१८

अथाष्टादशोऽध्यायः ।

आधिनस्य विधिः मातरनुवाक उदीरितः ॥

संख्यापतिपदावन्ये सौर्यादीन्यधिकानि तु ॥१॥ तत्र गवामयनस्य प्रायणीयोदयनीयावाद्यन्तावतिरात्रावुक्तावथ मासा प्तिविधानायाभिप्लवषडहे पूर्वभागरूपाणि त्रीण्यहानि विधत्ते

ज्योतिर्गौसयुरिति स्तोमेभिर्यन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसौ लोक आयुः, इति ।

PM

१७९

१ प्रथमः खण्डः] ऐतरेयब्राह्मणम् ।

जोपशब्दो ज्योतिरादिभिः प्रत्येकमभिसंबध्यते । तथा सति ज्योतिष्टोमो यो आयधोम इत्येतरहोभिर्यन्ति, अनुतिष्ठेयुरित्यर्थः । तदेतदहस्रयं त्रित्व यात्क्रमेण लोकत्रयरूपम् । शाखान्तरेऽप्येतद्दर्शितम्-‘ज्योतिष्टोमं प्रय यन्त्यस्मिन्नेव तेन लोके प्रतितिष्ठन्ति गोष्टोमं द्वितीयमुपयन्त्यन्तरिक्ष

तेन प्रतितिष्ठन्ति आयुष्टोमं तृतीयमुपयन्त्यमुष्मिन्नेव लोके प्रति. तिष्ठन्ति’ इति ।

षडहे पूर्वभागं व्यहमुक्त्वा तदुत्तरभागं विधत्ते

स एवैष उत्तरस्यहः, इति । प्रयाणां पूर्वोक्तानामेवाहां समूहः पुनरनुष्ठीयमान उत्तरख्यहो भवति । तत्र पडहे षण्णामप्यहां क्रमं दर्शयति

ज्योतिर्गौरायुरिति त्रीण्यहानि

गौरायुयॊतिरिति त्रीणि, इति । ज्योतिष्टोमादीनामेव ज्योतिरित्यादीनि नामानि तैर्नामभिर्धर्मा अतिदि श्यन्ते । ज्योतिरादिनामका ये स्वतन्त्रा एकाहाः सन्ति तदीयधर्मा अत्रा. नुष्ठेया इत्यर्थः।

योऽयमुभयोस्यहयोः क्रमव्यत्यास[स्त]मिमं प्रशंसति

अयं वै लोको ज्योतिरसौ लोको ज्योतिस्ते

एते ज्योतिषी उभयतः संलोकेते, इति । अयमस्य व्यहस्याऽऽदौ ज्योतिर्नामकमहर्यदस्ति तत्माथम्यसाम्याङ्कलोकस्व रूपम् । यच्चोत्तरस्य व्यहस्यावसाने ज्योति मकमहस्तदुत्तमत्वसाम्याचुलोक. स्वरूपम् । ते एते षडहस्याऽऽद्यन्तयोर्वर्तमाने ज्योतिषी उभयतोऽवस्थाय पर सरं संलोकेते संमुखत्वेनेक्षेते।

अहर्विशेषांस्तत्क्रमं चोक्त्वा समष्टिरूपं पडहं विधत्ते

तेनैतेनोभयतोज्योतिषा पळहेन यन्ति तघदेतेनोभयतोज्योतिषा पळहेन यन्त्य नयोरेव तल्लोकयोरुभयतः प्रतितिष्ठन्तो

यन्यस्मिंश्च लोकेऽमुष्मिश्चोभयोः, इति । भयत आधन्तयोयोति मकमहर्यस्मिन्पडहे तदेतदुभयतोज्योतिस्तेनैतेन

१८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१८अष्टाद यार षडहेनानुतिष्ठेयुः । तदनुष्ठानेनोभयतो वर्तमानयोः प्रतिष्ठां प्रापयन्ति वने लोकयोरुभयत इत्यस्यैव विवरणमस्मिंश्च लोकेऽमुमिश्वोभयोरिति । अथ तरशेषत्वेनास्मिश्चेत्यादिकमन्वेतव्यम् ।

अस्मिन्नभिप्लवषडहे संस्थाविशेषान्विधत्ते

परियहा एतद्देवचक्रं यदभिप्लवः षळह स्तस्य यावभितोऽग्निष्टोमौ तौ प्रधी ये

चत्वारो मध्य उक्थ्यास्तत्रभ्यम्, इति । योऽयमभिप्लवः षडहस्तदेतदस्मिंश्चामुष्मिश्चोभयोलोकयोः परियदै परि र्तमानमेव देवचक्रम् । यथा लोके रथस्य चक्रं पुनः पुनः परिवर्तते तद्वति देवचक्रमसकृत्पडहं परिवर्तनस्य वक्ष्यमाणत्वात् । रथचक्रस्य हि निप्पा कानि त्रीणि फलकानि । तत्र मध्यमफलकेऽहं प्रवेशयितुं प्रौद नाभिनित क्रियते । तस्य फलकस्योभयोः पार्थयोर्वर्तुलत्वाय फलकद्वयं कीलितं भवति एवमस्मिन्नपि षडहे ज्योतिर्यागावाद्यन्तवर्तिनावग्निष्टोमसंस्थौ प्रधी भव प्रकर्षणोभयतो धीयेते स्थाप्यते इति प्रधी फलकद्वयस्थानीयावित्यर्थः एतस्मिन्ये तु मध्ये चत्वारोऽहविशेषा उक्थ्यसंस्थास्तदेतनभ्यं नाभियोग स्थानमुक्थ्यसंस्थाः कर्तव्या इत्यर्थः।

वेदनं प्रशंसति

गच्छति वै वर्तमानेन यत्र कामयते तत्स्व

स्ति संवत्सरस्य पारमश्नुते य एवं वेद, इति । वेदिता यत्र यस्मिल्लोके गन्तुं कामयते तत्रानेनैव परिवर्तमानेन देव क्रेण गच्छति । तत्तेन देवचक्रेण निर्विघ्नमेव संवत्सरसत्रसमाप्तिं गच्छति ।

उक्तस्याभिप्लवषडहस्यैकस्मिन्मासि पञ्चकृत्व आवृत्तिं विधत्ते

यो वै तद्देद यत्प्रथमः पळहः स वै स्वस्ति संवत्सरस्य पारमश्नते यस्तवेद यद्वितीयो यस्तद्देद यत्तृतीयो यस्तद्वेद

यचतुर्थो यस्तदेद यत्पञ्चमः ॥ १५॥ इति । प्रथमः षडह इति यदस्ति तयो वेद स पुमानिर्विघ्नेन सत्रपारं प्रामाति तथा द्वितीयः षडह इति यदस्ति सद्यो वेद स वै स्वस्तीत्यादिकमनुवतन



२ द्वितीयः खण्डः ] ऐतरेयब्राह्मणम् ।

४८१ प। एवमुत्तरेष्वपि त्रिषु पर्यायेषु द्रष्टव्यम् । षडहे पञ्चकृत्व आवर्त(?)माने सति त्रिंशदहानि भूत्वा मासः संपद्यते ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

भाष्येऽष्टादशाध्याये प्रथमः खण्डः ॥१॥ (१५)[ १३६ ]

.

उक्तेषु पञ्चसु षडहेषु प्रथममनूय प्रशंसति

प्रथमं पळहमुपयन्ति षळहानि भवन्ति षड्वा ऋतव ऋतुश एव तत्संवत्सरमाप्नुव

न्त्युतुशः संवत्सरे प्रतितिष्ठन्तो यन्ति, इति । अनुष्ठिते षडहे पदसंख्याकान्यहानि भवन्ति । ततः संख्यासाम्याहतुद्वारा संवत्सरं प्राप्य तत्र प्रतिष्ठिताः सन्तो वर्तन्ते ।

पूर्वेण षडहेन सहितं द्वितीयं पडहं प्रशंसति

द्वितीयं पळहमुपयन्ति हादशाहानि भवन्ति द्वादश वै मासा मासश एव तत्संवत्सरमाप्नुवन्ति मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति, इति । पूर्ववद्याख्येयम् । उक्ताभ्यां पडहाभ्यां सहितं तृतीयं पडहं प्रशंसति

तृतीयं पळहमुपयन्त्यष्टादशाहानि भवन्ति तानि देधा नवान्यानि नवान्यानि नव वै प्राणा नव स्वर्गा लोकाः प्राणांश्चैव तत्स्व गौश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्व

र्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति , इति । त्रिषु षडहेषु यान्यष्टादशाहानि तेषां द्वेधा विभागे सति प्रत्येकं नवसंख्या सपद्यते । माणाः सप्तसूर्ध्वच्छिद्रेषु द्वयोरश्छिद्रयोर्नवसंख्याकाः स्वर्गलो. .

व नवभोगस्थानभेदेन नवविधा अतः संख्यासाम्यात्माणान्वर्गलोकांच धाप्य तत्र प्रतिष्ठिता वर्तन्ते ।

    • .- -.—

.. ….

.

.

. . . . . . .

. —-

  • .

. -

४८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१८अष्टाद०ध्याये

पूखिभिः षडहैश्चतुर्थ षडई प्रशंसति

चतुर्थ षळहमुपयन्ति चतुर्विंशतिरहानि भवन्ति चतुर्विंशतिर्वा अर्धमासा अर्ध मासश एव तत्संवत्सरमाप्नुवन्त्यर्धमा

सशः संवत्सरे प्रतितिष्ठन्तो यन्ति, इति । अतः संख्यासाम्यादर्धमासद्वारा संवत्सरे प्रतिष्ठिताः । पूर्वैश्चतुभिः षडहैः सहितं पञ्चमं षडहं प्रशंसति

पञ्चमं षळहमुपयन्ति त्रिंशदहानि भवन्ति त्रिंशदक्षरा वै विराविराळनाद्यं विराजमेव

तन्मासि मास्यभिसंपादयन्तो यन्ति, इति । अहःसंख्याया विराट्साम्याद्विराजश्चान्नाद्यहेतुत्वात्प्रतिमासं विराइद्वाराः नाचं प्रामुवन्ति ।

पुनरपि षडहपञ्चकं प्रशंसति

अन्नाद्यकामाः खलु वै सत्रमासत तद्यदिराज मासि मास्यभिसंपादयन्तो यन्यन्नाद्यमेव तन्मासि मास्यवस्न्धाना यन्त्यस्मै च

लोकायामुष्मै चोभाभ्याम् ॥ १६ ॥ इति । ये सत्रस्यानुष्ठातारस्ते ह्यन्नाद्यकामा अनुतिष्ठन्ति । तथा सति पूर्वोक्तरीत्य संख्यासाम्यात्पञ्चसु षडहेषु त्रिंशदक्षररूपां विराज प्रतिमासं संपादयन्त वर्तन्ते । प्रतिमासमन्नाचं प्रामुवन्तो लोकद्वयार्थ गच्छन्ति । प्रतिमासं षडा पञ्चकमनुतिष्ठेयुरिति तात्पर्यार्थः। तत्र चत्वारोऽभिप्लवाः षडहाः पञ्चम पृष्ठयः षडह इति सूत्रकारैरभिधानादयं विशेषः शाखान्तरे द्रष्टव्यः ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा. ह्मणभाष्येऽष्टादशाध्याये द्वितीयः खण्डः ॥२॥ (१६) [१३७

४८३

३ तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।

संवत्सरसत्रस्यावयवान्मासानभिधाय सत्रं विधत्ते

गवामयनेन यन्ति गावो वा आदित्या

आदित्यानामेव तदयनेन यन्ति, इति । संवत्सरसत्राणां प्रकृतिभूतस्यैतस्य सत्रस्य गवामयनमिति नामधेयम् । नेन यन्त्यनुतिष्ठेयुः । गमनसाम्याद्वामादित्यत्वम् । तथा सत्यादित्यानामे वायनेनानुष्ठानं कृतं भवति । तदेतद्गवामयनं प्रशंसति

गावो वै सत्रमासत शफाञ्शृङ्गाणि सिषासत्य स्तासां दशमे मासि शफाः शृङ्गाण्यजायन्त ता अब्रुवन्यस्मै कामायादीक्षामद्यापाम तमुत्तिष्ठा

मेति ता या उदतिष्ठस्ता एताः शृङ्गिण्यः, इति । पुरा कदाचिद्गवाभिमानिन्यो देवताः स्वकीयानां गोदेहानां पादगताश फाशिरोगतानि शृङ्गाणि च सिषासत्यः प्राप्तुमिच्छन्त्यः सत्रमन्वतिष्ठन् । तासां दशमे मासि तदुभयं संपन्नम्। ततस्ता गावः परस्परमिदमब्रुवन् । यस्मै कामाय वयमदीक्षामहि सत्रदीक्षामाप्तवत्यस्तं काममापाम वयं प्राप्तवत्यः। ततोऽस्मात्सत्रादुत्तिष्ठामेति विचार्योत्थाय गताः । ताः प्रसिद्धा गाव उदति छन् । ता इमाः शृङ्गिण्यो दृश्यन्ते । अनेन दशसु मासेष्वनुष्ठेयं गवामयनं प्रशस्तम्।

द्वादशमु मासेष्वनुष्ठेयं यद्गवामयनमस्ति तदिदानी प्रशंसति

अथ याः समापयिष्यामः संवत्सरमित्यासत तासामश्रद्वया शृङ्गाणि प्रावर्तन्त ता एता स्तूपरा ऊर्ज वसुन्वंस्तस्मादु ताः सर्वानृतू प्राप्त्वोत्तरमुत्तिष्ठन्त्यूर्ज ह्यसुन्वन्सर्वस्य वै

गावः प्रेमाणं सर्वस्य चारुतां गताः, इति । सत्रमनुतिष्ठन्तीनां गवां मध्ये शफशृङ्गार्थिनीनां दशभिर्मासैः सिद्धिर्जाता। सा तु गवां शृङ्गापेक्षा नास्ति किंतर्गपेक्षेव तादृश्यो या गाव ऊर्जसिद्ध्यर्थ दशमासात्मकं संवत्सरं समापयिष्याम इत्यभिप्रेत्य तथैवान्वतिष्ठन् । तासां

४८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१(अष्टाद ध्याये गवां शृङ्गेष्वश्रद्धया शृङ्गाणि न मावर्तन्त नोत्पन्नानीत्यर्थः । ता एलान लोके तूपराः शृङ्गरहिता दृश्यन्ते। तासु(स्तु) शृङ्गरहिता अपि सत्रानुष्यानेलो बलाधिक्यमसुन्वन्संपादितवत्यः। तस्माद्वलाधिक(क्य)लक्षणस्य फलस्य सन वादेव ता गावः सर्वातून्पसंख्याकानपि तस्मिन्सत्रानुष्ठाने प्राप्योत्तरमका सत्रादुत्तिष्ठन्ति। यस्मादूर्ज(ज)बलातिशयमसुन्वन्माप्तवत्यस्तस्माद्वादशमासा, ष्ठानं युक्तम् । ताः शृङ्गरहिता गावः प्रहारभयाभावात्सर्वस्य जगतः प्रेमा मियत्वं गताः । तथा बलाधिक्येन शरीरपुष्टया च सर्वस्य भारवहनादिकार्यर नेत्रदर्शनस्य चात्यन्तचारुता रमणीयतां गताः।

वेदनं प्रशंसति

सर्वस्य प्रेमाणं सर्वस्य चारुतां

गच्छति य एवं वेद, इति । अथाऽऽदित्यानामयनमगिरसामयनं च गवामयनविकृतिरूपमुभयं व प्रस्तौति

आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽ स्पर्धन्त वयं पूर्व एष्यामो वयमिति ते हाऽऽदित्याः पूर्व स्वर्ग लोकं जग्मुः

पश्चेवाङ्गिरसः षष्टयां वा वर्षेषु, इति । आदित्याख्याश्च ये देवा ये चाङ्गिरस(रो)नामका ऋषयस्तदु(उ)भये स्व लोके परस्परं स्वर्गप्राप्तावस्पर्धन्तास्माकमेव प्रथमं गमनमिति आदित्या अधि सोऽपि । तथैव तत्राऽऽदित्याः सहसा प्रथमं स्वर्ग प्रापुः । अबिरस पश्चैव विलम्बेनैव षष्टिसंख्याकेषु वर्षेष्वतीतेषु स्वर्ग प्राप्ताः । वाशब्द पक्षान्तरं द्योत्यते । अङ्गिरसां मध्ये तत्तच्छक्त्यनुसारेण केचित्षष्टेः पूर्व गता इत्यर्थः।

अथाऽऽदित्यायनेऽहक्लूप्ति विधत्ते

यथा वा प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वेऽभिप्लवाः पळहा आक्ष्यन्त्य न्यान्यहानि तदादित्यानामयनम्, इति ।

१ स. पूर्वमेव ग ।

बोक्ताभ्यां मथमहिनामा तत अर्व विज्ञावशमुक्थ्यमहदिता गवामयने

। तृतीयः खण्डः] ऐतरेय ब्राह्मणम् ।

४८५ वाशब्दो न विकल्पार्थः किंतु गवामयनमकारव्यावृत्त्यर्थः । गवामयने पणीयाख्यं प्रथममहोऽ(हर)तिरात्रसंस्थं चतुर्विशमुक्थ्यमहर्द्वितीयं तत्र यथा वाऽऽदित्यानामयनेऽपि तत ऊर्ध्व विशेषोऽस्ति सर्वेऽभिप्लवाः षडहा: ऑक्ताभ्यां प्रथमद्वितीयाभ्यामहोभ्यामन्यानि सर्वाण्यहान्याक्ष्यन्ति व्याप्ति रिष्यन्ति । गवामयने त्वेकैकस्मिन्मासि चत्वार एवाभिप्लवषडहाः । अत इदं पम्यं तदिदमादित्यानामयनम् ।

अयाङ्गिरसामयनस्य क्लूप्ति दर्शयति प्रायणीयोऽतिरावश्चतुर्विंश उक्थ्यः सर्वे पृष्ठयाः षळ हा आक्ष्यन्त्यन्यान्यहानि तदङ्गिरसामयनम् , इति । प्रथमद्वितीयव्यतिरिक्तानि सर्वाण्यहानि पृष्ठयषडहाप्तानीत्येतावानत्र विशेषः । अथवाऽऽक्ष्यन्तिशब्दोऽहविशेषनामधेयम् । तथा च बौधायन आह ‘अभिजिद्विषुवान्विश्वजिद्दशममहर्महाव्रतमुदयनीयोऽतिरात्र इत्येतान्याक्ष्यन्ति भवन्ति’ इति । तदेतद्वौधायनस्य मतम् । अन्यदपि यान्यन्यानि पृष्ठथाभिप्लवेभ्य इति शालिकिराचार्यो मेने । यानि चान्यानि पृष्ठयाभिप्लवेभ्यो दशमाञ्चेत्यौ पमन्यव इति । तथा सति प्रायणीयारम्भणीयाभ्यामभिप्लवपडहेभ्यश्चान्यानि पान्यहानि सन्ति तान्याक्ष्यन्ति । एतन्नामकानीत्युभयत्र व्याख्येयम् । सर्व याऽप्यस्त्येनयोरुभयोरपि गवामयनाद्विशेषः । गवामयने त्वेकस्मिन्मासि चत्वारोऽभिप्लवाः षडहाः पञ्चमः पृष्ठयः षडहः। तथा चाऽऽश्वलायन आह ‘अथ गवामयनं सर्वकामाः मायणीयचतुर्विशे उपेत्य चतुरभिप्लवान्पृष्ठयपश्च मान्पश्च मासानुपयन्ति’ इति । आदित्यानामयने पृष्ठयः षडहो नास्ति, अनि रसामयनेऽभिप्लवः षडहो नास्तीति वैषम्यम् ।

अयनद्वयगतमभिप्लवषडहं पृष्ठयषडहं च दर्शयति

सा यथा स्रुतिरासायन्येवमभिप्लवः षळहः स्वर्गस्य लोकस्याथ यथा महापथः पर्याण एवं पृष्ठयः पळहः स्वर्गस्य लोकस्य तद्यदुभाभ्यां यन्त्युभाभ्यां वै यन रिष्यत्युभयोः कामयोरु पाप्त्यै यश्चाभिलवे षळहे यश्च पृष्ठये ॥१७॥ इति ।

१ क. म. ट. यमति । २ क. म. द. तिक्रान्तानि ।


  • .

. . -

४८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ (अष्टादःच्या

यथा लोकस्य प्रसिद्धा स्रुती राजमार्गरूपाऽञ्जसायनी दुःखहेतुना है कपाषाणादीनामभावादञ्जसा सम्यगयनस्य गमनस्य साधन तैवभि षडहः स्वर्गस्य लोकस्याञ्जसा प्राप्तिहेतुः । अथ पृष्ठयषडहस्य ही उच्यते । यथा लोके महापथः प्रौढमार्गों नगरद्वयमध्यवर्ती पर्याणः परितं यनस्य गमनस्य साधनभूतो नगरसमीपेऽरण्यपर्वताद्यभावाद्यस्यां दिशिम मपेक्षा तत्र गन्तुं शक्यत एवमयं पृष्ठयः षडहः खगेस्य लोकस्य प्राप्तिहेत तथा सत्यनयोरुभयोरुभाभ्यां षडहाभ्यां यन्तीति यदस्ति तेनोभाभ्यां पा द्वयस्थानीयाभ्यां यत्र गच्छन्पुरुषो न रिष्यति न विनश्यति । योऽभिः कामोऽस्ति यश्च पृष्ठयषडहे तयोरुभयोः कामयोः प्राप्त्यै षडहद्वयं संपद्यते

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्येऽष्टादशाध्याये तृतीयः खण्डः ॥ ३ ॥ (१७) [१३८ ]

मनस्य साधनभूता

यः षडहः स्वगस्य

स्यामा

इत्थं गवामयनमादित्यानामयनमगिरसामयनं चैते संवत्सरसत्रविशे उक्ताः। तत्र सर्वत्र पूर्वोत्तरयोसिषदकयोमध्यवर्ति यत्प्रधानमहरस्ति त तद्विधत्ते

एकविंशमेतदहरुपयन्ति विषुवन्तं मध्ये संवत्सरस्य, इति ।

छन्दोगब्राह्मणे सप्तभ्यो हिं करोतीत्यादिना विहितो योऽयमेकवि स्तोमस्तेनैव स्तोमेनास्य सर्वस्तोत्रप्रवृत्तेरिदमहरेकविंशमित्युच्यते । तत्र वि वनामक संवत्सरसत्रस्य ये पूर्वे षण्मासा ये चोत्तरे तयोर्मासषदकयोरुभय वर्तमानयोर्मध्ये तदेतदहरनुष्ठेयम् । एतच्च नोभयोर्मासषट्कयोरन्तर्भवति किंत्वतिरिक्तमेकम् । तथा चाऽऽश्वलायन आह-अथ विषुवानेकविंशो

पूर्वस्य पक्षसो नोत्तरस्येति । तदेतदहः प्रशंसति

एतेन वै देवा एकविंशेनाऽऽदियं

स्वर्गाय लोकायोदयच्छन् , इति । पुरा देवा एतेनाहा स्वर्गलोकाख्यमादित्यमुदयच्छमित ऊर्ध्व प्रापितवन्त तथा च शाखान्तरे पठ्यते-‘एकविश एष भवति । एतेन वै देवा एकवि शेनाऽऽदित्यमित उत्तम मुवर्ग लोकमारोहयन्’ इति ।

आदित्यस्य तेनाहा साम्यं दर्शयति

स एष इत एकविंशः, इति ।१ चतुर्थः खण्डः]

ऐतरेयब्राह्मणम् ।

४८७ मोऽयमादित्योऽस्ति स एष इतो भूलोकादारभ्य गण्यमान एकविंशति वापरको भवति । तथा चान्यत्राऽऽनायते-‘द्वादश मासाः पञ्चर्तवस्त्रय इमे मोका असावादित्य एकविंशः’ इति । अथवाऽत्रैव विषुवतः पुरस्तात्पश्चाच ध्यमाणमहर्दशकद्वयमपेक्ष्य विषुव एकविंश इत्युच्यते । अस्मिन्पक्ष इदं वाक्य. पत्तरशेषत्वेन योजनीयम् ।

इदानीमुभयतो दशकद्वयं विधत्ते

तस्य दशावस्तादहानि दिवाकीय॑स्य भवन्ति दश परस्तान्मध्य एष एकविंश उभयतो विराजि प्रतिष्ठित उभयतो हि वा एष विराजि प्रतिष्ठि तस्तस्मादेषोऽन्तरेमाल्लोकान्यन्न व्यथते, इति । दिवैव कीर्तनीयं मन्त्रजातं यस्मिन्विषुवत्यहनि तदहर्दिवाकीर्त्यम् । तस्या होऽवस्तादधोभागे दशाहानि भवन्ति । परस्तादू भागेऽपि दशाहानि भवन्ति । तयोर्दशकयोमध्य एप एकविंशो विपुवावर्तते । तस्य विषुवताऽध. स्तात्पूर्वपक्षे षष्ठे मासे स्वरसामानोऽहविशेषास्त्रयस्तेभ्यः पूर्वमभिजिदाख्यमे काहस्ततः पूर्व पृष्ठयः षडह इति दशाहानि विषुवदूर्वा तु प्रत्यवरोहक्रमेण त्रयः स्वरसामानस्ततो विश्वजिदाख्यमेकाहस्तत ऊर्व पृष्ठयः पडह इति दशाहानि । एवमुभयोः पार्थयोरहां दशसंख्योपेतत्वाद्विराडेतस्यामुभयतोऽ. वस्थितायां विराज्ययमेकविंशः प्रतिष्ठितः। यथोक्तगणनया विराजि प्रतिष्ठा पंव हिशब्दोऽप्ये(पे)तेन वाक्येन स्पष्टी करोति । तस्मादुभयतो विराइद्वयेन रक्षितत्वादेष आदित्यो विषुवदहस्थानीयः । इमाल्लोकानन्तरा, एपां लोकानां सर्वेषां मध्ये यन्गच्छन्नपि न व्यथते व्यथां न पामोति । विषुवानप्येकविंश आदित्योऽप्येकविंशस्तस्मादुभयोरेकत्वे सति विषुवतो यद्विराइयोपेतत्वं तदे. पाऽऽदित्यस्योभयतोविराट्त्वं भवति । आदित्यस्य व्यथाराहित्ये येन(त्येन!) विषुवतो वैकल्यराहित्यं सिध्यति । अथवा विपुवतो यथा विराइवयमुभयतो रतकमेवमादित्यस्याप्यधस्तादुपरिष्टाच वर्तमानं लोकद्वयम् । एतदेवाभिप्रेत्य शाखान्तरे श्रूयते-‘तस्मादन्तरेमी लोकौ यन्सर्वेषु सुवर्गेषु लोकेषु अभित

पत्रोति’ इति ।

अथ विषुवत उभयतः समीपवर्तिनः स्वरसामाख्यानहविशेषान्मशंसति

तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपाता

१८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१८ अष्टाद ध्या

दविभयुस्तं त्रिभिः स्वगैलॊकैरवस्तात्मत्युत्त भनुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तस्य परा चोऽतिपातादबिभयुस्तं त्रिभिः स्वगैर्लोकः परस्तात्पत्यस्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तत्रयोऽवस्तात्सप्तदशा भवन्ति त्रयः परस्तान्मध्य एष एकविंश उभयतः स्वरसाम भिर्धत उभयतो हि वा एष स्वरसामभिर्धत

स्तस्मादेषोऽन्तरेमाल्लोकान्यन्न व्यथते, इति । योऽयमादित्योऽस्ति तस्याऽऽदित्यस्य स्वर्गलोकादवपात आधाराभावाद पतनं तस्माद्देवा अविभयुरादित्योऽधः पतिष्यतीति भीताः सन्तस्तमादित्या स्तान्मण्डलस्याधोभागे त्रिभिः स्वर्गलोकैः स्वर्गशब्दोपलक्षितैर्भूरादिभिः प्रत्यु भनुवन्नधःपातपतिबन्धार्थमुत्तम्भनमाधाररूपमकुर्वन् । यथा गृहगतवंशा नामधःपातनिवारणाय स्तम्भेनोत्तम्भनं कुर्वन्ति तद्वदिति । वर्तमानस्याऽऽ त्यस्य यथा त्रयो लोका उत्तम्भकास्तथैवाऽऽदित्यस्थानीयस्य विषुवतोः स्वर्गलोकसहशास्त्रयः स्तोमा एवोत्तम्भकाः । सप्तदशस्तोमयुक्ताः स्वर मानोऽहर्विशेषाः स्तोमशब्देनात्र विवक्षिताः । पुनरपि देवास्तस्याऽऽदित्य पराचोऽतिपातान्मण्डलात्पराग्भूतेषूर्ववर्तिषु लोकेषु योऽयमतिपातो है गोचरं देशमुल्लङ्घ्य यत्र कापि दूरदेशगमनं तस्मादतिपाताद्भीताः सन्तः । स्तादादित्यमण्डलस्योपरि त्रिभिर्जनतपःसत्यशब्दाभिधेयैत्रिभिः स्वगैलो स्तमादित्यं प्रत्यस्तभ्नुवन् । यथा पूर्वाधःपतननिवृत्त्यर्थमुत्तम्भनं कृत वमुपरिष्टादतिपातनिवृत्त्यर्थ प्रतिस्तम्भनं प्रतिबन्धकस्तम्भमकुर्वन् । आदि स्थानीयस्य तु विपुवतोऽह्न उत्तरपक्षगताः स्तोमशब्दोपलक्षिताः स्वरसार ख्यास्त्रयोऽहविशेषा एवं प्रतिस्तम्भकाः । तत्तथा सति ये विषुवतोऽहोऽवस दधोवर्तिनस्त्रयोऽहर्विशेषास्ते सप्तदशस्तोमयुक्ताः कार्याः । एवं च स मध्येऽवस्थित एकविंशाख्योऽहविशेष उभयतोऽधस्तादुपरिष्टाच स्वरसामन मकैस्त्रिभित्रिभिरहोमिभृतः । अयमेवार्थः शाखान्तरप्रसिद्धद्योतकेन हिश युक्तेन वाक्येन पुनदृढीकृतः । यस्माद्विषुवदहस्थानीय आदित्यः स्वरसा स्थानीयैरुभयतोऽवस्थितैस्त्रिभित्रिभिोकैर्धतस्तस्मात्कारणादप्यादित्योऽन्त

१ ख. “न्धस्त।

४८९

चतुर्थः खण्डः] ऐतरेयब्राह्मणम् ।

वस्थित इमाल्लोकान्सर्वान्सर्वदा यन्गच्छन्नपि न व्यथते व्यथां न मोति । अत्रार्थवादेन पूर्वेषत्तरेषु च विषहस्सु सप्तदशस्तोमविधिरुभयः । तथा च शाखान्तरे श्रूयते-‘उक्थ्या एव सप्तदशाः परःसामानः कार्याः’ इति । स्वरसामाख्यानामह्नामेव पर सामेति नामान्तरम् ।

अथ विहितानेतान्पूर्वोत्तरान्सप्तदश स्तोमान्प्रकारान्तरेण पुनः प्रशंसति

तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपाताद विभयुस्तं परमैः स्वगैर्लोकैरवस्तात्मत्युत्तश्नुव न्स्तोमा वै परमाः स्वर्गा लोकास्तस्य पराचोऽ तिपातादविभयुस्तं परमैः स्वगैर्लोकः परस्तात्म त्यस्तश्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तत्र योऽवस्तात्सप्तदशा भवन्ति त्रयः परस्तात्ते दौ हौ संपद्य त्रयश्चतुस्त्रिंशा भवन्ति चतुस्त्रिंशो वै स्तोमानामुत्तमस्तेषु वा एष एतदध्याहितस्त पति तेषु हि वा एष एतदध्याहितस्तपति, इति । तेषु हि लोकेषु वर्तमानो य आदित्यस्तस्य स्वर्गलोकादवपातः स्यादिति देवा भीताः सन्तः स्तोमानामादित्यस्तम्भनत्वरूपं परमत्वं तेनोभयतो वर्त मानाः पदसंख्याकाः सप्तदशस्तोमका द्वौ द्वावेकीभूय त्रिसंख्याकाश्चतुस्त्रिंश स्तोमा भवन्ति । त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिण(न)वत्रयस्त्रिंशाख्या छन्दो. गैरान्नाता ये स्तोमाः सन्ति तेषामयं चतुस्त्रिंशस्तोम उत्तमः पूर्वापेक्षया संख्या धिक्यात् । तेषु स्तोमस्थानीयेषभयतः स्थितेषु स्वर्गेष्वेषोऽध्याहित आदित्यो जगत्स्रष्टा स्थापितः सन्नेतस्मात्प्रत्यक्षं यथा भवति तथा तपति संतापं करोति। तेषु हीति वाक्येन तदेव दृढी क्रियते ।

विषुवत एवं प्रशंसामभिप्रेत्य तद्रूपत्वेनोपचरितमादित्यं पुनः प्रशंसति स वा एष उत्तरोऽस्मात्सर्वस्माताद्भविष्यतः सर्व मेवेदमतिरोचते यदिदं किंचोत्तरो भवति, इति । योऽयमादित्योऽभिहितः स एवैष भूताद्भविष्यतश्च सर्वस्मादस्माज्जगत

१ ख. उक्था । २ क. घ. मानां

४९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१८अष्टाद०ध्याये उत्तर उत्कृष्टो यदिदं किंच जगदस्तीदं सर्वमेवातिक्रम्य रोचते दी तवदयं विषुवानप्यन्येभ्यः सर्वेभ्योऽहोभ्य उत्तर उत्कृष्टो भवति ।

वेदनं प्रशंसति

यस्मादुत्तरो बुभूषति तस्मादुत्तरो

भवति य एवं वेद ॥ १८॥ इति । एतद्वेदनादुत्कृष्टो भूत्वा प्रतिष्ठयाऽधिकं शोभते तस्मादुत्कृष्टतरो भवति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम णभाष्येऽष्टादशाध्याये चतुर्थः खण्डः ॥४॥ (१८) [१३९]

स्वरसामाख्येष्वहस्सु सप्तदश स्तोमाः पूर्व विहिता इदानी तान्यहानि विधत्ते

स्वरसान उपयन्तीमे वै लोकाः स्वरसा मान इमान्वे लोकान्स्वरसामभिरस्पृण्वं स्तत्स्वरसानां स्वरसामलं तद्यत्स्वरसान

उपयन्येष्वेवैनं तल्लोकेष्वाभजन्ति , इति । स्वरसामाख्यान्पसंख्याकानहर्विशेषाननुतिष्ठेयुः। आदित्यस्याधस्तादुपरि टाच वर्तमाना इम एव लोकाः स्वरसामरूपास्तस्मादनुष्ठितैरेतैः स्वरसामभिरि माल्लोकानस्पृण्वन्मीतानकुर्वस्तस्मादेतेषामहां स्वरोपेतसामवत्पीतिहेतुत्वात्स्व रसामेति नाम संपन्नम् । एतेषामनुष्ठातारो लोकेषु सर्वेष्वाभजन्ति भोगभानो

भवन्ति ।

अथ स्वरसामभ्यः सर्वेभ्योऽधस्तादुपरिष्टाच द्वे अहनी विधत्ते

तेषां वै देवाः सप्तदशानां प्रवलयादविभयुः समा इव वै स्तोमा अविगृहळा इवेमे है न प्रवलियेरनिति तान्सर्वः स्तोमैरवस्तात्पर्यार्ष सर्वैः पृष्ठैः परस्तात्तद्यदभिजित्सर्वस्तोमोऽव स्ताद्भवति विश्वजित्सर्वपृष्ठः परस्तात्तत्सप्तदशा नुभयतः पर्येषन्ति धृत्या अप्रवलयाय, इति ।

.

.

६ पञ्चमः खण्डः] ऐतरेयब्राह्मणम् ।

४९१ ये स्वरसामानः सप्तदशस्तोमयुक्तास्तेषां प्रलयात्मकर्षेण विशरणादेवा अवि भयः । वली विशरण इति धातोरिदं रूपम् । विशरणशङ्का कथमिति तदुच्यते। घटस्वहस्सु प्रयोक्तव्या एते सप्तदश स्तोमाः समा इव वै सदृशा एव तस्मा विगहळा इव गृहनस्य गोपनस्याभावाच्छिथिला एवैकबन्धत्वे सति नूतनत्व वमत्काराभावादनादरेण विशीर्णा भवन्ति । तस्मादिमे स्तोमा न प्रक्लियेर प्रकर्षेण विशीर्णा मा भूवनिति विचार्य तान्सप्तदश स्तोमानवस्तादधोभागे वैः स्तोमैत्रितत्पश्चदशसप्तदशैकविंशत्रिण( न )वत्रयस्त्रिंशाख्यैः पर्षिन्प रेतो गता रक्षणाय परितो वेष्टनं कृतवन्त इत्यर्थः । तथा परस्तात्सप्तदशस्तो नामुपरिभागे सर्वैः पृष्ठै रथंतरबृहहरूपवैराजशाकररैवतसामाख्यैः पृष्ठस्तोत्रैः यर्षिन् । तस्मात्स्वरसाम्नामधस्तात्पूर्वस्मिन्दिवसे सर्वस्तोमयुक्तमभिजिदाख्य यहरनुष्ठेयम् । तथा तेषामुपरिष्टात्सर्वपृष्ठस्तोत्रयुक्तं विश्वजिदाख्यमहरनुष्ठेयम् । पदेतद्विविधमनुष्ठानं तेन सप्तदशस्तोमानुभयतः पर्युपन्ति परिरक्षन्ति तच्च रक्षणं मृत्यै दाायाप्रवलयाय शैथिल्याभावाय संपद्यते ।

अथ विषुवत्यहनि पञ्च सामानि विधत्ते

तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपाता दबिभयुस्तं पञ्चभी रश्मिभिरुदवयचश्मयो वै दिवाकी,नि महादिवाकीर्य पृष्ठं भवति विकर्ण ब्रह्मसाम भासमग्निष्टोमसामोभे बृह द्रथंतरे पवमानयोर्भवतस्तदादित्यं पञ्चभी

रश्मिभिरुद्वयन्ति धृत्या अनवपाताय, इति । देवाः पुनरपि तस्याऽऽदित्यम्य स्वर्गलोकादधःपातमाशङ्कय तस्माद्रीताः। मद्यपि पृथिव्यादिलोकत्रयमुत्तम्भकमुक्तं तथाऽप्युपरि रज्जुभिरिव दृढबन्धन याभावादिति ततश्चलने सति पार्थयोः पतनमाशङ्कयते तन्मा भूदिति देवा. तमादित्यं पश्चभी रश्मिभिः प्रग्रहैरुदवयमूर्ध्वमुत्कृष्य वयनं कृतवन्तो रद दिवन्त इत्यर्थः । ये बन्धनहेतवो रश्मयस्तत्स्थानीयान्यस्मिन्विषुवति दिवा-’ कानि दिवैव पठनीयानि पञ्च सामानि तेषु मध्ये महादिवाकीय॑नामकमेकं साम । तच्च विभ्राबृहत्पिबतु सोम्यं मधु [ १०-१७०-१] इत्यस्यामुच्यु पनम् । तत्सामयुक्तं पृष्ठस्तोत्रं कर्तव्यम् । तथा विकर्णाख्यमेकं साम । तच्च क्षस्य वृष्णो अरुषस्य न सहः [.६-८-१] इत्यस्यामृच्युत्पन्नम् । तदे. ब्रह्मसाम कर्तव्यम् । ब्राह्मणाच्छंसिनमभिलक्ष्य गीयमानं ब्रह्मसाम । तथा

४९२

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् – [१८अष्टाद ०ध्याये

.

भासाख्यमपरं साम । तदपि पृक्षस्येत्यस्यामेवोत्पन्नम् । तच्चानियोगमा कर्तव्यम् । येन सानाऽनिष्टोमसंस्था समाप्यते तदग्निष्टोमसाम । बृहदांत प्रसिद्धे भवतः । माध्यंदिनपवमानार्भवपवमानयोः कर्तव्यत्वात् । पञ्चसामप्रयो गेणाऽऽदित्यं पञ्चभिः सामरज्जुभिरूचे बध्नन्ति । तच्चाऽऽदित्यस्य धारणाय भवति । तेन धारणेनाधःपातो न भवति ।

अथ प्रातरनुवाकस्य चोदकपातकालं बाधितुं कालान्तरं विधत्ते

उदित आदित्ये प्रातरनुवाकमनुब्रूया

सर्व ह्येवैतदहर्दिवाकीर्यं भवति, इति । प्रकृतावादित्योदयात्यागेव प्रातरनुवाकः पठ्यते । अत्र तु सर्वस्याहो दिवा कीर्त्यत्वसिद्ध्यर्थमुदयादूर्ध्वमनुब्रयात् । सवनीयपशौ कंचिद्विशेषं विधत्ते

सौर्य पशुमन्यङ्गश्वेतं सवनीयस्योपाल

" म्भ्यमालमेरन्सूर्यदेवयं ह्येतदहः, इति । सूर्यो देवता यस्य पशोः सोऽयं सौर्योऽन्यङ्गं वर्णान्तरेण संपादितं चिह्नम न्यङ्ग तादृशश्वासौ श्वेतश्च सोऽयमन्यङ्गश्वेतो वर्णान्तरेण मिश्रितः सर्वश्वेत इत्यर्थः । तादृशः पशुरत्र सवनीयस्थान उपालम्भ्योऽतस्तमालभेरन् । यस्मादे तदहः सूर्यदेवत्यं तस्माद्युक्तः सूर्यदेवत्यः पशुः।

सामिधेनीषु विशेष विधत्ते

· एकविंशति सामिधेनीरनुब्रूयात्म

त्यक्षादयेतदहरेकविंशम् , इति । एतद्विषुवन्नामकमहरेकविंशस्तोमयुक्तत्वात्प्रत्यक्षाद्धि साक्षादेव मुख्यमेवैक विशं तस्मात्सामिधेनीनामेकविंशतिसंख्या युक्ता । अत्र चोदकमाप्ताः पञ्चदश धाय्याः पदसंख्याका इत्येकविंशतिः। तथा चाऽऽश्वलायन आह-‘विधु वान्दिवाकर्त्य उदिते मातरनुवाकः पृथुपाजा अमर्त्य इति षधाय्याः सामि

धेनीनां सौर्यः सवनीयस्योपालम्भ्यः’ इति ।

निष्केवल्यशस्ने निविद्धानं विधत्ते

एकपञ्चाशतं द्विपञ्चाशतं वा शस्त्वा मध्ये

१ ख. शतिः सं।

१ षष्ठः खण्डः] ऐतरेयब्राह्मणम् ।

निविदं दधाति तावतीरुत्तराः शंसति शता युर्वे पुरुषः शतवीर्यः शतन्द्रिय आयुष्येवैनं

तीर्य इन्द्रिये दधाति ॥ १९ ॥ इति । तस्मिञ्शस्त्रे स्तोत्रियानुरूपयोख्यचयोः षड्ऋचो यद्वावानेत्येका धाय्या बृह तरयोर्योनी द्वे उत्तमसाम प्रगाथस्य प्रग्रथनेन तिस्रो नृणामुत्वानृतममिति तिस्रो यस्तिग्मा इत्येकादश!ऽभित्यमिति पञ्चदशर्च इत्येवमेकचत्वारिंशत् । तत्र प्रथमया त्रिरभ्यस्तया सह त्रिचत्वारिंशत् । इन्द्रस्य नु वीर्याणीत्यस्मिन्पञ्चदशर्चे सूक्तेऽष्टौ नव वा शंसनीयाः । तत्राष्टत्वपक्ष एकपश्चाशद्भवन्ति । नवपक्षे दिपञ्चाशत् । तच्छंसनादूर्ध्वमिन्द्रस्य नु वीर्याणीत्यस्य सूक्तस्य मध्य ऐन्द्री निविदं दध्यात् । तत ऊर्ध्व पुनरपि तावतीचः शंसेत् । तथा सति शत संख्यासंपत्त्या पुरुषायुःसाम्यं भवति । इन्द्रियाणि च शतसंख्यासु नाडीषु संचाराच्छतं भवन्ति । तदीयव्यापाराश्च तथा शतसंख्याकाः। एवं सति यजमानं संपूर्ण आयुषि वीर्य इन्द्रियेष्ववस्थापयति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्म णभाष्येऽष्टादशाध्याये पञ्चमः खण्डः ॥५॥ (१९) [१४०]

अथ कस्याश्चिदृचः शंसनं विधत्ते

दूरोहणं रोहति स्वर्गो वै लोको दूरोहणम् , इति । दुःशकं रोहणं यस्मिन्नादित्यमण्डले तद्रोहणं तत्राऽऽरोहणस्य साधनत्वा. मन्त्रस्वरूपमपि दूरोहणमित्युच्यते । तद्रोहत्यारोहणार्थ शंसेदित्यर्थः । यद्वा अस्य दुःशक उच्चारणविशेषो दूरोहणं स च विशेषः सूत्रेऽवगन्तव्यः । तं हति विशिष्टमुच्चारणं कुर्यादित्यर्थः । योऽयं स्वर्गलोकस्तस्याऽऽरोहणं शकमिति दूरोहणत्वम् । तादृशं स्वर्ग लोकं प्रापयतीत्यर्थः। वेदनं प्रशंसति

स्वर्गमेव तल्लोकं रोहति य एवं वेद, इति । विहितमर्थ प्रशंसति

यदेव दूरोहणा३म् , असौ वै दूरोहो योऽसौ तपति कश्चिद्दा अत्र गच्छति स यहरोहणं

४९४

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१८अष्टाद ध्याये

रोहत्येतमेव तद्रोहति , इति। दूरोहणमिति यदुक्तं तत्किमिति शेषः । प्रश्नार्थ लुतिः। असालियो रमुच्यते । योऽसावादित्यस्तपति, असावेव दूरोहो दुःशकारोहणस्थानावस्थि तत्वात् । अथवा यः कश्चिद्यजमानः सम्यगनुष्ठायात्राऽऽदित्यलोके गच्छति सोऽपि दूरोहो दुःशकस्थानारोहणत्वात् । एवं सति यदि दूरोहणं मन रोहति शंसेत्तत्तेन शंसनेनैतमेवाऽऽदित्यं लोकं रोहति प्रामोति।

मत्रविशेषं विधत्ते

हंसवत्या रोहति , इति । हंसशब्दो यस्यामृच्यस्ति सेयं हंसवती तया रोहेत्तामुच्चारयेदित्यर्थः।

तस्या ऋचः प्रथमपादे पूर्वभागमनूद्य व्याचष्टे– ___ हंसः शुचिषदित्येष वै हंसः शुचिषत , इति । हन्ति सर्वदा गच्छतीति हंसः । शुचौ शुद्धे धुलोके सीदति तिष्ठतीति शुचिषत् । अस्मिन्मागे यः प्रतिपाद्यते स एव मण्डले दृश्यमान एव । सः सर्वदा गतिमत्वाद्धंसो भवति धुलोकेऽवस्थानाच्छुचिषदपि भवति ।

उत्तरभागमनूध व्याचष्टे

वसुरन्तरिक्षसदित्येष वै वसुरन्तरिक्षसद , इति । वसति सर्वदेति वसुर्वायुन हि वायोरहनि रात्री वा कदाचिदस्तमयोऽसि तादृशो वायुरन्तरिक्षे सीदतीत्यन्तरिक्षसत् । आदित्यस्य परमात्मरूपत्वे सर्वात्मकत्वादन्तरिक्षसद्वायुरप्येष एवेत्युच्यते । द्वितीयपादस्य पूर्वभागमनूध व्याचष्टे

होता वेदिषदित्येष वै होता वेदिषत, इति । होता होमस्य कर्ता । यागवेद्यां सीदतीति वेदिषत् । आदित्यस्य तद्रूपर पूर्ववत् ।

उत्तरभागमनूध व्याचष्टे

अतिथिर्दुरोणसदित्येष वा अतिथिर्दुरोणसत्, इति । न विद्यते तिथिविशेषनियमो यात्रार्थे यस्य सोऽयमतिथिः सन्दुरोणेषु तत्व मृहेषु सीदति याचितुं प्रचरतीति दुरोणसत् । आदित्यस्य तद्रूपत्वमपि द्रष्टव्यम्

हंसः शचिषद्वसुः०-४-४०-५ ।

षष्ठः खण्डः]

ऐतरेयब्राह्मणम् ।

४९५ तृतीयपादं चतुर्धा विभज्य प्रथमभागमनूय व्याचष्टे

नृषदियेष वै नृपत्, इति । नप मनुष्येषु दृष्टिरूपेण सीदतीति नृषत् । तथा चाऽऽरण्यकाण्डे वक्ष्यति आदित्यश्चक्षुर्भूत्वाऽक्षिणी माविशत्’ इति । तस्मादेष आदित्य एव तृषच्छ वाच्यः। द्वितीयभागमनूध व्याचष्टे

वरसदित्येष वै वरसहरं वा एतत्स

द्मनां यस्मिनेष आसनस्तपति , इति । वरे श्रेष्ठे मण्डले सीदतीति वरसत् । एतस्याऽऽदित्यस्य मण्डलेऽवस्थानं तद्धम् । यानि समानि निवासस्थानानि सन्ति तेषां मध्ये यस्मिन्मण्डल ‘आदित्य आसन उपविष्टः संस्तपत्येतन्मण्लं वरं श्रेष्ठं सम । तृतीयभागमनूध व्याचष्टे

ऋतसदित्येष वै सत्यसन , इति । ऋतं सत्यवदनं वेदवाक्यं तत्र सीदति प्रतिपाद्यत इत्युतसत् । आदित्यस्य

न वेदवाक्येन प्रतिपाद्यत्वमनेकमन्त्रेषु प्रसिद्धम् । चतुर्थभागमनूध व्याचष्टे

व्योमसदित्येष वै व्योमसयोम वा एत

त्सद्मनां यस्मिन्नेष आसनस्तपति, इति । न्योन्याकाशमार्गे सीदतीति व्योमसत् । आदित्यस्य तथाविधत्वं प्रसि । यस्मिन्व्योमस्थान एष आदित्यः प्रत्यासन्नस्तपति तदेतत्स्थानं समनां सिस्थानानां मध्ये व्योम गृहाद्यावरणशून्यमाकाशम् । चतुर्थ पादं पञ्चधा विभज्य प्रथमभागमनूध व्याचष्टे

अब्जा इत्येष वा अब्जा अभ्यो वा एष

प्रातरुदेस्यपः सायं प्रविशति , इति । भयो जायते’ योऽय(य)मका(क)रादिः सोऽयमना तद्रूपत्वमस्य सर्वात्म दिवगन्तव्यम् । किंचायमादित्योऽस्मदृष्ट्या प्रातःकाले पूर्वसमुद्रगताभ्योऽद्य ते सायंकाले पश्चिमसमुद्रगता अपः प्रविशतीव लक्ष्यते तस्मादनाः।

१ ख. ते व्योमाऽऽकाशादिः।

.

४९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[१(अष्टाद०ध्या

द्वितीयभागमनूय व्याचष्टे

गोजा इत्येष वै गोजाः, इति । गोभ्यो जायते जीवादिः स गोजा अस्य तद्रूपत्वं पूर्ववत् । तृतीयभागमनूच व्याचष्टे

ऋतजा इत्येष वै सत्यजाः, इति । ऋतं सत्यं वैदिकमत्रजातं तस्माज्जायत इत्युतजाः । वैदिकानुष्ठानेन देवलोकादौ जायत इति प्रसिद्धमादित्यस्य तद्रूपत्वं पूर्ववत् ।

चतुर्थभागमनूद्य व्याचष्टे

अद्रिजा इत्येष वा अद्रिजाः , इति। अद्रावुदयगिरानुत्पद्यत इत्यद्रिजाः । आदित्यस्य तथात्वं पुराणात प्रसिद्धस् ।

पञ्चमभागमनूध व्याचष्टे

ऋतमित्येष वै सत्यम् , इति । ऋतशब्दः सत्यवाची । सत्यं च द्विविधम्-व्यावहारिकं पारमार्थि च । तत्र व्यावहारिकं वाचा सत्यभाषणम् । पारमार्थिकं परं ब्रह्म । सर ज्ञानमनन्तं ब्रह्मेति श्रुतेः। तदिदमृतशब्देन विवक्षितम् । अयं चाऽऽदित्य ब्रह्मरूपं सत्यम् । अत एव शाखान्तरे बृहदिति मत्रशेषं पठन्ति । मत्रान्त चैवं श्रूयते–असावादित्यो ब्रह्मेति । कृस्नस्य मत्रस्य तात्पर्य दर्शयति

एष एतानि सर्वाण्येषा ह वा अस्य

च्छन्दःसु प्रत्यक्षतमादिव रूपम् , इति । शुचिषदित्यादिशब्दनि रूपाण्यभिहितानि तानि सर्वाण्येष एव । अस परब्रह्मत्वेन सर्वात्मकत्वात् । छन्दःसु वेदेषु मध्य एषा ह वै येयं हंसवती ऋक्सैवास्याऽऽदित्यस्य सर्वात्मकं रूपं प्रत्यक्षतमादिवातिशयेन प्रत्यक्षं विस्पा यथा भवति तथा प्रतिपादयतीति शेषः ।

मन्त्रतात्पर्य दर्शयन्नेव विधि निगमयति तस्माद्यत्र क्व च दूरोहणं रोहेद्वंसवत्यैव रोहेद, इति ।

१ क. स. ट. ‘न्तर ऋतं ४ । २ क. झ. ट. °न्तरं चैं।

-37

Dr. Amritansusekhar Bagchi

Memorial Collection

षष्ठः खण्डः ] ऐतरेयबामणम् ।

४९७ यत्र कापि कर्मणि दूरोहणविधानमस्ति तत्र सर्वत्र हंसवत्यैव विज्ञेयम् । फलभेदेन सूक्तान्तरं विधत्ते

ताय स्वर्गकामस्य रोहेत्, इति । तााख्येन महर्षिणा दृष्टं तार्क्ष्यम् । तस्मिन्सूक्ते स्वर्गकामस्य यजमानस्य

सोनम

DI.Amritanausekhar Bagobi

Memorial Collection तदेतत्पशंसति

1981 तार्यो ह वा एतं पूर्वोऽध्यानमैद्यवादो गायत्री सुपर्णो भूत्वा सोममाहरत्तद्यथा क्षेत्रज्ञमधनः पुर एतारं कुर्वीत तादृक्तद्यदेव तायेऽयं वै ताक्ष्यों

योऽयं पवत एष स्वर्गस्य लोकस्याभिवोहळा,इति । अत्रैव वक्ष्यमाणं कार्य संपन्नं तत्र ताक्ष्यो ह वै गरुड एवं पूर्वः प्रथमगामी सन्नेतमध्वानमैत्माप्तवान् । किं वक्ष्यमाणमिति तदुच्यते । गायत्री सुपर्णः पक्षी भूत्वा सोममाहरत् । एतच्च पूर्वमेव प्रतिपादितम् । एवं सति ताये सक्ते यदेव शंसनं तत्तत्र शंसने दृष्टान्तः कथ्यते । यथा लोके क्षेत्रज्ञं मार्गविशेषा. भिझं तदेशवासिनं कंचित्पुरुषमध्वनो मार्गस्य पुर एतारं पुरतो गन्तारं मार्ग प्रदर्शकं कुर्वीत ताहक्तत्तायशंसनम् । योऽयं वायुरन्तरिक्ष पवतेऽयमेव ताये स्वरूपः । एष च स्वर्गस्य लोकस्याभिवोहळा नेता भवति । तस्मात्ता_सूक्ते नैव दूरोइणं रोहेत् ।

तस्य सूक्तस्य प्रथमायाचि प्रथमपादमनूध व्याचष्टे

त्यमू षु वाजिनं देवजूतमित्येष

वै वाजी देवजूतः , इति । चतुर्थपादे तामंमिति वक्ष्यति। कीदृशं तायम् । त्यमूषु?)। त्यच्छन्दः सर्व नामत्वात्मसिद्धवाची । उशब्द एक्कारार्थः। पुराणादिषु प्रसिद्धमेव । वाजिन पनवन्तं देवजूतं देवानां मध्ये वेगवन्तम् । अस्मिन्पादेभिधीयमान एष नाक्ष्य एव तस्यानवत्वाद्देवेषु मध्ये वेगवत्त्वाच्च ।

त्यमू षु वाजिनं०-१०-१७८-१।

ख. त्याम् । वेदनं प्रश।

४९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१(अष्टाद०ध्याये

द्वितीयपादमनूय व्याचष्टे

सहावानं तरुतारं स्थानामित्येष वै सहा

वांस्तरुतैष हीमाल्लोकान्सद्यस्तरति , इति । पुनरपि कीहर्श तायम् । सहावानं सहाः सहनं सर्वा(पी)दीनामभिभवस्तद. न्तम् । रथानां तरुतारमुल्लङ्घायितारम् । एष ताक्ष्य एवास्मिन्पादेऽभिहितः। सहावानभिभवक्षमः । तरुतोल्लङ्घयिता भवति । यस्मादेष इमाल्ँलोकान्सयस्त दानीमेव तरितुं क्षमः।

तृतीयपादमनूध व्याचष्टे

अरिष्टनेमि पृतनाजमाशुमित्येष वा

अरिष्टनेमिः पृतनाजिदाशुः, इति । पुनरपि कीदृशं तायमरिष्टनेमि रिष्टं हिंसा तद्राहित्यमरिष्टम् । तस्य च नेमिस्थानीयम् । यथा रथचक्रस्य नेमिः परितो रक्षिका भवति तादृशम् । पृतना परकीयसेना तां जयतीति पृतनाजम् । आशुं वेगवन्तम् । अस्मिन्पादेऽ. भिहितानां गुणानां तार्ये सद्भावादेष एवात्र प्रतिपाद्यः।

चतुर्थपादे प्रथमभागमनूय व्याचष्टे

स्वस्तय इति स्वस्तितामाशास्ते , इति । स्वस्तये क्षेमार्थमनेन पादेन क्षेमः प्रार्थितो भवति । उत्तरभागमनूद्य व्याचष्टे

तामंमिहा हुवेमेति ह्वयत्येवैनमेतत्, इति । तायं गरुडमिह कर्माण हुवेमाऽऽहयामः। एतेन भागेन तायमा हयत्येव ।

तार्क्ष्यमूक्ते द्वितीयस्या ऋचः पूर्वार्धे प्रथमभागमनूध व्याचष्टे

इन्द्रस्येव रातिमाजोहुवानाः स्वस्तय

इति स्वस्तितामेवाऽऽशास्ते , इति । यथेन्द्रस्य दातव्यं हविः प्रयच्छामस्तथैवास्य ताय॑स्य राति दातव्यं वसु, आजोहुवानाः समन्तात्पुनः पुनर्ददाना वयमारुहेमेति वक्ष्यमाणेन संबन्धः । किमर्थ स्वस्तये क्षेमार्थम् । एतत्पाठेन स्वस्तितामेव क्षेममेवाऽऽशास्ते प्रार्थयते ।

इन्द्रस्येव रातिमानोहुवानाः०-१०-१७८-२ ।

षष्ठः खण्डः ] ऐतरेयबामणम् ।

४९९ उत्तरभागमनूध व्याचष्टे

नावमिवाऽऽरुहेमेति समेवैनमेतदधिरोहति

स्वर्गस्य लोकस्य समष्टय संपत्त्यै संगत्य, इति । । यथा लोके नद्युत्तरणाय नावमारोहत्येवं स्वर्ग प्राप्तुं दूरोहणमारुहेम। एतद्भा गपाठेनैनं दूरोहणं स्वर्ग समेव सम्यगेवाधिरोहति । अतस्तच्छंसनं स्वर्गस्य समष्य प्राप्त्यै भवति । सा च प्राप्तिः संपत्त्यै भोगाय भोग्यवस्तुसंपादनाय भवति । संपादनं संगत्यै भोगसंबन्धाय भवति ।

उत्तरार्धमनूध व्याचष्टे

उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतद

नुमन्त्रयत आ च परा च मेष्यन्, इति । नकारः समुच्चयार्थः । उर्वी च भूमिश्च पृथ्वी विस्तीर्णा द्यौश्च बहुले उभे अप्यतिदीर्घ गभीरे अत्यन्तगाम्भीर्येण युक्ते उभयोरियत्ता निश्चेतुमशक्येत्यर्थः। तादृश्यौ हे द्यावापृथिव्यो वयमेतावागमनवेलायां परेतौ पुनर्गमनवेलायां च वामुभे मा रिषाम हिंसायुक्ते मा करवाम । एतत्पाठेन होताऽऽमेष्यंश्चाऽऽग मिष्यन्नपि परामेष्यंश्च पुनरपि परावृत्य गमिष्यन्नपीमे एव द्यावापृथिव्या वेवानुमवयते ।

तृतीयस्या ऋचः पूर्वार्धमनूध व्याचष्टे

सद्यश्विद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्यो.

तिषाऽपस्ततानेति प्रत्यक्ष सूर्यमभिवदति, इति । यस्तायः सद्यश्चित्तस्मिन्नेव क्षणे शवसा बलेन पञ्च कृष्टीः पञ्चविधान्पु. रुषजातिविशेषान्देवमनुष्यासुरराक्षसगन्धर्वानतिविस्तारितवान् । यथा सूर्यो ज्योतिषा स्वकीयरश्मिसमूहेनापो दृष्टयुदकं ततान विस्तारयति तद्वत् । एतत्पा ठन ताक्ष्यं देवं प्रत्यक्ष सूर्य मुख्यं कृत्वाऽभिवदति प्रशंसति ।

उत्तरार्धमनूद्य व्याचष्टे

सहस्रसाः शतसा अस्य रहिर्न स्मा वरन्ते

सद्यश्चिद्यः शवसा०-१०-१७८-३।

१ क. सट. स्वर्गसमं तेन सम्य।

५०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१८अष्टाद ध्याये.

युवतिं न शर्यामित्याशिषमेवैतेनाऽऽशास्त

आत्मने च यजमानेभ्यश्च ॥ २०॥ इति । अस्य तायस्य रहिर्गतिः सहस्रसाः सहस्रभेदयुक्ता शतसाः शतभेदयत्ता वन पण संभक्ताविति धातुः । सहस्रं सनुते संभजतीति सहस्रसास्तां गति केऽपि न स्मा वरन्ते न वारयन्ति । यथा लोके शो शरकाष्ठनिर्मितां यवर्ति शत्रुशरीरमिश्रणयोग्यां युवति तद्वत् । नकार उपमार्थः । यथाऽतिशूरेण धान केण प्रयुक्तो बाणः केनाऽपि न निवार्यते तथा त्वदीयगतिरित्यर्थः। एतेना धर्चपाठेनायं होताऽऽत्मने च स्वार्थमपि यजमानेभ्यश्च सत्रानुष्ठातृबहुयजमाना र्थमप्याशिपमेव प्रार्थयते रक्षार्थीय ताशेंगतेरनिवार्यत्वाभिधानात् ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा

ह्मणभाष्येऽष्टादशाध्याये षष्ठः खण्डः ॥ ६ ॥ (२०) [१४१]

अथ दूरोहणसूक्तशंसनस्य प्रकारान्तरं विधत्ते

आहूय दूरोहणं रोहति स्वर्गों वै लोको दूरोहणं वागाहावो ब्रह्म वै वाक्स यदाह्वयते

तद्ब्रह्मणाऽऽहावेन स्वर्ग लोकं रोहति, इति । शोसावोमित्यध्वर्योराहानं कृत्वाऽनन्तरं त्यमूवित्यादिकं दूरोहणसूक्तं रोहेदारोहणक्रमेण पठेत् । दूरोहणस्य स्वर्गरूपत्वादाहावस्य वायूपत्वाद्वाचश्च वेदात्मिकाया ब्रह्मत्वात् । प्रथममाहाने सति ब्रह्मरूपेणाऽऽहावेन स्वर्गमा रोहति ।

अपरं प्रकारविशेषं विधत्ते स पच्छः प्रथमं रोहतीमं तं लोकमामोत्यथार्ध-शोऽ न्तरिक्षं तदामोत्यथ त्रिपद्याऽमुं तं लोकमानोत्यथ केवल्या तदेतस्मिन्प्रतितिष्ठति य एष तपति, इति । द्वधा मूक्तस्य शंसनम् , रोहक्रमेणावरोहक्रमेण चेति । तत्राऽऽरोहे चतुर्वार मावर्तनीयम् । प्रथमावृत्तौ पच्छः पादशः पठेत । एकैकस्मिन्पादेऽवसानं कृत्वा शंसेत् । द्वितीयस्यामावृत्तावर्धर्चश एकैकस्मिन्नर्धेऽवसानं कृत्वा पठेत् । तृती

१२. ट. °मानार्थः । २ ख. र्थात् । यतो रक्षार्थाय ता । ३ क. द्विधा ।

५०१

७ सप्तमः खण्डः ] ऐतरेयब्राह्मणम् । यस्यामावृत्तौ त्रिपद्यावृत्त्या पादत्रयेऽवसानं कृत्वा पठेत् । चतुर्थ्यामावृत्ता अवसानरहितया संपूर्णया शंसेत् । एताभिश्चतसृभिरावृत्तिभिर्लोकत्रयं प्राप्य पश्चात्प्रकाशमानसूर्यमण्डले प्रतितिष्ठति ।।

आरोहप्रकारविशेषं विधाय प्रत्यवरोहणं विधत्ते

त्रिपद्या प्रत्यवरोहति यथा शाखां धारयमा णस्तदमुष्मिल्ँलोके प्रतितिष्ठत्यर्धर्चशोऽन्तरिक्ष पच्छोऽस्मिल्ँलोक आप्त्वैव तत्स्वर्ग लोकं

यजमाना अस्मॅिल्लोके प्रतितिष्ठन्ति, इति । प्रत्यवरोहक्रमे प्रथमावृत्तौ पादत्रयेऽवसानं द्वितीयावृत्तावर्धऽवसानं तृती यावृत्तौ पादेऽवसानम् । तथा सति यथा लोके वृक्षाग्रमारुह्य पुरुषः प्रत्यवरो हन्हस्तेन शाखां दृढमवलम्ब्य स्थिरो भवति, एवमयं प्रथमतः स्वर्गे प्रतिष्ठाय पश्चादन्तरिक्षे भूलोके च प्रतितिष्ठति । यथा होतुः प्रतिष्ठा तथा यजमानाना. मपि । स्वर्ग पाप्य पुनरागत्यास्मिल्लोके प्रतितिष्ठन्ति । तावतावारोहप्रत्यव रोहौ हंसवतीपक्षे तायपक्षेऽपि समानौ । एवमुच्चारणस्य दुःशकत्वादस्य शंसनस्य दूरोहणसंज्ञा।

कामनाभेदेन प्रकारान्तरं विधत्ते

अथ य एककामाः स्युः स्वर्गकामाः पराञ्चमेव

तेषां रोहेत्ते जयेयुहेव स्वर्ग लोकम्, इति । एकस्मिन्नेव लोके कामो येषां त एककामाः स्वर्ग लोकमेव कामयन्ते न त्वेनं लोकं तेषां पराश्चमेव प्रत्यवरोहरहितमेव रोहेद , शस्त्रं पठेत् । तावता ते स्वर्ग लोक जयेयुहैव प्राप्नुवन्त्येव ।। अस्मिन्पक्षे कंचिद्दोषं दर्शयति

नेत्त्वेवास्मिल्लोके ज्योगिव वसेयुः, इति । ते स्वर्ग मामवन्त्येव किंवत्र दोषोऽस्त्येव । ते यजमाना अस्मिन्नेव लोके ज्योगिव चिरकालमेव नेवसेयुः सर्वथा न तिष्ठेयुः । परिभव(य) द्योतकेन नेदि

खनेनाऽऽयुःक्षयहेतुरयं पक्षो दूषितः ।

मुक्तान्तराणि विधत्ते

मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च

५०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१(अष्टाद०ध्याये

जागतानि च मिथुनं वै पशवः पशवश्छ

न्दांसि पशूनामवरुद्धयै ॥२१॥ इति । मिथुनशब्द एकत्वनिवारकस्ततो बहूनीत्युक्तं भवति । यस्तिग्मशा इत्या दीनि त्रैष्टुभानि दिवश्विदस्य वरिमेत्यादीनि जागतानि तदेतच्छन्दोद्वयं मिथ नसदृशम् । पशवोऽपि मिथुनात्मकाश्छन्दांसि च पशुसाधनत्वात्पशवोऽतस्तेषा शंसनं पशुप्राप्त्यै भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्येऽष्टादशाध्याये सप्तमः खण्डः ॥ ७॥ (२१) [ १४२]

अथ विषुवन्नामकमहविशेष मनुष्यसाम्येन प्रशंसति

यथा वै पुरुष एवं विषुवांस्तस्य यथा दक्षिणोऽर्ध एवं पूर्वोऽ| विषुवतो यथोत्तरोऽध एवमुत्तरोऽ! विषुवतस्तस्मादुत्तर इत्याचक्षते प्रबाहुक्सतः शिर एव विषुवान्बि(न्वि)दलसंहित इव वै पुरुषस्त

द्वापि स्यूमेव मध्ये शीर्णो विज्ञायते , इति । यथा लोकेपु पुरुषो दक्षिणवामभागाभ्यां भागद्वयमध्ये शिरसा च युक्त स्तस्य विषुवतः षण्मासात्मकः पूर्वभागः पुरुषसंबन्धिदक्षिणभागस्थानीयस्त. त्रावरोहरूपमासषदकात्मक उत्तरार्थो वामभागस्थानीयस्तस्माद्वामभागसार श्यादुत्तर इत्याचक्षते न त्वनुष्ठानाधिक्यविवक्षया। प्रबाहुक्सतो वामदक्षिण भागौ समौ कृत्वाऽवस्थितस्य पुरुषस्य शिरो यथोत्रतं सन्मध्येऽवतिष्ठत एवं मासषद्कयोर्मध्ये विषुवानुत्कृष्टोऽवतिष्ठते। बि(वि)दलं भागस्ताभ्यां बि(वि)द लाभ्यां दक्षिणवामभागाभ्यां संहितः संयोजित एव लोकेषु पुरुषो भवति । तद्धापि तस्मादेव भागद्वयसंधानरूपात्कारणाच्छीणों मध्ये स्यूमेव विज्ञायते । स्यूम स्यूतम् । यथा वस्त्रयोः संधिः सूच्या स्यूतः संयोजितो भवति । एव शिरसि दक्षिणोत्तरकपालयोः संधौ स्यूतेव काचिद्रेखा दृश्यते । एतच भूमा पतिते शुष्के मांसरहिते शिरकपालद्वयसमूहरूपेऽस्थिनि विस्पष्टमुपलभ्यते। अत: सर्वात्मना पुरुषसादृश्यात्मशस्तोऽयं विषुवान् ।

१ क. इ. ट. के पु।

८ अष्टमः खण्डः ] ऐतरेयब्राह्मणम् ।

५०३ अत्र कंचित्पूर्वपक्षमुत्थापयति

तदाहुर्विषुवत्येवैतदहः शंसेदिषुवान्वा एतदु क्थानामुक्थं विषुवान्विषुवानिति ह विषु

वन्तो भवन्ति श्रेष्ठतामनुवत इति , इति । विषुवन्नामके मुख्येऽहनि यच्छस्त्रं विहितं तत्तस्मिञ्शस्त्रे पूर्वपक्षिण एव. माहुः । दक्षिणायनस्योत्तरायणस्य च मध्ये विषुवन्नामकतुलामेषसंक्रान्तिद्वय कपो यः कालविशेषः सोऽयं विषुवच्छब्दाभिधेयः। स च व्यवहारः स्मृतिषु प्रचुरः । अस्मिन्नेव विषुवति काल एतदहः शंसेत् । एतस्मिन्नहनि विहितं शस्त्रमहाशब्देनोपलक्ष्यते। एतत्संक्रान्तिद्वयमु(यु?)क्तमहरुक्तानामह्नां मध्य उक्थ शस्त्रोपेतशस्त्रयोग्यमित्यर्थः । अत एव विषुवान्वैषुवन्नामकशस्त्रवानेव संक्रान्ति कालविशेषः । तत्कथमित्युच्यते । तं संक्रान्तिकालं विषुवान्विषुवानित्येव सर्वे व्यवहरन्ति । अतस्तस्मिन्काले शस्त्रपाठे सति यजमाना विषुवन्तो योग्यशस्त्र युक्ता भवन्ति । सर्वेष्वनुष्ठातृषु श्रेष्ठतां प्राप्नुवन्तीति पूर्वपक्षिणामाशयः।

तं पक्षं निराकरोति–

तत्तनाऽऽदृत्यं संवत्सर एव शंसेद्रेतो

वा एतत्संवत्सरं दधतो यन्ति , इति । कर्मान्तरेष्वपि विषुवाख्यसंक्रान्तियुक्ते काले समागते सति शस्त्रमेतच्छं सनीयमिति यत्पूर्वपक्षिणां मतं तस्मिञ्शस्त्रे तन्मतं नाऽऽदरणीयम् । किंतु संव सरसत्र एव गवामयने तत्पूर्वोक्तं शस्त्रं शंसेत् । एवं सति यजमाना अत्यन्त संयोगेन संवत्सरंकालमेतद्रेतो धारयन्तो यन्त्यनुतिष्ठन्ति ।

विपक्षे बाधकं दर्शयति–

यानि वै पुरा संवत्सराद्रेतांसि जायन्ते यानि पञ्चमास्यानि यानि षण्मास्यानि

स्रीव्यन्ति वै तानि न वै तैर्भुनते, इति । संवत्सरधारणात्पुरैव कतिपयमासधारणेन यानि रेतांसि जायन्ते पञ्चमा ससंबन्धीनि वा षण्माससंबन्धीनि वा तानि सीव्यन्ति वै सवन्त्येव गर्भस्रावो भवति । न तु तैरल्पमासधृतै रेतोभिः पुत्रादिशरीरं भुञ्जतेऽनुभवन्ति ।

ख. अतस्तस्मि । २ स. ट. उक्थ्यश । ख. उक्थं शस्त्रोपेदं शस्त्र। ३ ख. ‘रमेव का।

५०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१८अष्टाद०ध्याये

गुणकथनपूर्वकं स्वपक्षमुपसंहरति

अथ यान्येव दशमास्यानि जायन्ते यानि सांवत्सरिकाणि तैर्भुञ्जते तस्मा

संवत्सर एवैतदहः शंसेव , इति । अथ पूर्वोक्तवैपरीत्येन यान्येव रेतांसि दशमास्यानि दशसु मासेषु धतानि च भूत्वा पश्चाजायन्ते यानि च संवत्सरे धृतानि तैः सर्वैः पुत्रादि शरीरमनुभवन्ति । तस्माद्गुणसद्भावात्संवत्सरसत्र एव तस्मिन्विषुवत्यहि यथोक्तं शस्त्रं शंसेत् ।

पुनरपि प्रकारान्तरेण प्रशंसति संवत्सरो ह्येतदहरामोति संवत्सरं ह्येतदहराप्नुवन्त्येष ह वै संवत्सरेण पाप्मानमपहत एष विषुवताऽङ्गेभ्यो हैव मासैः पाप्मानमपहते शीर्णो विषुवता, इति । योऽयं संवत्सरः सत्ररूपः कर्मविशेपो यचैतद्विषुवदाख्यमहरुभयोः पर. स्परं संप्राप्तिरस्ति । तत्र संवत्सरः कर्ता सनहरामोति । ‘अहश्च कर्व भूत्वा संवत्सरमामोति । व्यत्ययेनात्र बहुवचनम् । तयोः परस्परमविनाभावे सत्येष यजमानः संवत्सरेण पाप्मानमपहते विनाशयति । तथैवैष यजमानो विषुवता संवत्सरमध्यगतेनाहा पाप्मानं विनाशयति । तद्विविच्यते । संवत्सरावयवैमा सैहस्तपादाद्यङ्गेभ्यः सकाशात्पाप्मानं नाशयति । विषुवता मुख्येनाहा शीष्णः शिरसः सकाशात्पाप्मानं नाशयति ।

वेदनं प्रशंसति

अप संवत्सरेण पाप्मानं हतेऽप*

विषुवता य एवं वेद, इति । अथ प्रशस्तस्य विषुवतः प्रसङ्गाबुद्धिस्थे प्रशस्ते महावताख्येऽहनि कंचिः त्पशुं विधत्ते

वैश्वकर्मणमृषभं सवनीयस्योपालम्भ्यमालमेर * अपेत्यस्य संबन्धः केनास्तीति शङ्कासद्भावेऽपि कुतो भाष्यकारेण संबन्धो न प्रदर्शित इति ने ज्ञायते । परं च ‘अप’ इत्यनेन हते, इत्यस्य द्विराशत्तिः सचिता स्यादिति प्रतिभाति । तथा र विषुवताऽपहते इति वाक्यं संभवेदिति ज्ञेयम् ।

१ क ट. ‘नः कृत्स्नसं । ह. “नः कृत्स्नं सं।

-..



-प्रथमः खण्डः] ऐतरेयग्रामणम् । . ५०५

न्दिरूपमुभयत एतं महाव्रतीयेऽहनि, इति ।। वैश्वकर्मणं विश्वकर्मदेवताकमृपमं पुंगवं सवनीयस्य चोदकप्राप्तस्य पशोः धान उपालम्भनीयं द्विरूपं वर्णद्वयोपेतमुभयत एतं दक्षिणोत्तरपार्थयोविल

णवर्णेन लाञ्छितं पशुं महाव्रतप्रयोगयुक्ते सत्रस्योपान्त्येऽहन्यालभेरन् । तत्र देवतां प्रशंसति

इन्द्रो वै त्रं हत्वा विश्वकर्माऽभवत्प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्माऽभवत्संवत्सरो विश्वकर्मे न्द्रमेव तदात्मानं प्रजापति संवत्सरं विश्वकर्मा णमाप्नुवन्तीन्द्र एव तदात्मनि प्रजापतौ संव त्सरे विश्वकर्मण्यन्ततः प्रतितिष्ठन्ति प्रतिति

यति य एवं वेद य एवं वेद ॥२२॥ इति । इन्द्रो वृत्रवधादूर्ध्व विघ्नकर्तुरभावाद्विश्वकर्मा जगत्पालनरूपकर्मयुक्तोऽभवत् । जापतिश्च प्रजाः सृष्ट्वोत्पाद्य कृत्स्नं जगत्सृष्टिरूपकर्मयुक्तोऽभवत् । स उभ रविधो विश्वकर्मा देवः संवत्सरात्मकः । अतः संवत्सरसत्रे द्विरूपपश्वालम्भ न तदात्मानं संवत्सरात्मानमिन्द्रमेव तथा संवत्सररूपं प्रजापतिमित्युभय वेधं विश्वकर्माणं यजमानाः प्रामुवन्ति । प्राप्य च तदात्मनि संवत्सरात्म पीन्द्रे संवत्सररूपे प्रजापतौ द्विविधेऽपि विश्वकर्मण्यन्ततः संवत्सरसत्रस्यान्ते तितिष्ठन्त्येव । यः पुनरेवं वेद सोऽपि प्रतितिष्ठति । अभ्यासोऽध्यायपरि समाप्त्यर्थः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण.

भाष्येऽष्टादशाध्यायेऽष्टमः खण्डः॥ ८॥ (२२) [१४३] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्यधुरंध. रसायणाचार्यकृतावैतरेपब्राह्मणभाष्येऽष्टादशोऽध्यायः ॥१८॥