श्रीमत्सायणाचायेविरचितभाष्यसमेतम्-[१७सद
अथ सप्तदशोऽध्यायः ।
पृष्ठे षोडश्यहि संस्थाचतुर्थे
सर्वच्छन्दोविक्रियाऽनुष्टुवांख्ये ॥ पर्यायाणां स्याचतुःशस्त्रकाणां
रात्रौ संधेः संख्यया पाश्चदश्यम् ॥१॥ अथातिरात्रक्रतावेव रात्रिपर्यायेभ्य ऊर्ध्वमाश्विनशस्त्रमाख्यायिकापसे विधत्ते
प्रजापति सोमाय राज्ञे दुहितरं प्रायच्छ रसूर्या सावित्रीं तस्यै सर्वे देवा वरा आगच्छं स्तस्या एतत्सहस्रं वहतुमन्वाकरोद्यदेतदाश्वि नमित्याचक्षतेऽनाश्विनं हैव तद्यदक्सि
हस्रं तस्मात्तत्सहस्रं वैव शंसेडूयो वा, इति । पुरा कदाचित्प्रजापतिः कांचिहुहितरं सोमाय राज्ञे प्रायच्छत् । विवा हार्थ दातुमुद्युक्तवान् । कीदृशीं दुहितरं सूर्यामित्येतनामधेययुक्तां सावित्र सवित्रा लब्धाम् । यद्यप्येषा सवितुः पुत्री तथाऽपि स्नेहातिशयेन प्रजापते ईहितेत्युच्यते । तस्यै दुहित्रे तल्लाभार्थ सर्वे देवा वरा भूत्वा प्रजापतेः सका शमागमन् । स च प्रजापतिस्तस्यै दुहितलाभार्थमेतद्वक्ष्यमाणमृचां सहस्रं वह तुमन्वाकरोत् । वहनस्य विवाहस्यालंकारार्थ माङ्गल्यार्थं च वरस्य पुरतं पहनीयो हरिद्रागुडादिमङ्गलद्रव्यसंघो वहतुर्यदेतहक्सहसं याज्ञिका आश्विन सहस्रमित्याचक्षते तत्सहस्रमेव वहतुरूपेण प्रत्यभिज्ञातवान् । स देवानां मध यो वर आश्विनशस्त्रमत्रानेक एव पठति तस्मै दास्यामीति प्रतिज्ञातवानित्ययः सहस्रादर्वाचीना ऋचो यस्मिञ्शस्त्रे तदर्वाक्सहस्रं तादृशं यदस्ति तदना विनमेव । यस्मादाश्विनं सहस्रं प्रजापतिरङ्गीकृतवांस्तस्मादोता सहस्रमा
शंसेत् । ततोऽप्यधिकं वा शंसेत् । न तु न्यूनम् ।
शंसनस्येतिकर्तव्यतां विधत्ते
प्राश्य घृतं शंसेद्यथा ह वा इदमनो वा रथो वाऽक्तो वर्तत एवं हैवाक्तो वर्तते, इति ।
१ ख. ‘बाप्तिः ॥ ।
प्रथमः खण्डः]
ऐतरेयब्राह्मणम् । असतो घृतं पाश्य पश्चाच्छंसेत् । यथा लोके किंचिदिदं निदर्शनं तद्वत । निदर्शनमिति तदुच्यते । अनः खल्पशकटं वा प्रौढो रथो वा यदा हार्यते तदानीमस्य चक्रभ्रमणस्थाने मषीमिश्रेण तैलेनाञ्जने कृते पश्चात्स्वल्पं एकटं रथो वा सहसा प्रवर्तते । एवमसौ होता घृतेनाक्तः शस्त्रे प्रवर्तते ।
इतिकर्तव्यतान्तरं विधत्ते
शकुनिरिवोत्पतिष्यन्नाह्वयीत, इति । यथा लोके शकुनिः कश्चित्पक्षी पद्भ्यां भूमि दृढमवष्टभ्योत्पतिष्यभूल पखोत्पतनं कर्तुमिच्छन्पक्ष्यन्तरमभिलक्ष्य ध्वनि करोत्येवमसौ होता तदाकारं घटनं कुर्वन्नाहावं पठेत् । तदेतदाश्वलायनाचार्यैः स्पष्टीकृतम्-‘प्राश्य प्रति. प्रसृप्य पश्चात्वस्य धिष्ण्यस्योपविशेत्समस्तजङ्घोरुररत्निभ्यां जानुभ्यां चोपस्थं कृत्वा यथा शकुनिरुत्पतिष्यनुपस्थकृतस्त्वेवाऽऽश्विनं शंसेत्’ इति ।
आश्विनशस्त्रस्य प्रतिपदमाख्यायिकामुखेन विधत्ते–
तस्मिन्देवा न समजानत ममेदमस्तु ममे दमस्त्विति ते संजानाना अब्रुवन्नाजिमस्याऽऽ यामहै स यो न उजेष्यति तस्येदं भविष्यतीति तेऽनेरेवाधि गृहपतेरादित्यं काष्ठामकुर्वत तस्मादानेयी प्रतिपद्भवत्या
श्विनस्याग्निर्होता गृहपतिः स राजेति , इति । तस्मिन्नाश्विनशस्त्रे देवाः परस्परं न समजानत संज्ञानं प्रतिपत्तिं नाकुर्वन् । कादशी तदीया प्रतिपत्तिरिति सोच्यते । ममैवेदमाश्विनमास्त्विति सर्वेषाम भिमायः । सर्वविषयत्वं द्योतयितुमियं वीप्सा । ते विप्रतिपन्ना देवाः संजा नानाः संपतिपत्तिं कर्तुमुधुक्ताः परस्परमिदमब्रुवन् । अस्याऽऽश्विनशस्त्रस्य लाभाय वयं सर्वे कांचिदाजिमयामहै समयबन्धपुरःसरा धावनरूपा गति साजस्तो प्रामवाम । तस्मिन्नाजिधावने नोऽस्माकं मध्ये च यः प्रबलो य: कापि प्रथममुत्कर्षेण जेष्यति तस्येदमाश्विनं भविष्यतीति समयबन्धस्तेन तसमया देवा गृहपतेरमेरेवाधि गाईपत्यस्योपरि धुलोकवर्तिनमादित्यं काष्ठां पाचनसमाप्तिमकुर्वत । गार्हपत्यमारभ्याऽऽदित्यपर्यन्तं धावेदिति तदीया मर्यादा। पस्मादनिराश्विनमाप्तिहेतोर्धावनस्योपक्रमस्थानं तस्मादायी काचिहगावि पत्य प्रतिपद्भवति प्रारम्भरूपा कर्तव्या। अमिहोतेति तस्याः प्रतीकम् ।
४५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तदया
अत्र कंचित्पूर्वपक्षमुद्भावयति
तद्वैक आहुरनिं मन्ये पितरमनि
मापिमित्येतया प्रतिपद्यत, इति । पारभेतेत्यर्थः। तत्रोपपत्ति पूर्वपक्ष्यभिप्रेतां दर्शयति
दिवि शुक्रं यजतं सूर्यस्येति प्रथ
मयैव ऋचा काष्ठामामोतीति, इति । तस्याश्चतुर्थपादे सूर्यस्य यजतं यस्मादनिविशेषणं पठ्यते तथा सति प्रथ मयैवर्चा सूर्यरूपा काष्ठा धावनाभिरूपाऽऽसा भवतीति तेषामभिप्रायः।
तमिमं पक्षं दूषयति
तत्तवाऽऽदृत्यं य एनं तत्र ब्रूयादग्निमिति वै प्रत्य
पाद्याग्निमापत्स्यतीति शश्वत्तथा स्यात्, इति । तस्मिशास्त्रोपक्रमे तन्मतमग्निं मन्ये पितरमित्यादिकं नाऽऽदरणीयम् अनादरणे हेतुरुच्यते । तत्राग्निं मन्य इत्येतयोपक्रमपक्षे यः कोऽपि विरोधी समागत्यैवं होतारं ब्रूयाच्छपेत् । कथं शाप इति तदुच्यते । अनेन होत्राऽणि ममिमित्येव प्रत्यपादि प्रारब्धं तस्यामच्याग्निं पितरमग्निं भ्रातरमित्येवमसकद निस्वरूपं पित्राद्यभिधानादग्निमसौ होता प्रामोतीति दग्धो भविष्यतीति यदि
शपेत्तदानीं शश्वदवश्यं तथा स्यात् ।
परमतं दूषयित्वा स्वमतं निगमयति
तस्मादमिर्होता गृहपतिः स राजेयेत. यैव प्रतिपद्येत गृहपतिवती प्रजातिमती
शान्ता सर्वायुः सर्वायुत्वाय , इति । अस्यामृचि गृहपतिशब्दः स्पष्टं दृश्यते । तस्मादियं गृहपतिवती । तया द्वितीयपादे विश्वा वेद जनिमेति सर्वमाणिजननाभिज्ञानकयनादियं प्रजा तिमती । बहुकृत्वोऽनिशब्दस्याभावादियं शान्ता । तस्मादेतया प्रतिपयमाना होता सर्वायुर्भवति । तच्च यजमानस्य सर्वायुत्वाय संपद्यते ।
भग्निं मन्ये पितरमनिं०-१०-७-३।
द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।
४५५ बेदन प्रशंसति
सर्वमायुरेति य एवं वेद ॥ ७॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयग्राम
भाष्ये सप्तदशाध्याये प्रथमः खण्डः॥१॥(७) [१२८]
अथाऽऽग्नेयकाण्डं विधत्ते
तासां वै देवतानामाजि धावन्तीनामभिमृ . ष्टानामग्निर्मुखं प्रथमः प्रत्यपद्यत तमश्विना
वन्वागच्छतां तमबूतामपोदियावां वा इदं जेष्याव इति स तथेत्यब्रवीत्तस्य वै ममे हाप्यस्त्विति तथेति तस्मा अप्यत्राकु
रुतां तस्मादानेयमाश्विने शस्यते , इति । देवताः सर्वा गाईपत्यामिसमीपानिर्गत्य सूर्यपर्यन्तामाजिमुद्दिश्य धाव. त्योऽभिसृष्टा अभितः प्रवृत्ता एका देवतकस्यां दिशि धावत्यन्या परस्यां दिशीत्येवं सर्वतो धावन्ति । तासां देवतानां मध्येऽग्निर्मुखं यथा भवति तथा मुख्यो भविष्यामीत्यभिप्रायेण प्रथमः प्रत्यपद्यत पुरोगामी धावनं कृतवान् । तमग्निमनु पश्चादश्विनावागच्छतां समीपं गत्वा तमग्निमवतां हेऽग्ने त्वं शान्तो भविष्यसि तस्मादपोदिह्यत्कर्षेणापेहि दूरेऽपसराऽऽवामुभाववेदमाश्विनमु. विश्य जेष्याव इति । सोऽग्निरङ्गीकृत्य तस्यापगच्छतो ममापीह शस्त्रे भागोऽ स्वित्यङ्गीकृतवान् । अश्विनावगीकृत्य तस्माद(अ)प्रये विभागं दत्तवन्तौ । यस्मा. देवं तस्मादामेयं बहूनामृचां समूहरूपं काण्डमाश्विने शस्त्रे होत्रा शस्यते । शंसनीयं तच्च काण्डं सर्व सूत्रे द्रष्टव्यम् ।
अथोषस्य काण्डं विधत्ते
ता उषसमन्वागच्छतां तामब्रतामपोदिह्यावां वा इदं जेष्याव इति सा तथेत्यब्रवीत्तस्यै वै
ममेहाप्यस्त्विति तथेति तस्या अप्यत्राकु ___ रुतां तस्मादुषस्यमाश्विने शस्यते, इति । चावधिनानुषसमेतमामयुक्तां देवतामन्यत्पूर्ववयाख्येयम् ।
४५६
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तदध्यारे ऐन्द्र काण्ड विधत्ते
ताविन्द्रमन्वागच्छतां तमब्रूतामावां वा इदं मघवनेष्याव इति न ह तं दधृषतु रपोदिहीति वक्तुं स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्रा
कुरुतां तस्मादैन्द्रमाश्विने शस्यते , इति । हे मघवनावां जेष्याव इत्येवमब्रूतामिन्द्रस्य स्वामित्वात्तमिन्द्रमुद्दिश्या पोदिहीति वक्तुं न दधृषतुर्धार्य नाकुरुताम् । अन्यत्पूर्ववत् ।
अथाऽऽश्विनं काण्डं विधत्ते
तदश्विना उदजयतामश्विनावानुवातां यदश्विना उदजयतामश्विनावाश्रुवातां
तस्मादेतदाश्विनमित्याचक्षते , इति । तत्तस्यामाजी सहसा सूर्यपर्यन्तं गत्वा तावश्विनावुत्कर्षेणाजयतां तत स्तावेव शस्त्रम(मा) वातां व्याप्तवन्तौ । यद्यस्मादश्विनौ जयपूर्वकं शस्त्रं व्याप्त वन्तौ तस्मादेतच्छस्त्रमाश्विनमिति याज्ञिका आचक्षते । आश्विनं काम शंसेदित्यभिप्रायः। वेदनं प्रशंसति
अश्नुते यद्यत्कामयते य एवं वेद, इति । प्रश्नोत्तराभ्यां शस्त्रस्याऽऽश्विनत्वमुपपादयति
तदाहुर्यच्छस्यत आग्नेयं शस्थत उषस्यं शस्यत ऐन्द्रमथ कस्मादेतदाश्विनमित्या चक्षत इत्यश्विनौ हि तदुदजयतामश्विनावा श्नुवातां यदश्विना उदजयतामश्विनावाश्नु
वातां तस्मादेतदाश्विनमित्याचक्षते, इति । आश्विनकाण्डवदानेयोषस्यैन्द्रकाण्डानामपि शस्यमानत्वाच्छवस्याऽऽध यादिनामपरित्यागेनाऽऽश्विननानि का पक्षपात इति प्रश्नः। अमिरुषा इन्द्र
१ क. श. ट. मेयत्वादि । २ क. स्व. स. ट. ‘नत्वना ।१ तृतीयः खण्डः] ऐतरेयत्रायणम् ।
परतोऽपमुप्ता न तु सूर्यपर्यन्तमधावन् । अश्विनौ तु धावन्तौ जयपूर्वक
प्राप्तवन्ताविति तदीयत्वप्रसिद्धिः शस्त्रस्य युक्ता। वेदनं प्रशंसति ___ अश्नुते यद्यकामयते य एवं वेद ॥ ८॥ इति । पर्वमाश्चिनसंबन्धमात्रवेदनमिह त्वग्न्यादिसंबन्धराहित्यवेदनं चेति विशेषः। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्ये सप्तदशाध्याये द्वितीयः खण्डः ॥२॥ (८) [१२९]
अथाऽऽश्विनशस्त्रप्रशंसाथै देवानामाजिधावनकथा पूर्वमुपन्यस्ता तमेव ज्याशेषमाश्विनशस्त्रप्रशंसार्थमेव पुनरप्यनुवर्तयति
अश्वतरीरथेनाग्निराजिमधावत्तासां प्राजमानो
योनिमकूलयत्तस्मात्ता न विजायन्ते, इति । अश्वगर्दभसांकर्येण जाताः स्त्रीव्यक्तयोऽश्वतयः । तद्युक्तेन रथेनायमग्नि रानिमुद्दिश्य धावनं. कृतवान् । तदानीं प्राजमानः प्रकर्षणाश्वतरीः प्रेरयन् । अज पशुप्रेरण इति धातुजन्योऽयं शब्दः। तत्प्रेरणकाले तासां पूर्वपुच्छभाग मुपस्पृश्य योनिमकूलयत् , दग्धवान् । तस्मादग्धयोनित्वात्ता अश्वतों न विजायन्ते विजननमपत्योत्पादनं न कुर्वन्ति ।
अग्नेराजिधावनमुक्त्वोषसो धावनं दर्शयति
गोभिररुणैरुषा आजिमधावत्तस्मादुषस्यागता
यामरुणमिवैव प्रभात्युषसो रूपम्, इति । अरुणैगोंभिरीपद्रक्तवर्णैलीवदैर्युक्तेन रथेन यस्मादुपसो धावनं नस्माल्लो कऽपि रात्रेवसाने समागतायामुषसि तस्या उषसो रूपं प्राच्या दिश्यरुणमि.
व रक्तवर्णमेव भूत्वा प्रभाति प्रभायुक्तं भवति ।
इन्द्रस्याऽऽजिधावनं दर्शयति
अश्वरथेनेन्द्र आजिमधावत्तस्मात्स उच्चै?ष
उपब्दिमान्क्षत्रस्य रूपमैन्द्रो हि सः, इति । यस्मादश्वयुक्तेन रथेनेन्द्रोऽधावत्तस्माल्लोकेऽपि सोऽश्वयुक्तो रथ उच्चै?षो
१ ख. ‘न्योऽयमजश।
४५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तद ध्याये बहुलध्वनिदृश्यते । तथा क्षत्रस्य रूपमुपब्दिमाशब्दोपेतं दृश्यते । क्षत्रियो निर्गच्छति तदीया याष्टिका अन्ये सेवका अश्वपुरतः शब्द की एव गच्छन्ति । स च शब्द ऐन्द्रो ह्यमुरयुद्धेषु तद्भीत्यर्थमिन्द्रेण काल दैन्द्रत्वम् ।
अश्विनो(वनं दर्शयति
गर्दभरथेनाश्विना उदजयतामश्विनावाश्न वातां यदश्विना उदजयतामश्विनावाश्नुवातां
वाहनानामनाशिष्ठो रेतसस्त्वस्य वीर्य नाह
रतां तस्मात्स दिरेता वाजी , इति । अश्विनौ गर्दभयुक्तेन रथेन शीघ्रं गत्वा जयपूर्वकमश्विनौ व्याप्तवन्ती यद्यस्मादुभौ रथमारुह्यातिवेगेन गत्वा व्याप्तवन्तौ तस्मात्स गर्दभो भाराति शयन तीव्रधावनेन च लोके मृतजवो गतवेगो दुग्धदोहो गतक्षीररसश्चाभवद तस्मादिदानीमपि गजाश्वादिवाहनानां सर्वेषां मध्ये गर्दभोऽनाशिष्ठोऽत्यन्त गरहितो दृश्यते । तदीयस्य रेतसस्तु वीर्य सामर्थ्यमश्विनौ नाहरतां न विन शितवन्तौ तस्माद्वेगेन या(पा)नयोग्य(ग्य) क्षीरेण च राहित्येऽपि स गर्द द्विरेता गर्दभाश्वतरजातिद्वयोत्पादको वाजी गमनवान्दृश्यते ।
एवं शस्त्रप्रशंसार्थमवशिष्टमुपाख्यानशेषमभिधाय सौर्याणां मत्रसमूहान संख्यां विधातुं पूर्वपक्षमुद्भावयति
तदाहुः सप्त सौर्याणि च्छन्दांसि शंसेद्यथैवाऽऽ मेयं यथोषस्यं यथाऽऽश्विनं सप्त वै देव
लोकाः सर्वेषु देवलोकेषु रामोतीति, इति । आगेयोषस्याश्विनकाण्डानि यथा प्रत्येकं गायत्र्यादिभिः सप्तच्छन्दोभियु तान्येवमत्र सौर्येऽपि काण्डे सप्त च्छन्दांसि शंसनीयानि । तथा सति भाग स्थानरूपाणां देवलोकानामवान्तरभेदेन सप्तविधत्वात्तत्समृदिः सिध्यता पूर्वपक्षिण आहुः।
१ स. जी वेगवा।
। तृतीयः खण्डः] . ऐतरेयबामणम् ।
१५९ तं पसं निराकृत्य च्छन्दस्वयपक्षं विधत्ते
तत्तत्राऽऽयं त्रीण्येव शंसेत्रयो वा इने त्रितो
लोका एषामेव लोकानामभिजित्यै, इति । पथिव्यन्तरिक्षधुलोकात्रय एव त्रिकृतः सत्त्वरजस्तमोगुणैत्रिविधा अतस्त्र- . णामभिजयाय त्रीण्येव च्छन्दांसि शंसेत् । त्रयाणां छन्दसां प्रारम्भ निश्चेतुं पूर्वपक्षमाह तदाहुरुदुयं जातवेदसमिति सौर्याणि प्रतिपद्यतेति, इति । यानि सौर्याणि त्रीणि च्छन्दांसि तेषां प्रारम्भ उदुत्यमिति शंसेदिति पूर्वः पक्षः। । तमेतं दूषयति
तत्तन्नाऽऽहत्यं यथैव गत्वा
काष्ठामपराध्नुयात्तादृक्तत्, इति । लोके कश्चिद्भाषापूर्वकमप्रमादेन धावनं कृत्वा काष्ठामवधिस्थान प्राप्यापरा. नुयात्तत्रावसाने स्खलनपतनादिरूपमपराधं कुर्यात्तादृगेव तद्भवति । आनेय काण्डमारभ्य सूर्यकाण्डपर्यन्तमस्खलन्होता समाप्तौ सूर्यकाण्डे स्खलति तस्मा दुदुत्यं न शंसेत् ।
इदांनी सिद्धान्तमाह
सूर्यो नो दिवस्पावित्येतेनैव प्रतिपद्येत यथैव
गखा काष्ठामभिपद्येत तादृक्तत् , इति । यथा लोके कश्चिदवधि प्राप्य स्खलनरहितः स्वाभीष्टं प्रामुयात्ताहगेव तद्र पन्यम् । सूर्यो न इत्यस्मिन्मत्रे सूर्यवाय्वनीनां लोकत्रयाद्रक्षणं प्रार्थयतो रक्षि देतृत्वादेवापरांधे न प्रामोति पूर्वत्रैवं नास्तीति विशेषः ।
प्रथमसूक्तं विधाय नवर्च सूक्तान्तरं विधत्ते
. उदुत्यं जातवेदसमिति द्वितीयं शंसति, इति । तदेतदुभयं गायत्रीछन्दस्कम् । उहुत्यं जातवेदसं०-१-५-१। सूर्यो नो दिवस्पातु०-१०-१५८-१ ।
१ ख. राधो न ।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तद ध्याये अथ त्रैष्टुभं सूक्तं विधत्ते
चित्रं देवानामुदगादनीकमिति त्रैष्टुभमसौ वाव
चित्रं देवानामुदेति तस्मादेतच्छंसति, इति । अस्मिन्मत्रे देवानां संबन्धि किंचिच्चित्रं रूपमुदगादुदयं मामोतीति अपने असौ वावाऽऽदित्य एव देवानां संबन्धि चित्रं रूपमुदेति । कालभेदेन वर भेददर्शनात् । तस्मादेतत्सूक्तं प्रशस्तत्वादत्र शंसनीयम् ।
तृतीयं छन्दो विधत्ते
नमो मित्रस्य वरुणस्य चक्षस इति जागतं तदाशीःपदमाशिषमेवैतेनाऽऽशास्त आत्मने
च यजमानाय च ॥ ९ ॥ इति । तदु तदस्य नमो मित्रस्येत्यादिकमाशी पदमाशिषः प्रतिपादकं द्वितीयर तुर्थपादयोः सपर्यत शंसतेत्याशीरर्थस्य लोडन्तस्य पदद्वयस्य प्रयुक्तत्वाचच्र सनेन होता स्वस्य यजमानस्य चाऽऽशिषं प्रार्थयते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्म __ णभाष्ये सप्तदशाध्याये तृतीयः खण्डः ॥३॥ (९) [१३०]
ऐन्द्रादिप्रगाथान्विधातुं प्रस्तौति
तदाहुः सूर्यो नातिशस्यो बृहती नाति शस्या यत्सूर्यमतिशंसद्ब्रह्मवर्चसमतिपद्येत
यबृहतीमतिशंसेत्प्राणानतिपद्यतेति, इति । तत्तस्मिन्नाश्विनशस्त्रे केचिदभिज्ञा एचमाहुः । देवानां मध्ये यः सूर्योऽरि स नातिशस्यः सूर्यमतिलय शंसनं न कर्तव्यम् । तथा छन्दसां मध्ये बा तीमतिलय शंसनं न कर्तव्यम् । सूर्यस्योपासकेषु ब्रह्मवर्चसप्रदत्वात्तद भिलङ्घने ब्रह्मर्चसं नश्येत् । बृहत्याः प्राणरूपत्वात्तदतिलयने प्राणान्ति नाशयेदिति तेषामभिप्रायः।
इदानीमेकं प्रगाथं विधत्ते
चित्रं देवानामुदगादनीकं०-१-११५-१।
–
१ चतुर्थः खण्डः ] ऐतरेयबामणम् ।
४६१ इन्द्र क्रतुं न आभरेत्यैन्द्रं प्रगाथं शंसति, इति । है. इन्द्र नोऽस्माकं तुमतिरात्राख्यमाभराऽऽनयेत्यस्य पादस्यार्थः । द्वितीयमधर्च पठति
शिक्षा णो अस्मिन्पुरुहूत यामनि
जीवा ज्योतिरशीमहीति, इति । पुरुष बहुषु यागेष्वायमान है, इन्द्र नोऽस्मानस्मिन्नतिरात्रयागरूपे यामनि नियमविशेपे शिक्ष, उपदेशेन प्रवर्तय । जीवास्त्वत्प्रसादेन जीवन्तो वयं ज्योतिरादित्यमण्डलरूपमशीमहि प्रामुयाम ।
अत्र ज्योतिःशब्दस्याऽऽदित्यपरत्वात्मगाथस्यैन्द्रत्वेऽपि सूर्यमतिक्रम्य शंसनं न भविष्यतीत्येतदर्शयति
असौ वाव ज्योतिस्तेन सूर्य नातिशंसति, इति । अत्रोत्तरस्या ऋचो विष्टारपतित्वेऽपि प्रग्रथनेन बृहतीत्वसंपादनाबृह तीमतिलद्ध्य शंसनं न भविष्यतीत्येतदर्शयति
यदु बार्हतः प्रगाथस्तेन बृहती नातिशंसति, इति । अस्मिन्प्रगाथे पूर्वस्या ऋचः पत्रिंशदक्षरत्वात्पादचतुष्टयोपेतत्वाच्च सा स्वभावत एव बृहती । पुनरपि तस्याश्चतुर्थपादमष्टाक्षरं द्विरावर्येतरस्या ऋचः प्रथमान विंशत्यक्षरेण सह प्रग्रथ्य पत्रिंशदक्षरा द्वितीया बृहती संपा दनीया । तत्राप्यन्तिमं पादमष्टाक्षरं द्विरावोत्तरार्धन विंशत्यक्षरेम सह प्राध्य तृतीया बृहती संपादनीया । एवं सति बृहत्या अतिक्रमो न भवति ।
भगाथान्तरं विधत्ते
अभि त्वा शूर नोनुम इति रार्थतरी योनि शंसति राथंतरेण वै संधिनाऽऽश्विनाय स्तुवते तद्यद्राथंतरी योनि शंसति रथंतरस्यैव सयोनित्वाय , इति । रथंतराख्यं सामाभि त्वा शूरेत्यत्रोत्पत्रं तस्माद्यंतरयोनित्वमुद्गातारो
इन्द्र ऋतुं न आमर०-७-३३-२६ । अभि त्वा शूर नोनुमः० ७-३३-२२।
–
–
१क.म. ट, तीस।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१७सप्तद
प्रतिरात्रे रथंतरसामसाध्येनान्तिमेन संधिना स्तोत्रेणाऽऽश्विनशस्त्रप्रदर्शना स्तुवते । अतो रथंतरयोनिशंसने सति स्तोत्रगतस्य रथंतरस्यैव साम्रो नित्वं समानस्थानत्वं संपद्यते ।
अत्र सूतिक्रमाभावं दर्शयति
ईशानमस्य जगतः स्वदृशमित्यसौ वाव
स्वदृक्तेन सूर्य नातिशंसति , इति । ईशानमित्यादिकः प्रथमाया ऋचस्तृतीयपादोऽस्य सर्वस्य जगत ईशात स्वामिनं स्वदृशं स्वर्गलोके दृश्यमानमभिनोनुम इति प्रथमपादगतेनान्वयः अत्र स्वदृक्शब्देनासावादित्य एवोच्यते । तेन सूर्यातिक्रमो नास्ति ।
पूर्ववबृहत्यतिक्रमाभावं दर्शयति
यदु बार्हतः प्रगाथस्तेन बृहती नातिशंसति, इति । प्रगाथान्तरं विधत्ते
बहवः सूरचक्षस इति मैत्रावरुणं प्रगाथं शंसत्य हवै मित्रो रात्रिर्वरुण उभे वा एषोऽहोरात्रे आर भते योऽतिरात्रमुपैति तद्यन्मैत्रावरुणं प्रगाथ
शंसत्यहोरात्रयोरेवैनं तत्प्रतिष्ठापयति , इति । अहो मित्रः स्वामी रात्रेश्च वरुणस्तस्मात्तयोस्तद्रूपत्वम् । यो यजमानोऽति रात्रक्रममनुतिष्ठत्येष पुमानहोरात्रे उभे अप्युद्दिश्य ऋतुं प्रारभत उभयो कालयोरनुध्येयविशेषसद्भावात् । अतो मैत्रावरुणप्रगाथशंसनेनाहोरात्रयोरेन कालयोरेनं यजमानं प्रतिष्ठितं करोति ।
पूर्ववदनतिक्रमं दर्शयति
सूरचक्षस इति तेन सूर्य नातिशंसति यदु
बार्हतः प्रगाथस्तेन बृहती नातिशंसति, इति । सूरचक्षस इति श्रूयमाणं सूरपदं सूर्यवाच्यतस्तस्य नातिक्रमः । पुनरप्यन्ये द्वे ऋचौ विधत्ते
मही द्यौः पृथिवी च नस्ते हि द्यावापृथिवी बहवः सूरचक्षसः०-७-११-१०। मही द्यौः पृथिवी च नः०-१-२२-१६ ते हि यावापृथिवी०-१-१९१-१।
चतुर्थः खण्डः] ऐतरेयब्राह्मणम् ।
विश्वशंभुवेति द्यावाप्रथिवीये शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठाऽसावमुत्र तद्ययावाप्रथि वीये शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति, इति । पही चौरित्येका ते हीति द्वितीया । उभे अप्पँचौ द्यावापृथिवीदेवताके । न द्यावापृथिव्यौ सर्वेषां प्राणिनामाधारभूते । इह मनुष्यजन्मनीयमेव थिवी प्राणिनामाश्रयः । अमुत्र जन्मान्तरेऽसौ घुलोक आश्रयः । तथा सति वापथिवीययोर्कचोः शंसनेनोभयोरपि प्रतिष्ठारूपयोलॊकयोरेनं यजमानं
m
r
.-+-
+–
.
..-…–
–
प्रतिष्ठापयति ।
अत्र सूर्यस्यानतिक्रमं दर्शयति
देवो देवी धर्मणा सूर्यः शुचि
रिति तेन मूर्य नातिशंसति, इति । उत्तरस्यामृचि देवो देवीत्यस्मिन्पादे सूर्यस्य श्रूयमाणत्वात्तदतिक्रमो नास्ति ।
बृहत्या अनतिक्रमं दर्शयति
यदु गायत्री च जगती च ते वे
बृहत्यौ तेन बृहती नातिशंसति, इति । । प्रथमाया गायत्रीछन्दस्त्वाच्चतुर्विशत्यक्षरत्वम् । द्वितीयां जगतीच्छन्दै साऽष्टाचत्वारिंशदक्षरा मिलित्वा द्वासप्ततिरक्षराणि संपद्यन्ते । तेषां द्वेषा विभागे सति षट्त्रिंशदक्षरे द्वे बृहत्यौ भवतः । तेन बृहत्या अनतिक्रमः । - अथान्यामेकामृचं विधत्ते
विश्वस्य देवी मृचयस्य जन्मनो न या
रोषाति न ग्रभदिति दिपदां शंसति, इति । श्यमुक्पादद्वयोपेताऽस्मिन्ब्राह्मण एवोक्ता । मृचि धातुर्गत्यर्थः । मर्चयति छतीति गतिमान्माणी । विश्वस्य सर्वस्य मृचयस्य गतिमतः पाणिनो पजन्म तस्य जन्मनो देवी स्वामिनी काचित्रिक्रतिरूपा मृत्युदेवता विद्यते ।
मृत्युदेवताऽस्मासु न रोपाति न कुप्यति न प्रभन्नैव गृहातीति द्विपदाया चोऽर्थः । तामेतां द्विपदा शंसेत् ।
१स. याया
। २ ख. °न्दस्कत्वादष्टा । ३. क्षरत्वं मि ।
४६४
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१७सप्तद०ध्याये. एतामृचं प्रशंसति
चितधमुक्थमिति ह स्म वा एतदाचक्षते यदेतदा श्विनं नितिर्ह स्म पाशिन्युपास्ते यदैव होता परिधास्यस्यथ पाशान्प्रतिमोक्ष्यामीति ततो वा एतां बृहस्पतिर्दिपदामपश्यन्न या रोषाति न ग्रभदिति तया नित्याः पाशिन्या अधराचः पाशानपास्यत्तदेतां दिपदां होता शंसति निर्ऋत्या एव तत्पाशिन्या अधराचः पाशानपास्यति
स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय, इति । यदेतदाश्विनं शस्त्रमस्ति तदेतचितवमुक्थमिति रहस्याभिज्ञा आचक्षते चिता एधाः काष्ठसमूहा मनुष्यं दग्धुं यस्मिन्मशाने स्थाने तत्स्थानं चिं धम् । तत्सदृशमिदमुक्थं शस्त्रं यथा श्मशानं दृष्ट्वा जीवनार्थिनो विभ्या तद्वदाश्विन शस्त्रं भयहेतुरित्यर्थः । तत्कथमिति तदेवोच्यते । नितिमत्र देवता सा च पाशिनी पाशहस्ता सत्युपास्ते होतुः समीपे निवसति । केन भिप्रायेणेति सोऽभिधीयते । यदैवायं होता परिधास्यति शस्त्रसमाप्ति का ष्यति तदैव बन्धनार्थ पाशानस्मिन्होतरि प्रतिमोक्ष्यामि प्रजेष्यामीति तस् अभिमायः । ततो वै तस्मादेव नित्याः परिहरणीयत्वकारणात्तदपाः रणार्थ बृहस्पतिरेतां द्विपदां तत्परिहारहेतुत्वेनापश्यत् । काऽसौ द्विपदे। वीक्षायां तदीयो द्वितीयः पादो न येत्यादिकः प्रदर्शनार्थमुपादीयते । त द्विपदया पाशहस्ताया निर्ऋत्याः सकाशादधराचोऽधो लम्बमानान्पाशान्बू स्पतिरपास्यत्, द्विपदायां पठ्यमानायां तद्धस्तात्पाशाः पतिता इत्यर्थः । त दोताऽपि द्विपदायाः शंसनेन पाशानपास्यति निराकरोति । स्वस्त्येव क्ष गैवायं होता नितिपाशान्मुच्यते । ततः सर्वायुर्भवति यजमानस्यापि सब युत्वाय शंसनं संपद्यते । वेदनं प्रशंसति
सर्वमायुरेति य एवं वेद, इति । तत्र सूर्यस्यानतिक्रमं दर्शयति
मृचयस्य जन्मन इत्यसौ वाव मर्चयतीव तेन
। पञ्चमः खण्डः ]
ऐतरेयब्रामणम् ।
४६५ सूर्य नातिशंसति, इति । टिपदायां गतिवाची मृचयशब्दोऽस्त्यसौ वावाऽऽदित्योऽपि मर्चयतीव पदा गच्छत्येव । तेन सूर्याभिधानाम्नास्त्यतिक्रमः ।
बृहत्या अनतिक्रमं दर्शयति
यदु दिपदा पुरुषच्छन्दसं सा सर्वाणि च्छन्दां
स्यभ्याप्ता तेन बृहती नाति शंसति॥१०॥इति । यदु यस्मादेव कारणादियं द्विपदा तस्मादेव पुरुषसादृश्यात्पुरुषसंबन्ध उन्दो भवति पुरुषश्च सर्वच्छन्दसां प्रयोक्तेति पुरुषद्वारा सा द्विपदा सर्वाणि छन्दस्यिभितो व्यामोति । तेन बृहत्या अपि व्यासत्वानास्त्यतिक्रमः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण भाष्ये सप्तदशाध्याये चतुर्थः खण्डः ॥ ४॥ (१०) [१३१]
अथाऽऽश्विनस्य समाप्त्यर्थमेकामुचं विधत्ते
ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै ब्रहस्प
तिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठापयति, इति । बृहस्पते अति यदर्य इत्येषा ब्राह्मणस्पत्या बृहस्पतेर्देवेषु प्रामणजातिस्व रूपत्वात् । तेन परिधानेनैतच्छस्त्रं ब्रह्मण्येव ब्राह्मणरूपे बृहस्पतावेव प्रतिष्ठितं भवति ।
नित्यमयोगार्थ परिधानीयां विधाय काम्यप्रयोगार्थ विधत्ते
एवा पित्रे विश्वदेवाय वृष्ण इत्येतया
परिदध्यात्प्रजाकामः पशुकामः, इति । तस्या ऋचस्तृतीयपादमनूध व्याचष्टे
बृहस्पते सुप्रजा वीरवन्त इति
प्रजया वै सुप्रजा वीरखान्, इति । पुत्रादिपया प्रजया पिता सुप्रजाः शोभनापत्यो वीरवारभृत्ययुक्तष । वन तृतीयपादोक्तमुमजा वीरवन्त इत्येतदुपपनम् ।
हस्पते अति यदर्य०-२-२४ १५ । एवा पित्रे विश्वदेवाय०-४-१०-१।
क. स. ट. ‘योगं वि।
४६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तद ध्याये.
चतुर्थपादमनुवदति
वयं स्याम पतयो रयीणामिति, इति । हे बृहस्पते त्वत्प्रसादाद्वयं रयीणां धनानां पतयः स्याम । अस्यार्थस्य स्पष्टत्वाद्याख्यानमुपेक्ष्य ज्ञानपूर्वकानुष्ठानं प्रशंसति
प्रजावान्पशुमात्रयिमान्वीरवान्भवति
यत्रैवं विद्वानेतया परिदधाति, इति । फलान्तरार्थमन्यामृचं विधत्ते
बृहस्पते अति यदों अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्चसकामोऽ
तीव वाऽन्यान्ब्रह्मवर्चसमर्हति, इति । अत्र पादे योऽयमतिशब्दस्तत्प्रसादादनुष्ठाताऽन्यपुरुषानतीवातिक्रम्यवा धिकं ब्रह्मवर्चसमर्हति प्रामोतीत्यर्थः ।
द्वितीयपादे प्रथमपदमनूय व्याचष्टे
घुमदिति |मदिव वै ब्रह्मवर्चसं विभा
तीति वीव वै ब्रह्मवर्चसं भाति, इति । घुमद्विभाति ऋतुमज्जनेष्विति द्वितीयः पादः । ब्रह्मवर्चसविशेषणत्वे धुतिमत्पर्यायो घुमदिति शब्दः प्रयुज्यते । श्रुताध्ययनसंपत्तिरूपं ब्रह्मवचेर विद्वत्सभायां घुमदिव वै प्रकाशयुक्तमेव भूत्वा विभाति सर्वेषामेव भास इति तस्य पदस्य तात्पर्यम् । एतत्पादशंसने ब्रह्मवर्चसं वीव वै विशेष णैव भाति।
तृतीयपादमनूय व्याचष्टे
यहीदयच्छवस ऋतप्रजाति
दीदायेव वै ब्रह्मवर्चसम् , इति । अस्मिन्नपि पादे ब्रह्मवर्चसविशेषणत्वेन दीप्यमानत्ववाचकं दीदयादा पदमस्ति ब्रह्मवर्चसं दीदायेव वै ब्राह्मणेषु दीप्यत एवेति तस्य पादस्यायः
।
१ क. र. ‘स्य पद।मा
५ पञ्चमः खण्डः ] ऐतरेयबामणम् ।
४५७ चतुर्थपादमनूध व्याचष्टे
तदस्मासु द्रविणं धेहि चित्रमिति
चित्रमिव वै ब्रह्मवर्चसम् , इति । अस्मिन्पादे यच्चित्रविशेषणं तयुक्तमेव ब्रह्मवर्चसस्य वेदेन शास्त्रेणाऽऽचा. रेण च विचित्रत्वात् ।
वेदनपूर्वकमनुष्ठानं प्रशंसति
ब्रह्मवर्चसी ब्रह्मयशसी भवति
यत्रैवं विद्वानेतया परिदधाति, इति । ब्रह्मवर्चसी वृत्तसंपन्नः । ब्रह्मयशसी तनिमित्तकीर्तियुक्तः । उक्तमर्थ निगमयति
तस्मादेवं विद्वानेतया परिदध्यात्, इति । सूर्यस्यानतिक्रमं दर्शयति __ ब्राह्मणस्पत्या तेन सूर्य नाति शंसति, इति ।
पस्मादियमृग्ब्रह्मणस्पतिदेवताका सूर्यश्व संध्योपासनादौ ब्राह्मणानां स्वामी तस्मान्नातिक्रमः।
बृहत्या अनतिक्रमं दर्शयति
यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि च्छन्दां
स्यभ्याप्ता तेन बृहती नाति शंसति, इति । त्रिः प्रथमां त्रिरुत्तमामिति न्यायेन परिधानीयायास्त्रिरावृत्तिरस्तीयं त्रिष्टु जिरावय॑माना द्वात्रिंशदधिकशताक्षरा संपद्यते । तेष्वक्षरेषु सर्वच्छन्दसामन्त भावयितुं शक्यत्वादियं सर्वाणि च्छन्दांस्यभितो व्यामोत्यतो बृहत्या अपि तयाप्तत्वाबास्त्यतिक्रमः । यदुक्तं सूत्रकारेण-आश्विनेन ग्रहेण सपुरोलागेन
चरन्तीति ।
तत्रोभयार्थ द्वे याज्ये विधत्ते
गायच्या च त्रिष्टुभा च वषट्कुर्याद , इति ।
१. तदुकं ।
–
–
४६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तदया।
उमा पिबतमश्विनति गायत्री । अश्विना वायुनेति त्रिष्टुप् । ताभ्यां हो दकुर्यात् । याज्यात्वेन तदुभयं पठेदित्यर्थः ।
तदेतदुभयं प्रशंसति
ब्रह्म वै गायत्री वीर्य त्रिष्टुब्रह्म
णैव तद्दीर्य संदधाति , इति । गायत्र्या ब्राह्मणस्य च प्रजापतिमुखजत्वसाम्यादेकत्वं त्रिष्टुभो वीर्यहेतुत्ला सदूपत्वम् । तदुभयपाठे सति ब्राह्मण्येन सह वीर्य संपादयति ।
वेदनपूर्वकमनुष्ठानं प्रशंसति
ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रै
विद्वान्गायत्र्या च त्रिष्टुभा च वषट्करोति, इति । तदुक्तयोर्गायत्रीत्रिष्टुभोः प्रतीकद्वयं दर्शयति
अश्विना वायुना युवं सुद
क्षोभा पिबतमश्विनेति, इति । अधिनेत्यादिकं त्रिष्टुभः प्रतीकमुभा पिबतमित्यादिकं गायत्र्याः प्रतीकम् एते त्रिषुन्गायत्र्यो याज्ये इत्येकः पक्षः।
पक्षान्तरं विधत्ते
गायत्र्या च विराजा च वषट्कुर्याद्ब्रह्म वै गाय
ध्यानं विराइब्रह्मणैव तदन्नाचं संदधाति, इति । गायच्या ब्रह्मत्वं पूर्वमुक्तं विराजोऽन्नसाधनत्वादनत्वम् । अतस्तदुभय पाठे सत्यनाथमाधमनं ब्राह्मणजात्या संयोजयति ।
वेदनपूर्वकमनुष्ठानं प्रशंसति
ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमनमत्ति यत्रैवं विहान्गायत्र्या च विराजा च वषट्करोति, इति । ब्रामणेनात्तुं योग्यं पवित्रीभूतं ब्रह्माद्यम् ।। तयोर्गायत्रीविराजोः प्रतीकप्रदर्शनपुरःसरमेत पक्षं निगमयति
तस्मादेवं विद्वान्गायच्या चैव विराजा च
उभा पिवतमाश्विना०-१-४७-१९ । अश्विना वायुना युवं०-१-१८-७
। षष्ठः खण्डः ] ऐतरेयबामणम् ।
४६९ वषट्कुर्यात्म वामन्धांसि मद्यान्यस्थुरुभा
पिबतमश्विनेत्येताभ्याम् ॥ ११॥ इति । वामन्यांसीति विराट् । उभा पिवतमिति गायत्री । गायच्या चैव निराजा चैवेत्येवकारेण पूर्वोक्तस्य त्रिष्टुप्पक्षस्य व्यावृत्तिः । तस्मादपि विरा
पक्षः प्रशस्त इत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयमा. ह्मणभाष्ये सप्तदशाध्याये पश्चमः खण्डः ॥५॥ (११) [१३२]
अग्निष्टोम उक्थ्यः षोडश्यतिरात्रश्चेत्येवं चतुःसंस्थो ज्योतिष्टोमः साना ध्यायषोडशकेनाभिहितः । अथैतच्चतुष्टयमुपजीव्य प्रवर्तमानं गवामयननामक संवत्सरसत्रमभिधातव्यम् । संवत्सरगतेषु षष्ट्यधिकशतत्रयदिवसेष्वेककस्मि दिवसे पूर्वोक्तानां चतसृणां संस्थानां मध्ये कयाचित्संस्थया युक्तः सोमप्र योगः सर्वोऽप्यनुष्ठेयः। सोऽयमेकैकदिनसाध्यः सोमप्रयोगो वेदेष्वहामाब्देन व्यवहियते । संवत्सरसत्रस्याऽऽद्य दिवसे कश्चिदतिरात्रसंस्थः सोमप्रयोगोड. नुष्ठयः । तदनन्तरभाविनि द्वितीयदिवसेऽनुष्ठेयं सोमप्रयोगं विधत्ते
चतुर्विंशमेतदहरुपयन्यारम्भणीयम् , इति । चतुर्विंशतिनामकः कश्चित्सोमविशेषः । स च च्छन्दोगैरेवमानायते | “अष्टाभ्यो हिं करोति स तिसृभिः स चतसृभिः स एकया । अष्टाभ्यो हिं करोति स एकया स तिमृभिः स चतसृभिः। अष्टाभ्यो हिं करोति स चतसृभिः स एकया स तिसृभिः’ इति । अस्यायमर्थः । स्तोत्रस्याऽऽधारभूते त्र्यूचे विद्य. मानास्तिस्र ऋच आवृत्तिविशेषेण चतुर्विंशतिसंख्याका ऋचः कर्तव्याः। सा चाऽऽवृत्तित्रिभिः पर्यायैः संपद्यते । सत्र प्रथमे पर्याये प्रथमामृचं घिर भ्यस्य स उद्गाता ताभिस्तिमृभिर्गायेत । द्वितीयामृचं चतुर्वारमभ्यस्य ताभि यतमभिर्गायेत् । तृतीयाया ऋचः सकदेव पाठो न चाऽऽवृत्तिः । एवं प्रथ पपयोयेऽष्टौ ऋचः संपद्यन्ते । ताभिहि करोत्युदायेत् । द्वितीयपर्याये प्रथमाया: सकृत्पाठः । द्वितीयायास्त्रिरात्तिः । तृतीयायाश्चतुरावृत्तिरित्येवमत्राप्यष्टो पधन्ते । तृतीयपर्याये प्रथमायाश्चतुरावृत्तिद्वितीयायाः सकपाठस्तृतीयाया
प्र वामन्धांसि मद्यानि०-७-१८-२।
यः सचतुर्विशति स्याऽधा
१.स. “तीयादिदि।
४७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१७सप्तदच्या खिरात्तिरित्येवमत्राप्यष्टौ संपद्यन्ते । तत्सर्व मिलित्वा चतुर्विशति ऋचो भवन्ति । सोऽयं चतुर्विशतिस्तोमोऽनेन स्तोत्राणि यस्मिनहनि धन्ते तदहश्चतुर्विशता दशमे तदहरुपयन्त्यनुतिष्ठेयुः । अत्र सत्रेषु सर्वोष त्यासत इति शब्दावनुष्ठानपरावेताभ्यां विधानमेव सत्रत्वलिङ्गम । तत्र यजमानास्त ऋत्विज इति श्रुत्यन्तरात्विजां सर्वेषां यजमानत्वेनोपयन्ती बहुवचनम् । तस्यैतस्यान आरम्भणीयमिति नामधेयम् ।
तस्यैतस्य नाम्नो निर्वचनं दर्शयति
एतेन वै संवत्सरमारअन्त एतेन स्तोमांश्च च्छन्दांसि चैतेन सर्वा देवता अनारब्धं वै तच्छ न्दोऽनारब्धा सा देवता यदेतस्मिनहनि नाऽऽ
रभन्ते तदारम्भणीयस्याऽऽरम्भणीयत्वम् , इति । एतेनैव चतुर्विोनाहा सत्रिणः संवत्सरसत्रमारभन्ते । तत्र सामगैः प्रय क्तव्या ये स्तोमा बचैः प्रयोक्तव्यानि यानि च्छन्दांसि याश्च तत्तन्मत्रर्मा पाद्याः सर्वा देवतास्तत्सर्वमनेनैवाहाऽऽरभन्ते । यदि कथंचिदेतस्मिन्नही च्छन्दो वा देवतान्तरं वा नाऽऽरभेरंस्तदानीमन्यस्मिन्नहन्यारब्धम च्छन्दोदेवतादिकमनारब्धसदृशमेव भवति । तस्मादस्मिन्नेवाहनि सर्वर मुख्यः प्रारम्भः । तथा सत्यारभ्यते सर्वस्मिन्नहनीति व्युत्पत्त्याऽऽरम णीयं नाम संपन्नम् । यद्यप्येतस्मादनः पूर्वभाविनि प्रायणीयाख्येऽहनि स प्रारब्धं तथाऽपि तस्य प्रायणीयस्यातिरात्रसंयुक्तस्य संवत्सरोपक्रमसाधारण त्वादस्य सत्रस्य विशेषेण प्रारम्भोऽस्मिन्नेव भवतीत्यभिप्रेत्यैतस्याऽऽरम्भर्ण यत्वमेव युक्तम्()।
अस्मिन्नहनि स्तोमविशेषं विधत्ते
चतुर्विशस्तोमो भवति तच्चतुर्वि
शस्य चतुर्विशत्वम, इति । यान्यत्र स्तोत्राणि सन्ति तेषु सर्वेषु यः पूर्वमुदाहृतश्चतुर्विशत्व?)संख्यार पादनरूपः स्तोमः स एव कर्तव्यः । ईदृशस्तोमयोगादेवाहोऽपि चतुनि शनाम संपन्नम् ।
तं स्तोमं प्रशंसति
चतुर्विशतिर्वा अर्धमासा अर्धमासश एव
षष्ठः खण्डः ] ऐतरेयब्राह्मणम् ।
४७१ तत्संवत्सरमारभन्ते, इति । बादशस मासेषु विद्यमाना अर्धमासाश्चतुर्विंशतिसंख्याकाः । तथा सत्य
शब्द एकमर्धमासं समाप्य पुनरप्यपरोऽर्धमास इत्येवं क्रमेण चतु अतिसंपत्तौ संवत्सरसत्रपारम्भो भवति । तस्माचतुर्विशस्तोमः प्रशस्त तस्मिन्नहनि ।
सोमयागस्य संस्थाविशेषं विधत्ते
उक्थ्यो भवति पशवो वा
उक्थानि पशूनामवरुद्ध्यै, इति । अग्निष्टोमादूर्ध्वभावी योऽयमुक्थ्योऽस्ति सोऽस्मिन्नहनि प्रयोक्तव्यः । तत्र दशस्तोत्रेभ्य उत्तराणि त्रीण्युक्थनामकानि स्तोत्राणि तेपां पशुप्राप्तिहेतुत्वा. पशुत्वम् । अत उक्थ्यानुष्ठानं पशुप्राप्तये भवति ।
तस्मिन्नहनि चोदकमाप्तस्तोत्रशस्त्रसंख्यां प्रशंसति
तस्य पञ्चदश स्तोत्राणि भवन्ति पञ्चदश शस्त्राणि स मासो मासश एव तत्संवत्सरमारभन्ते, इति । मासगतानां दिवसानां त्रिंशत्त्वात्स्तोत्रशस्त्रसंख्यायाश्च तथात्वान्मासत्वसं. त्तिः । मासश एकैकमासक्रमेणेत्यर्थः । स्तोत्रगतानामृचां संख्यां प्रशंसति
तस्य षष्टिश्च त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्य
हःश एव तत्संवत्सरमारभन्ते, इति । एकैकस्य स्तोत्रस्य चतुर्विंशतिसंख्याया वृत्तत्वात्तत्रत्याः स्तोत्रयोग्या उचश्चतुर्विंशतिः संपद्यन्ते । तथा सति दशसु स्तोत्रेषु चत्वारिंशदधिकं शत. प पञ्चसु स्तोत्रेषु विंशत्यधिकमेकं शतमेतदुभयं मिलित्वा षष्टयधिकशतत्र सिख्याकाः स्तोत्रियाः संपद्यन्ते । संवत्सरसंबन्धीन्यहान्यपि तत्संख्याकानि या सत्यहाशोऽहःक्रमेणैव संवत्सरसत्रमारभन्ते । तदेवमुक्तपक्ष उपपादितः।
अथ पक्षान्तरं विधत्ते
अमिष्टोम एतदहः स्यादित्याहुरग्निष्टोमो वै संवत्सरो न वा एतदन्योऽग्निष्टोमादहधार न
४७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१७सप्तदध्यारे
विव्याचेति, इति । यदिदं द्वितीयमहः सोऽमिष्टोमः कर्तव्यः । अनिष्टोमस्य संवत्सरसार त्वात् । कथमिति चेत्तदुच्यते । अग्निष्टोमादन्य उक्थ्यादिरूपः कथित ऋतुः संवत्सरसत्रावयवभूत एतदह व दाधार नैव धारयितुं शक्तः। पदिष्टान्यङ्गानि सर्वाण्यग्निष्टोमादतिदिश्यन्ते तदेतदग्निष्टोमस्य धारयित तस्मादमिष्टोमव्यतिरिक्तः ऋतुरेतदहर्न विव्याच विवेक्तुमनुष्ठापयितुं न इत्येवं पक्षान्तरवादिनामभिप्रायः।
अस्मिन्पक्षे स्तोमविशेषं विधत्ते
स यद्यग्निष्टोमः स्यादृष्टाचत्वारिंशास्त्रयः पवमा नाः स्युश्चतुर्विशानीतराणि स्तोत्राणि तदु षष्टि श्चैव त्रीणि च शतानि स्तोत्रियास्तावन्ति संव त्सरस्याहान्यहःश एव तत्संवत्सरमारभन्ते, इति । अनिष्टोमपक्षे बहिष्पवमानमाध्यंदिनपवमानार्भवपवमानेषु त्रिषु स्तोत्रे शाचत्वारिंशनामकः स्तोमः कर्तव्यः। स च च्छन्दोगैरेवमानात:-‘षोडशम हिं करोति स तिसृभिः स द्वादशभिः स एकया पोडशभ्यो हिं करोति एकया स तिसृभिः स द्वादशभिः षोडशभ्यो हिं करोति स द्वादशभिः एकया स तिसृभिः’ इति । प्रथमे पर्याये प्रथमाया ऋचत्रिरात्तिः। द्वितीयार दादाकृत्व आवृत्तिः । तृतीयायाः सकृत्पाठः । द्वितीयपर्याये प्रथमाय सकृत्पागे द्वितीयायात्रिरावृत्तिस्तृतीयाया द्वादशकृत्व आवृत्तिः । तृतीय ोये प्रथमाया द्वादशकृत्व आवृत्तिद्वितीयायाः सकृत्पाठस्तृतीयायानिराधार मिलित्वाऽष्टाचत्वारिंशत्स्तो(स्तो)त्रियाः संपद्यन्ते।सोऽयमष्टाचत्वारिंशत्स्तोम तमेतं पवमानेषु त्रिषु कृत्वा शिष्टेषु नवसु स्तोत्रेषु चतुर्विशस्तोमं कुर्यात् । तर सति पवमानस्तोत्रेषु चतुश्चत्वारिंशदधिकशतसंख्याकाः स्तोत्रियाः संपन्त इतरस्तोत्रेषु षोडशाधिकशतद्वयसंख्याकास्ततो मिलित्वा षष्ट्यधिकशतत्रयर ख्याका भवन्ति । संवत्सरगतानामनामपि तावत्त्वादह क्रमेणैव संवत्सरम रभन्ते ।
एवं पक्षद्वयमुपन्यस्य तयोः समविकल्पत्वमभिप्रेत्य पुनरपि पूर्वोक्तमुक्थ्यः पन्यस्यति
उक्थ्य एव स्यात्पशुसमृदो यज्ञः पशुसमृद्धं सत्रं
• सप्तमः खण्डः] ऐतरेयग्रामणम् ।
सर्वाणि चतुर्विशानि स्तोत्राणि प्रत्यक्षाद्ध्येतदह श्चतुर्विशं तस्मादुक्थ्य एव स्यात् ॥१२॥ इति ।
यस्तोत्राणां पशुसाधनत्वादुक्थ्यो यज्ञः पशुसमृद्धः सत्रं च पशु समट कर्तव्यम् । किंचोक्थ्यपक्षे सर्वाणि स्तोत्राणि चतुर्विंशस्तोमकानि । अभियोमपक्षे पवमानव्यतिरिक्तान्येव । तथा सति प्रत्यक्षान्मुख्यवृत्त्यैवैतद वितर्विशं भवति । संख्यान्तरस्य कुत्राप्यप्रविष्टत्वात् । तस्मादुक्थ्य एवं कार्यः। एक्शब्दो विकल्पार्थः । अग्निष्टोम इदमहरुक्थ्यो वेति सूत्रका
वचनात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण भाष्ये सप्तदशाध्याये षष्ठः खण्डः ॥ ६ ॥ (१२) [ १३३ ]
पृष्ठस्तोत्रे चोदकमाप्तं विकल्पितं सामद्वयमनूय प्रशंसति
बृहद्रथंतरे सामनी भवत एते वै यज्ञस्य नावौ संपा रिण्यौ यबृहद्रथंतरे ताभ्यामेव तत्संवत्सरं तरन्ति,इति । त्वामिद्धि हवामहे [६-४६-१] इत्यस्यामृच्युत्पन्न साम बृहत् । अभि त्वा धर नोनुमः [७-३३-२२] इत्यस्यामृच्युत्पन्नं रथंतरम् । एते उभे अपि यज्ञा त्यस्य समुद्रस्य सम्यक्परतीरप्राप्तिसाधनभूते नाचौ । संवत्सरसत्रस्य समुद्ररू पत्वं शाखान्तरे दर्शितम्-‘समुद्रं वा एते प्लवन्ते ये संवत्सरमुपयन्ति’ इति ।
था सति तत्पारनयनहेत्वोः सानोनौरूपत्वं युक्तम् । अतो बृहद्रथंतररूपाभ्यां नोभ्यामेव संवत्सर(र) सत्ररूपं समुद्रं तरन्ति गवामयनस्य पारं गच्छन्तीत्यर्थः।
प्रकारान्तरेण प्रशंसति
पादौ वै बृहद्रथंतरे शिर एतदहः पादा
भ्यामेव तच्छ्यिं शिरोऽभ्यायन्ति, इति । यथा मनुष्यस्य पादौ तथा सत्रस्य बृहद्रयन्तरे सामनी । एतच्चाऽऽरम्भ गीयमहः शिरःस्थानीयम् । ततो यथा लोके पुरुषाः पादाभ्यामेव देशान्त रात्स्वगृहे गत्वा तत्र शिरोऽभिलक्ष्याभ्याकर्णाभरणादिरूपां श्रियमायन्ति मामुवन्ति, एवमेते सत्रिणा सामभ्यामेतदहः प्रामुवन्ति ।
१ ख. ‘प्रतिष्ठत्वा । २ ख.करणाम ।
४७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तदशा
पुनरपि प्रकारान्तरेण प्रशंसति
पक्षौ वै बृहद्रथंतरे शिर एतदहः पक्षा
भ्यामेव तच्छ्रियं शिरोऽभ्यायुवते, इति । यथा लोके पक्षी पक्षाभ्यामेवाऽऽकाशे संचरञ्शिरोऽभिलक्ष्य नानाति दिग्दर्शनरूपां श्रियं मिश्रयत्येवमत्रापि सामभ्यामेतस्मिनहनि श्रियमनप्रात रूपां सत्रिणो युवते मिश्रयन्ति ।
सामद्वयस्य परित्यागं निषेधति
ते उभे न समवसृज्ये य उभे समवसृजे. युर्यथैव च्छिन्ना नौबन्धनात्तीरं तीरमृ च्छन्ती प्लवेतैवमेव ते सत्रिणस्तीरं तीरमृ
च्छन्तः प्लवेरन्य उभे समवसृजेयुः, इति । उभे सामनी न समवसृज्ये न परित्याज्ये एकस्याप्यननुष्ठानमुभयपनि त्यागः। ये सत्रिणोऽनभिज्ञाः सन्त उभयं परित्यजन्ति तेषां छिनन सादृश्यं प्रसज्येत । लोके हि नाविकः सायंकाले नावं कयाचिद्रत तीरस्थे स्थाणी बध्नाति । यदा प्रवाहवेगादात्री सा रज्जुनुध्यति तदान बन्धनस्थाणोश्छिन्ना नौःप्रवाहवेगेनेतस्ततो नीयमाना परतीरमर्वाक्तीरं पुनः पुनः प्रामुवती रक्षकाभावात्प्लवेत यत्र कापि गच्छेत् । एवमेव सत्रिणः सामद्वयाभावे तत्तीरसदृशानहविशेषानृच्छन्तोऽनुतिष्ठन्तोऽपि प्लवे विनश्येयुरित्यर्थः । ये सामद्वयमपि परित्यजन्ति तेषामेवायं दोष इति दर्शरि तुमुभे समवसृजेयुरिति पुनरभिधानम् ।
उभयोः सानोविकल्पितत्वादेकपरित्यागे दोषो नास्तीत्येतदर्शयति तद्यदि रथंतरमवसृजेयुर्वृहतवोभे अनवसृष्टे अथ.
यदि बृहदवसृजेयू रथंतरेणैवोभे अनवसृष्टे, इति । सत्तयोः सानोर्मध्ये यदा रथंतरं परित्यजेयुर्वृहदेवानुतिष्ठेयुस्तदा बृहत प्रयोगसंपूर्तेः फलत उभयमप्यपरित्यक्तमेव भवति । एवं बृहत्परित्यागपक्षण रयंतरेणैव संपूर्तिः।
प्रकारान्तरेण सामद्वयं प्रशंसति यहे रथंतरं तदैरूपं यबृदिरानं यद्रथंतरं तच्छाक्वरं
७ सप्तमः खण्डः] ऐतरेयबामणम् ।
४७५ यबृहत्तदैवतमेवमेते उभे अनवसृष्टे भवतः, इति । पप्रधषडहे पदस्वपि दिवसेषु क्रमेण पृष्ठस्तोत्रनिष्पादकानि पदसामानि तर वैरूपं बृहद्वैराज शाकरं रैवतमिति । तत्र रथंतरस्य बृहतश्चोत्पत्तिस्थानं पयक्तम् । ययाव इन्द्र ते शतम् [ ८-७०-५ ] इत्यस्यामृच्युत्पत्रं वैरूपं माम । पिबा सोममिन्द्र मन्दतु त्वा [७-२३-१] इत्यस्यामच्युत्पत्रं वैराज साम । प्रोष्वस्मै पुरोरथम् [१०-१३३-१] इत्यस्यां गीयमान शाकर साम। रेवतीर्न: सधमादे [१-३०-१३ ] इत्यस्यां गीयमानं रैवतं साम । तत्र बृहद्रथंतरयोरेवात्रोत्तरस्थानीयत्वादशेषसामफलसिद्धयर्थमेते उभे अपरि त्यक्ते एव भवतः, उभयपरित्यागः सर्वथा न योग्य इत्यर्थः।
उक्तस्याहोऽनुष्ठानं प्रशंसति
ये वा एवं विद्वांस एतदहरुपयन्त्याप्त्वा वै तेऽहःशः संवत्सरमाप्त्वाऽर्धमासश आप्त्वा मासश आप्त्वा स्तोमांश्च च्छन्दांसि चाऽऽप्त्वा सर्वा देवतास्तप एव तप्यमानाः सोमपीथं
भक्षयन्तः संवत्सरमभिषुण्वन्त आसते, इति । ये सत्रिणः पूर्वोक्तप्रकारेणैतस्याहो महिमानं विद्वांस एतदहरनुतिष्ठन्ति ते सत्रिणः संवत्सरसत्रमारेणार्धमासद्वारेण मासद्वारेण स्तोमच्छन्दोद्वारेण सर्व देवताद्वारेण प्राप्य तपश्चरन्तो निर्विघ्नं सोमपानं कुर्वन्तः संवत्सरमपि नैरन्तर्येण सोममभिषुण्वन्त आसते विनः कोऽपि न भवतीत्यर्थः । अथ सत्रगतस्योत्तरपक्षस्य प्रत्यवरोहं विधत्ते
ये वा अत ऊर्ध्व संवत्सरमुपयन्ति गुरुं वै ते भारमभिनिदधते स वै गुरुरिः शृणात्यथ य एनं परस्तात्कर्मभिराप्त्वाऽवस्तादुपैति स वै
स्वस्ति संवत्सरस्य पारमश्नुते ॥ १३ ॥ इति । ये वै केचन मन्दबुद्धयः सत्रिणोऽत आरम्भणीयं चतुर्विंशमहः प्रारभ्यो बमानुलोम्येनैतत्संवत्सरसत्रमुपयन्ति, अनुतिष्ठन्ति ते सत्रिणो गुरुं वै मौर व भारमभिनिदधते स्वस्योपरि स्थापयन्ति । स वै गुरुर्भारः स एव शृणाति
१ग. प. अ. ब. . . ट. सं। २ क. “नैव संव।
४७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१७सप्तद प्यारे भारवाहकान्सत्रिणो विनाशयति । अथ पूर्वोक्तवैलक्षण्येन सत्रिण पर त्सरं परस्तादादित ‘आरभ्य विहितैः कर्मभिः पूर्वपक्षगतैराप्त्वा " पक्षेऽवस्तात्मत्यवरोहक्रमेणोपैति, उपयन्त्यनुतिष्ठन्ति । स वै त एव सत्र स्वस्ति क्षेमेण संवत्सरसत्रस्य पारं समाप्तिमश्नुते प्रामुवन्ति । अयमर्थः । अनि किंचिद्विषुवनामकं संवत्सरसत्रस्य मध्ये प्रधानमहस्तस्याधस्ताषण्मास सोऽयं प्रथमः पक्ष उपरिष्टादपि षण्मासाः सोऽयमुत्तरः पक्षः । यथा लो कस्याश्चिच्छालायाः स्तम्भयोः पूर्व दीर्घ वंशं प्रौढं प्रसार्योभयोः पार्थ पक्षद्वयं कुर्वन्ति, एवं संवत्सरसत्रस्यापि । तथा च शाखान्तरे श्रूयते-‘यर शालायै पक्षसी मध्यमं वशमभिसमायच्छति, एव५ संवत्सरस्य पक्षसी दिव कीर्त्यमभिसंतन्वन्ति’ इति । दिवैव मत्राणां कीर्तनीयत्वाद्विषुवनामकमेकं दिन कार्यम् । तत्र पूर्वपक्षरूपे मासषदके यः प्रयोगक्रम एवमुत्तरपक्षेऽपि मासा दकेऽपि तेनैव क्रमेण स प्रयोगो यद्यनुष्ठीयेत तदानीमतिभारः स्यात् । नूतन नुष्ठानविशेषाभावेनाऽऽलस्ये सति वैकल्यं भवति स एव भार इत्युच्यते अतस्तत्परिहारार्थ पूर्वेषु षट्सु मासेषु यानि कर्माणि येनाऽऽनुपूर्येणानुहि तानि तानि कर्माण्युत्तरेषु मासेषु तद्विपरीतक्रमेणानुष्ठेयानि । तथा सत्य लस्याभावादविघ्ननैव संवत्सरसत्रं समाप्यत इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्ये सप्तदशाध्याये सप्तमः खण्डः ॥ ७ ॥ (१३) [ १३४ ]
अथास्मिभारम्भणीये चतुर्विशेऽहनि निष्केवल्यशस्त्रे कंचिद्विशेषं विधत्ते
यदै चतुर्विंशं तन्महाव्रतं बृहदिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्रा प्रजन यति संवत्सरे संवत्सरे वै रेतः सिक्तं जायते तस्मात्समानं बृहदिवो निष्केवल्यं भव त्येष ह वा एनं परस्तात्कर्मभिराप्त्वाऽव.
स्तादुपैति य एवं विद्वानेतदहरुपैति, इति । यदेतद्वितीयं चतुर्विंशमहस्तदेव संवत्सरसत्रस्योपान्त्यं महावताख्यमहर्भवति आरोहक्रमेण चतुर्विशाख्यं पूर्वपक्षगतं द्वितीयमहरवरोहक्रमेण महाव्रताख्यमुपा नत्यत्वाद्वितीयमहर्भवति । अनेन द्वितीयत्वसाम्येन तयोः परस्परमैक्यमुपचयेत( अष्टमः खण्डः ]
ऐतरेयब्राह्मणम्। -
१७७ चोभयत्र बृहदिवसाभ्यमस्ति तदिदास भुवनेषु ज्येष्ठम् [१०-१२०-१] इत्ये
विशब्देन विवक्षितं प्रौढस्य द्युलोकस्य प्राप्तिहेतुत्वात् । एतदेवो. निष्कैवल्यशस्त्रे क्रियते। तथा सत्यस्मिन्द्वितीयेऽहि चतुर्विंशनामके विनाम्ना तदिदासेत्यादिना निष्केवल्यशस्त्रगतसूक्तेन होता रेतः सिञ्चति
। तदेतत्सितं रेतो महाव्रतीयेनोपान्त्येनाहा बृहदिवाख्यनिष्केवल्यसू केन प्रजनयति । अत्र सत्रसंवत्सरमध्य एव रेत सेकः प्रजननं च द्वितीयो पात्यदिवसयोः संपन्नम् । ततो लोकेऽप्येकैकस्मिन्संवत्सरे रेतःसेक उत्प निश्चेत्युभयं संपद्यते । यस्माद्वितीयोपान्त्ययोरबोरुभयोरपि मिलित्वा प्राणिनो जन्मरूपमेकं कार्यमपेक्षितम् । तस्माद्ब्रहदिवनामकेन सूक्तेनोभयत्र निष्के. कल्यशस्त्रं समानमेकरूपं कर्तव्यम् । यः पुमानेवं महाव्रताहसाम्येनात्र सत्रार्थ निफेवल्यकर्तव्यतां विद्वानेतद्वितीयमहरनुतिष्ठति स पुमान्परस्तात्सत्रस्य प्रथ मभाग आनुलोम्येन क्रियमाणैः कर्मभिराप्त्वा प्राप्यावस्तादपरभागे प्रातिलो. म्येनैव संवत्सरमनुतिष्ठति।
वेदनं प्रशंसति
स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद, इति । अथ संवत्सरसत्रस्याऽऽद्यन्ते द्वे अहनी विधत्ते
यो वै संवत्सरस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा
अस्य प्रायणीयोऽवारमुदयनीयः पारम् , इति । यः पुमान्संवत्सरसत्रस्य समुद्रस्थानीयस्यावारमक्तिीरस्थानीयं प्रथममहः पारं परतीरस्थानीयमन्तिममहर्यो वे(हर्वे)द तयोरहोरनुष्ठेयं कर्तव्यं निश्चिनोति स पुमानविनेनैव संवत्सरसत्रस्य पारं समाप्ति प्रामोति । योऽयमतिरात्रसंस्थः म एवास्य प्रायणीय आरम्भेऽनुष्ठेयत्वादाक्तीरस्थानीयः । स एवातिरात्र: पुनरुदयनीयः समाप्तावनुष्ठेयत्वात्परतीरस्थानीयः।
वेदनं प्रशंसति
स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद, इति । उक्तावाद्यन्तावतिरात्रौ प्रशंसति
यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्री वा अस्य
४७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१८अष्टाद ध्याये
प्रायणीयोऽवरोधनमुदयनीय उद्रोधनम् , इति । अवरुध्यते स्वाधीनं क्रियते येन प्रारम्भरूपेण कर्मणा तत्कर्मावरोधन उनुध्यते समाप्यते येन कर्मणा तदुद्रोधनमन्यत्पूर्ववत ।
वेदनं प्रशंसति
स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद, इति । पुनरपि प्रकारान्तरेण प्रशंसति
यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य
प्रायणीयः प्राण उदान उदयनीयः, इति । मायणीयोऽतिरात्रः प्रशब्दसामान्यात्माण इत्युच्यते । उच्छब्दसामान्य दुदयनीयोऽतिरात्र उदानः।
वेदनं प्रशंसति
स्वस्ति संवत्सरस्य पारमश्नुते य एवं
वेद य एवं वेद ॥ १४ ॥ इति । अभ्यासोऽध्यायसमाप्त्यर्थः॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण __ भाष्ये सप्तदशाध्यायेऽष्टमः खण्डः ॥ ८॥ (१४) [१३५ ] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्राज्यधुरंधर
सायणाचार्यकृतावैतरेयब्राह्मणभाष्ये सप्तदशोऽध्यायः ॥१७॥