षोडशोऽध्यायः।
संस्थेष्टीनां वाग्यमश्चत्विजां च
यागादेर्वा देविकानां विशेषाः ॥ संस्थोक्थ्यस्य स्तोत्रशस्त्रप्रक्लप्तिः
शस्त्राण्याहुः शस्त्रिणां होत्रकाणाम् ॥१॥ ज्योतिष्टोमभेद उक्थ्यः समापितः । अथ पोडश्युच्यते । तद्विषयं शंस विधत्ते
देवा वै प्रथमेनाह्नन्द्राय वजं समभरंस्तं द्वितीये नाहाऽसिञ्चस्तं तृतीयेनाहा प्रायच्छंस्तं चतुर्थेऽ
हन्प्राहरत्तस्माच्चतुर्थेऽहन्षोळशिनं शंसति, इति । अग्निष्टोमोक्थ्यादिसंस्थाविशेषः स्वतत्रः क्रतुत्वाद्यथा पृथगनुष्ठातुं योग्य स्तथा षोडशी स्वतत्रः क्रतुः । तथा च शाखान्तरे पठन्ति-‘न वै षोडश नाम यज्ञोऽस्ति यताव पोडश५ स्तोत्र षोडश शस्त्रं तेन पोडशी’ इति । तथ सत्ययं संस्थाविशेषः पृष्ठयषडहचतुर्थेऽहनि प्रयुज्यते। अतस्तत्रैवैतच्छंसनविधा देवाः पुरा पृष्ठयषडहे प्रथमनाहा प्रथमदिवसनिष्पाद्येन सोमप्रयोगेणेन्द्रा वजं समभरन्संपादितवन्तः । अत्र सर्वत्राहःशब्दोऽदा निष्पाद्यसोमप्रयोग भिधत्ते । तत्र संपादितं वनं द्वितीयेनाहाऽसिञ्चन् । सेचनं नाम लोहमयान शङ्ककुगरादीनां तीक्ष्णत्वाय दााय चाग्नौ प्रताप्य यथोचितं नीरे स्थाप सदिदं सेचनं वजे कृतवन्तः । कृत्वा च तृतीयेनाहा तं वज्रमिन्द्राय प्रायच न्दत्तवन्तः । स चन्द्रस्तं वज्रं चतुर्थेऽहनि शत्रोरुपरि प्राहरत् । तस्मात्पृष्टयर रहस्य चतुर्थाहायोगे षोलशिनं शस्त्रं शंसेत् । असावि सोम इन्द्र ते [ १ ८४-१] इत्यादिकं पोळश्याख्यं शस्त्रम् । तथा चाऽऽश्वलायन आह पोळश्यसावि सोम इन्द्र त इति स्तोत्रियानुरूपाविति ।
पोळशिशंसनं प्रशंसति
वज्रो वा एष यत्षोळशी तद्यच्चतुर्थेऽहन्पोळशिनं
. १ क. इ. षोडशि।
। प्रथमः खण्डः] ऐतरेय ब्राह्मणम् ।
शंसति वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तुत्यस्तस्मै स्तर्तवै, इति । घोळशिनो वज्रस्वरूपत्वाद्यः पुमानस्य यजमानस्य स्तुत्यो हिंसनीयस्तस्मै तत तस्य हिंसार्थ वधहेतुं वज्रमेव भ्रातृव्याय प्रहरति ।
तस्य शस्त्रस्य कालं विधत्ते
वज्रो वै षोळशी पशव उक्थानि तं
परस्तादुक्थानां पर्यस्य शंसति, इति । यथा पूर्वनाग्निष्टोमप्रयुक्तानां द्वादशशस्त्राणामुपरि त्रीण्युक्थ्यशस्त्राणि प्रयु कानि तथाऽत्रापि त्रयाणामुक्थशस्त्राणां परस्तादुपरि पर्यस्य पोळशिनेमेव
सेत् । उक्थानां पशुरूपत्वात्पोळशिनो वज्ररूपत्वाचायं क्रम उपपन्नः । तामेतामुपपत्ति प्रकटयति
तं यत्परस्तादुक्थानां पर्यस्य शंसति वज्रेणैव तत्षोळशिना पशून्परिगच्छति तस्मात्पशवो वनेणैव षोळशिना परिगता मनुष्यानभ्युपाव र्तन्ते तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेऽत एव वाचाऽभिषिद्ध उपावर्तते वज्रमेव षोळशिनं पश्यन्वज्रेणैव षोळ शिना परिगतो वाग्घि वजो वासोळशी, इति । तं पोळशिनं यद्यस्मात्कारणादुक्थशस्त्राणां परस्तात्पर्यस्य शंसति । तत्तेन शंसनेन षोळशिरूपेण वज्रेणैवोक्तरूपान्पशून्परिगच्छति परितो नियमेन याति। तस्माल्लोकेऽप्यरण्ये संचारार्थ गताः पशवः पोळशिना वज्रेणैव नियमितत्वा सायंकाले मनुष्यानभिलक्ष्य तत्तगृहेषूपावर्तन्ते । अन्यथा तस्मादरण्यादर म्यान्तरमेव गच्छेयुः । न केवलं तृणचरणार्थमरण्यगतानां सायंकाले पुनरा गमनाय वज्ररूपेण नियमितत्वं किं तर्हि ग्रामेष्वपि । तस्मात्षोळशिवज्रनिय मिनत्वादश्वपुरुषगोहस्त्यादीनामन्यतमः स्वयमेव परप्रेरणामन्तरेणैव परिगतो नियमित आत्मैना(?) स्वयं बन्धनाय तत्स्थाने समागच्छति । किं चात एव
क. स. षोडशि’ । २ क. ट. नमवशं । ख. ‘नमविहृतं शं । ३ ख. त्मनः स्व।
.
४१४ श्रीमत्सायणाचार्यविरचितभाष्यसमतम् -[१६षोडशाध्यादे पोळशिक्जनियमितत्वादेव वाचा शीघ्रमागच्छेत्यादिवाक्येनाभिषिदोऽपि बदः पुरुषो वर्तते । यथा रज्ज्वा बद्धो बलीवर्द आनीयमान आग तद्वाचा बद्धः पुरुषः । अत एवारण्यकाण्डे वक्ष्यति–‘तस्य वास्तन्तिर्ना मानि दामानि तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्व सितम्’ इति । वामात्रेणाऽऽगमने कारणमुच्यते । पोळशिनं वाग्वजरूपमेव पश्यन्षोनि वज्रेणैव नियमितो भवति तद्वारा तस्य वज्रत्वम् । पोळशी च वापैः सूक्तादिभिनिष्पन्नत्वात्स्वयमपि वाघूपो भवति । वाचश्च घनत्वं लोके प्रसिद्धं राजादीनां भर्त्सनादौ वजनहारेणैद चित्ते व्यथोदयात् । तदेवं सर्वनियामकत्वात्षोळशिनः प्रशस्तत्वं सिद्धम् । यदुक्तं पुरस्तादुक्थानां पर्यस्य शंसतीति तंत्रोक्थशस्त्रेभ्य उत्तरकालावस्थानमेव पर्यस्येति शब्देन विवक्षितमिति व्याख्यातमथवोत्तरकालस्य परस्तादिति शब्देनैव सिद्धत्वा त्पर्यस्येति शब्देन शस्त्रगतानामृचामध्ययनपाठाद्विपर्यासोऽभिधीयते । द्विविध षोळशिशस्त्रं विहतमविहृतं च । तत्राविहृतं नामाध्ययनक्रमेणैव शंसनम् । विहतं तु ऋचा परस्परव्यतिषङ्गः । स त्वाश्वलायनेन दर्शितः-‘ऊर्ध्व स्तोत्रि यानुरूपाभ्यां तदेव शास्यं विहरेत्पादान्व्यवधायाधर्चशः शंसत्पूर्वासां पूर्वाणि पदानि गायत्र्यः पतिभिः पतीनां तु दे द्वे पदे शिष्येते ताभ्यां प्रणुयात्’ इति। तदेतदुदाहृत्य प्रदर्श्यते-‘इमा धाना घृतमुवो हरी इहोप वक्षतः । इन्द्रं सुख तमे रथे[१-१६-२] इत्येषा गायत्री। ‘सुसंदृशं त्वा वयं मघवन्वन्दिपीमहि । म नूनं पूर्णवन्धुरः स्तुतो याहि वाँ अनु योजा विन्द्र ते हरी [१-८२-३] योऽयमध्ययनपाठः सोऽविहतः । विहतपाठस्तूच्यते । इमा धाना घृतभुवः सुसंदृशं त्वा वयम् । हरी इहोपवक्षतो मघवन्वन्दिषीमहोमिन्द्रं सुखतमे रये प नूनं पूर्णवन्धुरः । स्तुतो याहि वशाँ अनु योजा विन्द्र ते हरोमिति । अनेन प्रकारेण विपर्यस्य शंसेत् ।
अथ प्रश्नोत्तराभ्यां पोनशिशब्दं निर्वक्ति
तदाहुः किं षोळशिनः षोळशित्वमिति षोळशः स्तोत्राणां षोळशः शस्त्राणां षोळशभिरक्षरैरा दत्ते षोळशभिः प्रणौति पोळशपदां निविदं दधाति तत्षोळशिनः षोळशित्वम् , इति ।
११. स. ट. पोरशि। २ क. म. पोरशि। ३ क. स. ट. तदा त । ४ क. भ. पोटा। ५ क. स.टप्रोक्थ्य श’ । ६ क.. षोडशि ।
। प्रथमः खण्डः ] ऐतरेयनामणम् ।
पोशिशब्दो ग्रहविशेष स्तोत्रविशेषं शस्त्रविशेष चाभिषते । तेषामेकैक पर्वतां पोळशिशब्दवाच्यत्वमयुक्तम् । तच्छन्दमवृत्तौ निमित्तान्तरं तु पश्याम इति ब्रह्मवादिनामभिप्रायः। षोडशसंख्यायुक्तत्वात्षोळशित्व प्रत्युत्तरम् । तत्र कथमिति तदुच्यते । अमिष्टोमसंस्थो ज्योतिष्टोमो द्वादशश गोपेतः। तथा च शाखान्तरे श्रूयते-‘द्वादशामिष्टोमस्य स्तोत्राणि’ इति । तद् त उक्थ्यसंस्थत्रिभिः स्तोत्रैरतिरिच्यते । तस्मात्पञ्चदश स्तोत्राणि भवन्ति । भितः षोळशिसंस्थ एकेन स्तोत्रेणातिरिच्यते । ततः स्तोत्राणां मध्य एत. स्तोत्रप्रयोगः षोडशसंख्यापूरको भवति । तथा शस्त्राणां मध्येऽप्येतच्छन योगः षोडशसंख्यापूरकः । किं चास्मिञ्छस्ने होत्रा संपादिताया अनुष्टुभः धिंगतानि षोडशाक्षराण्युच्चार्यावस्यति । उत्तरार्धगतानि षोडशाक्षराण्यु हार्य प्रणौति प्रणवमुच्चारयति । किं चास्य मदे जरितरित्यादिका षोडशपदो ता निविच्छत्रमध्ये प्रक्षिप्यते । अतो बहुधा षोडशसंख्यायोगादयं प्रयोगः मशिनामोपेतः। प्रकारान्तरेण पोळशिनं प्रशंसति
हे वा अक्षरे अतिरिच्यते षोळ शिनोऽनुष्टुभमभिसंपन्नस्य वाचो वाव
तौ स्तनौ सत्यानृते वाव ते, इति । योऽयं षोळशी सोऽयं यक्षराधिकामनुष्टुभं यदा संप्राप्तो भवति तदानी | इ एवाक्षरे अधिके भवतः । तथा हि सूत्रकारो विहृतस्येत्युपक्रम्य शाखान्त गया इन्द्र जुषस्वेत्यादिका ऋचः पठितवान् । तस्याः पूर्वस्मिनर्धचे षोडशा मराण्युत्तरार्धर्चेऽष्टादश ततोऽक्षरद्वयाधिक्यं वाग्वा अनुष्टुबिति श्रुत्यन्तरे सा
चोऽनुष्टुबवयवत्वात्तदात्मिकाया वाग्देवतायाः स्त्रीरुपाया अधिकाक्षररूपी स्तनो संपद्यते । यदेतल्लोके सत्यवदनं यच्चानृतवदनं तदुभयमपि वाचः स्तन
पमतोऽधिकाक्षरायाः सत्यानृतरूपत्वम् ।
उक्तार्यवेदनं प्रशंसति
अवत्येनं सत्यं नैनमनृतं हिनस्ति
य एवं वेद ॥ १ ॥ इति । १ ख. ‘वत्त्वात्लोळ’ । २ क. षोडशि ३ क… ट. पोडशि ।
।
"
४३६ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम् - [१६षोडशाध्यादे
एनं वेदितारं सत्यवाक्पालयति सुकृतोत्पादकत्वात् । अनृतवाना तिर दुरितस्यानुदयात् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवा.
ह्मणभाष्ये षोडशाध्याये प्रथमः खण्डः ॥ १॥ [ १२२ ]
पोळशिशस्त्रं विधाय पोळशिस्तोत्रनिष्पादकं सामविशेषं विधत्ते
गौरिवीतं षोळशिसाम कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गौरि वीतं तेजस्वी ब्रह्मवर्चसी भवति य एवं
विहान्गौरिखीतं षोळशिसाम कुरुते , इति । केनचिन्महर्षिणा गौरिवीतनाम्रा दृष्टत्वात्सामापि गौरिवीतनामकं तर अभि प्रगोपतिं गिरा [८-६९-४] इत्यस्यामृत्युत्पन्नं तदत्र पोळशिस्तोत्रे सा कुर्वीत । तेजः शरीरकान्तिः । ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः ।
सामान्तरं विधत्ते
नानदं षोळशिसाम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदयच्छत्तमस्मै प्राहरत्त मभ्यहनत्सोऽभिहतो व्यनदद्ययनदत्तत्रानदं सामाभवत्तनानदस्य नानदत्वमभ्रातृव्यं वा
एतदातृव्यहा साम यनानदम्, इति । नानदाख्यं किंचित्साम तत्तु प्रत्यस्मै पिपीषत इत्यस्यामृच्युत्पनं तदेत साम पोळशिस्तोत्रे कर्तव्यमित्यन्ये केचिदाहुः। तस्य नानदत्वं कथमिति तदुच्यते । वज्रप्रहारेणाभिहतो वृत्रो व्यनदद्विशिष्टमुच्चैर्ध्वनि नोनदं कृतवान् स च ध्वनि नदसामाकारेण संपन्नः। ततो नानदोत्पन्नत्वाभानदमिति नाम । तत्साम भ्रातृव्यरहितं तत्परिशीलनवन्तः सर्वेऽपि मैत्रीमेव प्रतिपयन न तु कश्चिदपि द्वेषम् । किं चैतत्साम भ्रातृव्यहा पूर्व विद्यमानस्य शात्रा
र्घातकम् ।
१ ख. तदेतत्षो । २ ख. नादं ।। तृतीयः खण्डः]
ऐतरेयब्राह्मणम् ।
४३७ वेदनं प्रशंसति
अभ्रातृव्यो भ्रातृव्यहा भवति य एवं
विद्वानानदं षोळशिसाम कुरुते, इति । गौरिवीतं नानदं वा सामेत्येवं पक्षद्वयं संपन्नं तयोः पक्षयोः शस्त्रविशेष यवस्थां विधत्ते
तद्यदि नानदं कुर्युरविहृतः षोळशी शंस्तव्योऽ विहृतासु हि तासु स्तुवते यदि गौरिवीतं विहृतः पोळशी शंस्तव्यो विहृतासु हि तासु स्तुवते , इति । अविहतरूपः परस्परव्यतिषगरहितो यथाधीतपाठः सोऽयं नानदपक्षे तव्यः। यतः सामगा अप्यविहृतासु व्यतिषगरहितास्तृक्षु नानदसाना वते तस्मादविहृतत्वमेवात्र योग्यम् । यथा वाव स्तोत्रमेवं शस्त्रमिति यात् । गौरिवीतपक्षे शस्त्रमपि परस्परव्यतिषङ्गेण विहृतं पठनीयं सामगै हृतासु व्यतिषक्तास्वृक्षु गौरिवीतसाना स्तूयमानत्वात् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवा
मणभाष्ये षोडशाध्याये द्वितीयः खण्डः ॥२॥ [१२३] अथ विहरणप्रकारं विधत्ते
अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति गायत्रो वै पुरुषः पाताः पशवः पुरुषमेष तत्पशुभिव्यतिषजति पशुषु प्रतिष्ठा पयति यदु गायत्री च पङ्क्तिश्च ते हे अनुष्टुभो तेनो वाचो रूपादनुष्टुभो रूपाइजरूपान्नैति, इति । अथ सामद्वयविधानानन्तरमतो गौरिवीतपक्षे विहृतस्यापेक्षितत्वात्तदुच्यत इति शेषः । स्वस्वस्थानाद्विभज्यान्यत्र नयनं विहरणम् । तच्च समानच्छन्द लियोरेव भवति । तद्यावृत्त्यर्थमुच्यते-छन्दांस्येव व्यतिषजतीति । परस्पर लक्षणानि च्छन्दांस्येव व्यतिषक्तानि कुरिति । तत्र कस्य च्छन्दसः आ त्वा वहन्तु हरयः०-१-१६-१।उपो षु शृणुही गिरः०-१-८२-१ ।
..
४३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१६षोडशाध्याय केनच्छन्दसा सह व्यतिपा इति तदेतदुदाहरणपूर्वकं प्रदयते । आला न्त्वित्यादिकास्तिस्र ऋचो गायत्रीछन्दस्का उपोष्वित्येका सुसंहशामिल एतास्तिला पलिच्छन्दस्कास्ता उभयीः परस्परं व्यतिषजम्मिश्रयेत । मा प्रथमपादमुक्त्वा तेन सह पड़ेः प्रथमपादमुच्चारयेत् । सोऽयं प्रकारोऽस्मात पूर्वमेवोदाहृतः । लोके पुरुषो गायत्र उपनीतेन गायच्या अनुष्ठेयत्वात । वश्च पासाश्चतुर्भिः पादेर्मुखेन च पश्चसंख्योपेतत्वात् । तत्र गायत्रीपवत्योल नेन पुरुषस्य पशूनां च मेलनं भवति । अतः पुरुषं पशुषु प्रतिष्ठापयति। कि यदूपेणैव कारणेन गायत्री च परिश्च मिलिते सत्ये(त्यौ)ते द्वे अनुएमी संप घेते । गायच्यास्त्रिपादत्वात्पनेश्व पञ्चपादत्वान्मिलित्वाऽष्टानां पादानां विधमा नत्वात्तेनो तेनैव मेलनेन कारणेनायं पुरुषो वापूपादनुष्टुरूपाद्वजरूपाचन कदाचिदपि वियुक्तो न भवति । शस्त्रस्याक्षरात्मकत्वेन वायूपत्वमष्टपादसंपला वनुष्टुन्द्रयरूपत्वं षोडशिनः पश्चादिनियामकत्वेन बजरूपत्वमतो नास्ति विवि धवियोगः।
छन्दोन्तरयोविहरणं विधत्ते यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्युष्णि हश्च बृहतीश्च व्यतिषजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदुष्णिक्च बृहती च ते हे अनु. ष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाहजरूपानैति, इति ।
यदिन्द्र इत्यादिकास्तिस्र उष्णिक्छन्दस्का ऋचोऽयं ते अस्त्वित्यादिका स्तिस्रो बृहतीछन्दस्काः। उपनीतः पुरुषो व्याहत्यक्षरचतुष्टयोपेतां चतुर्विन त्यक्षरां गायत्रीं व्यतिषजत्युष्णिक्चाष्टाविंशत्यक्षरा ततः पुरुषस्यौष्णिहत्वम् पशूनां बाईतत्वं शाखान्तरे भ्रतम्-‘छन्दांसि पशुष्वाजिमयुस्तान्बृहत्युदन यत्तस्माद्वाईताः पशव उच्यन्ते’ इति । बृहती च षट्त्रिंशदक्षरा तर उष्णिग्योगे सति चतुःषष्ठ्यक्षरसंपत्तेरनुष्टुब्दयम् ।
छन्दोन्तरयोविहरणं विधत्ते
आधूर्वस्मै ब्रह्मवीर ब्रह्मकृति जुषाण इति
यदिन्द्र पृतनाज्ये०-८-१२-२५ । अयं ते अस्तु हर्यतः०-३-१४ आधूर्ध्वस्मै दधात०-७-३४-४ । ब्रह्मवीर ब्रह्मकृति ०-७-२९-२।
.
.
..
.
३तृतीयः खण्डः] ऐतरेयबामणम् ।
हिपदां च त्रिष्टुभं च व्यतिषजति दिपाई पुरुषो वीर्य त्रिष्टुप्पुरुषमेव तवीर्येण व्यतिषजति वीर्य प्रतिष्ठापयति तस्मात्पुरुषो वीर्ये प्रति ष्ठितः सर्वेषां पशूनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप्च ते हे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाइवरूपाति, इति । आधर्वमा इत्येषा पादद्वयोपेता ब्रह्मवीरेत्येषा त्रिष्टुप्छन्दस्का । पुरुषस्य गावं प्रसिद्धं त्रिष्टुभो वीर्यहेतुत्वाद्वीर्यत्वं तस्मादुभयमेलनेन पुरुषं वीर्य प्रतिष्ठापयति । तस्माल्लोकेऽपि सर्वेषां द्विपदां चतुष्पदानां पशूनां मध्ये पुरु स्य शक्त्याधिक्यात्पुरुषो वीर्ये प्रतिष्ठितः। द्विपदा चेयं विंशत्यक्षराऽाक्षरे बमे पादे संयुक्ताक्षरयोविभागेन पश्चाक्षरत्वे सति दशसंख्यापूर्तेः। एवं पञ्चा रित्रिष्टुभश्चतुर्णा पादानां संधानं त्रिष्टुप्चत्वारिंशदक्षरा मिलित्वा चतुःषष्टि
पत्याऽनुष्टुब्दयं संभवति । छन्दोन्तरयोविहरणं विधत्ते
एष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति . दिपदाश्च जगतीश्च व्यतिषजति दिपादै पुरुषो जागताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति तस्मात्पुरुषः पशुषु प्रति ष्ठितोऽत्ति चैनानधि च तिष्ठति वशे चास्य यदु दिपदा चषोळशाक्षरा जगती च ते द्वे अनुष्टुभो
तेनो वाचो रूपादनुष्टुभो रूपाइजरूपानैति, इति । एष ब्रह्मेत्यादिकास्तिस्रो द्विपदाः प्र ते मह इत्यादिकास्तिस्रो जगत्यः । ना जागतत्वं शाखान्तरे सोमाहरणकथायां श्रूयते-‘सा पशुभिश्च दीक्षया गच्छत्तस्माज्जगती छन्दसां पशव्यतमा’ इति । यस्मान्मेलनेन पुरुषं पशुषु सापयति तस्मादयं पुरुषः पशुषु प्रतिष्ठितः। तस्मिन्क्षीरादिकमत्ति चैना. पातष्ठति नियमयति च । तस्मादस्य पुरुषस्य वशे सर्वे पशवो वर्तन्ते ।
प्र ते महे विदथे शंसिष०-१०-९१-१।
४४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१६ षोडशाया। यद्यस्मादेव कारणादियं द्विपदा षोडशाक्षरा जगती चाष्टाचत्वाति ततो मिलित्वा चतुःषष्टित्वादनुष्टुन्दयत्वम् ।
छन्दोन्तरसंयुक्ताः काश्विदृचो विधत्ते
त्रिकद्रुकेषु महिषो यवाशिरम् । प्रोष्वस्मै पुरो स्थमित्यतिच्छन्दसः शंसति च्छन्दसां वै यो रसोऽत्यक्षरत्सोऽतिच्छन्दसमभ्यत्यक्षरत्तदतिच्छ. न्दसोऽतिच्छन्दस्त्वं सर्वेभ्यो वा एष च्छन्दोभ्यः संनिर्मितो यषोळशी तद्यदतिच्छन्दसः शंसति
सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते, इति । त्रिकद्रुकेष्विति त्र्यूचे यास्तिस ऋचस्ता अतिच्छन्दोयुक्तास्तथा प्रोष्वस इति ब्यूचोऽपि ता उभयीः शंसेत् । छन्दसां गायत्र्यादीनां यो रसः सारो. त्यक्षरदतिशयेनास्रवत्तदानीं स रसोऽतिच्छन्दसमभिलक्ष्यातिशयेनास्रवन् तस्माच्छन्दोरसस्यातिशयेन स्रवणादतिच्छन्दस्त्वं नाम संपन्नम् । पोडर चोक्तप्रकारेण सर्वेभ्यश्छन्दोभ्यः सम्यनिर्मितस्तस्मादतिच्छन्दसा शंस नायं होतेनं यजमानं सर्वच्छन्दोभ्यो निर्मिमीते ।
वेदनं प्रशंसति
सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळ
शिना राम्रोति य एवं वेद ॥३॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्ये षोडशाध्याये तृतीयः खण्डः ॥ ३ ॥ [ १२४ ]
अथ पूर्वोक्तानामतिच्छन्दसामनुष्टुप्संपादनाय मेलनं विधत्ते
महानानीनामुपसर्गानुपसृजति, इति । विदा मघवनित्यस्मिन्ननुवाके प्रोक्ता ऋचो महानाम्न्यस्तासां संवान उपसर्गाः पञ्चविधाः। ते चाऽऽश्वलायनेन दर्शिताः-‘प्रचेतन प्रचेतयाऽऽया पिव मत्स्व । क्रतुश्छन्द ऋतं बृहत्सुम्न आधेहि नो वसवित्यनुष्टुप्’ इति । प्रचेतनेत्येकः प्रथम उपसर्गः प्रचेतयेति द्वितीयस्तावुभावपि द्वितीयस्या
त्रिकद्रुकेषु महिषो०-२-२२-१। प्रोष्वस्मै पुरोरथ०-१०-१३१-१ ।
। चतुर्यः खण्डः]
एतरयबामणम् ।
४११ सामानातौ । आयाहि पिव मत्स्वेति तृतीय उपसर्गस्तृतीयस्यां महाना यामानातः । ऋतु छन्द ऋतं बृहदित्ययं चतुर्थ उपसर्गः स च षष्ठयां महा शान्यामानातः । सुन्न आधेहि नो वसविति पञ्चम उपसर्गः स चाष्टम्यां
नाम्न्यामानातः । एतेषु पञ्चसूपसर्गेषु मिलित्वा द्वात्रिंशदक्षरसद्भावा टियमेकाऽनुष्टुबिति सूत्रस्यार्थः । इयं चानुष्टुबविहतषोळशिनि तयै(2)व पठ नीया । अन्यत्र तु विहृतषोळशिनि पश्चाप्युपसर्गान्विभज्यातिच्छन्दःसु पश्चम योजनीया । अत एवोपसृज्यमानत्वादुपसर्गा इत्युच्यन्ते । तदेतत्संयोजनमत्रो पसृजतीति शब्देन विधीयते । त्रिकद्रुकेष्विति येयं प्रथमाऽतिच्छन्दास्तस्या अनुःषष्ठ्यक्षरत्वान्न पराण्यपेक्षते सेयमनुष्टुन्द्रयसंपत्तिः शक्येति । द्वितीयस्या मचि तदनुष्टुब्दयं पूरयितुं प्रचेतनेत्यक्षरचतुष्टयं योजनीयम् । तृतीयस्यामृचि प्रचेतयेति योजनीयम् । मोष्वस्मा इत्यादिषु तिसृष्ववशिष्टास्त्रय उपसर्गाः क्रमेण योजनीया सोऽयं प्रकार आश्वलायनेनोक्ता-‘साऽनुष्टुभमतिच्छन्द: सवदध्याद्वितीयतृतीययोः पादयोरवसानत उपदध्यात्मचेतनेति पूर्वस्या प्रचेतयेत्युत्तरस्यामुत्तरास्वितराम्पादान्षष्ठान्कृत्वाऽनुष्टुप्कारं शंसेदिति ।
अथ महानाम्नीः प्रशंसति
अयं वै लोकः प्रथमा महानाम्न्यन्तरिक्ष लोको द्वितीयाऽसौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यः संनिर्मितो यत्षोळशी तयन्महानाम्रीनामुपसर्गानुपसृजति सर्वेभ्य
एवैनं तल्लोकेभ्यः संनिर्मिमीते , इति । मयमत्वादिसाम्येन लोकत्रयरूपत्वमृचा द्रष्टव्यं षोडशिनो लोकत्रयनिर्मि कत्वात् । महानाम्नीनामुपसगैः संयोजने सति तन्निर्माणं सिध्यति ।
वेदनं प्रशंसति
सर्वेभ्यो लोकेभ्यः संनिर्मितेन षोळ
शिना रानोति य एवं वेद, इति । अथ विहरणनैरपेक्ष्येणाध्यापकैः प्रज्ञाता नवानुष्टुभो विधत्ते
१ ख. मन्त्रीवं । १ क.स. ट, ‘नीयाः ।
।३.क. स. ट. ‘ये नि।
११२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१६षोडशाध्याये
प्रम वत्रिष्टुभमिषमर्चत प्रार्चत यो व्यतीर फाणयदिति प्रज्ञाता. अनुष्टुभः शंसति तद्य थेह चेह चापथेन चरित्वा पन्थानं पर्यवेया
तादृक्तद्यत्प्रज्ञाता अनुष्टुभः शंसति, इति । भाव इत्येकस्यूचः प्रथमोऽर्चतेति द्वितीयो यो व्यतीनिति ततीयः यथा लोके कश्चिन्मार्गानभिज्ञस्तत्र तत्र केनचिदपथेन चरित्वा पश्चादन्य मुखेन विज्ञाय समीचीनं पन्थानं परिगच्छेदेवमत्रापि पूर्वोत्तरीत्या कृत्रिम अनुष्टुभः शास्त्वा पश्चादेतासां स्वतःसिद्धानामनुष्टुभां शंसनं द्रष्टव्यम् । . पूर्वत्र सामविशेषमुपजीव्य विहृताविहृतयोः शस्त्रविशेषयोर्व्यवस्था दर्शिता इदानीं पुरुषविशेषमुपजीव्य ता व्यवस्था दर्शयति
स यो व्याप्तो गतश्रीखि मन्येताविहृतं पोळ शिनं शंसयेनेच्छन्दसां कृच्छ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्यादिहृतं षोळशिनं शंसयेव्यतिषक्त इव वै पुरुषः पाप्मना व्यति
षक्तमेवास्मै तत्पाप्मानं शमलमपहन्ति, इति । स लोकप्रसिद्धो यः पुरुषः पुत्रपौत्रादिभिर्व्याप्तो गतश्रीरिव प्राप्तश्रीव समृद्धधन एवाहमिति मन्येत स पुमानविहतं विहरणरहितं पोळशिनं शंस येत् । अविहते शस्त्रे होतारं प्रेरयेत् । तस्य कोऽभिप्राय इति स उच्यते छन्दसां कुच्छात्पूर्वोक्तानां गायत्र्यादीनां विहरणक्लेशादवपद्यै, अवपत्तिमा पदं प्रामुयां तन्मा भूदिति विहरणप्रयुक्तिभीतिद्योतनार्थो नेदिति शब्दः अथ पुमान्पुत्रधनराहित्यरूपं पाप्मानमपजिघांसुरपहन्तुमिच्छन्स्यात्स पुमा विहते शस्त्रे होतारं प्रेरयेत् । अयं पुरुषो दारिद्यादिरूपेण पाप्मना व्यति षक्त इव वै मिश्रित एव तस्माद्विहतप्रयोगेण पापरूपशमलं मालिन्यहेतुन्यात पक्तं दारिद्यादिसंबद्धमपहन्ति ।
वेदनं प्रशंसति
अप पाप्मानं हते य एवं वेद, इति । प्रप्र वत्रिष्टुभमिषमर्चत०-८-१९-१ । भर्चत प्रार्चत०-८-६९-८ । ये व्यतीरफाणयत्०-८-७०-१३ ।
n
। चतुर्थः खण्डः]
ऐतरेयबामणम् ।
४४३ अथ शस्त्रसमापनीयां कांचिहचं विधत्ते
उद्यद्बध्नस्य विष्टपमित्युत्तमया परिदधाति स्वर्गों वै लोको बनस्य विष्टपं स्वर्ग:
मेव तल्लोकं यजमानं गमयति, इति । अस्यामृचि बनस्य विष्टपमिति श्रूयत आदित्यो बध्नशब्दवाच्योऽसावा. टित्यो बध्न इति श्रुत्यन्तरात् । तस्य विष्टपं स्थानं स्वर्गलोकोऽतस्तपाठेन यजमानं स्वर्ग प्रापयति । •
शस्त्रयाज्यां विधत्ते
अपाः पूर्वेषां हरिवः सुतानामिति यति, इति । हे हरिवो है, इन्द्र पोळशिनः पूर्वेषां सुतानां सोमानां रसमिति शेषः । अपाः पीतवानसीति प्रथमपादस्यार्थः।
तमिमं पादं प्रशंसति
सर्वेभ्यो वा एष सबनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुता नामिति यजति पीतवटै प्रातःसवनं
प्रातःसवनादेवनं तत्संनिर्मिमीते, इति । यः पोळशी विद्यत एष सर्वेभ्यः सवनेभ्यः सम्यनिर्मित इत्येवं संपाद नीयम् । तथा सति तंबदपाः पूर्वेषामिति पादं पठेत् । तदानीं तत्र प्रात: सवनं पीतवदिन्द्रेण पीतमेवेत्ययमर्थः प्रतीयते । तस्मादेनं घोडशिनं प्रातःस
नं निर्मितत्वाद्भवति । तस्या ऋचो द्वितीयपादमनूध व्याचष्टे
अथो इदं सवनं केवलं त इति माध्यं दिनं वै सवनं केवलं माध्यंदिना
देवनं तत्सवनात्संनिर्मिमीते , इति । अथो अपि च है, इन्द्रेदं माध्यदिनं सवनं ते केवलं तवैव सर्वम् । उपद्रध्नस्य विष्टप०-८-६९-७। अपाः पूर्वेषां हरिवः०-१०-९६-१३ ।
–
–
–
–
१ क. स. ट. यद्यपाः । २ ख. पोळशि । ३ स. मितो भव।
१४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१६षोडशाध्याय अस्मिन्पादे केवलं सवनमपीन्द्रस्येत्येतदुपपनम् । इन्द्रेण पुरो द्वार माहेन्द्र ग्रहं माध्यंदिनं सवनानां निष्केवल्यादीनां स्वार्थमेव कृतत्वात एतत्पादपाठेन माध्यंदिनसवनात्षोडशी निर्मितो भवति ।
तृतीयपादमनूध व्याचष्टे
ममद्धि सोमं मधुमन्तमिन्द्रेति महदै तृतीय
सवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते, इति । हे, इन्द्र मधुमन्तं माधुर्यरसोपेतं सोमं प्रीत्वा ममद्धि मैद हर्ष प्रामुहि अस्मिन्पादे मदिधात्वर्थः श्रूयते । तृतीयसवनमपि मदै मदिधातुपेतं निवि स्पदेषु मदिधातोर्विद्यमानत्वात् । तस्मादेतत्पादपाठेन षोडशी तृतीयसवनानि मितो भवति ।
चतुर्थपादमनूध व्याचष्टे
सत्रा वृषञ्जठर आवृषस्वेति वृषण्व षोकशिनो रूपं सर्वेभ्यो वा एष सव नेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य
एवैनं तत्सवनेभ्यः संनिर्मिमीते, इति । हे वृषन्वर्षणसमर्थ सत्रा सोमयागरूपे सत्रे जठरे स्वकीय उदर आर पख समन्तात्सोमरसवृष्टिं कुरु । अत्र चतुर्थपादे वृषञ्शब्दो विद्यते । घोर शिस्वरूपमपि वृषण्वद्वर्षणोपेतं तृप्तिहेतुत्वात् । यः षोडशी विद्यते सोऽयमुक्त प्रकारेण सर्वेभ्यः सवनेभ्यो हि निर्मितः। तस्मादपाः पूर्वेषामिति याज्य पाठेन सर्वसवनेभ्य एवैनं निर्मितवान्भवति ।
वेदनं प्रशंसति
सर्वेभ्यः सवनेभ्यः संनिर्मितेन पोळ
शिना रानोति य एवं वेद, इति । अस्या याज्यायाः पादेषु पूर्ववदुपसर्गान्विधत्ते
महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकाद शाक्षरेषु पादेषु सर्वेभ्यो वा एष च्छन्दोभ्यः ।
१ ख. ‘हेन्द्रप्रहाणां मा २ क. स. ट. मोदं ।
पञ्चमः खण्डः] ऐतरेयप्रामणम् ।
संनिर्मिती यत्षोळशी तद्यन्महानानीनां पञ्चा क्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु स
श्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते, इति । पहानाम्नीनामृचां संबन्धिनस्तदीयानुवाके समानाता एवा घेवेत्यादयः शक्षरा उपसर्गास्तानेकादशाक्षरेषु चतुर्वपि पादेषु संयोजयेत् । तथा सति नषध्यक्षरत्वादनुष्टुन्द्रयं संपद्यते । एवं सति यः पोळशी सर्वेभ्यश्छन्दोभ्यो
तिव्यः सोऽयमेतत्संयोजनेन तथैव निर्मितो भवति । वेदनं प्रशंसति
सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळ
शिना राधोति य एवं वेद ॥४॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मण.
__ भाष्ये षोडशाध्याये चतुर्थः खण्डः ॥ ४ ॥ [ १२५ ]
षोडशी समाप्तः । अथातिरात्रो वक्तव्यः। तत्रेन्द्रस्य च्छन्दसां च प्राधान्यं यितुमितिहासमाह
अहर्वे देवा अश्रयन्त रात्रीमसुरास्ते समाव वीर्या एवाऽऽसन्न व्यावर्तन्त सोऽब्रवीदिन्द्रः कश्वाहं चेमानितोऽसुरान्रात्रीमन्ववेष्याव इति स देवेषु न प्रत्यविन्ददविभयू रात्रेस्तमसो मृत्योस्तस्माद्वाप्येतर्हि नक्तं यावन्मात्रमिवैवा
पक्रम्य बिभेति तम इव हि रात्रिर्मृत्यूरिख, इति । 1. पुरा कदाचिदहोरात्रयोर्मध्ये देवा अहरेवाऽऽश्रितवन्तोऽसुराश्च रात्रिमा भिनवन्तः । ते देवाश्चासुराश्च समानबला एवाऽऽसन् । बलाधिक्येन वर्गा नाबाटत्तमितरवर्गस्थानं प्रामुवन् । तदानीमिन्द्रो देवान्मत्यब्रवीत् । मम पायोऽपेक्षितो हे देवा भवतां मध्ये कश्चाई चेमानसुरानरात्रीमनुगतानितो न्या अवेष्यावोऽपसारयिष्याव इति । ततो विचार्य स इन्द्रो देवेषु मध्ये
।
।
.
१ क. हः ट. षोडशी।
.
.
४४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेंतम्- [१६षोडशाध्याय तादृशं शूरं कमपि प्रतीक्ष्य नाविन्दन लब्धवान् । रात्रे संवन्धि यत्तयो सदृशं तस्मात्तमसो मृत्योरिव सर्वे देवा अबिभयुर्मीता अभवन् । वानां भीतिस्तस्मादिदानीमपि यावन्मात्रमिवैव यत्किचिदपि वा व गृहादपक्रम्य सर्वः पुरुषो विभेति । तम इव हि तमोरूपैव रात्रिस्तस्मायन रिव भयहेतुः।
अथ च्छन्दसामिन्द्रसहकारित्वं दर्शयति
तं वै छन्दांस्येवान्ववायंस्तं यच्छन्दांस्येवान्व वायंस्तस्मादिन्द्रश्चैव च्छन्दांसि च रात्रीं वहन्ति न निविच्छस्यते न पुरोरुङ्न धाय्या नान्या
देवतेन्द्रश्च ह्येव च्छन्दांसि च रात्री वहन्ति, इति । तं वा असुरनिराकरणाय प्रवृत्तं तमेवेन्द्रमेकं गायत्र्यादिच्छन्दांस्येवान्नव यअनुगम्य निराकर्तुं गताः। यस्मादेवं तस्मादिन्द्रच्छन्दांस्येवातिरात्रप्रयो रात्रीं वहन्ति रात्रिप्रयोगस्य निर्वाहकाणि भवन्ति । इन्द्रविषयच्छन्द स्येव तत्र शस्यन्ते न तु निविद्वा पुरोरुग्वा धाय्या वा देवतान्तरं वा किनि
छस्यते । तस्मादिन्द्रश्छन्दांसि चेत्येतावन्त एव निर्वाहकाः। तेषामिन्द्रच्छन्दसामसुरनिराकरणसाधनं दर्शयति
तान्दै पर्यायैरेव पर्यायमनुदन्त यत्पर्यायैः
पर्यायमनुदन्त तत्पर्यायाणां पर्यायत्वम्, इति । तान्वै रात्रिमाश्रितानसुरान्पर्यायश्चमसगणानां क्रमानुष्ठानैरेव पयो स्तत्र तत्र यतमाना यागभूमौ परीत्यानुदन्त निराकृतवन्तः। यत्र यत्रामुर मुप्ता अवस्थितास्तत्र तत्र प्रयत्नेनावेक्ष्य निःसारितवन्तः । द्वादशान चमसगणानामनुष्ठानाय त्रयः पर्याया एकैकस्मिन्पर्याये चत्वारो गणा अर टीयन्ते । यस्मात्परितो गत्वा गत्वा चमसपर्यायनिराकृतवन्तस्तस्मात्परिगर निराकरणसाधनत्वात्पर्यायत्वं संपनम् ।
क्रमेण निराकरणप्रकारं दर्शयति
तान्दै प्रथमेनैव पर्यायेण पूर्वराबादनुदन्त मध्यमेन मध्यरात्रादुत्तमेनापररात्राव, इति ।
१ क. झ. ‘न्द्रश्छन्दांस्येवाङ्गतयाऽति।पः खण्डः]
ऐतरेयबामणम् । दश घटिका एकैको भाग इत्येवं राखयो भागाश्चत्वारश्वमसगणा पर्याय इत्येवं द्वादशानां चमसगणानां त्रयः पर्यायास्तैः क्रमेण रात्रि मायादसुरानपानुदन्त । तस्मिनिराकरणे छन्दसां सौकर्याधिक्येन प्रशंसां दर्शयति
अपि शर्वर्या अनुस्मसीत्यब्रुवन्नपिशवराणि खलु वा एतानि छन्दांसीति ह स्माऽऽहैतानि हीन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयंस्त
दपिशर्वराणामपिशर्वरत्वम् ॥ ५॥ इति । है, इन्द्र वयमपि शर्वर्याः कृत्स्नाया रात्रेः सकाशादसुरानपसारयितुं त्वाम म्य स्मसि तिष्ठाम इत्येवं छन्दांस्यब्रुवन् । तदेतद्वाक्यमैतरेयः श्रुत्वा तदा पवेतानि च्छदास्यपिशर्वराण्येवेति नाम्ना व्यवहृतवान् । एतच्च युक्तम् । मान्मृत्योरिव रात्रेस्तमसो विभ्यतमिन्द्रमेतानि च्छन्दांस्यत्यपारयन्यस्मा जो रात्रिमतीत्य नीतवन्ति तस्मात्कारणाच्छवर्याः सर्वस्मादपि पारनयनं
यितुमपिशवराणीति नाम च्छन्दसां युक्तम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा. ह्मणभाष्ये षोडशाध्याये पश्चमः खण्डः ॥५॥ [ १२६ ]
इन्दस्य च्छन्दसां च प्राधान्यमभिहितम् । अथ शस्त्रं विधातव्यं पोडशि नं पूर्ववदनुष्ठाय पोडशिन ऊर्ध्व रात्रिपर्यायाः शंसनीयास्तत्र त्रयः पर्या स्तकपर्यायश्चतुःशस्त्रोपेतः । होतुरेकं शस्त्रं होत्रकाणां च त्रयाणामेकैकमिति
ट्रयम् ।
अत्र प्रथमपर्याये होतुः शस्त्रं विधत्त
पान्त मा वो अन्धस इत्यन्धस्व
त्याऽनुष्टुभा रात्री प्रतिपद्यते, इति । अन्धःशब्दो यस्यामच्यस्ति सेयमन्धस्वती । सा चात्रानुष्टुप्छन्दस्का तया में रात्रिशस्त्र प्रतिपद्यते प्रारभेत । तस्यामृचि च्छन्दः प्रशंसति ___ आनुष्टुभी वै रात्रिरेतद्रात्रिरूपम्, इति ।
पान्त मा वो अन्धसः०-८-९२-१।।
१४८
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१६षोडशा
गायत्रीत्रिष्टुब्जगत्यनुष्टुभां मध्ये गायत्र्यादीनां त्रयाणां सवनत्रयता इनि प्रयुक्तत्वादनुष्टुभः प्रयोगाय रात्रिरेव कालः परिशिष्यते तमा ग्रुप्संबद्धत्वादियमनुष्टुब्रात्रे स्वरूपम् ।
अथ त्रिषु पर्यायेषु शस्त्रयाज्यां विधत्ते
अन्धस्वत्यः पीतवत्यो महत्यस्त्रिष्टुभो याज्या
भवन्त्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्, इति । अन्धःशब्दो यास्त्रक्ष्वस्ति ता अन्धस्वत्यस्तादृश्यश्चतस्र ऋचः प्रथमपर्या होत्रादीनां चतुर्णा शस्त्रयाज्याः कर्तव्यास्ताच त्रिष्टुप्छन्दस्का एव । तत्रा येवो भरतेन्द्राय सोममित्येषा होतुः शस्त्रयाज्या। सा चान्धस्वती त्रिष्टुष्ट न्दस्का च । तस्या द्वितीयपादे सिञ्चता मघमन्ध इत्यन्धःशब्दः श्रूयते । एक मितरेषां त्रयाणां शस्त्रयाज्या उदाहरणीयाः। पिबतिधातुर्यास्त्रक्ष्वस्ति ता पीतवत्यस्तादृश्यो मध्यपर्याये याज्याः कर्तव्याः। अपाय्यस्यान्धसो मद येति होतुः शस्त्रयाज्या । तत्रापाय्येति पिबतिधातुः श्रूयते । मदिधातुर्यास स्वस्ति ता मद्वत्यः । तादृश्यस्तृतीयपर्याये याज्याः कर्तव्याः। सिष्ठा हा इत्येषा होतुः शस्त्रयाज्या । तस्या अवसाने ररिमा ते मदायेति मदिधात श्रूयते । एवं सर्वमुदाहार्यम् । रात्रावनभोजनादन्धस्वतीनामानुरूप्यं क्षी पानात्पीतवतीनां तत ऊर्व हर्षान्मद्वतीनामेवमानुरूप्ये सति तत्तत्कर्म सम भवति ।
प्रथमपर्याये प्रयोगविशेषं विधत्ते
प्रथमेन पर्यायेण स्तुवते प्रथमान्येव पदानि पुनराददते यदेवैषामश्वा गाव
आसंस्तदेवैषां तेनाऽऽददते, इति । यदा सामगाः प्रथमेन पर्यायेण स्तुवते तदानी स्तोत्रियाणां प्रथमपादा न्दिरभ्यस्यन्ति । एवं शस्त्रेऽपि पुरुहूतं पुरुष्टुतमित्यादिकाः प्रथमपादा द्विरम सनीया यथा वाव स्तोत्रमेवं शस्त्रमित्युक्तत्वात् । एवं सत्येषामसुराणाम, गाव आसमिति यदस्ति तत्सर्वमसुराणां धनं तेन प्रथमपादाभ्यात स्वी कुर्वन्ति ।
१ ख. त्रिष्टुभः ।२ ख. दादि द्विर । ३ ख. दिकः प्रथमः पादो द्विरभ्यसनीयः । ॥
। षष्ठः खण्डः] ऐतरेयनामणम् ।
द्वितीयपर्याये विशेष विधत्ते
मध्यमेन पर्यायेण स्तुवते मध्यमान्येव पदानि पुनराददते यदेवैषामनो रथा
आसंस्तदेवैषां तेनाऽऽददते , इति । अयं त इन्द्र सोम इत्यस्यामृचि निपूतो अधि बहिषीत्येवं मध्यमः पादो भ्यसनीयः । एषामसुराणामनः शकटं यदस्ति ये च रथास्तत्सर्वे तेना भ्यासेन स्वीकृतं भवति ।
तृतीयपर्याये विशेष विधत्ते
उत्तमेन पर्यायेण स्तुवत उत्तमान्येव पदानि पुनराददते यदेवैषां वासो हिरण्यं मणि
रध्यात्ममासीत्तदेवैषां तेनाऽऽददते, इति । इदं ह्यन्वोजसा सुतमित्यस्यामृचि पिबात्वस्य गिर्वणः । पिबात्वस्य गिर्वण इत्युत्तमस्य पादस्य द्विरभ्यासः । आत्मानं शरीरमधिकृत्य वर्तत इत्यध्या समसुराणां शरीरेऽवस्थितं वासो हिरण्यं मणिरित्येवमादिकं सर्व गृहीतं भवति ।
वेदनं प्रशंसति
आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो
लोकेभ्यो नुदते य एवं वेद , इति । दिषतः शत्रोः सकाशात्तदीयं धनमादत्त एनं शत्रु सर्वेभ्यो लोकेभ्यो निर्गुदते निराकरोति ।
अत्र कंचित्प्रश्नमुत्थापयति
पवमानवदहरित्याहुन रात्रिः पवमा नवती कथमुभे पवमानवती भवतः
केन ते समावदाजी भवत इति, इति । पहिष्पवमानो माध्यंदिनः पवमान आर्भवः पवमानश्चेत्येवमहनि पवमान पात्रयं विद्यते न तु रात्रौ तदस्त्यत उभयोः पवमानत्वं कयं सिध्यति । तद सदा च केनोपायेनाहश्च रात्रिश्चेत्येते समावद्भाजी भवतः समानभागयुक्त
वित इति प्रश्नवादिन आहुः।
.
.
.
"
,
४५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[१६षोडशाध्याय
तत्रोत्तरमाह
यदेवेन्द्राय मद्दने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती तेनोभे पवमान
वती भवतस्तेन ते समावदाजी भवतः, इति । यदेवेन्द्राय मदने सुतमिदं वसोसुतमन्ध इदं ह्यन्वोजसा सुतमिति तामि ताभिस्तिमृमिरुद्गातारः स्तुवन्ति । होतारः शंसन्ति । अहनि यथा विष्ण पवमोनस्तात्रनामसु पवमानशब्दोऽनुवृत्त एवमत्रापि तिसृष्वृक्षु सुतशब्दोऽ वृत्तोऽतः पवमानसाम्याद्रात्रिः पवमानवती । तेन प्रकारेणोभयोः पवमानवर साम्ये सति तुल्यभागत्वं सिध्यति । पुनरपि प्रश्नान्तरमुत्थापयति
पञ्चदशस्तोत्रमहरियाहुन रात्रिः पञ्चद शस्तोत्रा कथमुभे पञ्चदशस्तोत्रे भवतः
केन ते समावद्भाजी भवत इति, इति । अग्निष्टोमस्तोत्राणि द्वादश उक्थ्यस्तोत्राणि त्रीण्येतान्यहनि प्रयुज्यन्ते तस्मादहः पञ्चदशस्तोत्रोपेतं रात्रौ तु न तानि विद्यन्ते । कथं पञ्चदशस्तोत्र साम्येन तयोर्भामसाम्यं सिध्यतीति प्रश्नः।
तत्रोत्तरमाह
द्वादश स्तोत्राण्यपिशवराणि तिसृभिर्दे वताभिः संधिना रायंतरेण स्तुवते तेन रात्रिः पञ्चदशस्तोत्रा तेनोभे पञ्चदशस्तोत्रे
भवतस्तेन ते समावदाजी भवतः, इति । द्वादशमु चमसगणपर्यायेषु द्वादश स्तोत्राणि विद्यन्ते तान्यपिशवराणि रात्रावनुष्ठेयानां छन्दसामपिशवरसंज्ञा पूर्वमुक्ता । तैश्छन्दोभिनिष्पायत्वा स्तोत्राण्यपि तमामकानि । रथंतरसाना निष्पाचं यत्संधिस्तोत्रं तत्र तिख
इन्द्राय मदने सुतं०-८-९२-१९ । इदं वसो सुतमन्ध:०-८-२१ इदं बन्योजसा सुतं०-३-११-१० ।
"
पछः खण्डः]
ऐतरेयब्रामणम् ।
४५१ नाश्रयन्ते । ताभिः स्तोतव्याभिस्तिमृभिर्देवताभिः स्तोत्रमपि त्रेधा भिद्यते। कारणेन ताभिः पञ्चदशस्तोत्रा संपन्ना । तथा सत्युभयोरहोरात्रयोः त्रसंख्यासाम्यात्समानभागोपेतत्वं सिध्यति । शस्त्रबाहुल्यं प्रशंसति परिमितं स्तुवन्त्यपरिमितमनुशंसति परिमितं वै भूत मपरिमितं भव्यमपरिमितस्यावरुद्धया इति, इति । उद्गातारः परिमितं यथा भवति तथा स्तुवन्ति । त्रिवृत्पश्चदश(शः) सप्त. दस एकविंश इत्येवं चतुभिरेव स्तोमैरत्र सर्वस्तोत्रनिष्पत्तः । होता त्वपरिमितं क्या भवति तथाऽनुशंसति । शंसनीया ऋच एतावत्य एवेति सर्वत्रानुगतस्य संख्यानियमस्य कस्यचिदभावात् । पूर्वभाविनः स्तोत्रस्य परिमितत्वमुत्तरभा विनः शस्त्रस्यापरिमितत्वं च लौकिकन्यायानुसारि । लोके भूतं पूर्व संपादितं धनं परिमितमियदेवेति नियतिरस्ति भव्यमितः परं संपादनीयं धनमपरिमितं कृष्णाया निरवधिकत्वेनैतावदेव संपादयिष्यामि न त्वधिकमिति नियतेरमा वात् । तस्मादुपरितनशंसनबाहुल्यमपरिमितधनमाप्त्यै भवतीत्यभिप्रेत्य होतु परिमितमनुशंसनम् ।
प्रकारान्तरेण शस्त्रबाहुल्यं प्रशंसति
अति शंसति स्तोत्रमति वै प्रजाऽऽत्मानमति पशवस्तवत्स्तोत्रमति शंसति यदेवास्यात्या
स्मानं तदेवास्यैतेनावरुन्धेऽवरुन्धे ॥६॥ इति । स्तोत्रगतामुक्संख्यामतिलध्य होता शंसतीति यदस्ति तद्युक्तमेव । लोके मात्मानमतिलध्य प्रजानां चावस्थितत्वात । स्वयमेक एव पुत्रादयस्तु बहवो महाश्चादिपशवश्च बहवस्तस्मादात्मस्थानीयं स्तोत्रं प्रजापशुस्थानीयशस्त्राधि पिन यदेव प्रजापवादि धनं तस्य यजमानस्य स्वात्मानमतिक्रम्याधिकमभीष्ट उत्सवमस्य यजमानस्य होता संपादयति । पदाभ्यासोऽध्यायसमाप्त्यर्थः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय.
ब्राह्मणभाष्ये षोडशाध्याये षष्ठः खण्डः ॥ ६॥ [ १२७ ] रति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्राज्यधुरं. घरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये षोडशोऽध्यायः ॥१६॥