अथ चतुर्दशोऽध्यायः ।
त्रयोदशे सोमकथा प्रकीर्तिता
राजक्रयार्था सवनान्विताऽपि च । स्याद्वैश्वदेवं च मरुत्वतीयं
तत्तद्विशेषा उदिताः क्रमेण ॥१॥ अग्ने मरुद्भिः शुभ०-५-६१-८। '
१ प्रथमः खण्डः]
ऐतरेयवाह्मणम् । अथ चतुर्दशाध्याये पूर्वोक्तोऽग्निष्टोमः सर्वयज्ञक्रतूनां प्रकृतित्वेन स्तूयते । तदर्थमुपाख्यानमाह
देवा वा असुरैयुद्धमुपपायन्विजयाय तानग्नि नन्विकामयतैतुं तं देवा अब्रुवन्नपि त्वमेध स्माकं वै त्वमेकोऽसीति स नास्तुतोऽन्वेष्या मीत्यब्रवीत्स्तुत नु मेति तथेति तं ते समु
क्रम्योपनिवृत्त्यास्तुवंस्तांस्तुतोऽनु प्रेव , इति । यदा देवा विजयार्थममुरैः सह युद्धमुपक्रान्तवन्तस्तदानीमनिस्तान्देवाननु शादैतुमागन्तुं नाकामयत । अमिमिच्छारहितं देवा एवमब्रुवन् । हेऽने त्वम पागच्छास्माकमेव मध्ये त्वमेकोऽसि न त्वत्तोऽन्य इति । ततः सोऽग्निरे. पत्रवीयुष्माभिरस्तुतः सन्नई नान्वेष्यामि युष्माकं पृष्ठतो न गमिष्यामि स्मान्नु क्षिप्रमेव मा स्तुत स्तोत्रं कुरुतेति। देवास्तथेत्यङ्गीकृत्य समुत्क्रम्योत्था. रोपनिवृत्त्याग्नेरभिमुखत्वेन निवृत्तिं कृत्वा तमग्निमस्तुवन् । सोऽप्यग्निः स्तुतः स्तान्देवाननुसृत्य प्रैयुद्धार्थ प्रकर्षणागच्छत् । अग्नेयुद्धमकारं दर्शयति
स त्रिश्रेणिर्भूखा व्यनीकोऽसुरान्युद्धमुपप्रायद्वि जयाय त्रिश्रेणिरिति च्छन्दांस्येव श्रेणीरकुरुत ज्यनीक इति सवनान्येवानीकानि तानसंभाव्यं
पराभावयत्ततो वै देवा अभवन्पराऽसुराः , इति । सोऽग्निविजयाय त्रिश्रेणिः सोमपानपक्लित्रययुक्तरुयनीकस्त्रिभिरनीकैः सेना तिरूपैः सेनामुख्यैर्युक्तोऽसुरान्प्रति युद्धमुपप्रायत्तत्समीपं प्रकर्षण गतवान् । श्रेणिरिति यदुक्तं तत्र गायत्रीत्रिष्टुलगतीरूपाणि च्छन्दांस्येव तिस्रः श्रेणी कुरुत । व्यनीक इति यदुक्तं तत्र प्रातःसवनमाध्यंदिनतृतीयसवनान्येव ण्यनीकानि सेनामुखान्यकुरुत । ततस्तानसुरान्पुनः शत्रुशेषो यथा न संभा यते तथा पराभावयत्पराभूतानकरोत् । ततो युद्धादेवा विजयिनोऽभवन्नसुराः राभूताः।
१ ट वा इदम ।
.—-.-
३९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१४चतुर्द प्यार
वेदनं प्रशंसति
भवत्यात्मना पराऽस्य द्विषन्पाप्मा
भ्रातृव्यो भवति य एवं वेद, इति । एवमग्निश्छन्दत्रयसवनत्रययुक्तोऽग्निष्टोमरूपोऽभवदित्येकेन प्रकारेणाग्निष्टो स्तुत्वा पुनरपि प्रकारान्तरेण स्तौति
सा वा एषा गायत्र्येव यदग्निष्टोमश्चतुर्विंशत्यक्षरा वै गायत्री चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि, इति । योऽयं पूर्वोक्तोऽग्निष्टोमोऽस्ति सा वा एषा गायव्येव । अग्निष्टोमगायत्र्यं संख्यासाम्यात् । गायत्रीगतेष्वक्षरेषु या संख्या सेवामिष्टोमगतेषु स्तोत्रशस्त्रेषु तथा हि-बहिष्पवमानो माध्यंदिनपवमान आर्भवः पवमान इति त्रीणि पवम नस्तोत्राणि चत्वार्याज्यस्तोत्राणि चत्वारि पृष्ठस्तोत्राण्येकं यज्ञायज्ञीयं स्तोत्र वमेतानि द्वादश संपन्नानि । शस्त्राण्यपि तावन्त्येव । आज्यपउगे निष्केवर मरुत्वतीये वैश्वदेवाग्निमारुते इति होतुः शस्त्राणि षट् । तथा होत्रकाणाम पद । एवं स्तोत्रशस्त्रसंख्ययाऽग्रिष्टोमस्य गायत्रीरूपत्वम् ।
प्रकारान्तरेण गायत्रीसाम्यं संपाय प्रशंसति
तदै यदिदमाहुः सुधायां ह वै वाजी मुहितो दधातीति गायत्री वै तन ह वै गायत्री क्षमा रमत ऊर्ध्वा ह वा एषा यजमानमादाय स्वरेती त्यनिष्टोमो वै तन्न ह वा अग्निष्टोमः क्षमा रमत
ऊो ह वा एष यजमानमादाय स्वरेति, इति । तदै तत्रैव यज्ञसभायां वेदवादिनो यदिदं वचनमाहुः। किं वचनाम तदुच्यते । मुष्ठु धीयन्ते सुकृतिनोऽस्यां दिवि सा द्यौः सुधा तस्यामेव वा वाजोऽनं सोमरूपं यस्मिन्नस्तीत्यग्निष्टोम उच्यते । स च मुहितः साहुण्या नुष्ठितो दधाति सुधाशब्दवाच्यायां दिवि यजमानं स्थापयतीति यद्वेदवादिन पचनं तगायत्री वै गायत्रीसाम्यमभिप्रेत्यैवोक्तमित्यर्थः । न ह वा इत्यादिन तदेव स्पष्टी क्रियते । क्षमेति सप्तम्यर्थो विवक्षितः। क्षमायां भूमो गाय व्याख्या देवता न ह वै रमते नैव क्रीडति कित्वेषा गायत्री, उध्यो र ऊर्ध्वगामिन्येव भत्वाऽनुष्ठितवन्तं यजमानमादाय स्वरेति स्वर्ग प्रामात। द्वितीयः खण्डः]
ऐतरेयब्राह्मणम् । कारेण येयं गायत्री वर्णिता तद्गायत्रीरूपोऽग्निष्टोम एव तयोः समत्वात् । गोमोऽपि क्षमायां न रमते किं त्वनुष्ठित ऊर्ध्वगामी सनेष यजमानमादाय वर्गमामोति । इत्यं गायत्रीसाम्येन स्तुत्वा संवत्सरसाम्येन स्तौति
स वा एषु संवत्सर एव यदग्निष्टो मश्चतुर्विंशत्यर्धमासो वै संवत्सरश्चतुर्वि
शतिरनिष्टोमस्य स्तुतशस्त्राणि, इति । योऽयमग्निष्टोमः स एष संवत्सर एव । अर्धमाससंख्यायाः स्तोत्रशस्त्र. रुयायाश्च समानत्वात् ।
समुद्रसाम्येन प्रशंसति
तं यथा समुद्रं स्रोत्या एवं सर्वे
यज्ञक्रतवोऽपियन्ति ॥३९॥ इति । स्रोत्याः प्रवाहरूपा नद्यो लोके यथा समुद्रं प्राप्नुवन्ति तथैवोक्थ्यषोडश्य रात्राहीनसत्ररूपाः सर्वे क्रतवो विकृतिरूपाः प्रकृतिरूपं तमनिष्टोममपि न्ति प्रामुवन्ति । अनिष्टोमात्माचीना इष्टिपशुबन्धादयोऽपि तमग्निष्टोमं प्रामु. न्ति। तथा सति सर्वशब्दो मुख्यार्थः संपद्यते न तु संकोचः॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवाह्मण __ भाष्ये चतुर्दशाध्याये प्रथमः खण्डः ॥ १॥ (३९) [११०] अग्निष्टोमादपि प्राचीनानां यज्ञानामग्निष्टोमप्राप्ति दर्शयति
दीक्षणीयेष्टिस्तायते तामेवान याः काश्चे
ष्टयस्ताः सर्वा अग्निष्टोममपियन्ति, इति । अग्निष्टोमस्य प्रारम्भे येयं दीक्षणीयेष्टिस्तायते विस्तार्यते तामनु तत्साह निवेदोक्ताः सर्वा अपीष्टयोऽग्निष्टोमं प्रामुवन्ति । अत्र विकृतिरूपा एवेष्टयो विक्षिताः प्रकृतिरूपयोर्दर्शपूर्णमासयोर्वक्ष्यमाणत्वात् ।
दीक्षणीयेष्टिगतचोदकपालेडोपाहानसादृश्येन पाकयज्ञानामनिष्टोमप्राप्ति दर्श
इळामुपह्वयत इळाविधा वै पाकयज्ञा इळामेवानु ये के च पाकयज्ञास्ते सर्वेऽग्निष्टोममपियन्ति, इति ।
३९८
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१४चतुर्दशा पाकयज्ञाश्च सप्तसंख्याका हुतः प्रहुत आहुतः शूलगवो बलि प्रत्यवरोहणमष्टकाहोम इति । सोऽयं सूत्रान्तरकारस्य पक्षः । आश्वलाय हुतादीखीनेव पाकयज्ञानाह। ते च पाकया इळाविधा इलाम इला खलु वैषा पाकयज्ञ इति श्रुत्यन्तरात् । ततो दीक्षणीयेशावितोपान तत्सदृशाः पाकयज्ञाः सर्वेऽप्यनिष्टोमं प्रामुवन्ति ।
अमिहोत्रस्य तत्माप्तिं दर्शयति
सायंप्रातरग्निहोत्रं जुह्वति सायंप्रातव्रतं प्रयच्छन्ति स्वाहाकारेणाग्रिहोत्रं जुह्वति स्वाहाकारेण व्रतं प्रयच्छन्ति स्वाहाका
रमेवान्वग्निहोत्रमग्निष्टोममप्येति , इति ।। यथा प्रतिदिनं कालयेऽग्निहोत्रहोमस्तथा दीक्षितस्य कालद्वये क्षीरपाई रूपं व्रतमदानम् । अग्निज्योतिर्योतिरमिः स्वाहेति यथा स्वाहाकारेण मिहोत्रहोमस्तथा ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाई स्वाहाकारेण दीक्षितो व्रतपदानमाचरति । अतो व्रतगतस्वाहाकारमेवानुसृत्य मिहोत्रस्यामिष्टोमप्राप्तिः।
अग्निष्टोमगतप्रायणीयेष्टिसादृश्येन दर्शपूर्णमासयोरग्निष्टोमप्राप्तिं दर्शयति
पञ्चदश प्रायणीये सामिधेनीरन्वाह पञ्च दश दर्शपूर्णमासयोः प्रायणीयमेवा
नु दर्शपूर्णमासावमिष्टोममपीतः , इति । मायणीयकर्मणि धाय्यारहितत्वात्सामिधेन्यश्वोदकमाताः पञ्चदशैव तर प्रकृतिभूतयोर्दर्शपूर्णमासयोरपि ।
अग्निष्टोमगतसोमद्वारा लौकिकानामपि सर्वेषामपिधानामग्निष्टोमप्राप्ति दर यति
सोमं राजानं क्रीणन्त्यौषधो वै सोमो राजौ षधिभिस्तं भिषज्यन्ति यं भिषज्यन्ति सोम मेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियन्ति, इति ।
३९९
1I
पिष्टोमं प्राप्नुवन्ति ।
द्वितीयः खण्डः ] ऐतरेयबामणम् ।
व्याधिग्रस्तं चिकित्सका भिषज्यन्ति चिकित्सन्ते तं पुरुषमो
लयादिभिश्चिकित्सन्ते सोमस्याप्यौषधत्वात्तमनु सर्वाण्यप्यौषधा अनिष्टोमगतातिथ्यकर्मद्वारा चातुर्मास्ययागानां तत्प्राप्ति दर्शयति
अग्निमातिथ्ये मन्थन्त्यग्निं चातुर्मास्येष्वातिथ्य मेवानु चातुर्मास्यान्यग्निष्टोममपियन्ति, इति । अवयंसाम्येन दाक्षायणयज्ञस्यामिष्टोमप्राप्तिं दर्शयति
पयसा प्रवर्ये चरन्ति पयसा दाक्षायणयज्ञे प्रवर्दीमेवानु दाक्षायणयज्ञोऽग्निष्टोममप्येति, इति । दर्शपूर्णमासयोरेव गुणविकृतिरूपः कश्चिदाक्षायणाख्यो यज्ञः । तथाच खान्तरे दर्शपूर्णमाससंनिधौ श्रूयते-‘दाक्षायणयज्ञेन स्वर्गकामो यजेत’ । तस्य च प्रवर्यस्य च क्षीरद्रव्येण साम्यम् । पशुबन्धानामग्निष्टोमप्राप्तिं दर्शयति
पशुरुपवसथे भवति तमेवानु ये के च
पशुबन्धास्ते सर्वेऽग्निष्टोममपियन्ति, इति । मुत्यादिवसात्पूर्वो दिवस उपवसथाख्यस्तस्मिन्नग्नीषोमीयपशुरनुष्ठीयते । देकृतिरूपा वेदोक्ताः सर्वे पशुबन्धाः । यज्ञान्तरस्याग्निष्टोमप्राप्तिं दर्शयति
इळादधो नाम यज्ञक्रतुस्तं दना चरन्ति दना दधिधर्मे दधिधर्ममेवान्विळाद
धोऽग्निष्टोममप्येति ॥ १० ॥ इति । दर्शपूर्णमासविकृतिरूप एव कश्चिदिळादधनामको यज्ञोऽस्ति । अत एवाऽऽ. तम्बो दर्शपूर्णमाससंनिधावेवमाह-एतेनेलादयः सार्वसनियज्ञो वसिष्ठयाः नकयज्ञश्च व्याख्याता इति । दधिधर्मनामकस्त्वमिष्टोमगतस्तयोरुभयोर्दषि
येण साम्यम् ॥
शत श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्ये चतुर्दशाध्याये द्वितीयः खण्डः॥ २॥ (४०) [१११]
१ क. यः सर्वासनिय ।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१४चतुर्द ध्याये ऋत्वन्तराणाममिष्टोमप्राप्तिं दर्शयति
इति नु पुरस्तादथोपरिष्टात्पञ्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शस्त्राणि स मासो मासधा संवत्सरो विहितः संवत्सरोऽ निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सरमेवान क्थ्योऽग्निष्टोममप्येत्युक्थ्यमपि यन्तमनु
वाजपेयोऽप्येयत्युक्थ्यो हि स भवति, इति । इति नु पूर्वखण्डोक्तप्रकारेणैव पुरस्तादग्निष्टोमात्माचीनस्य कर्मजातस्या मिष्टोमप्रवेश उक्त इति शेषः । अथानन्तरमुपरिष्टादितरेषां ऋतूनां तत्पदे उच्यते । तत्र योऽयमुक्थ्यः क्रतुस्तस्य पञ्चदशसंख्याकानि स्तोत्राण्यग्निष्टोर विकृतित्वात् । तदीयानि द्वादश स्तोत्राण्यतिदिश्यन्ते । तत उर्व त्रीण्युक्य संज्ञकानि स्तोत्राणि । एवं पञ्चदश संपद्यन्ते । शस्त्रेष्वप्ययं न्यायो योज्यः तानि शस्त्राणि स्तोत्राणि च मिलित्वा मासगतो रात्रिसंख्यां प्रानुवन्त्यत सोऽयं स्तोत्रशस्त्रसमूहो मासः संपद्यते । मासधा मासप्रकारेण मासाहत्त्य संवत्सरो विहितः संपादितो भवति । स च संवत्सरो वैश्वानराग्निरूपः गर्भप्रविष्टस्य पुरुषस्य संवत्सरमात्रेण वैश्वानराख्यस्योदर्याग्नेः पाटवसंभवाद अग्निश्चाग्निष्टोमस्वरूपः पूर्वोक्तया रीत्या श्रेणित्रयरूपेणानीकत्रयरूपेण चामेरे वामिष्टोमरूपेणाऽऽविर्भूतत्वात् । एवं सति स उक्थ्याख्यक्रतुः स्तोत्रशस्खादि परम्परया संवत्सरमेवानुमविश्य तद्वाराऽग्निष्टोमं प्रविशति । तं विशन्तमुक्थ्य मनु वाजपेयाख्योऽपि ऋतुरनिष्टोममप्येति प्रामोति । स हि वाजपेयोऽत्युक्थ्य भवति । उक्थ्याख्यं ऋतुमतिक्रम्य वर्तमानत्वात् । उक्थे यानि पञ्चदर स्तोत्राणि तत ऊर्ध्व वाजपेये स्तोत्रद्वयं सोऽयमुक्थ्यातिक्रमस्तस्मादुक्थ्यद्वार वाजपेयस्य तत्माप्तिः।
अथातिरात्राप्तोर्यामयोः क्रत्वोरग्निष्टोमप्रवेशं दर्शयति
द्वादश रात्रेः पर्यायाः सर्वे पञ्चदशास्ते दो दौ संपद्य त्रिंशदेकविंशं षोळशिसाम त्रिवृत्संधिः सा त्रिंशत्स मासस्त्रिंशन्मासस्य रात्रयो मासधा संवत्सरो विहितः संवत्सरोऽनिर्वैश्वानरोऽग्निर
१ तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।
निष्टोमः संवत्सरमेवान्वतिरात्रोऽग्निष्टो ममप्येत्यतिरात्रमपि यन्तमन्वप्तोर्यामोऽ
प्येत्यत्यतिरात्रो हि स भवति, इति । अतिरात्रयागे द्वादशसंख्याका रात्रेः पर्यायाः । ते चाऽऽपस्तम्बेनैव स्पष्टी. ताः । अतिरात्रमेव षोडशिनममी मुनयस्तत्र त्रयोदशभ्यश्चमसगणेभ्यो राजा मभिरेचयति । षोडशिना प्रचर्य रात्रिपर्यायैः प्रचरति । होतृचसममुख्यः प्रथमो मणो मैत्रावरुणचमसमुख्यो द्वितीयो ब्राह्मणाच्छंसिचमसमुख्यस्तृती गोऽच्छावाकचमसमुख्यश्चतुर्थः। प्रथमाभ्यां गणाभ्यामध्वर्युश्वरत्युत्तराभ्यां पति पस्यातैष प्रथमः पर्याय एवं विहितो द्वितीयस्तृतीयश्चेति । अस्यायमर्थः । अतिरात्राख्यं ऋतुं यदाऽनुतिष्ठति तदानी चोदकप्राप्तं सर्वमनुष्ठायानन्तरं सायंकाले षोडशिग्रहसंबन्धिनश्चमसान्पूरयित्वा तत ऊर्ध्व त्रयोदशचमसग. गपर्याप्तं सोममवस्थाप्य षोडशिग्रहमचारं कृत्वा तत ऊर्ध्व रात्रिपर्यायः पचरेत् । तेषु पर्यायेषु च होतृचमसमादिं कृत्वा यश्चमसगणः प्रवर्तते सोऽयं थिमः । मैत्रावरुणचमसस्याऽऽदित्वे द्वितीयश्चमसगणो भवति । ब्राह्मणाच्छ सेचमसस्याऽऽदित्वे तृतीयश्चमसगणो भवति । अच्छावाकचमसस्याऽऽदित्वे धनुर्थश्चमसगणो भवति । तेषु चतुर्पु गणेषु प्रथमद्वितीयाभ्यां गणाभ्यामध्व स्नुतिष्ठेत् । तृतीयचतुर्त्या तु प्रतिप्रस्थाताऽनुतिष्ठेत् । एवं गणचतुष्टयानुष्ठान का पर्यायो भवति । पुनरपि द्वितीयतृतीयपर्यायौ तथैवानुष्ठेयौ । तेषु पर्यायेषु दिश गणाः संपद्यन्ते । एतत्सर्वमभिप्रेत्य द्वादश रात्रेः पयोया इत्युक्तम् । । सर्वेऽपि पञ्चदशास्तदीयस्तोत्रेषु व्यचगतानामृचामावृत्तिविशेषेण पञ्चदश वोमस्य सामगैः संपादितत्वात्पश्चदशस्तोमयुक्ताः । द्वादशपर्याया ये सन्ति पुद्वा द्वौ पर्यायौ संपद्य मिलित्वा पञ्चदशसंख्याया द्विरावृत्त्या त्रिंशत्सं यायां ते सर्वे पर्यवस्यन्ति । किंच षोडशस्तोत्रे यत्सामास्ति तदेकविशं वति । तदीयव्यूचगतानामृचामावृत्त्या सामगैरेकविंशतिस्तोमसंपादनात् । ऽियमतिरात्रस्तस्यान्ते संधिरेतनामकं स्तोत्रं तत्र त्रिवृत्स्तोमः सामगैः पठ्यते । स्वच स्तोमस्य त्रिषु व्यूचेष्वावृत्तिरहितेषु निष्पन्नत्वाचां नवसंख्या संप. ते । एकविंशतिसंख्या नवसंख्या च मिलित्वा त्रिंशत्संख्या भवति । अनया नित्संख्यया वा पूर्वोक्तत्रिंशत्संख्यया वा मासरात्रिसाम्यान्मासः संपद्यते । सिधेत्यादि पूर्ववद्योजनीयम् । एवं सति वत्सरद्वारातिरात्रोऽनिष्टोमं प्रवि. ति । मविशन्तमतिराममनु तहारेणाप्तोर्यामोऽपि प्रविशति । स पतिरात्रमति
१०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेवम्- [१४चतुर्द ध्याये लख्य स्तोत्राधिक्येन वर्तमानत्वादत्यतिरामः। एकोनत्रिंशत्स्तोत्राण्यानिकी तोर्यामे तु त्रयस्त्रिंशदित्याधिक्यमतोऽतिरात्रद्वाराऽसोर्यामस्यामिष्टोमे प्रदेश।
उक्तं सर्वयाक्रतुत्वान्तर्भावमुपसंहरति
एतद ये च पुरस्ताद्ये चोपरिष्टाद्यज्ञक
तवस्ते सर्वेऽग्निष्टोममपियन्ति, इति । एतद्वा एतेनैवोक्तप्रकारेणाग्निष्टोमस्य पूर्वभाविन इष्टयग्निहोत्रादयो ये यात तवो ये चोत्तरभाविन उक्थ्यवाजपेयादयो यजक्रतवस्ते सर्वेऽमिष्टोमं मामवन्ति
अथ प्रकारान्तरेणामिष्टोमं प्रशंसति
तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः सा या नवतिस्ते दश त्रिवृतोऽथ या नवतिस्ते दशाथ या दश तासामेका स्तोत्रियोदेति त्रिपरि शिष्यते सोऽसावेकविंशोऽध्याहितस्तपति विषु वान्वा एष स्तोमानां दश वा एतस्मादश्चिस्त्रि वृतो दश पराञ्चो मध्य एष एकविंश उभयतोऽ ध्याहितस्तपति तथाऽसौ स्तोत्रियोदेति सैतस्मिन्न ध्यूहळा स यजमानस्तदैवं क्षत्रं सहो बलम् ,इति । तस्याग्निष्टोमस्योगातृभिः संस्तुतस्य स्तोत्रियाः स्तोत्रसंबन्धिन्य ऋचो ना त्यधिकं शतं संपद्यन्ते । कथमिति चेत्तदुच्यते । प्रातःसवने बहिष्पवमानारू यत्स्तोत्रं तस्य त्रिवृत्स्तोमः क्रियते त्रिवृतश्चाऽऽवृत्तिरहितत्वाद्विद्यमानेषु त्रि यूचेषु विद्यमाना नवर्चः स्तोत्रिया भवन्ति । तत ऊर्ध्वं चत्वार्याज्यस्तोत्रा तेष्वेकैकस्मिन्नपि विद्यमानानां तिसृणामृचामावृत्तिविशेषेण पञ्चदशस्तोमः सप दनीयः । तथासत्येकैकस्मिन्स्तोत्रे पञ्चदशर्च इत्येवं चतुर्ष स्तोत्रेषु मिलिर पष्टिः संपद्यते । तदेवं प्रातःसवन एकोनसप्ततिः । माध्यंदिने सवने माध्याद नपवमानाख्यमेकं स्तोत्रं तस्यापि पञ्चदशस्तोमयुक्तत्वात्स्तोत्रियाः पञ्चद संपद्यन्ते । चत्वारि पृष्ठस्तोत्राणि तेषु सप्तदशस्तोमे कृते सत्यष्टषष्टिसंख्याक स्तोत्रिया भवन्ति । उभयं मिलित्वा माध्यंदिनसक्ने व्यशीतिः संपरा तृतीयसवन आर्भवपवमानस्तोत्रस्य ससदशस्तोमोपेतत्वाचस्मिन्सप्तदान
४०३
.
१ तृतीयः खण्डः ] . ऐतरेयबामणम् । हानीयस्तोत्रस्यैकविंशस्तोमोपेतत्वात्तत्रैकविंशतिमिलित्वा तृतीयसवनेऽष्टा
एवं सवनत्रये मिलित्वा नवत्यधिकशतसंख्याकाः स्तोत्रिया भवन्ति । या नवतिस्ते दशसंख्याकाखिवृतः स्तोमाः संपद्यन्ते । एकैकस्मिन्दाकेड तिमामेको परित्यज्यावशिष्टानामृचा नवसंख्योपेतत्वात्रिवृत्स्तोमत्वम् । ततो बस दशकेषु नव त्रिवृत्स्तोमाः। यास्तु तेषु नवकेषु परित्यक्ता नवर्चः स एकत्रिवृत्स्तोमः । एवं दशसंख्याकास्त्रिवृत्स्तोमाः । अथानन्तरं यच्छतमस्ति तस्मिन्नपि या नवतिस्ते पूर्वोक्तन्यायेन दश त्रिवत्स्तोमा गणनीयाः। अथ नवनेरूर्वभाविन्यो या ऋचो दश तासां दशानामृचां मध्य एका स्तोत्रियोदे. त्यतिरिच्यते । अवशिष्टामु स्तोत्रियासु त्रिवृत्स्तोमा परिशिष्यते । एवं सत्ये. कविंशतिसंख्याकास्त्रिवत्स्तोमास्तेभ्योऽतिरिक्ता काचिगित्येतावत्संपनम् ।
कविंशतित्रिवृत्स्तोमसंघो योऽस्ति स सर्वोऽप्यसौ मण्डले दृश्यमान एकर्वि प्रतिसंख्यापूरकोऽध्याहितो मण्डले स्थापित आदित्यस्तपति प्रकाशते । आदि. यस्यैकविंशतिसंख्यापूरकत्वमन्यत्र श्रुतम् -“द्वादश मासाः पञ्चतर्वस्त्रय इमे दोका असावादित्य एकविंशः’ इति । यत्तु सत्रं गवामयनाख्यं तत्र यान्येक विंशत्यहानि तत्सादृश्यादपि यथोक्तत्रितत्स्तोमसंघः प्रशस्तः। कथं सादृश्य मिति तदुच्यते । तस्मिन्सत्रे यन्मध्यममहस्तद्विषुवनामकं दिवाकीर्यं तस्य पुर तादशाहान्युपरिष्टादशाहानि । एवमत्रापि पूर्वोक्तरीत्या संपादितानामेकविंश नेसंख्याकानां त्रिवृत्स्तोमानां मध्ये यस्मित्स्तोमः स एव विषुवान्भविष्यति। रतस्माद्विषुवदपात्स्तोमादश्चिः पूर्वभाविनो दश त्रिवृत्स्तोमाः पराश उत्तरभाविनोऽपि दश त्रिवृत्स्तोमा उभयोर्दशकयोर्मध्य एप एकविंशतिसंख्या रकस्त्रिवृत्स्तोम उभयतोऽध्याहितः पार्थद्वये दशकव्याप्तः संस्तपत्यादित्यव. प्रकाशते । तत्तत्रैकविंशतित्रिवृत्स्तोमेभ्य ऊर्च याऽसानगेका स्तोत्रियोदेत्य वरिक्ता भवति सेयमेतस्मिन्नेकविंशतिमंऽध्यूहळाऽधिकत्वेनावस्थापिता । स नमानोऽतिरिक्तस्तोत्रियारूपो यजमानत्वेनावगन्तव्यः। किंच तत्स्तोत्रिया मदेवं क्षत्रं देवसंबन्धिनी क्षत्रियजातिरिन्द्रवरुणादिरूपा तत्क्षवं सहः परा
भवक्षमं बलं सैन्यम् । एवमनिष्टोमः स्तोत्रिय(या द्वारा प्रशस्तः । उतार्थवेदनं प्रशंसति
अश्नुते ह वै देवं क्षत्रं सहो बलमेतस्य ह सायुज्यं सरूपता सलोकतामश्नुते य एवं वेद ॥४१॥ इति । उक्तार्यवेदिता पराभवसहिष्णुसैन्योपेतामिन्द्रादिदेवसत्रियजातिमझते
४०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[१४चतुर्द ध्याये प्रामोति । तत्र तेन क्षत्रेणेन्द्रादिना सायुज्यं सहवासं सरूपतां समानत सलोकतामेकलोकावस्थितिं च पामोति ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवा. ह्मणभाष्ये चतुर्दशाध्याये तृतीयः खण्डः ॥३॥ (४१) [११२
.. -
.
.
- . .
..
..
-
.
-
-
- -.-.
अथ त्रिवृदादिस्तोमचतुष्टयद्वारेणानिष्टोमं स्तोतुमाख्यायिकामाह
देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्ग लोक मायन्सोऽग्निर्दिविस्टगूर्ध्व उदश्रयत स स्वर्गस्य लोकस्य द्वारमणोदग्नि स्वर्गस्य लोकस्या धिपतिस्तं वसवः प्रथमा आगच्छंस्त एनम ब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते त्रिता स्तोमेनास्तुवंस्तान्स्तु
तोऽत्यात ते यथालोकमगच्छन् , इति । ये देवा अग्निसहिताः पूर्वममुरैः सह युद्धं कृत्वा विजिग्याना विजयं माप्तास्ते देवा ऊर्ध्वगामिनः सन्तः स्वर्ग लोकमायन्मामुवन् । तदानीं सोऽग्निः स्वस्थान एव स्थित्वा दिविस्पृग्धुलोकं स्पृशमूर्ध्वमुन्नतः सभुदयतोपरि तनं देशमाश्रितवान्धुलोकपर्यन्तं स्वकीयां ज्वालां वर्धितवानित्यर्थः । ततः सोऽमिः स्वर्गलोकद्वारमणोत्तयाऽऽच्छादितमकरोत् । न चेतरेषु देवेषु स्थित कथमनेरीहक्सामर्थ्यमिति वाच्यम् । यस्मादग्निरेव स्वर्गलोकस्याधिपतिः । अग्नौ खनिष्टोमादिकर्माण्यनुष्ठाय स्वर्ग प्रामुवन्ति । तं स्वर्गद्वारनिरोधिनमान मष्टौ वसवः प्रथमाः पुरोगामिनो भूत्वाऽऽगच्छन्मातवन्तः । प्राप्य चनमा ते वसव एवमब्रुवन् । हेऽग्ने त्वं नोऽस्मानत्यर्जसि त्वदीयां ज्वालामतिलब्ध्या जैयितुं स्वर्ग प्रापयितुमर्हसि नोऽस्माकं तत्मात्प्यर्थमाकाशं त्वदीयज्वालाश मनेनावकाशं कुर्विति । ततः सोऽग्निरेवमब्रवीत् । युष्माभिरस्तुतोऽहं नाति स्रक्ष्ये द्वारावरोधं न परित्यक्ष्यामि तस्मादवरोधपरिहाराय नु क्षिप्रमेव मामा स्तुत स्तोत्रं कुरुतेति । ते वसवस्तथेत्यङ्गीकृत्य त्रिनामकेन स्तापना मस्तुवन् । तस्य च स्तोमस्य विधायकं छन्दोगबामणमेवमानायते, भ्यो हिं करोति स प्रथमया तिसभ्यो हिं करोति स मध्यमया तिसभ्या
वर्षः खण्डः] ऐतरेयबामणम् ।
४०५ अनि म उत्तमयोद्यती त्रिवृतो विष्टुतिः’ इति । अस्यायमर्थः । उपास्मै गायता इति यः प्रथमस्यूचो दविद्युतत्या रुचेति यो द्वितीयस्य॒चः पवमानस्य
इति यस्तृतीयस्यच एतेषु त्रिषु व्यूचात्मकेषु सूक्तेषु विद्यमानानां ताचा त्रिभिः पर्यायैर्गानं कर्तव्यम् । तत्र प्रथमे पर्याये त्रिषु सूक्तेष्वा. स्तिस ऋचो गातव्याः। द्वितीयपर्याये मध्यमा ऋचो गातव्याः। तृती पर्याय उत्तमा ऋचो गातव्याः । तिसृभ्य इति तृतीयार्थे पञ्चमी । हिं करो. त्यनेन गानमुपलक्ष्यते । सेयं यथोक्तप्रकारोपेता गीतिस्वित्स्तोमस्य विष्टुतिः भनिप्रकारविशेषः । तस्या विष्टुतेरुद्यतीत्येवं नामधेयमिति । ईदृशेन स्तोमेन तोऽग्निस्तान्वसूनत्यात निरुद्धं द्वारमतिलध्य स्वर्गमध्ये प्रापितवान् । ते । वसवो देवा ययालोकं स्वस्य स्वस्योचितं लोकं स्थानविशेषमनतिक्रम्य वाऽऽगच्छन् । अथ पश्चदशस्तोमेन स्तुतिं दर्शयति
तं रुद्रा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते पञ्चदशेन स्तोमेनास्तुवंस्ता न्स्तुतोऽत्यार्जत ते यथालोकमगच्छन् , इति । पश्चदशनामकस्य स्वरूपं छन्दोगैरेवमाम्नायते–‘पञ्चभ्यो हिं करोति स नेसृभिः स एकया स एकया पश्चभ्यो हिं करोति स एकया स तिमभिः । एकया पश्चभ्यो हिं करोति स एकया स एकया स तिसृभिः’ इति । स्यार्थः । त्र्यचात्मकमेकं सूक्तं त्रिरावर्तनीयम् । तत्र प्रथमायामावृत्तौ प्रथ या ऋचस्त्रिरभ्यासः। द्वितीयावृत्तौ मध्यमायो उत्तमावृत्तावुत्तमायाः सोऽयं दशस्तोम इति । अन्यत्पूर्ववद्याख्येयम् । अथ सप्तदशस्तोमेन स्तुति दर्शयति
तमादित्या आगच्छंस्त एनमब्रुवन्नति नोऽर्ज स्याकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते सप्तदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथा
.
स. यास्तृतीया।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१श्चत
लोकमगच्छन् , इति । सप्तदशस्तोमस्य स्वरूपं छन्दोगैरेवमानायते-‘पञ्चभ्यो में करोति । तिमृभिः स एकया स एकया पश्चभ्यो हिं करोति स एकया स तिसर स एकया सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिमभिःइति अत्र प्रथमावृत्तौ प्रथमायामृचि निरभ्यासः। द्वितीयावृत्ती मध्यमायाम तृतीयावृत्ती मध्यमोत्तमयोः सोऽयं सप्तदशस्तोम इति । अन्यत्पूर्ववत् ।
एकविंशस्तोमेन स्तुति दर्शयति
तं विश्वे देवा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति स नास्तुतोऽ तिम्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं तं एकविंशेन स्तोमेनास्तुवंस्तान्स्तु.
तोऽत्यार्जत ते यथालोकमगच्छन्, इति । एकविंशस्तोमस्य स्वरूपं छन्दोगैरेवमाम्नायते-‘सप्तभ्यो हि करोति र तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिं करोति स एकया स तिमृमि स तिमृभिः सप्तभ्यो हिं करोति स तिसृभिः स एकया स तिसृभिः’ इति प्रथमपर्याये व्यूचस्योत्तमाया ऋचः सकृत्पाठः। द्वितीयपर्याये प्रथमायाः सक पाठस्तृतीयपर्याये मध्यमायाः सकृत्पाठः । अथ शिष्टानां तु सर्वत्र विरा वृत्तिः सोऽयमेकविंशस्तोम इति । अन्यत्पूर्ववद्याख्येयम् ।
स्तोमचतुष्टयमुपसंहरति
एकैकेन वै तं देवाः स्तोमेनास्तुवंस्तास्तु
तोऽयात ते यथालोकमगच्छन्, इति । अमिष्टोमप्रयोगे चतुर्णामुक्तानां स्तोमानां विकल्पशङ्काव्यावृत्त्यर्थं समुख्य विधत्ते
अथ हैनमेष एतैः सर्वैः स्तोमैः
स्तौति यो यजते, इति । अर्थवादवलक्षण्येन विधित्वं द्योतयितुमथशब्दः। योऽग्निष्टोमेन यजत एष एतैश्चतुर्भिः स्तोमैः स्तुवीत ।अवमः खण्डः ] - ऐतरेयब्राह्मणम् ।
४०७ अनुष्ठातुः स्वर्गप्राप्तिफलस्य सिद्धत्वात्तेन सह समुश्चित्य वेदितुरपि फलं दर्शयति
यश्चैनमेवं वेदाती तु तमर्जाताः(जते), इति । यणमानो येन प्रकारेण यजतेऽनेनैव प्रकारेणैनमनिष्टोमं यश्च वेद तमपि दितारं द्वारनिरोधमतिलड्योजातै( र्जत एव प्रापयत्येव । अती विति दीर्घ छान्दसः।
दनमात्रेणानुष्ठानसमफलत्वं प्रतिपादयितुं पुनरप्याह
अति ह वा एनमर्जते स्वर्ग
लोकमभि य एवं वेद ॥४२॥ वेदनमात्रेण सिदेऽपि फले कर्मभूयस्त्वात्फलभूयस्त्वमिति न्यायेनानुष्ठान वैययं नास्ति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवा ह्मणभाष्ये चतुर्दशाध्याये चतुर्थः खण्डः ॥४॥ (४२) [११३]
अथाग्निष्टोमादिशब्दनिर्वचनेन प्रशंसति
स वा एषोऽग्निरेव यदग्निष्टोमस्तं यदस्तुवंस्तस्मा दग्निस्तोमस्तमग्निस्तोमं सन्तमग्निष्टोम इत्याच
क्षते परोक्षेण परोक्षप्रिया इव हि देवाः, इति । योऽयमनिष्टोमोऽस्ति स एष साक्षादग्निरेव स्वशरीरमेव त्रिभिश्छन्दोभि खिभिः सवनैश्च विभज्य क्रतोनिष्पादितत्वात् । तं ऋतुरूपमग्निं यद्यस्मात्का (गाद्देवा अस्तुवंस्तस्मादनिविषयस्तुतियुक्तत्वादयं क्रतुरग्निस्तोम इत्येतना कः । तन्नामयुक्तं क्रतु(तुं) परोक्षनाना व्याहत सकारतकारयोः षकारटका. रावादिश्याग्निष्टोम इति वैदिका आचक्षते । वर्णान्तरेणाव्यवहितार्थप्रतीतिर हत नाम परोक्षमित्युच्यते । यस्माल्लोके देवाः पूज्या आचार्यादयः परोक्षना पमिया एव तस्मात्क्रतोरपि तद्युक्तम् । नामान्तरस्य निर्वचनं दर्शयति
तं यच्चतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्मा
१ क.स. ‘ध्याति । १ ख. टोमश ।
४०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१४चतुर्द ध्यान
चतुस्तोमस्तं चस्तुतोमं सन्तं चतुष्टोम इत्या
चक्षते परोक्षेण परोक्षप्रिया इव हि देवाः, इति । चतश्याश्चतुर्विधा वसवो रुद्रा आदित्या विश्वे देवाश्चेति । स्तोमा त्पञ्चदशः सप्तदश एकविंश इत्येवं चत्वारः । चतुष्टोमनामनिर्वचनं पर्वता जनीयम् ।
ज्योतिष्टोमनामनिर्वचनं दर्शयति
अथ यदेनमूर्ध्व सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्यो तिस्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्या चक्षते परोक्षेण परोक्षप्रिया इव हि देवाः, इति । अथ नामद्वयानन्तरं तृतीयं नाम कथ्यत इति शेषः । अग्निभूमिमार घुलोकपर्यन्तमूर्वावस्थितस्तथा प्रकाशमानत्वाज्ज्योतिर्भूतस्तं तादृशं । अस्तुवंस्तस्माज्ज्योतिस्तोमः । ज्योतिषः स्तोमः स्तुतिरस्मिन्क्रतो स ज्यो स्तोमः । अन्यत्पूर्ववत् ।
नामनिर्वचनेन प्रशस्य पुनरप्याद्यन्तराहित्येन प्रशंसति
स वा एषोऽपूर्वोऽनपरो यज्ञकतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोमस्तस्य
यथैव प्रायणं तथोदयनम् , इति । स एषोऽग्निष्टोमः पूर्वापररहितः पूर्व आदिरपरोऽन्त, आधन्तरहितो या ऋतुः । यथा लोके रथचक्रमनन्तं पुनः पुनः परिवर्तमानस्य रथचक्रस्यायमा दिरयमन्त इति विभागः कर्तुं न शक्यते तस्मादिदमन्तरहितम् । आदिराहत स्याप्येतदुपलक्षणम् । एवं क्रतुरपि । ननु प्रायणीयेष्टिरादिरुदयनीयाष्टर इति चेत् । मैवम् । योऽनिष्टोमोऽस्ति तस्य यादृशं प्रायणीयं कर्म ताशमेव दयनीयं कर्म तयोः समानधर्मकत्वादतो विवेत्तुमशक्यत्वादाधन्तरहितः क्रतुः
उक्तमर्थ मन्त्रोदाहरणेन द्रढयति
तदेषाऽभि यज्ञगाथा गीयते यदस्य पूर्वमपरं तदस्य यदस्यापरं तहस्य, पूर्वम् । अहेरिव सर्पणं शाकलस्य न विजानन्ति यतरत्परस्तादिति, इति ।
.
.
पञ्चमः खण्डः ] ऐतरेयबामणम् ।
४०९ पि सुभाषितत्वेन गीयत इति गाथा याविषया गाथा । ततस्मिन्म याऽऽयन्तयोः प्रायणीयोदयनीययोरेव विषये काचिदेषा यज्ञगाथाs गीयते सर्वतः पठ्यते यदस्येत्यादिगाथा । अस्याग्निष्टोमस्य यत्पूर्वमुपक्रम
मर्मास्ति तदेवास्यापरं समाप्तिरूपं कर्म । यदु यदप्यस्यापरं समाप्तिपरं तदु सास्य पूर्वमुपक्रमरूपम् । आदित्यः प्रायणीयश्वरुरादित्य उदयनीयश्चरुरिति न्यदेवतयोरुभयत्रैकविधत्वात्तयोरेकत्वोपचारः । आधन्तयोरपरिज्ञाने पूर्व
यण रथचक्रदृष्टान्तो दर्शितः । मत्रे त्वन्यो दृष्टान्त उच्यते । शाकलशब्द: मविशेषवाची । शाकलनानोऽहेः सर्पविशेषस्य यथा सर्पणं गमनं तथैवाय पग्निष्टोमः । स च सर्पणकाले मुखेन पुच्छस्य दंशनं कृत्वा वलयाकारो भवति तत्र कि मुखं किंवा पुच्छमिति न ज्ञायत एवमत्राप्यदितिदेवताकस्य चरोः साम्ये सति प्रायणीयोदयनीययोर्यतरत्कर्म परस्तात्पश्चाद्भावि यतरच पूर्व भावि किमपि न विजानन्ति ।
अस्य गाथायास्तात्पर्य संक्षिप्य दर्शयति
यथा ह्येवास्य प्रायणमेवमुदयनमसदिति, इति । अस्याग्निष्टोमस्य प्रायणं प्रारम्भो यादृश एवमुदयनं समाप्तिरसदस्ति भव तीत्यर्थः।
अत्र कंचिदाक्षेपमुद्भावयति
तदाहुर्यत्रित्मायणमेकविंशमुद
यनं केन ते समे इति, इति । पूर्वोदाहृतत्रिवृत्स्तोमः प्रातःसवनादौ प्रयोज्यत्वात्मायणमुपक्रमरूपम् । एकविंशस्तोमस्तु तृतीयसवनान्ते प्रयोज्यत्वादुदयनं समाप्तिरूपम् । केन कार
न ते मायणोदयने समे भवेतामित्याक्षेपः । तत्र परिहारं दर्शयति
यो वा एकविंशस्त्रिदै सोऽथो यदुभी तृचौ
तृचिनाविति ब्रूयात्तेनेति ॥ ४३ ॥ इति । योऽयमेकविंशस्तोमोऽस्ति स एव त्रिदवगन्तव्यः स्तोमत्वाकारेण तयो कविधत्वात् । अथो अपि च यद्यस्मात्कारणात्स्तोमद्वयाश्रयभूतावुभौ तृचौ नाचनी चि(च)त्वधर्मयुक्तौ । तत्र त्रिवृत्स्तोमाश्रयस्योपास्मै गायता नर राति सूक्तस्य त्र्यचत्वधर्मः प्रसिद्ध एव । एकविंशस्तोमाश्रयस्य यज्ञा यहा वो
४१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१४चतुर्द ध्या अनय इति सूक्तस्य प्रगाथे द्वे एव तस्मिन्नृचावाम्नायते । तथापि स्तोत्र प्रग्रथनेन पादानावलं त्र्यचत्वं संपाद्यते । तेन त्र्यचत्वधर्मोपेतत्वकारणेन यो स्तोमयोरेकविधत्वमित्युत्तरं ब्रूयात् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयना. मणभाष्ये चतुर्दशाध्याये पञ्चमः खण्डः ॥५॥(४३) [११४]
पुनरादित्यसाम्येन प्रशंसति
यो वा एष तपत्येषोऽग्निष्टोम एष साहस्तं
सहैवाहा संस्थापयेयुः साह्नो वै नाम, इति । य एव प्रसिद्ध एषोऽस्मत्प्रत्यक्ष आदित्यस्तपति, एपोऽनिष्टोमस्तयोरादि त्यानिष्टोमयोः सहशत्वात् । कथं साम्यमिति तदुच्यते । एषोऽग्निष्टोम आदि त्यवत्साह आदित्योऽहा सह वर्तते तथाऽयमपि । तमनिष्टोमं यत एकेनासा समा. पयेयुस्तस्मादादित्यस्येव साह इति क्रतो म संपन्नम् ।
इदानीमाग्निष्टोमानुष्ठाने त्वरा निषेधति
तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु
ह यजमानोऽप्रमायुको भवति, इति । यस्मादेकमहः साकल्येनानुष्ठानाय पर्याप्तं तेन कारणेन सर्वेऽप्यत्विजोऽसं. त्वरमाणास्त्वरामकुर्वन्त उत्तरोत्तरानुष्ठानं सम्यक्पर्यालोचयन्तश्वरेयुरनुतिष्ठेयुः। यथैव प्रातःसवने मध्यरात्रादूर्ध्वमारभ्य मध्याह्नात्पूर्वकालस्यानुष्ठानपर्याप्तत्वा मास्ति त्वरैवमुत्तरयोरपि सवनयोः । एवमु हानेनैव प्रकारेण शनैरनुष्ठाने सति बुद्धिसमाधानेनाणलोपाभावाद्यजमानोऽप्रमायुकोऽपमृत्युरहितो भवति ।
विपक्षे बाधकं दर्शयति
यद्ध वा इदं पूर्वयोः सवनयोरसत्वरमाणाश्च रन्ति तस्माद्वेदं प्राच्यो ग्रामता बहुलाविष्टा अथ यद्धेदं तृतीयसवने संवरमाणाश्चरन्ति तस्माद्वेदं प्रत्यश्चि दीर्घारण्यानि भवन्ति तथा ह यजमानः प्रमायुको भवति , इति ।
(पठः खण्डः]
ऐतरेयबामणम्।
४११ - यदि प्रयमद्वितीययोः सवनयोः कालसंकोचाभावादसंवरमाणा
चरन्त्यनुतिष्ठेयुस्तदानीं तस्माद्ध तस्मादेवाङ्गलोपाभावात्कारणादिदं यते । किमिदमिति तदुच्यते । प्राच्यो ग्रामताः पूर्वदिग्वर्तिनो ग्रामसमूहा लाविष्टा बहुभिर्जनैः संपूर्णा भवन्ति । अथ तद्विपर्ययेण यद्ध यदि तृतीय ने कालसंकोचमाशङ्कय संत्वरमाणा अतित्वरया युक्ता इदं कर्म चरन्त्यनु विप्रन्ति तस्माद्ध तदानीमावैकल्यसंभवादेवेदं लोके दृश्यते प्रत्यश्चि पश्चिमदि वीनि दीर्घारण्यानि जनशून्यानि भवन्ति । तथा ह तादृशेन संभावितागवै प्रत्ययुक्तेनानुष्ठानेन यजमानः प्रमायुको भवति । अपमृत्युना म्रियत इत्यर्थः।
विपक्षे बाधकमुक्त्वा स्वपक्षं निगमयति
तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु
ह यजमानोऽप्रमायुको भवति, इति । अथ त्रिषु सवनेषु शस्त्रस्योत्तरोत्तरं ध्वन्याधिक्यं विधत्ते–
स एतमेव शस्त्रेणानु पर्यावर्तेत यदा वा एष प्रातरुदेस्यथ मन्द्रं तपति तस्मान्मन्द्रया वाचा प्रातःसवने शंसेदथ यदाऽभ्येत्यथ बलीयस्त पति तस्माद्बलीयस्या वाचा मध्यंदिने शंसे दथ यदाऽभितरामेत्यथ बलिष्ठतमं तपति तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसे देवं शंसेद्यदि वाच ईशीत वाग्धि शस्त्रं यया तु वाचोत्तरोत्तरिण्योत्सहेत समापनाय तया
प्रतिपद्यतैतत्सुशस्ततममिव भवति , इति । स होतैतमेवाऽऽदित्यमनुसत्य शस्त्रेण पर्यावर्तेत यथा यथाऽऽदित्य उत्त उत्तराधिक्येन तपति तथा तथैवोत्तरोत्तरध्वन्याधिक्येन होता शंसेत् । यदा ॥ इत्यादिना तदेव स्पष्टी क्रियते । यस्मिन्नेव काल एष आदित्यः प्रातरुदेति तःकालमभिव्यञ्जयितुमुदितो भवति, अथ तदानी मन्द्रमल्पं यथा भवति या तपति तस्मादादित्यमनुवर्तमानो होता प्रातःसवने मन्द्रया स्वल्पचन्युपे. पावाचा शंसेत् । अथ प्रातःकालावं यदाऽभ्येति मध्याह्नकालं निष्पाद
1881 Memorial Collection D. Amritansusekhar Bagchi
११२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१४चतुर्द ध्याये यितुमाभिमुख्येनो गच्छति, अथ तदानीं सूर्यो बलीयः प्रबलं यथा ही तथा तपति तस्माद्धोताऽपि बलीयस्या प्रबलध्वनियुक्तया वाचा मी शंसेत् । अथ मध्याहादूर्व यदा सूर्योऽभितरामेति पश्चिमाभिमुखानां पर णामत्यन्तमाभिमुख्येन गच्छति, अथेदानीमादित्यो बलिष्ठतमं तपति मध्या तापादप्यत्यन्तं प्रबलस्तापो भवति भूमौ दिक्षु चोष्णत्वबाहुल्यात् । तस्मात दानी होता माध्यंदिनसवनध्वनेरप्यधिकध्वनियुक्तया वाचा तृतीयसन शंसेत् । यद्ययं होता वाच ईशीतेश्वरो भवेदश्यवाक्स्याच्छ्लेष्मादिदोषेण ध्वने मन्धिं न प्रामुयात्तदानीं येन ध्वनिना तृतीयसवने प्रारम्भः कृत एवं तेने ध्वनिना शंसेत् । किमर्थं ध्वन्याधिक्यमिति तदुच्यते । यस्मादागेव शस्त्रं वा निष्पाद्यत्वात्तस्माद्यया तु यादृशध्वनियुक्तयेव वाचोत्तरोत्तरिण्योत्तरोत्तरा
वृद्धिभाजा समापनायोत्सहेत शस्त्रं समापयितुमुत्साहवान्भवेत् । न तु मः नीचध्वनिर्भवेत् । तथा(या) तथाविधध्वन्युपेतया वाचा शस्त्रं प्रतिपद्येत पा भेत । तदेतदुक्तलक्षणोपेतं शस्त्रं मुशस्ततममिव भवति श्रुतिवैकल्यराहित्येन त्यन्तं शस्तमेव भवति ।
ननु तृतीयसवने त्वरामन्तरेण शनैः शंसेदिति पूर्वत्रोक्तं तथा सति कार स्याल्पत्वेन समापनात्मागेव सूर्योऽस्तमियादित्याशङ्कय वस्तुतोऽस्तमयाभाव भास्ति दोष इत्यभिप्रेत्याऽऽह
स वा एष न कदाचनास्तमेति नोदेति, इति । अस्तमयः स्वरूपनाशः । उदयः सूर्योत्पत्तिः । न हि सूर्यस्य कदाचिद स्वरूपनाशोत्पत्ती विद्यते।
कथं तर्हि जनानां सूर्यास्तमयव्यवहार इत्याशङ्कयाऽऽह
तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्त मित्वाऽथाऽऽत्मानं विपर्यस्यते रात्री
मेवावस्तात्कुरुतेऽहः परस्ताव , इति । यद्यदा पाणिनः सूर्योदयादूर्व यामचतुष्टयानन्तरं सूर्योऽस्तमेतीति तं सूर्य मस्तमितं मन्यन्ते तत्तदानीं सूर्यस्तत्माणियुक्ते देशे प्रकाशरूपस्याह एवान्त मित्वा समाप्तिं माप्याथानन्तरं स्वात्मानं विपर्यस्यते विपर्यस्तं करोति । का विपर्यास इति स उच्यते । अवस्तादतीते देशे रात्रिमेव कुरुते परस्तादागा मिनि देशेऽहः कुरुते । अयमर्थः । मेरोः प्रदक्षिणं कुर्वनादित्यो यदेशवासिन प्राणिनां दृष्टिपथमागच्छति तदेशवासिभिरयमुदेतीति व्यवाहियते। यदेशवासित
षष्ठः खण्डः]
ऐतरेयब्राह्मणम् । नियमतिक्रम्य सूर्ये गते सति सूर्योऽस्तमेतीति तदेशवासिभिर्व्यवहियते ।
तस्मिन्देशे रात्रिर्भवति । आदित्येन गन्तव्ये देशान्तरे तद्देशवासिभिः प्राणिभिः सूर्यस्य दृष्टत्वादहर्भवति । एवं च सति सूर्यस्य विनाशरूपोऽस्तमयः कदाचिदपि नास्तीति सिद्धम् ।
अनेनैव न्यायेन सूर्यस्य स्वरूपोत्पत्तिलक्षणोदयाभावं दर्शयति–
अथ यदेनं प्रातरुदेतीति मन्यन्ते रात्रे. रेव तदन्तमित्वाऽधाऽऽत्मानं विपर्यस्यतेऽ
हरेवावस्तात्कुरुते रात्रि परस्ताव , इति । पूर्ववद्याख्येयम् । परमार्थतोऽस्तमयस्याभावं निगमयति
स वा एष न कदाचन निम्रोचति, इति । निम्रोचनमस्तमयः । एतस्योपलक्षणत्वान्न कदाचिदुदेतीत्यपि द्रष्टव्यम् । वेदनं प्रशंसति
न ह वै कदाचन निम्रोचयेतस्य ह सायुज्यं सरूपतां सलोकतामभुते य
एवं वेद य एवं वेद ॥ ४४ ॥ इति । वेदितुरस्तमयाभावो नामापमृत्युराहित्यमिह जन्मनि तादृशो भूत्वा पश्चा. देतस्याऽऽदित्यस्य सहवाससमानरूपत्वसमानलोकत्वानि प्रामोति । न च सहवासेनैव समानलोकत्वं सिध्यतीति वाच्यम् । कदाचिदपि स्वेच्छया पृथग. वस्थानेऽपि तल्लोकभ्रंशो नास्तीति विवक्षया समानलोकत्वमुच्यते । अभ्या सोऽध्यायसमाप्त्यर्थः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्ये चतुर्दशाध्याये षष्ठः खण्डः ॥ ६ ।। ( ४४ ) [ ११५ ] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्रा. ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये
चतुर्दशोऽध्यायः ॥ १४ ॥
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१५पञ्चद ध्याये.