एवेति, इति । उक्तप्राजापत्यपशुव्यतिरिक्तेषु सर्वेषु पशुवाप्रियो यथ ऋषि भवन्ति । यस्य यजमानस्य गोत्रप्रवर्तको य ऋषिर्भवति तमनतिक्रम्य तेन दृष्टा एवाऽऽपियो भवन्ति । एवं सत्यत्रापि जमदग्निगोत्रजानामेव समिद्धो अग्रेत्या प्रिय ऋचा युक्ता न त्वन्येषाम् । अथैवं सति कस्मात्कारणादस्मिन्पशौ सर्वेषां जमदनिगोत्रजानामन्येषां चैता एवाऽऽप्रियः क्रियन्त इति चोधम् ।
तस्योत्तरमाह
सर्वरूपा वै जामदग्न्यः सर्वसमृद्धाः सर्व
१८. ‘लभते । द्वि।
५१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१९एकोनवि०ध्याये
रूप एष पशुः सर्वसमृद्धस्तद्यजामदग्न्यो
भवन्ति सर्वरूपतायै सर्वसमृद्ध्यै, इति । जमदग्निना दृष्टा ऋचो जामदग्न्या सर्वरूपाचे सर्वासामचा स्वरूपभूता एव सर्वसमृद्धाः सर्वसमृद्धिफलहेतुत्वात् । एष प्रजापतिदेवताकः पारपि सर्व रूपः। प्रजापतेः सर्वदेवतात्मकत्वेन तदीयपशोरपि सर्वपश्वात्मकत्वम् । अतोऽयं पशुरपि सर्वफलसमृद्धिहेतुत्वात्सर्वैः फलैः समृद्धः । तत्तथा सति यजामदग्नी नामनुष्ठानं तत्सर्वानुष्ठानसिद्धयर्थ सर्वफलसमृद्धयर्थं च भवति ।
पश्वङ्गे पशुपुरोडाशे विशेषं विधत्ते
तस्य वायव्यः पशुपुरोळाशो भवति, इति । तस्य प्राजापत्यस्य पशोर्वायुर्देवता यस्य पुरोडाशस्य सोऽयं वायव्यः। अत्र चोद्यमुद्भावयति
तदाहुर्यदन्यदेवस्य उत पशुर्भवत्यथ कस्मा
हायव्यः पशुपुरोळाशः क्रियत इति, इति । यद्यस्मात्कारणादन्यदेवत्य उत वायुव्यतिरिक्तप्रजापतिदेवताक एवार्य पशुर्भवति तस्मात्पुरोडाशोऽपि प्रजापतिदेवताक एव युक्तः। यद्देवत्यः पशु स्तद्देवत्यः पुरोडाश इत्यभिधानात् । अथैवं सति प्रजापतिं परित्यज्य कस्मा.
कारणात्पुरोडाशो वायुदेवताकः क्रियत इति चोद्यम् ।
तस्योत्तरमाह
प्रजापति यज्ञो यज्ञस्यायातयामताया इति ब्रूयाद्यदु वायव्यस्तेन प्रजा
पतेनैति वायुधैव प्रजापतिः, इति । पशुरूपस्य यज्ञस्य प्रजापतिदेवतात्मकत्वेन प्रजापतिरूपत्वम् । ताश स्यास्य यज्ञस्य पशुहविषि पुरोडाशे तदैवतैक्ये सति यातयामत्वमसारत्वमा लस्यकारणं भवेत् । सति हि भेदे भिन्नदेवताकं कर्माऽऽलस्यरहितं भवति । तस्मादयातयामतायै निःसारत्वरूपालस्यपरिहाराय देवतान्तरं युक्तमित्युत्तर ब्रूयात् । न च वायुदेवताकत्वे प्रजापतेः सकाशात्पुरोडाशोऽपगच्छतीति शङ्क: नीयम् । वायुप्रजापत्योः कार्यकारणभावेनैकत्वे सति वायव्यस्यैव प्राजापत्य
१ ख. शेषान्विध।
५१९
AU
पञ्चमः खण्डः] . ऐतरेयब्राह्मणम् । जात । तदिदमुच्यते-यदु वायव्यस्तेन प्रजापते.तीति । नापगच्छतीत्यर्थः ।
वायुप्रजापत्योरेकत्वं मत्रसंवादेन द्रढयति
तदुक्तमृषिणा पवमानः प्रजापतिरिति, इति । त्वष्टारमग्रजा गोपामित्यस्या ऋचश्चतुर्थपादे यः पवमानो वायुः स प्रजा पतिरिति तादात्म्यं सामानाधिकरण्येन दर्शितम् । पूर्व भरतद्वादशाहो व्यूहळ. द्वादशाहश्चेति द्वौ द्वादशाहभेदावुक्तौ । प्रकारान्तरेणापि सत्ररूपोऽहीनरूपश्चे सवं द्विविधो द्वादशाहः।
तत्र सत्रपक्षे विशेषान्विधत्ते
सत्रमु चेत्संन्युप्यामीन्यजेरन्सर्वे दीक्षेरन्सर्वे सुनुयुर्वसन्तमभ्युदवस्यत्यूर्व वसन्त इष
मेव तदूर्जमभ्युदवस्यति ॥ २६ ॥ इति । सत्रमु चेत्, यद्ययं द्वादशाहः सत्ररूपो भवेत्तदानीं सत्रस्य बहुयजमान वात्सर्वेषां यजमानानामग्नीन्संन्युप्य संभूयैकत्वेनावस्थाप्य तस्मिन्सर्वे यजे. रन् । यजमानत्वादेव सर्वेऽपि दीक्षेरन्, दीक्षां कुर्युः । य एव यजमानास्त एव ऋत्विज इत्युक्तत्वेन सर्वे यजमानाः सुनुयुक्रत्विकार्यमभिषवं कुर्युः । वसन्तर्तुमभिलक्ष्योदवस्यति, उदवसानीयां समाप्तिकालीनामिष्टिमनुतिष्ठेत, वसन्तौ समापयेदित्यर्थः । वसन्तकाले सति फलानां गृहेष्वागमनेन रसबा हुल्यादूग्ई रस एव वसन्तः। तथा सत्ये(ति)तदेतत्समापनेनेषमन्त्रमूर्ज रसं वाs. भिलक्ष्योदवस्यति यजमानसंघो द्वादशाहं समापयति ॥ .
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवा ह्मणभाष्य एकोनविंशाध्याये चतुर्थः खण्डः ॥४॥ (२६) [१४७]
अथ व्यूहळद्वादशाहे यदेतद्व्यूहलत्वं तदेतत्पशंसितुमाख्यायिकामाह
छन्दांसि वा अन्योन्यस्याऽऽयतनमभ्यध्याय न्गायत्री त्रिष्टुभश्च जगत्यै चाऽऽयतनमभ्य ध्यायत्रिष्टुब्गायत्र्यै च जगत्यै च जगती गायत्र्यै च त्रिष्टुभश्च ततो वा एतं प्रजापति
१ ख. तहक्समा ।
५२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१९एकोनविं ध्याये
व्युहळच्छन्दसं द्वादशाहमपश्यत्तमाहरतेनाय
जत तेन स सर्वान्कामांश्छन्दांस्यगमयद, इति । गायत्री त्रिजगतीत्येतानि त्रीणि च्छन्दांस्यन्योन्यस्याऽऽयतनमभिमान मध्यायस्वस्वमनस्यचिन्तयन् । तेषां च त्रयाणां छन्दसां क्रमेण सवन स्थानम् । तत्र गायत्री त्रिष्टुजगत्योः स्थाने माध्यंदिनसवनतृतीयसक्ने ध्यात. वती । त्रिष्टुप्स्वस्थानव्यतिरिक्त स्थानद्वयमभ्यध्यायत् । तथा जगत्यपि । ततः प्रजापतिश्छन्दसामभिलाषं दृष्ट्वा तत्संपादनक्रमेण तं व्यूहळच्छन्दसं द्वादशा. हमपश्यत् । स्वस्वस्थानविपरीतत्वेनोढानि स्थानान्तरे प्रक्षिप्तानि च्छन्दांसि यस्मिन्द्वादशाहे सोऽयं व्यूहळच्छन्दाः । तादृशं द्वादशाहं दृष्ट्वा तत्साधनान्या हृत्य तेनेष्वा स प्रजापतिस्तेषामपेक्षितान्स्थानविपर्यासलक्षणान्सर्वान्कामानगा यच्यादिच्छन्दांसि प्रापितवान् । '
वेदनं प्रशंसति
___ सर्वान्कामान्गच्छति य एवं वेद, इति । इदानी व्यूहनं विधत्ते
छन्दांसि व्यूहत्ययातयामताय, इति । गायच्यादीनि च्छन्दांसि व्यूहति तत्तदायतनविपर्यासेनावस्थापयेत् । तत्र व्यूहनमसारत्वप्रयुक्तालस्यपरिहाराय भवति ।
उक्तव्यूहनमनूद्य प्रशंसति
छन्दांस्येव व्यूहति तद्यथाऽदोऽश्वैर्वाऽनछुद्भिर्वाऽ न्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं यान्त्येव मेवैतच्छन्दोभिरन्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपवि.
मोकं स्वर्ग लोकं यन्ति यच्छन्दांसि व्यूहति, इति । गायत्र्यादीनि च्छन्दांस्यस्मिन्दादशाहविशेषे व्यूहत्येव न त्वत्र संदेहः कार्यः । तत्तस्मिन्व्यूहने यथा लोकेऽदो निदर्शनं तभ्यायो द्रष्टव्यः। किं निद
।
राजानो योजने योजन उपविमोकं श्रान्तानश्वानुपविमुच्योपविमुच्यान्यैरन्यः पुनः पुनर्वृतनैर्दूरदेशं यान्ति । तत्रोपपत्तिरश्रान्ततरैरिति । अतिशयेन श्रमर हितैः । पौनःपुन्यं द्योतयितुं वा वृत्तिश्च । लागले घटीयवे वा तदा तदा
भलोकस्वर्गलाका केनापि निाम
तदानीं घुला
५ पञ्चमः खण्डः ] ऐतरेय ब्राह्मणम् ।
५२१ शान्तानश्वाननडुहो वा विमुच्य विमुच्य नूतनैरनडुद्भिः प्रवर्तन्त एवमेवात्रापि
छन्दसां स्थानविपर्यासे सति स्वस्वस्थाने श्रान्तानि च्छन्दांसि पुनः पुनरुप विमच्य तदा तदा नूतनैश्छन्दोभिः सत्रिणः स्वर्ग लोकं गच्छन्ति । यदा . छन्दांसि व्यूहति तदानीमेतदिति द्रष्टव्यम् ।
अथ बृहद्रथंतरसामनी उपाख्यानेन प्रशंसति
इमौ वै लोको सहाऽऽस्तां तौ व्यैतां नावर्षन समतपत्ते पञ्चजना न समजानत तौ देवाः सम नयंस्तो संयन्तावेतं देवविवाहं व्यवहेतां रथं
तरेणैवेयममूं जिन्वति बृहताऽसाविमाम्, इति । . इमौ भलोकस्वर्गलोको पूर्वस्मिन्काले सहैवाऽऽस्तामत्यन्तं प्रीतियुक्तावेक वावस्थितौ । कदाचित्तावुभौ केनापि निमित्तेन व्यतां वियोगं प्राप्तवन्ती परस्परविरोधेन सहवासं परित्यज्य दूरदेशेऽवस्थितौ । तदानीं धुलोकवर्ती पर्जन्यो नावर्षदृष्टिं न संपादितवान् । आदित्यश्च द्युलोकवर्ती न समतपत् , आतपरूपं प्रकाशं न कृतवान् । तदानीं ते पञ्चजनाः पूर्वोक्ता देवमनुष्यादयः पञ्चविधाः प्राणिनो न समजानतान्धकारग्रस्ताः सन्तः कमपि मार्गमज्ञात्वा परस्परैकमत्यरहिता अभवन् । तदानी तादृशः प्राणिनो दृष्ट्वा तावुभौ लोको समनयन्परस्परसंगति प्रापितवन्तः । तावुभौ लोकौ संयन्तौ परस्परसंगमं प्राप्त वन्तावेतं परस्परोपकाररूपं देवविवाहं देवानामुचितं विवाहं व्यवहेतां विविध त्वेन कृतवन्तौ । लोकेऽपि विवाहो नाम परस्परविपर्यासेन संवन्धप्रापणम् । तथाहि । वरस्य पिता स्वपुत्रं कन्यापितुर्जामातृत्वेन संवन्धयति । कन्यापिता च स्वपुत्रीं वरपितुः स्नुपात्वेन संबन्धयति । तदिदं विपर्यासेन संवन्धनयनं विवाहः । तयोश्च विवाहे परस्परगृहभोजनवस्त्रमदानाद्युपचारं च कुर्वन्ति । एव मेतौ लोको परस्परमुपकुरुतः । तत्रेयं भूमिः साना रथंतरेण तन्नामकेनेवायूं दिवं जिन्वति प्रीणयति । असौ योश्चेमां भूमि बृहता साना जिन्वति । तत एव सर्वत्रेयं वै रथंतरमसौ बृहदिति लोकद्वयरूपेण सामद्वयं स्तूयते ।।
द्वादशाहे बृहद्रथंन्तरयोरपेक्षितत्वेन प्रशंसां कृत्वा तत्पसगाल्लोकद्वयस्या न्यानपि परोपकारान्दर्शयति
नौधसेनैवेयममूं जिन्वति श्यतेनासाविमां धूमे
१ ख. तादृशाः । २ ख. अत ।
५२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१९एकोनवि० ध्याये
नैवेयममूं जिन्वति वृष्ट्याऽसाविमा देवयज
नमेवेयममुष्यामधात्पशूनसावस्याम् , इति । इममिन्द्र सुतं पिब[१-८४-४] इत्यस्यामुच्युत्पन्न साम नौषसम् । त्वामिदा झो नरः[८-९९-१]इत्यस्यामृच्युत्पनं साम श्यैतम् । ताभ्यां लोकयोः परस्परं ‘प्रीतिः । भूमानग्निजन्यो धूमो दिवि गच्छति। धुलोकात्समुत्पन्ना दृष्टि रुया गच्छति । सोऽयं धूमदृष्टिभ्यां परस्परोपकारः । देवयजनं देवयागयोग्यं कंचिद्देशमियं भूमिरमुष्यां दिव्यदधात्। असौ च द्यौः पशूनस्यां भूमावदधात् ।
अतो देवयजनपशुभ्यां परस्परोपकारः।
वत्र देवयजनशब्देन विवक्षितमर्थ व्याचष्टे
एतद्दा इयममुष्यां देवयजनमद
धाघदेतचन्द्रमसि कृष्णमिव, इति । चन्द्रमण्डले शशमृगादिशब्देन लोके व्यवहियमाणं यदेतत्कृष्णमिव कृष्ण
दिवि स्थापितवती।
चन्द्रमसि कृष्णरूपप्रसङ्गायागेषु मुख्यत्वेन शुक्लपक्षं विधत्ते
तस्मादापूर्यमाणपक्षेषु यजन्त एतदेवोपेप्सन्ते, इति । यस्माधागयोग्यं कृष्णं चन्द्रमसि स्थितं तस्मात्कारणाच्छुक्लपक्षेषु यागं कुर्वन्तो यजमाना एतदेव चन्द्रमण्डलमुपाप्तुमिच्छन्ति । दिने दिने वर्धमानया कलया सर्वतः पूर्यमाणं चन्द्रमण्डलमेषु शुक्लपक्षेषु तेनाऽऽपूर्यमाणपक्षाः । कर्मिणां दक्षिणमार्गेण चन्द्रमण्डलमाप्तिः सर्वासूपनिषत्सु प्रसिद्धा।
देवयजनशब्दं व्याख्याय पशुशब्दं व्याचष्टे
ऊषानसावस्यां तदापि तुरः कावषेय उवाचोषः पोषो जनमेजय केति तस्मादा प्येतर्हि गव्यं मीमांसमानाः पृच्छन्ति सन्ति तत्रोषाः३ इति । ऊषो हि पोषोऽसौ वै लोक इमं लोकमभिपर्यावर्तत, इति ।
१. प्राप्तिः।
१ षष्ठः खण्डः]
ऐतरेयब्राह्मणम् ।
- ५२३ असो पुलोकोऽस्यां भूमावूषानादधातीत्यध्याहारः । देशान्तरमसिद्धि अपजीव्य पशुशब्दस्योषशब्दो व्याख्यानम् । वश कान्तावित्यस्माद्धातो. पशब्दो निष्पन्नः। ऊषाः कमनीयाः। पशूनां चमरादीनां कमनीयत्वं प्रसिद्धम् । ऊषशब्दव्यवहार एव तद्धापीत्यादिना प्रदर्श्यते । यस्मादूषः परिति देशविशेषे पर्यायत्वेन प्रसिद्धौ तदापि तस्मादेव कारणासुरनामकः कश्चिन्महर्षिः कवषस्य पुत्रो जनमेजयनामानं राजानं संबोध्यैवमुवाच । हे जनमेजय क ऊषः पोषशब्दाभिधेयपुष्टिहेतुः पशुरिति यस्मात्तूषशब्दं पशुषु व्याजहार तस्माद तस्मादेव कारणादिदानीमपि गव्यं मीमांसमानाः केचि. रेशविशेपेषु गोरसं क्षीरादिकं विचारयन्त एवं पृच्छन्ति । तत्र तेषु देशेषु किमपाः सन्तीति गोविषयः प्रश्नस्तेषामभिप्रेतः । प्रश्नार्था छुतिः । यस्मादप शब्दवाच्यः पोषहेतुर्गवादिरूपः पशुस्तस्मादूषशब्देन पशुशब्दव्याख्यान मुचितम् । असौ घुलोक इमं भूलोकमभिलक्ष्य पर्यावर्तत तेन पशुनोपकतवा नित्यर्थः।
इत्थं बृहद्रथंतरप्रसङ्गेन द्यावापृथिव्योः परस्परमुपकारं बहुषा प्रपञ्चयो पसंहरति
ततो वै द्यावापृथिवी अभवतां न द्यावाs
न्तरिक्षानान्तरिक्षाभूमिः ॥ २७॥ इति । ततो वै तस्मादेव परस्परोपकारकत्वकारणाद्यावापृथिव्यो वियुक्त अपि परस्परैकमत्येन प्राण्युपकारिण्यावभवताम् । न च तत्रान्तरिक्षलोकः कुत्र वर्तत इति शङ्कनीयम् । द्यावा धुलोको नान्तरिक्षलोकादन्य इति शेषः । भूमिर्नान्तरिक्षादन्या । उभयोर्यावापृथिव्योरन्तरिक्षण संवध्यैवावस्थानात् । तस्माद्वर्णितयोर्यावापृथिव्योरेवान्तरिक्षस्यान्तर्भाव इत्यभिप्रायः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णभाष्य एकोनविंशाध्याये पञ्चमः खण्डः ॥५॥ (२७) [१४८]
*अथास्मिन्दादशाहमध्ये पृष्ठयषडहे पृष्ठस्तोत्रोपयुक्तानि सामानि विधातु माख्यायिकामाह
बृहन्च वा इदमग्रे रथंतरं चाऽऽस्तां वाक्च वै तन्मनश्चाऽऽस्तां वाग्वै रथंतरं मनो बृह
- ख. पृष्ठस्तोत्राणां छन्दसामुत्पत्तिरुच्यते । म। .
५२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१९एकोनविं०ध्याये
त्तबृहत्पूर्व ससृजानं रथंतरमत्यमन्यत तद्र
थंतरं गर्भमधत्त तदैरूपमसृजत , इति । ये बृहद्रथंतरे पूर्वमिमे वै लोकावित्यादिना संस्तुते ते उभे एवेदं वैरूपादि सामजातमन्तर्भाव्य तदुत्पत्तेः पूर्वमास्ताम् । इदं वैरूपादि सामजातमुत्पत्तेरने पूर्व नाऽऽसीत् । ते च सामनी मनोवाग्रूपे अभवताम् । तत्र वागेव रथंतरं साम मनो बृहत्साम । तदेतन्मनोरूपं बृहत्साम सहजानं सृष्टिं कर्तुमुद्युक्तं तत्पूर्व प्रथमत एव सृष्टिसिद्धये वापं रथंतरं सामात्यमन्यत । वायूपत्वादेव स्त्रीरूपत्वम् । मनोरूपत्वात्स्वस्य पुरुषरूपत्वम् । तस्मादतिशयितं तत्स्वरूप ध्यातवबृहत्साम स्वस्य पुरुषत्वाभिमानेन रथंतरसाम्नि स्त्रीत्वभावनया सा मकरोदित्यर्थः। ततः स्त्रीस्थानीयं तद्रथंतरं साम स्वोदरमध्ये गर्भमधत्त । धृत्वा च वैरूपाख्यं पुत्रस्थानीयं सामान्तरमसृजत ।
वैरूपस्योत्पत्तिमभिधाय वैराजसाम्न उत्पत्ति दर्शयति
ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यम
न्येतां तबृहद्गर्भमधत्त तदैराजमसृजत, इति । मातृस्थानीयं रथंतरं पुत्रस्थानीयं वैरूपं चेति ते सामनी द्वे भूत्वा यगृह सामैकाकित्वेन वर्तमानमस्ति तदत्यमन्येतां तस्माद्बहतोऽप्येकाकिनोऽतिशयन मन्येतां न्यूनत्वेन बृहत्सानि स्त्रीत्ववुद्धिं कृत्वा संयोगमकुरुताम् । तत्र बृहत्साम गर्भ धृत्वा वैराजाख्यं सामान्तरमसृजत ।
शाकरसाम्न उत्पत्तिं दर्शयति
ते हे भूत्वा बृहच वैराजं च रथंतरं च वैरूपं चात्य मन्येतां तद्रथंतरं गर्भमधत्त तच्छाकरमसृजत, इति । वैराजसाम्नः सृष्टेरूचं तद्युक्तस्य बृहत्सानो न्यूनत्वेऽपगते सति ते सामनी दे भूत्वा मिलित्वा वैरूपसहितस्य रथंतरस्य वायूपत्वेन स्त्रीत्वमभिप्रेत्य स्त्रीत्व मत्यमन्येतां स्वाधिकां मत्वा संयोगमकुरुताम् । ततो रथंतरसाम गर्भ धृत्वा शाकराख्यं सामान्तरमसृजत ।
रैवतसाम्न उत्पत्ति दर्शयति
तानि त्रीणि भूत्वा रथंतरं च वैरूपं च
१ ख. षरूपत्वा । २ अ. ट. “धिकामम ।:
६ षष्ठः खण्डः ] ऐतरेयब्राह्मणम् ।
२२५ शाक्करं च बृहच्च वैराजं चात्यमन्यन्त
तबृहद्गर्भमधत्त तदैवतमसृजत , इति । मातृस्थानीयं रथंतरं पुत्रस्थानीये वैरूपशाकरे चेत्येवं त्रीणि भूत्वा वैराजेन युक्तस्य बृहत्सानो न्यूनत्वबुद्ध्या तदत्यमन्यन्त । तस्मादतिशयं पुरुषस्थानीयं खपक्षे मत्वा संयोगमकुर्वत । ततो बृहद्गर्भमधत्त । गर्भ धृत्वा रैवताख्यं सामान्तरमसृजत ।
उक्तानां षण्णां साम्नां पृष्ठस्तोत्रसाधनत्वं दर्शयति
तानि त्रीण्यन्यानि त्रीण्य
न्यानि षट्पृष्ठान्यासन्, इति । तानि पूर्वोक्तानि रथंतरवैरूपशाकराणि त्रीणि सामान्यन्यानीतरेभ्यो विलक्षणानि पृष्ठयाख्ये पडहे प्रथमतृतीयपञ्चमेप्वयुग्मेप्वहःसु पृष्ठस्तोत्रनि प्पादकान्यासन् । तथा बृहद्वैराजरैवतरूपाणि त्रीणि सामान्यन्यानि रथंतरा दिभ्यो विलक्षणानि भूत्वा द्वितीयचतुर्थपष्टेषु युग्मरूपेप्वहःसु पृष्ठस्तोत्रनि प्पादकान्यासन् ।
अथ षड्विधपृष्ठस्तोत्रसामाधारत्वेन पड्डिधानि च्छन्दांसि दर्शयति
तानि ह तर्हि त्रीणि च्छन्दांसि पट्टष्टानि नोदाप्नुवन्सा गायत्री गर्भमधत्त साऽनुष्टुभम सृजत त्रिष्टुब्गर्भमधत्त सा पङ्क्तिमसृजत जगती गर्भमधत्त साऽतिच्छन्दसमसृजत तानि त्रीण्य न्यानि त्रीण्यन्यानि पट्छन्दांस्यासन्पट्टष्ठानि
तानि तथाऽकल्पन्त कल्पते यज्ञोऽपि, इति । तहि तस्मिन्पदसामसंपत्तिकाले गायत्रीत्रिष्टुजगतीरूपाणि च्छन्दांसि त्रिणि भूत्वा तानि पूर्वोक्तानि पदपृष्ठसामानि नोदामुवन्पृष्टानां निष्पत्ति कर्तु नाशकुवन् । ततो गायत्र्यादीनि त्रीण्यपि गर्भ धृत्वा पुनरन्यान्यनुष्टुप्पतय तिच्छन्दोरूपाणि च्छन्दांस्यसृजन्त । ततस्तानि सिद्धानि गायत्र्यादीनि त्रीण्यन्यानि पूर्वसिद्धत्वेनैव पृथग्भावात्तान्यासन् । तथैवानुष्ट्रवादीनि त्रीण्य न्यानि च्छदांसि तदानीमुत्पन्नानीति मिलित्वा षदछन्दास्यासन् । ततः षट्संख्याकानि पृष्ठसामानि धारयितुं तानि पदछन्दांसि तथाऽकल्पन्त तेनैव
.
५२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२०विंशाध्याये क्रमेण समर्थान्यभवन् । प्रथमद्वितीयतृतीयेष्वहामु गायत्रीत्रिष्टुब्जगत्यः प. स्तोत्रनिष्पाद(दि)काश्चतुर्थपञ्चमषष्ठेष्वहःस्वनुष्टुप्पतयतिच्छन्दांसि स्तोत्रनि पादकानि । एवं सति यज्ञोऽपि पृष्ठयः पडहाख्यः कल्पते स्वप्रयोजनाय समर्थो भवति ।
वेदनपूर्वकमनुष्ठानं प्रशंसति
तस्यै जनतायै कल्पते यत्रैवमेतां छन्दसां च पृष्ठानां च क्लप्तिं विद्वान्दीक्षते दीक्षते ॥ २८ ॥ इति । यत्र यस्यां जनतायामेवमुक्तप्रकारेण गायत्र्यादिच्छन्दसां रथंतरादिपृष्ठानां चैतां कृप्ति कल्पनाप्रकारं जानीते स दीक्षा प्रामोति । स पुमांस्तस्यै जनतायै तस्यां यज्ञसभायां कल्पते समर्थो भवति । अभ्यासोऽध्यायसमाप्त्यर्थः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्म
णभाष्य एकोनविंशाध्याये षष्ठः खण्डः ॥ ६॥ (२८) [१४९] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरवुकणसाम्राज्य
धुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्य
एकोनविंशोऽध्यायः ॥ १९ ॥