१५

अथ पञ्चदशोऽध्यायः ।

अग्निष्टोमः सर्वयज्ञक्रतूनां

योनित्वेनास्तूयत प्राक्परस्तात् । देवैः स्तोमैः संस्तुतोऽसौ चतुभि

वर्वाचा मन्दैमध्यमरुत्तमैश्च ॥ १॥ अयेष्टिसंस्थादिकं वक्तव्यम् । तत्र दीक्षणीयेष्टेः संस्थामाख्यायिकया दर्श यति

यज्ञो वै देवेभ्योऽन्नाद्यमुदक्रामत्ते देवा अब्रु वन्यज्ञो वै नोवाद्यमुदकमीदन्विमं यज्ञम नमन्विच्छामेति तेऽब्रुवन्कथमन्विच्छामेति ब्राह्मणेन च च्छन्दोभिश्चेत्यब्रुवंस्ते ब्राह्मणं छन्दोभिरदीक्षयंस्तस्यान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्मादाप्येतर्हि दीक्षणी यायामिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः

संयाजयन्ति तमनन्यायमन्ववायन् , इति । पुरा कदाचिद्यज्ञो ज्योतिष्टोमाख्यः केनापि निमित्तेनापरक्तः सन्देवेभ्यः सकाशादुदक्रामनिष्क्रान्तवान् । तस्मिनुत्क्रान्ते तत्फलरूपमन्नायमुदक्रामत् । ततो देवाः परस्परमिदमब्रुवन्यदेतदुभयमस्मदीयमुदक्रामत्तदेतदुभयं सर्वत्रान्वि च्छामान्वेषणं करवाम । तत्र कथमन्वेषणमित्युपायं विचार्य ब्राह्मणमृत्विग्य जमानरूपं गायच्यादिच्छन्दांसि च तदन्वेषणोपायत्वेन निश्चित्य तैश्छन्दा भिर्ब्राह्मणं यजमानरूपमदीक्षयन्दीक्षणीयेष्ट्या संस्कृतवन्तः । तस्य ब्राह्मणस्य यज्ञं दीक्षणीयेष्टिरूपमान्तं समाप्तिपर्यन्तमतन्वत विस्तारितवन्तः । तं याम नुष्ठाय पत्नीनामिका देवता अपि समयाजयन्पत्नीसंयाजानुष्ठानमपि कृतः वन्त इत्यर्थः । यस्मादेवं देवैः कृतं तस्मादेव कारणादिदानीमपि दीक्षणी यायामिष्टौ चोदकमाप्तं यज्ञं समाप्तिपर्यन्तमनुतिष्ठन्ति । पत्नीसंयाजानप्यनु तिष्ठन्ति । उत्तरकालीनाङ्गव्यावृत्तये पत्नीसंयाजग्रहणम् । पत्नीसंयाजेरख समाप्तिरित्यभिप्रेत्याऽऽन्तमित्युक्तम् । तं देवैः कृतमनन्यायमनुक्रमगतमनुष्ठान

प्रथमः खण्डः]

ऐतरेयबामणम् ।

पश्चान्मनुष्या अप्यन्ववायनवगतवन्तोऽनुष्ठितवन्त इत्यर्थः । तमनन्याय ते वाक्यमुत्तरशेषत्वेन वा योज्यम् । दीक्षणीयेष्टेः पत्नीसंयाजेषु समाप्तिं दर्शयित्वा प्रायणीयस्य शंयुवाके समाप्ति दर्शयति

ते प्रायणीयमतन्वत तं प्रायणीयेन नेदीयोऽ न्वागच्छंस्ते कर्मभिः समत्वरन्त तच्छंय्व न्तमकुर्वस्तस्माद्वाप्येतर्हि प्रायणीयं शंय्व

न्तमेव भवति तमनन्यायमन्ववायन , इति । तं देवाः प्रायणीयाख्यं कर्मानुष्ठितवन्तः प्रायणीयेन कर्मणा तं पूर्वोक्तदी. क्षणीयेष्टिरूपं ज्योतिष्टोमरूपं वा यज्ञं नेदीयोऽत्यन्तसमीपे यथा भवति तथै बान्नगच्छन्ननुष्ठितवन्तः । दीक्षणीयेष्टरुय चिरं व्यवधानमकृत्वा मायणीय पनुष्ठितवन्त इत्यर्थः । ते देवाः कर्मभिः प्रायणीयाङ्गरूपैः समत्वरन्त सम्य कचरां कृतवन्तः । दीक्षणीयेष्टिवत्पत्नीसंयाजपर्यन्तं नान्वतिष्ठन्कितु त्वरी कृत्वा पत्नीसंयाजेभ्यः पूर्वमेव शंयुवाकपर्यन्तं कृत्वोपरताः । तस्माद्ध त्यादि पूर्ववत् ।

अथाऽऽतिथ्येष्टेरन्तं दर्शयति

त आतिथ्यमतन्वत तमातिथ्येन नेदीयोऽ न्वागच्छंस्ते कर्मभिः समत्वरन्त तदि लान्तमकुर्वस्तस्माद्वाप्येतातिथ्यमिळा

न्तमेव भवति तमनुन्यायमन्ववायन्, इति । अनुयाजेभ्यः पूर्व यदिडोपाहानं तदन्तमेवाऽऽतिथ्येष्टिकर्म कृत्वोपरताः। अन्यत्पूर्ववद्याख्येयम् ।

अथोपसत्स्वनुष्ठेयं दर्शयति

त उपसदोऽतन्वत तमुपसद्भिर्नेदीयोऽन्वाग च्छंस्ते कर्मभिः समत्वरन्त ते तिस्रः सामिधे नीरनूच्य तिम्रो देवता अयजस्तस्मादाप्येत र्युपसत्सु तिन एव सामिधेनीरनूच्य तिस्रो

.

..

..

. - .

.

  • ..

४१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१९पञ्चदच्या

देवता यजन्ति तमनुन्यायमन्ववायन् , इति ।

• तिस्रः सामिधेन्य आश्वलायनेन दर्शिता:-‘उपसद्याय मीही र एकैकां त्रिरनवानं ताः सामिधेन्यः’ इति । अग्निः सोमो विष्णता देवताः । स्पष्टमन्यत् ।

अथाग्रीषोमीयपशावनुष्ठेयं दर्शयति

त उपवसथमतन्वत तमुपवसथ्येऽहन्याप्नुवं स्तमाप्त्वाऽऽन्तं यज्ञमतन्वतापि पत्नीः सम याजयंस्तस्माद्धाप्येतर्युपवसथ आन्तमेव यज्ञ

तन्वतेऽपि पत्नीः संयाजयन्ति , इति । उपवसथशब्देन सोमयागसमीपवासितत्वात्पूर्वस्मिन्नहन्यनुष्ठेयोऽग्नीषोमीय पशुर्विवक्षितः । तं पशुं देवा उपवसथ्येऽहनि सोमयागदिनात्पूर्वेधुः मामुन न्माप्य च तं यज्ञं समाप्तिपर्यन्तमनुष्ठितवन्तः । पत्नीसंयाजानप्यन्वतिष्ठन् दीक्षणीयेष्टिवत्पत्नीसंयाजान्तत्वमेव द्रष्टव्यम् । स्पष्टमन्यत् ।

उक्तास्विष्टिषु होतुरनुवचनस्य मन्द्रस्वरं विधत्ते

तस्मादेतेषु पूर्वेषु कर्मसु शनै

स्तरां शनैस्तरामिवानुबया , इति । यस्मादग्नीषोमीयात्पूर्वभावित्वेनोपक्रमरूपा दीक्षणीयादयस्तस्मादेतेषु पूर्वे दीक्षणीयाद्युपसदन्तेषु कर्मसु शनैस्तरामिवात्यन्तनीचस्वरेणैव होताऽनुबयाद अग्नीषोमीयपशी होतुरनुवचने ध्वनेरिका(डा)नुसारित्वं विधत्ते

अनूत्सारमिव हि ते तमायंस्तस्मादुपव सथे यावत्या वाचा कामयीत तावत्याऽ

नुबूयादाप्तो हि स तर्हि भवतीति, इति । अनूत्सारमुत्तरोत्तरभावी सार उत्सारस्तमनुसृत्यानुसृत्येति तस्याय दीक्षणीयेष्टेः सारभूता मायणीयोष्टिः । तदपेक्षया सोमयागस्य समीपवर्तित्वात एवमातिथ्यादिषु द्रष्टव्यम् । ईदृशमुत्तरोत्तरसारमनुसृत्य ते देवास्तं सोमया’ मायन्माप्तवन्तः। तस्मादत्यन्तसार उपवसथेऽग्नीषोमीयपशौ होता यावर वाचा कामयीत यावन्तमुच्चध्वनिमिच्छेत्तावता ध्वनिनाऽनुवचनं कुपाद तर्हि तस्मिममीषोमीयपशुकाले स सोमयागः प्राप्ती भवतीति होतुरभिषा५७

१ द्वितीयः खण्डः ] ऐतरेयब्रामणम् ।

यी वस्तुनि बन्धौ वा चिरकालेन प्राप्ते जाते हर्षयोतनायोषध्व निना गानं कुर्वन्ति तद्वदत्रापि द्रष्टव्यम् ।

देवानां यज्ञप्राप्त्युपायमभिधायानायमाप्त्युपायं दर्शयति

तमाप्त्वाऽब्रुवंस्तिष्ठस्व नोऽन्नाधायेति स नेत्यब्रवीत्कथं वस्तिष्ठेयेति तानीक्षतैव तमबु वन्ब्राह्मणेन च नश्छन्दोभिश्च सयुग्भूत्वाऽ वाद्याय तिष्ठस्वेति तथेति तस्माद्वाप्येतर्हि यज्ञः सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च च्छन्दोभिश्च ॥४५॥ इति । ते देवास्तं ज्योतिष्टोमयज्ञ प्राप्येदमब्रुवन् । हे यज्ञ नोऽस्माकममाघसि सर्थ तिष्ठस्य स्थिति कुर्विति । स यज्ञस्तद्वाक्यं निराकरोत् । अन्नायनि पादकं साधनमन्तरेण वो युष्मदर्थ कथं स्थितः स्यामिति स्वाभिप्रायमन. वीत् । तेष्वनुग्रहद्योतनाय तान्देवानीक्षतैव पश्यन्नेवाऽऽस्त न तूपेक्षां कृतवान् । ततो देवा यज्ञस्याभिप्रायं ज्ञात्वा ते देवास्तं यज्ञमिदमब्रुवन् । हे या नोऽस्म दर्य त्वं साधनेन ऋत्विग्यजमानरूपेण ब्राह्मणेन तत्तन्मत्रगतैश्छन्दोभिव सयुग्भूत्वा सहावस्थितो भूत्वा पश्चादनाधाय तिष्ठस्वागी कुर्विति । तथा पनोऽप्यङ्गी चकार । यस्मादेवं तस्मादिदानीमपि यज्ञो ब्राह्मणमवसहितो भूत्वा देवेभ्योऽनाद्यरूपं हविर्वहति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवान णभाष्ये पञ्चदशाध्याये प्रथमः खण्डः ॥ १॥ (४५) [११६]

दीक्षणीयादिष्वनीषोमीयान्तेषु होतुर्ध्वनिविशेषं विधायान्ते बामणेन. विना यानिष्पत्तिरित्युक्तं तत्र वय॑ब्राह्मणविशेष दर्शयितुं प्रस्तौति

वीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्ण वान्तम् , इति । जग्धं भक्षितावशिष्ट भोजनपाने स्थितम् । गीर्णमुदरे प्रविष्टम् । वान्तं सदुदरे प्रविश्य पुननिर्गतम् । तान्येतानि त्रीणि दर्बदिभिर्य क्रियन्ते । कवादिस्थानीयानि त्रीणि वानीत्यर्थः ।

११८. श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१९पञ्चद ध्याये.

तत्र जग्धस्थानीयं दर्शयित्वा निषेधति

तद्वैतदेव जग्धं यदाशंसमानमाविज्यं कारयत उत वा मे दद्यादुत वा मा वृणीतेति तद तत्परा

डेव यथा जग्धं न हैव तद्यजमानं मुनक्ति, इति । कश्चिद्वामण आत्विज्यमाशंसते कामयते । केनाभिप्रायेणेति तदच्यते । आत्विज्यार्थ यज्ञशालां मयि गते सति यजमानो मे मह्यमुत वा दद्या. किचिद्धनं वा प्रयच्छेदुत वा मा वृणीत प्रयोगाभिझं मां दृष्ट्वा त्वमालिज्य कुर्विति वृणीतेत्येवं धनार्जनलम्पटः सन्ननुष्ठानतात्पर्यरहितो निरन्तरमात्विज्य कामयते । तादृशं कामयमानं पुरुषं यजमान आत्विज्यं कारयत इति यदस्ति तदेव जग्धम् । यथा लोके जग्धं पात्रस्थितं भक्षितावशिष्टमुच्छिष्टत्वादि तरैरस्पृश्यं तथा तद्ध तस्मिन्नेव यागे तल्लम्पटस्याऽऽत्विज्यं पराडेच निक टमेव । तत्ताशमात्विज्यं यजमानं न भुनक्ति न पालयति यज्ञो विकलो भवतीत्यर्थः।

गीर्णमुदाहृत्य निषेधति

अथ हैतदेव गीर्ण यद्विभ्यदार्विज्यं कारयत उत वा मा न बाधेतोत वा मे न यज्ञ वेशसं कुर्यादिति तद्व तत्पराडेव यथा

गीर्ण न हैव तद्यजमानं भुनक्ति, इति । यजमानो यस्मिन्ग्रामे यजते तत्र कश्चिद्रामणो ग्रामणीः प्रभूर्भूत्वा प्रयो. गकौशलरहितोऽवतिष्ठते । तेनाऽऽत्विज्यं वर्जयितुमयं यजमानो बिभेति । केनाभिप्रायेणेति तदुच्यते । अयमत्र प्रभुमयि द्वेषं कृत्वा कालान्तरे मा पाषेत । अथवेदानीमेव यज्ञवेशसं यशविघातं कुर्यात् । तदुभयं मा भूदित्यने नाभिप्रायेण तस्माद्रीवि प्रामुवनात्विज्यं तेन प्रभुणा कारयत इति यदस्ति तदेतवीर्णम् । यथा लोके गीर्णमुदरस्थं पुनर्भोगयोग्यं न भवति तथा तद तस्मिन्यागे तद्भीतिमात्रमयुक्तमात्विज्यं पराञ्च निकृष्टमेव । तत्वादशं प्रयोग कौशलरहितेन प्रभुणा कृतमात्विज्यं यजमानं न पालयति ।

बान्तं दर्शयित्वा निषेधति

अथ हैतदेव वान्तं यदभिशस्यमानमार्खिज्यं

। द्वितीयः खण्डः] ऐतरेयबामणम् ।

कारयते यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एवं तस्माद्देवास्तव तत्पराव

यथा वान्तं न हैव तद्यजमानं भुनक्ति, इति । कश्चित्पुरुषः प्रयोगकुशलोऽपि केनचित्पातित्यापवादेन सनिन्द्यते तार मभिशस्यमानं यजमानः स्वकीयबन्धुत्वादिदाक्षिण्येनापवादपरिहारार्थमा विज्यं कारयत इति यदस्ति तदेतद्वान्तम् । तत्रेदं निदर्शनमुच्यते । यथा होके मनुष्या वान्ताद्वीभत्सन्ते वान्तं दृष्ट्वा कश्मलमेतदिति निष्ठीवनं कुर्युरेवं वास्तस्मादभिशस्यमानकृतादात्विज्यात्सर्वे बीभत्सन्ते । ततो यथा लोके आन्तमतिनिकृष्टं तथा तस्मिन्यज्ञे तदात्विज्यमतिनिकृष्टं तच्च यजमानं सर्वथा

पालयति । वय॑त्वेनोक्तं त्रिविधमुपसंहरति

स एतेषां त्रयाणामाशां नेयात, इति । स यजमान एतेषां पूर्वोक्तानां धनलम्पटभयहेत्वभिशस्तानां त्रयाणामा. विज्यार्थ मनस्यपेक्षामपि न कुर्यात् ।।

अथ प्रमादकृतस्य प्रायश्चित्तं दर्शयति

तं यद्येतेषां त्रयाणामेकंचिदकाममभ्याभवेत्त

स्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिः, इति । यदि कदाचिदेतेषां धनलम्पटादीनां त्रयाणां मध्ये वर्तमानं तं पुरुषमेक चिदेकमप्यकाममबुद्धिपूर्वमभ्याभवेदभिलक्ष्याऽऽत्विज्यं भवेत्तदानीं तस्य वैक त्यस्य प्रायश्चित्तिरस्ति । कुत्रास्तीति तदुच्यते । वामदेव्यस्य स्तोत्रे वामदे महर्षिणा दृष्टं साम वामदेव्यं कया नश्चित्र आभुवत् [४-३१-१] इत्येत स्यामृच्युत्पन्नं तच्च साम व्यूचे गायन्त उद्गातारः पृष्ठस्तोत्रमनुतिष्ठन्ति । तत्र कश्चित्मयोगविशेषः प्रायश्चित्तिः।

उक्तं साम प्रशंसति

इदं वा वामदेव्यं यजमानलोकोऽ

मृतलोकः स्वर्गो लोकः, इति । यजमानस्य लोकः पृथिवी । अमृतलोको बुद्धिपदम् । स्वर्गो देवलोकः ।

पमान

४२० श्रीमत्साषणाचार्यविरचितभाष्यसमेतम्-[१५पञ्चद ध्याये इदं वा उक्तलोकत्रयमिदं सर्वमपीदं वामदेव्यम् । कया नश्चित्र इत्यस्यायन त्पनमिदं सामगानां प्रसिद्धं वामदेव्याख्यं साम ।

तस्मिन्सानि कर्तव्यं प्रायश्चित्तप्रकारं दर्शयति

तत्रिभिरक्षरैन्यूँनं तस्य स्तोत्र उपसृप्य

धाऽऽत्मानं विगृह्णीयात्पुरुष इति, इति । तद्वामदेव्यं साम त्रिभिरक्षरैन्यूँनम् । कया नश्चित्र इत्यादिकस्यूचो गायत्री छन्दस्कस्तस्य च च्छन्दसस्त्रिषु पादेषु प्रत्येकमष्टावक्षराण्यपेक्षितानि । अभीषुण इत्येतस्यां तृतीयस्याचि प्रतिपादं सप्तैवाक्षराणि । अतस्त्रिभिरक्षरैन्यूनत्वम् । तस्य वामदेव्यस्य साम्नः संबन्धिनि स्तोत्र उपसृप्य गानं प्रक्रम्याऽऽत्मान स्ववाचकं पुरुष इति शब्दं त्रेधा विगृह्णीयात् । प्रत्यक्षरं विभज्यकैकस्मिन्पादे प्रक्षिपेत् । तद्यथा । अभीषुणः सखीनां पु अविता जरितॄणां रु शतं भवास्यू तिभिः ष इति प्रक्षिप्य गायेत् ।

उक्तमकारेणाऽऽत्विज्ये वैकल्यपरिहारं दर्शयति

स एतेषु लोकेष्वात्मानं दधात्यस्मिन्य जमानलोकेऽस्मिनमृतलोकेऽस्मिन्स्वर्गे

लोके स सर्व दुरिष्टिमत्येति, इति । स कृतप्रायश्चित्तो यजमान एतेषु लोकेषु स्वात्मानं स्थापयति । त एवं प्रयो लोका अस्मिनित्यादिना स्पष्टी क्रियन्ते । स यजमानः सर्वा दुरिष्टिं दोषोपेतं यज्ञमत्येत्यतिक्रामति ।

एवं नैमित्तिकमक्षरत्रयप्रक्षेपं विधाय नित्यप्रयोगेऽपि तं विधत्ते

अपि यदि समृदा इव ऋत्विजः स्युरिति ह

स्माऽऽहाथ हैतज्जपेदेवेति ॥ ४६ ॥ इति । होत्रादय ऋत्विजो यद्यपि समृद्धा इव धनलाम्पठ्यादिपूर्वोक्तवैकल्यरहिता एव स्युस्तथाऽप्येतत्पुरुष इत्यक्षरत्रयं स्तोत्रे जपेदेवत्यैतरेयो मुनिराह स्म ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम

भाष्ये पञ्चदशाध्याये द्वितीयः खण्डः ॥२॥ (४६) [११७)

पूर्वत्र यज्ञो ब्रामणेन च्छन्दोभिश्च सयुग्भूत्वा हव्यं वहतीत्युक्तम् । तत्र प्रामणयुक्तो वक्तव्यविशेषोऽभिहितः।

हतीयः खण्डः] ऐतरेयबामणम् ।

४२१ अय च्छन्दःप्रयुक्तं विशेषमाह

छन्दांसि वै देवेभ्यो हव्यमूदवा श्रान्तानि जघनार्धे यज्ञस्य तिष्ठन्ति यथाऽश्वो वाऽश्व तरो वोहिवांस्तिष्ठेदेवं तेभ्य एतं मैत्रावरुणं

पशुपुरोळाशमनु देविका हवींषि निर्वपेत् इति । गायत्र्यादीनि च्छन्दांसि देवार्थ हव्यवहनं कृत्वा श्रमं प्राप्य यज्ञस्य जघ गरे पश्चिमभागे कचित्तूष्णीं तिष्ठन्ति । यथा लोके कश्चिदश्वो वा गर्दभाव सांकर्येण जातोऽश्वतरो वोहिवान्भारवहनं कृतवान्सन्दूरदेशे वहनेन श्रान्तस्ति देवमेतानि च्छन्दांस्यपि । तेभ्यः श्रान्तेभ्यः श्रमपरिहारार्थ हवींषि निर्वपेत् । देविका इति तेषां हविर्विशेषाणां नाम । कस्मिन्काले निर्वाप इति तदुच्यते । ग्रस्यावसाने योऽयमनुबन्ध्याख्यः पशुबन्धस्तस्य पशोः संबन्धी मित्रावरुण देवताको यः पुरोडाशस्तमनु तस्मिन्ननुष्ठिते पश्चानिर्वपेत् । । तत्र प्रथमं इविविधत्ते

धात्रे पुरोळाशं द्वादशकपालं

यो धाता स वषदकारः, इति । धातनाम्ने देवाय द्वादशसु कपालेषु संस्कृतं पुरोडाशं निर्वपेत् । योऽयं पानृनामको देवः स वषदकारस्वरूपः । तेन पुरोडाशेन वषट्कारदेवतायाः भयोऽपगच्छति।

द्वितीयं हविविधत्ते

अनुमयै चरुं याऽनुमतिः सा गायत्री, इति । कलाहीने साऽनुमतिः पूर्णे राका निशाकर इत्यभिधानाचतुर्दशीमिश्रा पूर्णि पाऽनुमतिशब्दवाच्या । तदभिमानिन्या देवताया अपि तदेव नाम । तस्या शानुमतेर्गायत्रीरूपत्वात्तदीयः श्रमोऽपगच्छति ।

तृतीयं इविविधत्ते

राकायै चरुं या राका सा त्रिष्टुप्, इति । पूर्ववयाख्येयम्।

चतुर्थपञ्चमे हविषी विधत्ते

सिनीवाल्यै चरं या सिनीवाली. सा

साऽनुष्यप

काममानिदेवता सा

१२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१५पञ्चद् ध्याये

जगती कुवै चरुं या कुहूः साऽनुष्टुप्, इति । सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूरित्यमावास्याद्वैविध्यममा तम् । तदभिमानिदेवतायास्तदेव नामेति पूर्ववद्योजनीयम् । इतरेषां मन कथं श्रमपरिहार इत्याशङ्कय सर्वेषामन्येषामुक्तच्छन्दोनुवर्तित्वात्तावतैव श्राति परिहार इत्यभिप्रेत्याऽऽह

एतानि वाव सर्वाणि च्छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि

हि यज्ञे प्रतमामिव क्रियन्ते, इति । एतान्येव गायत्र्यादीनि चत्वारि सर्वच्छन्दोरूपाणि । अन्यानि तष्णिा दीनि गायत्र्यादिकमनुसृत्यैव वर्तन्ते। यस्मादेतानि चत्वारि यज्ञप्रयोगे प्रता मिव प्राचुर्यातिशयेनैव क्रियन्ते प्रयुज्यन्ते तस्मादेतदनुसारित्वमितरेषां युक्तर

उक्तार्थवेदनपूर्वमनुष्ठानं प्रशंसति

एतैर्ह वा अस्य च्छन्दोभिर्यजतः सर्वै

श्छन्दोभिरिष्टं भवति य एवं वेद, इति । एतैर्गायत्र्यादिभिः सर्वैरुष्णिगादिभिः । विद्वत्पसिया छन्दांसि प्रशंसति

त? यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति च्छन्दांसि वै तत्सु

धायां ह वा एनं छन्दांसि दधति, इति । वाजोऽयं हविर्लक्षणं तयुक्तो ज्योतिष्टोमो वाजी। स च सुहितः सम्यग नुष्ठितः सुधायाममृते स्वर्गे दधाति यजमान स्थापयतीति शेषः । अनेन प्रका रेण तद्वै तस्मिन्नेव यज्ञप्रतिपादके शास्त्रे यदिदं वचनमभिज्ञाआहुस्तत्तुच्छन्दा सि वै तद्वचनं यथोक्तगायत्र्यादिच्छन्दांस्येवाभिलक्ष्योक्तम् । यस्माच्छन्दा स्येनं यजमानं सुधायां स्वर्गे स्थापयन्ति तस्माच्छन्दोभिमायेणेतद्वचः युक्तम् ।

वेदनं प्रशंसति

अननुध्यायिनं लोकं जयति य एवं वेद इति ।

कृतीयः खण्डः]

ऐतरेयबामणम् ।

४२३ मनसाऽनुध्यातुमनहमत्यपूर्वसुखोपेतं लोकं पामोति । अत्र कंचित्पूर्वपक्षमुद्भावयति तबैक आहुर्धातारमेव सर्वासां पुरस्तात्पुरस्तादा ज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति, इति । तद तस्मिन्नेव च्छन्दसां श्रमपरिहारार्थे हविषां पञ्चके केचित्पूर्वपक्षिण माहुः । सर्वासामनुमत्यादीनां स्वीदेवतानां पुरस्तात्पुरुषदेवतारूपं धातार•

ज्यद्रव्येण परितो यजेत् । सर्वसंग्रहार्थे पुरस्तादिति वीप्सा । तत्तेन त्रि धादविषयप्रयोगेणाऽऽसु सर्वासु स्त्रीदेवतासु मिथुनं संपादयति । तमिम पूर्वपक्षं दूषयति

तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र

समानीभ्यामृग्भ्यां समानेऽहन्यजतीति, इति । तदु वै तत्रैव पूर्वोक्तविषये केचिदभिज्ञा एवमाहुः। यत्र यस्मिन्प्रयोगे मानीभ्यामेकविधाभ्यामुग्भ्यां समानेऽहन्नेकस्मिन्नेवाहनि यजति तदेतदनु धानं यज्ञे जामि वै, आलस्यमेव क्रियते संपाद्यते । प्रयुक्तयोरेव!ः पुनः प्रयोगस्य चर्वितचर्वणसदृशत्वात् । धातृदेवताके पुरोडाशे धाता ददातु दाशुष इति पुरोनुवाक्या । धाता प्रजानामिति याज्या । तत्र यद्युपरितनानामपि चतुर्णा हविषां पुरस्तादाज्येन धातारं यजेत्तदानीमिदमुन्द्रयं पुनरपि चतुर्वा रमावतेनीयम् । तथा सति नीरसो यज्ञः फलं दातुं समर्थो न भवेदित्यर्थः ।

कथं तर्हि मिथुनसिद्धिः स्यादित्याशङ्क्य लौकिकदृष्टान्तेन तसिद्धि अपादयति

यदिह वा अपि बहव्य इव जायाः पतिर्वाव तासां मिथुनं तद्यदासां धातारं पुरस्ताद्य

जति तदासु सर्वासु मिथुनं दधाति, इति । पादह वा यद्यपि लोके जाया बढ्य इव बहुसंख्याका एव स्युस्तयाऽपि आताव पतिरेक एव संस्तासां मिथुनं संपादयति । तथा सति यद्यासामनु पादानों पुरस्तादातारं सकृदेव यजति तदानीमासु सर्वास्वनुमत्यादिषु स स एव पाता मियुनं संपादयति ।

४२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१५पञ्चदव्या वक्ष्यमाणैईविभिः सांकर्यशका वारयितुमुक्तार्थ विविच्य निगमयति

म् ॥४७॥ इति । अनेनोक्तप्रकारेण देविकाभिधानां देवतानां हवींष्युक्तानीति शेषः॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये पञ्चदशाध्याये तृतीयः खण्डः ॥ ३ ॥ (४७) [११८]

हविरन्तराणि प्रतिजानीते

अथ देवीनाम, इति। अथ देवीनामकानां देवतानां हवींषि निर्वपेदिति शेषः । तत्र प्रथमं इविविधत्ते

सूर्याय पुरोळाशमेककपालं यः सूर्यः

स धाता स उ एव वषवारः, इति । एककपालं निर्वपेदिति शेषः । सूर्यस्य पूर्वोक्तं धातृस्वरूपत्वं तद्वारा व द्वाररूपत्वं चोपचर्य तदीयश्रमापनयो द्रष्टव्यः ।

उत्तराणि चत्वारि हवींषि विधत्ते

दिवे चरुं या द्यौः साऽनुमतिः सो एव गायत्र्यु पसे चरुं योषाः सा राका सो एव त्रिष्टुब्गवे चरुं या गौः सा सिनीवाली सो एव जगती पृथिव्यै

चरूं या पृथिवी सा कुहूः सो एवानुष्टुप्, इति । प्रथमहविर्वद्याख्येयम् । एतेषां हविषां प्रशंसार्थ पूर्वोक्तमर्थवादं पुनरपि पठति

एतानि वाव सर्वाणि च्छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रत मामिव क्रियन्त एतैर्ह वा अस्य च्छन्दोभिर्य जतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद तदै यदिदमाहुः सुधायां ह वै वाजी सुहितो धाः तीति च्छन्दांसि वै तत्सुधायां ह वा एनं

। चतुर्थः खण्डः ] ऐतरेयब्राह्मणम् ।

छन्दांसि दधस्यननुध्यायिनं लोके जयति य एवं वेद तबैक आहुः मूर्यमेव सर्वासां पुरस्ता पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यां समानेऽहन्य जतीति यदिह वा अपि बह्वय इव जायाः पतिर्वाव तासां मिथुनं तद्यदासां सूर्य पुरस्ता

द्यजति तदासु सर्वासु मिथुनं दधाति, इति । धातारमित्येतस्य स्थाने सूर्यमित्येतावानेव विशेषः । अन्यत्सर्वं पूर्ववत । देविकानानां देवीनाम्नां च हविपा तुल्यं सामर्थ्यमभिप्रेत्य विकल्प शयति

ता या इमास्ता अमूर्या अमूस्ता इमा अन्य तराभिर्वाव तं काममानोति य एतामूभयीषु, इति । ता देवीनाम्ना प्रसिद्धा इमा इदानीमुक्ताः सूर्याय पुरोडाशमित्यादयो । गः सन्ति ता अमः प्राक्तनग्रन्थेनोक्ता धात्रे पुरोडाशमित्यादयो देविकाः । एवं देवीरुद्दिश्य देविकातादात्म्यमुक्तम् । अथ देविका उद्दिश्य देवीता. दात्म्यमुच्यते । या अमूः पूर्वत्रोक्ता देविकाः सन्ति ता इमा इदानीमुक्ता दव्यः । एवमन्योन्यतादात्म्ये सति यः काम एतासूभयविधासु लभ्यते तं काममन्यतराभिर्वाकविधाभिरेव पामोति । तस्माद्विकल्पेन प्रयोग इत्यर्थः।

अथ नैमित्तिकं समुच्चयं विधत्ते ता उभयोर्गतश्रियः प्रजातिकामस्य संनिर्वपेत्, इति । अनूचानादीनां मध्ये कश्चिद्गतश्रीः। तथा च श्रुत्यन्तरे श्रूयते-‘त्रयो वै गतश्रियः शुश्रुवान्प्रामणी राजन्यः’ इति । तादृशो गतश्रीर्यदि प्रजाति प्रजो

मुचित्य निर्वपेत् ।

धनकामस्य समुच्चयं निषेधति

न खेषिष्यमाणस्य, इति । १क, ग, घ, रु. च, छ, ह. अ. ट. ति नेत्वे ।

४२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१९पञ्चदा

धनमपेक्षमाणस्य तु नैव संनिर्वपेत् । उभयविधानां समुचित्य । न कार्यः।

विपक्षे बाधकं दर्शयति

यदेना एषिष्यमाणस्य संनिर्वपेदीश्वरो हास्य वित्ते

देवा अरन्तोर्यदा अयमात्मनेऽलममंस्तेति, इति । वित्तमेषिष्यमाणस्य यद्यना उभयीः समुचित्य निर्वपेत्तदानीमस्य धनका मस्य वित्ते देवाः सर्वेऽप्यरन्तोरीश्वरः(?) अरन्तुमक्रीडितुं समर्था भवन्ति एतदपेक्षितं वित्तं द्विषन्तीत्यर्थः । तत्र हेतुरुच्यते । यदै यस्मादेव कारणादा धनार्थी, आत्मने स्वार्थमेवालममंस्त संपूर्ण वित्तं मनसा ध्यातवान् । धन लोभेन यागादिषु प्रवृत्तत्वादेतदपेक्षिते धने देवानां द्वेषो युज्यते।

धनकामस्य समुच्चयं निषिध्य प्रजाकामस्य पूर्वत्र विहितं समुच्चयमर्थवा देन प्रशंसति

ता ह शुचिदृक्षो गौपालायनो वृद्धद्युम्नस्याऽऽ भिप्रतारिणस्योभयीर्यज्ञे संनिरुवाप तस्य ह रथगृत्सं गाहमानं दृष्ट्वोवाचेत्थमहमस्य राज न्यस्य देविकाच देवीश्चोभयीर्यज्ञे सममादयं यदस्येत्थं स्थगृत्सो गाहत इति चतुःषष्टिं कव

चिनः शश्वद्वास्य ते पुत्रनप्तार आसुः॥४८॥ इति । शुचयः शुद्धाः समीचीनपुष्पफला वृक्षा यस्य महर्षेराश्रमे सोऽयं नाच वृक्षनामकः । सम्यक्तृणोदकप्रदानेन गोशुश्रूषां करोतीति गोपालनामा कश्चि दृषिस्तस्यापत्यं गौपालायनः पूर्वोक्तनामकः शुचिक्षः । वृद्धं प्रभूत पुन धनं यस्य राज्ञः सोऽयं वृदयुम्नः। अभितः शत्रून्प्रकर्षण तरति निराकराता त्यभिप्रतारी कश्चिद्राजा तस्य पुत्र आभिप्रतारिणः पूर्वोक्तो वृद्धद्युम्नः। तस्य राज्ञो यज्ञे देविका देवीश्वोभयीरित्थमनेन शास्त्रोक्तप्रकारेण सममादयं समु चित्य मादितवानस्मि समुच्चयानुष्ठानेन तत्तद्देवता हर्षितवानस्मि। तत्प्रसादाद रथगृत्सो राजपुत्रः क्रीडार्थ जले गाहत इति । न केवलं शुचिक्षेण । रथगृत्स एवैकः किंतु चतुःषष्टिसंख्याकाः शश्वत्कवचिनः सवेदा युद्धाय६ पञ्चमः खण्डः]

ऐतरेयब्राह्मणम् । अस्य वृद्धघुम्नस्य राज्ञस्ते तथावयस्का एव पुत्राः पौत्राश्वाऽऽसः॥

मायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्ये पञ्चदशाध्याये चतुर्थः खण्डः ॥ ४॥ (४८) [ ११९ ]

मोतियोमस्तावत्सप्तसंस्थः समाप्तिभेदात्सप्तविधः। अनिष्टोमोऽत्यग्निष्टोम सध्यः षोडशी वाजपेयोऽतिरात्रोऽसोयोम इति सप्त संस्था इत्याश्वलायने अभिहित्वात । तत्रामिष्टोमसान्ना यज्ञायज्ञीयाख्येन यत्र समाप्तिः सोऽयं प्रथमरूपोऽग्निष्टोमः । स सर्वोऽपि पूर्वत्रोक्तः । अथोक्थ्यसंस्थारूपो ज्योति होमो वक्तव्यः।

तदर्थमाख्यायिकामाह

अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समा वहीर्या एवाऽऽसन्न व्यावर्तन्त तान्भरद्वाज ऋषी णामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयव , इति । यदा देवा अग्निष्टोममाश्रितवन्तस्तदानीमसुरा अप्युक्थनामकानि स्तो | पाणि शस्त्राणि चाऽऽश्रित्यावस्थिताः। ततस्ते देवाश्चासुराश्च यज्ञे तुल्यवीर्या एवाऽऽसन्न तु देवाः शौर्याधिक्येन व्यावृत्ति प्राप्तास्तदानीमृषीणां मध्ये सूक्ष्मदर्शी भरद्वाजस्तानसुरावहस्युक्थपरानपश्यत् । दृष्ट्वा चैवमुवाच-इमे रहस्यवस्थिता असुरा उक्थेषु स्तोत्रशस्नेष्वाश्रितास्तानसुरानेषां देवानाम पाणां च मध्ये न कोऽपि पश्यतीति । तथोक्त्वा स भरद्वाजोऽसुरनिराक रणार्थ केनचिन्मत्रेणाग्निमुदहयदुच्चध्वनिनाऽऽहानं कृतवान् ।

तमिमं मनं दर्शयति . एयू षुब्रवाणि तेऽग्न इत्थेतरा गिर इति, इति । इन एयु आगच्छैव ते तव सब्रवाणि शोभनं कार्य कथयानि । इतरा

यार्थव्यतिरिक्ता गिरोऽसुरवाच इत्थेत्थमनेन प्रकारेण श्रुत्यन्तरा

दिति शेषः।

अस्मिन्मत्र इतरशब्दार्थ दर्शयति

असुर्या ह वा इतरा गिरः, इति । एयू षुब्रवाणि तेऽग्न-६-१६-१६ ।।

इत्यर्थः।

४२८

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१५पञ्चद ध्याये असुरेभ्यो हिता असुर्यास्ताश्च गिरो देववाक्यादितरा देवविरोधिन तथाऽग्निषाक्यं दर्शयति

सोऽग्निरुपोत्तिष्ठनब्रवीकिंस्विदेव मह्यं

कृशो दीर्घः पलितो वक्ष्यतीति, इति । भरद्वाजेनाऽऽहृतोऽग्निस्तत्समीपं प्रत्यागन्तुमुत्तिष्ठन्नेवमब्रवीत् । मामनाये सर्षिः किंस्विदेव किंनाम वक्ष्यतीति । कृशो दीर्घः पलित इत्यषिविशेष. णानि ।

तानि च स्पष्टी करोति

भरद्वाजो ह वै कृशो दीर्घः पलित आस, इति । स्पष्टोऽर्थः। किंस्वित्पलितो वक्ष्यतीत्यग्निना पृष्टस्य भरद्वाजस्योत्तरं दर्शयति

सोऽब्रवीदिमे वा असुरा उक्थेषु श्रिता

स्तान्वो न कश्चन पश्यतीति, इति । स भरद्वाजोऽनि प्रत्येवमब्रवीत् । इमे वा इत्यादि पूर्ववयाख्येयम् ।

अधोक्थस्तोत्रस्य साधनभूतं साकमश्वनामकं साम यदस्ति तदयं नाम निर्वक्ति

ताननिस्श्वो भूत्वाऽभ्यत्यद्रवद्यदग्निरश्वो भूत्वाऽभ्यत्यद्रवत्तत्साकमश्वं सामाभव

त्तत्साकमश्वस्य साकमश्वत्वम्, इति । सोऽग्निर्भरद्वाजस्योत्तरं श्रुत्वा तत ऊर्ध्व स्वयमश्वाकारो भूत्वा तानमुरा नभिलक्ष्यात्यद्रवदतिशयेनागच्छत् । असुराणामुपरि वेगवन्तमात्मरूपमा प्रवासुरान्मारितवानित्यर्थः । यस्मात्स्वयमश्वाकारो भूत्वा तैरसुरः साद युद्धं कृत्वा जितवांस्तस्मादेतद्वत्तान्तसूचनाय प्रवृत्तायामेलू पुनवाणि त इत्या दिकायामृच्युत्पन्नस्य साम्नः साकमश्वमिति नाम संपन्नम् । तस्य सान्न उक्थस्तोत्रनिष्पादकत्वं विधत्ते- .

तदाहुः साकमश्वेनोक्थानि प्रणयेदप्रणीतानि वाव तान्युक्थानि यान्यन्यत्र साकमश्वादिति, इति ।

(षष्ठः खण्डः]

.

ऐतरेयब्राह्मणम् । तत्तत्र साकमश्वविषये प्रयोगाभिज्ञा आहुः साकमधनामकेन साना स्तोत्रा. सत्यनामकानि प्रणयेत्साकमवादन्यत्र सामान्तरेण यान्युक्थानि स्तोत्राणि जीयन्ते तान्यप्रणीतान्येव भवन्ति तस्मादिदमेव सामोक्थस्तोत्रनिष्पादकम् । पक्षान्तरं विधत्ते

प्रमंहिष्ठीयेन प्रणयेदित्याहुः प्रमंहिष्ठीयेन

वै देवा असुरानुक्थेभ्यः प्राणुदन्त, इति । प्र महिनाय गायतेत्यस्यामृच्युत्पन्नं साम प्रमंहिष्ठीयं तेन सानोक्थस्तो गणि निष्पादयेत् । उक्थेष्वाश्रितानसुरान्देवा एतेन साम्रोक्थेभ्यो निरा.

कृतवन्तः ।

उभयोः सानोरैच्छिकं विकल्पं दर्शयति तत्पाहैव प्रमंहिष्ठीयेन नयेत्प्र साकमश्वेन ॥४९॥ इति । अहेत्ययं शब्दोऽन्यत्र निषेधार्थोऽप्यत्र विकल्पार्थः । निपातानामनेकार्थ वान् । तान्युक्थस्तोत्राणि प्रमंहिष्ठीयेन साना प्रणयेत् । अहैवाथवा साकम

न साम्ना प्रणयेत् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्ये पञ्चदशाध्याये पञ्चमः खण्डः ॥५॥ (४९) [१२०]

उक्थस्तोत्रेषु सामविशेषं विधायोक्थशस्त्रेषु सक्तं विधातुमादी मैत्रावरुण के किंचित्सूक्तं विधत्ते

ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाह चेमानितोऽसुरानो त्स्यावहा इत्यहं चेत्यब्रवीदरुणस्तस्मादै न्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंसती न्द्रश्च हि तान्वरुणश्च ततो नुदेताम्, इति । यस्य ऋतारमिष्टोमविक्रतिवादतिदिएमग्निष्टोमप्रयोगमनाय तत अध्वे सायास्त्रयाऽनुष्ठेयाः । तथा चाऽऽपस्तम्ब आह-‘उक्थ्यश्वेदानिशे यात्रभ्यश्चमसगणेभ्यो राजानमतिरेचयति’ इति। तत्र प्रथमे चमसगणे

प्र मंहिष्ठाय गायत०-८-१०३-८ ।

४३. . श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११पञ्चदवार मैत्रावरुणस्य यच्छत्रमस्ति उक्थ्य(क्थोस्तोत्रेषु साना निराकृतास्त एवाया इदं मैत्रावरुणशस्त्रमश्रयन्त तदानीं तत्रावस्थितः स इन्द्र इतरदेवान्य वीत । असुराणामपनोदने मम सहायोऽपेक्षितस्ततो हे देवा यमा कथाहं चेमानसुरानितो मैत्रावरुणशस्त्रानोत्स्यावहा अपनोदं करिष्याव पनि देवेष्ववस्थितो वरुणोऽहं चेत्यब्रवीद्धे, इन्द्र त्वं चाहं चेत्यर्थः । यसले तस्मादुभयोर्मेलनेन तेषामसुराणामपनोदार्थमैन्द्रावरुणं सूक्तं तृतीयसवने मैत्री वरुणनामक ऋत्विक्शंसेत् । इन्द्रावरुणा युवमध्वराय न इत्येतद्दशर्च मुक्त न्द्रावरुणं तेन तुष्ट इन्द्रश्च वरुणश्च तानसुरांस्ततः शस्त्रादपनुदेतां निराकुर्याताम

द्वितीये चमसगणे किंचित्सूक्तद्वयं विधत्ते

ते वै ततोऽपहता असुरा ब्राह्मणाच्छंसिन उक्थ मश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसु रात्रोत्स्यावहा इत्यहं चेत्यब्रवीबृहस्पतिस्तस्मा दैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसक्ने शंस

तीन्द्रश्च हि तान्बृहस्पतिश्च ततो नुदेताम्, इति । ततो मैत्रावरुणशस्त्रान्निराकृता असुरा ब्राह्मणाच्छंसिनः शस्त्रमाश्रितवन्तः उदभुतो न वयो रक्षमाणा इत्येबृहस्पतिदेवताकं द्वादशर्च सूक्तम् । अच्छा ! इन्द्रं मतयः स्वर्विद इत्येकादशर्चमैन्द्रं सूक्तम् । तदुभयं मिलितं सदैन्द्रावाई स्पत्यं संपद्यते । तदेतद्राह्मणाच्छंसी ब्रूयात् । अन्यत्पूर्ववयाख्येयम् ।

तृतीये चमसगणे सूक्तं विधत्ते

ते वै ततोऽपहता असुरा अच्छावाकस्योक्थ मश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽ सुरानोत्स्यावहा इत्यहं चेत्यब्रवीविष्णुस्तस्मा दैन्द्रावैष्णवमच्छावाकस्तृतीयसवनेशंसतीन्द्रश्च

हि तान्विष्णुश्च ततो नुदेताम्, इति । सं वां कर्मणा समिषेत्यष्टर्चमैन्द्रावैष्णवं सूक्तम् । अन्यत्पूर्ववद्याख्येयम् ।

इन्द्रावरुणा युवमध्वराय०-७-८२-११ उदप्रतो न वयो रक्ष०-१०-१ १ । अच्छा म इन्द्रं मतयः०-१०-४३-१। सं वां कर्मणा समिषा हिनामि ६-१९-१।

६ षष्ठः खण्डः ।

एतरयब्राह्मणम् । सूक्तानां द्विदेवताकत्वं प्रशंसति

द्वंद्वमिन्द्रेण देवताः शस्यन्ते बंदं वै मिथुन

तस्माद्दान्मिथुनं प्रजायते प्रजात्यै, इति । इन्द्रेण सह द्वंद्वं युग्मं भूत्वा वरुणबृहस्पतिविष्णुदेवताः क्रमेण शस्यन्ते । च लोके स्त्रीपुरुषरूपं मिथुनं तादृशान्मिथुनादपत्यरूपं मिथुनं प्रजायते । तो द्वंद्वशंसनं यजमानस्य प्रजायै भवति । वेदन प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद, इति । शत्रिणां त्रयाणां होत्रकाणां सूक्तानि विधाय पोतुर्नेष्टुश्च मत्रान्तराणि विवत्त

अथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः षकृचः सा विराड्दशिनी तद्विराजि यज्ञं दशिन्यां प्रतिष्ठाप

यन्ति प्रतिष्ठापयन्ति ॥५०॥ इति । प्रेषग्रन्थे पञ्चमे सूक्ते होता यक्षदित्यादिको द्वितीयाष्टमी मत्री पोताव पाजो तथा तत्रैव तृतीयनवमौ मत्री नेष्टुातुयाजौ । इत्येवं चत्वार ऋतु जास्ते मिलित्वा पोतृसंबन्धानेष्ट्रसंबन्धाच पोत्रीया नेष्ट्रीयाश्च भवन्ति । या प्रस्थितयाज्याः पोतुस्तिस्र ऋचो नेषुश्च तिस्र ऋच इत्येवं पळूचो भवन्ति दनन्मत्रदशकं प्रशंसति-सा विराडित्यादिना । सा पूर्वोक्ता मत्रसमष्टिर्द उनी दशसंख्यायुक्ता सती विराट्छन्दः संपद्यते। दशाक्षरा विराडिति न्यन्तरात् । तत्तेन दशसंप्रयोगेण दशिन्यां दशसंख्योपेतायां विराजि यत्र विजः प्रतिष्ठापयन्ति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतस्यब्राह्मण

भाष्ये पञ्चदशाध्याये षष्ठः खण्डः ॥ ६ ॥ (५०) [१२१] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरवुक्कणसाम्राज्यधुरंध रसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये पञ्चदशोऽध्यायः ॥१५॥ इत्यैतरेयब्राह्मणे तृतीयपञ्चिका समाप्ता ॥ ३ ॥

(पश्चिकाङ्काः-३ । अध्यायाङ्काः-१५ । खण्डाङ्काः-१२११)