१३

अथ त्रयोदशोऽध्यायः ।

वक्त्याहावप्रभेदं प्रतिगरणमथानुष्टुभः शस्यमाना

मृत्योः संनद्धवादिक्रमणमथ मरुत्वद्विधानप्रशंसा ॥ तच्छेषा ये विशेषाः प्रतिपदनुचरप्रक्रमाः सप्तभागं

निष्केवल्यं च शस्त्रं तदवयवकृताः स्तोत्रियाद्याश्च पश्च ।। १ अथ तृतीयसवनं वक्तुमादावाख्यायिकामाह

सोमो वै राजाऽमुष्मिल्लोक आसीत्तं देवाश्च ऋषयश्चाभ्यध्यायन्कथमयमस्मात्सोमो राजा गच्छेदिति तेऽब्रुवंश्छन्दांसि यूयं न इम सोमं राजानमाहरतेति तथेति ते सुपणा

प्रथमः खण्डः] ऐतरेयब्राह्मणम् ।

भूत्वोदपतंस्ते यत्सुपर्णा भूत्वोदपतस्तदेत

सौपर्णमित्याख्यानविद आचक्षते, इति । सोमवली धुलोक एवाऽऽसीन त्वेतस्मिल्लोके तदानीं सोममभिलक्ष्य कारेण सोमो न आगच्छेदिति देवा ऋषयश्च विचारितवन्तः । विचार्य गादीनि च्छन्दांसि प्रत्येवमब्रुवन् । हे छन्दांस्यस्मदर्थ सोममाहरतेति । नि च तदङ्गीकृत्य ते लोकप्रसिद्धाः पक्षिणो भूत्वा धुलोकं प्रत्युदपतन् । मादेवं तस्मादेतत्सोमाहरणप्रतिपादकं ग्रन्थजातं सौपर्णमाख्यानमिति पौरा. का आख्यानविदः कथयन्ति । अथोत्पतत्सु च्छन्दःसु मध्ये जगतीवृत्तान्तमाह

छन्दांसि वै तत्सोमं राजानमच्छाचरंस्तानि ह तर्हि चतुरक्षराणि चतुरक्षराण्येव च्छन्दां स्यासन्सा जगती चतुरक्षरा प्रथमोदपतत्सा पतित्वाऽर्धमध्वनो गत्वाऽश्राम्यत्सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत्तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति जागता

हि पशवो जगती हि तानाहरत , इति । गायत्र्यादिच्छन्दांस्युत्पतने प्रवृत्तानि तदानीं सोममच्छ प्राप्तुं घुलोके यचरस्तानि च च्छन्दांसि तस्मिन्काले चतुरक्षरोपेतान्यतः पुरा सर्वदा रसराण्येवाऽऽसन तु कस्यापि च्छन्दसोऽधिकाक्षरताऽऽसीत् । ततः जगती चतुरक्षरा सती छन्दोन्तरेभ्यः सर्वेभ्यः प्रथमं प्रवृत्वा सोमस्थानं पुदपतत् । सा च मार्गस्याधं गत्वा श्रान्ता सती श्रमवशात्रीण्यक्षराणि परि १. स्वयमेकाक्षरा भूत्वा सोममाहमशक्नुवती सोमयागसंबन्धिनी दीक्षां “पथ्यादिरूपां क्षीरपानादिरूपं तपश्च हरन्ती तस्माल्लोकादानयन्ती पुन मामलक्ष्यावापतत्, अधोमुखी समागता । यस्मादेवं तस्माल्लोके यस्य

का सन्ति तेन दीक्षा वित्ता लब्धा तपश्च लब्धं भवति । न च

जगत्या समानीतयोः सतोः पशनां तदुभयकारणत्वं कथमिति शङ्क. ५। पशूनां जागतत्वेन जगतीद्वारा दीक्षासंबन्धसंभवात् । जागतत्वं .

३५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्–१३त्रयोव्या कथमिति चेत् । जगत्या पशूनामानीतत्वादिति द्रष्टव्यम् । अत एव शाखा जगतीं प्रकृत्यैवमानातम्-‘सा पशुभिश्च दीक्षया चाऽऽगच्छत्तस्मा छन्दसां पशव्यतमा तस्मादुत्तमा तस्मात्पशुमन्तं दीक्षोपनमति’ इति ।

त्रिष्टुभो वृत्तान्तमाह

अथ त्रिष्टुबुदपतत्सा पतित्वा भूयोऽर्धा दध्वनी गत्वाऽश्राम्यत्सा परास्यैकमक्षरं ध्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्यवाप तत्तस्मान्मध्यंदिने दक्षिणा नीयन्ते त्रिष्टुभो

लोके त्रिष्टुभि ता आहरत् ॥ २५ ॥ इति । सा त्रिष्टुब्युलोके भूयो भूयः पतित्वाऽपि मार्गस्यार्धादेवाश्राम्पदिल न्वयः। यस्मादेव दक्षिणाः सर्वा आनीतवती तस्मात्रिष्टुभः स्थाने माध्यंदिन सवने यजमानैर्दत्ताः सर्वा दक्षिणा ऋत्विग्भिीयन्ते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवा ह्मणभाष्ये त्रयोदशाध्याये प्रथमः खण्डः ॥ १॥ (२५) [९६]

अथ गायत्रीत्तान्तमाह

ते देवा अब्रुवन्गायत्रीं वं न इमं सोमं राजान माहरेति सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्य यनेनानुमन्त्रयध्वमिति तथेति सोदपतत्तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रति चेति चेत्येतद्वै सर्वस्वस्त्ययनं यत्प्रेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति

स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति, इति । जगतीत्रिष्टुभोः सोमानयनसामर्थ्याभावं दृष्ट्वा ते देवा गायत्री . तवन्तः । हे गायत्रि त्वं नोऽस्मदर्थमिमं सोममाहरेति । सा च गायन त्यङ्गीकृत्य देवान्मत्येवमब्रवीत् । हे देवा यदाऽहं सोममानेतुं गच्छामि तामेवं गच्छन्ती मां यूयं सर्वेऽपि यथाशक्ति सर्वेण स्वस्त्ययनमातीयः खण्डः ] ऐतरेयबामणम् ।

३५७ वस्त्ययनं तदर्थमाशीर्वादरूपेण मत्रेण ममानुमन्त्रणं कुरुतेति । तथेति देवैरङ्गीकृते सति सा गायत्री धुलोकं प्रत्युत्पतनमकरोत्त टेवाः स्वागतप्रकारेण सर्वेणापि क्षेममापणमन्त्रेण गायत्रीमनुमत्रितवन्तः। मन्त्र इति । प्रशब्द एको मत्रः। आशब्दो द्वितीयो मन्त्रः। तदुभ नामितिशब्दद्वयम् । उभयसमुच्चयार्थं चकारद्वयम् । क्षेमेण सोमं पिनरपि क्षेमेणाऽऽगच्छेत्ययमाशीवोंदमत्रद्वयस्यार्थः । एतदेव मन्त्रदयं वस्त्ययनं प्रेत्येकमेति द्वितीयं यदस्ति, इतोऽधिकं नान्यत्स्वस्त्ययन । यस्मादिदमेव सर्वक्षेममापकं तस्मादिदानीमपि यः पुमान्यामान्तरं जिग स्य गृहस्वामिनः प्रियः स्यात्तं जिगमिषु प्रेत्येतीति मनद्वयेनानुमत्रयेत शीर्वादप्रसादेनायं क्षेमेणैव गच्छति पुनरागच्छति च । त्यं प्रासङ्गिकं लौकिकविधिमुक्त्वा प्राकृतमेव गायत्रीवृत्तान्तमनुसरति

सा पतित्वा सोमपालान्भीषयित्वा पभ्यां च मुखेन च सोमं राजानं समगृभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात् , इति । गायत्री पतित्वोत्पतनेन सोमं प्राप्य गन्धर्वान्स्वानभ्राजादीन्सो कानास्फोटनायुधप्रदर्शनादिना भीषयित्वा भीत्या तेष्वपस्तेषु स्वयं पा सती स्वकीयाभ्यां पयां मुखेन च सोमं सम्यग्गृहीतवती । स्वान दीनां सोमपालकत्वमाध्वर्यवे सोमप्रकरणे मत्रतद्राह्मणाभ्यामवगम्यते । भ्राजान्धारेवम्भारेहस्तसुहस्तकृशानवेतेवः(?) सोमैक्रयणास्ताव्रक्षध्वमिति । स्वानभ्राजेत्याहैते वाऽमुष्मिल्लोके सोममरक्षन्निति ब्राह्मणम् । न केवलं । सोममेव गृहीतवती किंत्वितरे छन्दसी जगतीत्रिष्टुवाख्ये यानि यक्षराण्यजहितां परित्यक्तवत्यौ तानि चोपेत्य सम्यग्गृहीतवती । यि तस्या गायत्र्या गन्धर्वेण सह युद्धे यो वृत्तान्तस्तं दर्शयति तस्या अनु विसृज्य कृशानुः सोमपालः सव्य स्य पदों नखमच्छिदत्तच्छल्यकोऽभवत्तस्मात्स नखमिव यदशमस्रवत्सा वशाऽभवत्तस्मात्सा हविरिवाथ यः शल्यो यदनीकमासीत्स सर्पो

,

१ क. वादे । २ . . मत्रय ।

३५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१३त्रयोकन

निर्देश्यभवत्सहसः स्वजो यानि पर्णानि ते मन्थावला यानि नावानि ते गण्डूपदा यत्ते

जनं सोऽन्धाहिः सो सा तथेषुरभवत्॥२६॥इति । स्वानभ्राजादिषु सोमरक्षकेषु यः सप्तमो गन्धर्वः कृशाननामकः । तस्या गायच्या अनु पृष्ठतो बाणं विसृज्य तदीयस्य वामपादस्यैकं नसी वान् । तच्च नखं शल्यको मर्कटशरीरपरिमितः शलल्याख्यो मृग आसी यस्य मृगस्य पुच्छसमीपे बहवो रोमविशेषाः प्रादेशपरिमितास्तीक्ष्णाग्रा : मया उत्पद्यन्ते स शल्यकः । यस्मादयं नखादुत्पन्नस्तस्मात्स नखमिव ती अरोमोपेतः। तत्र च्छिन्ननखपादप्रवेशे यद्वशं मेदोऽस्रवत्सा वशा मेध्या का दजाऽव्यादिपशुष्वासीत् । तस्मादायच्या उत्पन्नत्वात्सा वशा हविरिव तायोग्यं हविरेवाऽऽसीत् । तच्च हविष्टुं शाखान्तरे श्रूयते—‘एतामेव वा दियेभ्यः कामायाऽऽलभेत’ इति । अथ नखच्छेदनाय गन्धर्वेण विसृष्टो। सोऽपि नखसंघटनेन कुण्ठिताग्रो बहुधा भग्नो भूमौ पतितः । तस्य वार यः शल्यः कृष्णायसनिर्मितो बाणाने स्थापितस्तस्य च शल्यस्य यद मुखं संघटनेन कुण्ठितमासीत्सोऽयं शल्यस्तदनीकोभयात्मको बाणभागो देशी दंशनासमर्थः सर्पोऽभवत् । जलमध्ये संचरतो दुन्दुभाख्यस्य स विषरहितत्वाइंशनसामर्थ्य नास्ति । तस्मात्कुण्ठिताग्रस्य लोहस्य योऽयं वेगस्तस्मात्सहसो बाणवेगात्स्वज उभयतःशिराः सर्पोऽभवत् । तस्य वा मूले यानि पर्णानि कङ्कपत्राणि ते मन्थावला अभवन् । ये जीवविशेषा। शाखास्वधोमुखा अवलम्बन्ते ते मन्थावलाः । तस्मिन्बाणे यानि स्वार पत्रबन्धनार्थाः स्नायुविशेषास्ते गण्डुपदा अभवन्नवस्कारादिस्थानेषु ये वजायन्ते ते गण्डूपदाः। तस्मिन्बाणे यत्तेजनं लोहपत्रव्यतिरिक्तं काष्ठ न्धाहिरभवत्, दृष्टिरहितः सोऽभूत् । तथा तेनोक्तप्रकारेणेषुर्गन्धर्वणः बाणः सो साऽभवत् । उशब्दः समुच्चयार्थः । सा च सा चेत्युक्तं भवर तथोक्ते सति तत्तजातिनिशिसोदिरूपेत्युक्तार्थोपसंहारः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये त्रयोदशाध्याये द्वितीयः खण्डः ॥ २ ॥ (२६) [९७]

यिः खण्डः] एतरयबामणम् । । अथ तृतीयसवनार्थ सवनस्योत्पत्ति दर्शयति

सा यदक्षिणेन पदा समगृभ्णात्तत्प्रातःसवन मभवत्तद्वायत्री स्वमायतनमकुरुत तस्मात्तत्स मृद्वतमं मन्यन्ते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेदाथ यत्सव्येन पदा समगृभ्णात्तन्माध्यंदिनं सवन मभवत्तदिलंसत तदिस्रस्तं नान्यानोत्पूर्व सवनं ते देवाः प्राजिज्ञासन्त तस्मिंत्रिष्टुभं छन्दसाम दधुरिन्द्र देवतानां तेन तत्समावदीर्यमभवत्पू वेण सवनेनोभाभ्यां सवनाभ्यां समावदीर्याभ्यां समावज्जामीभ्यां रानोति य एवं वेदाथ यन्मु

खेन समगृभ्णात्तत्तृतीयसवनमभवद , इति । । गायत्री सोममानयन्ती दक्षिणेन पदा पादेन यत्सोमस्य स्वरूपं याव तवती तत्तावत्मातःसवनमभवत् । तच्च प्रातःसवनं सा गायत्री स्वकीयं मकरोत् । तस्मात्तत्सर्वेषां सवनानां मध्येऽतिशयेन समृद्धमिति याज्ञिका ।।तत्र प्रयोगबाहुल्यसद्भावात । य एवमुक्तार्थ वेद स स्वकीयानां मध्ये मुख्यः सन्विद्यावृत्तादिरूपां श्रेष्ठता प्रामोति । अथ सा गायत्री वामपा सामस्य स्वरूपं गृहीतवती तन्माध्यंदिनं सवनं विस्रस्तमभूत् । वामपा. तत्र विवस्तं गलितं तन्माध्यंदिनं सवनं पूर्वोक्तपातःसवनानुगमनाय नामत् । ते देवा विचार्य तस्मिन्माध्यंदिने सवने स्वामित्वेन च्छन्दसां वाम देवतानां मध्य इन्द्रं च स्थापितवन्तः । तेन तन्माध्यंदिनं सवनं वनन सह समावद्वीर्य तुल्यसामर्थ्यमभूत । उक्तार्थवेदिता तुल्यसामर्थ्या एव तुल्यजामीभ्यामुभाभ्यां सवनाभ्यां समृद्धो भवति । जामीशब्दो चातुल्यजातिभ्यामित्यर्थः। अथ गायत्री मुखेन यत्सोमस्वरूपं गृही

तत्तृतीयसवनमभूत् ।

स्पन्सवन ऋजीषस्वरूपे निःसारे सोम आशिरादिकं विधत्ते तस्य पतन्ती रसमधयत्तद्धीतरसं नान्यानोत्पूर्वे

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम-[१३यो

सवने ते देवाः प्राजिज्ञासन्त तत्पशुष्वपश्यंस्त घदाशिरमवनयन्त्याज्येन पशुना चरन्ति तेन

तत्समावदीर्यमभवत्पूर्वाभ्यां सवनाभ्याम, इति । सा गायत्री मुखेन तृतीयसवनरूपं सोमं गृहीत्वा धुलोकाशा तस्य सोमस्य रसमधयत्सारं पीतवती । तत्तृतीयसवनं धीतरसं पी भूत्वा पूर्वोक्तप्रातःसवनमाध्यंदिनसवने द्वे अनुगन्तुं नाशक्नोत । तेस त्पतीकारं विचार्य तत्साधनं पशुष्वपश्यन् । पशुषु क्षीरं यदस्ति यचा मस्ति यदपि हृदयाघङ्गमस्ति तत्सर्व सारं तस्माद्यत्पीतरसे सोमवार ऋजीष आशिरं क्षीरमवनयन्ति सिञ्चन्ति याज्ञिकास्तथाऽऽज्यपशभ्यां न्त्यनुतिष्ठन्ति तदानीं तेनानुष्ठानेन तत्तृतीयसवनं पूर्वसवनाभ्यां तुल्यसामा मभूत् । अयमर्थः सर्वोऽपि शाखान्तरे संगृह्याऽऽनात:-‘ब्रह्मवादिनो वह तस्मात्सत्यागायत्री कनिष्ठा छन्दसां सती यज्ञमुखं प्रतीयायेति यदेव सोममाहरत्तस्माद्यज्ञमुखं पर्यंत्तस्मात्तेजस्विनी तमापद्भ्यां द्वे सबने समग्रमा खेनैक यन्मुखेन समगृभ्णात्तदधयत्तस्माद्द्व सवने शुक्रवती प्रातःसवन माध्यंदिनं च तस्मात्तृतीयसवन ऋजीपमभिषुत्य धीतमिव हि मध्यत आ रमवनयति सशुक्रत्वायेति ।

वेदनं प्रशंसति

सः सवनैः समावहीयः समावज्जा

मिभी राम्रोति य एवं वेद ॥ २७ ॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये त्रयोदशाध्याये तृतीयः खण्डः ॥ ३ ॥ (२७) [९८]

ननु पूर्वत्र सर्वाणि च्छन्दांसि चतुरक्षराणीत्युक्तं तेष्वपि त्रिष्टुभ एकन गतं जगत्याश्च त्रीण्यक्षराणि गतानि । तथा सति सर्वश्रुत्यन्तरावर च श्रुत्यन्तरेष्वष्टाक्षरा गायत्री। एकादशाक्षरा त्रिष्टुप् । द्वादशाक्षर सर्वत्र श्रूयतेऽनुष्ठानं च तथैव क्रियते तत्कथं विरोधपरिहार इत्याला परिहारं दर्शयितुमारभते

ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं,

धर्षः खण्डः] ऐतरेयप्राह्मणम् ।

३६१ नावक्षराण्यनुपर्यागुरिति नेत्यब्रवीगायत्री यथा वित्तमेव न इति ते देवेषु प्रश्नमैतां ते देवा अब्रु वन्यथावित्तमेव व इति तस्मादाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ततो वा अष्टाक्षरा

गायत्र्यभवत्यक्षरा त्रिष्टुबेकाक्षरा जगती, इति । ये त्रिष्टुजगत्यौ पुरा स्वकीयान्यक्षराणि परित्यक्तवत्यौ ते एवेमे इतरे त्रीव्यतिरिक्त छन्दसी गायत्रीमभिलक्ष्य समागत्यैवमुक्तवत्यौ । हे त्रि यत्त्वया वित्तं लब्धमाधिकमक्षरचतुष्टयं तदेतत्रौ त्रिष्टुजगत्योरावयोः। तानि चत्वार्यक्षराण्यनुपर्यागुरावां त्रिष्टुब्जगत्यावनुलक्ष्य पर्यावृत्य गच्छ. ति । गायत्री तयोर्वचनं नेति निराकृत्य तत्रैतामुपपत्तिमब्रवीत । नोड के यथावित्तमेव लब्धमनतिक्रम्यैव स्वामित्वं युक्तम् । यद्वस्तु येन लब्धं स्यैवेति लौकिकन्यायस्तं न्यायं निर्णेतुं ते त्रिष्टुब्जगत्यौ देवेषु प्रश्नमैतां ताम् । हे देवाः कथं न्याय इति तयोः प्रश्नः। ते च देवा उत्तर ब्रुवन् । वो युष्माकं तिसृणां यथावित्तमेवाक्षरस्वीकारो युक्त इति । आवेरेवमुक्तं तस्माद्ध तत एव कारणादिदानीमपि वित्त्यां कस्यांचि पस्य द्रव्यलब्धौ सत्यां व्याहुर्विप्रतिपन्न प्रति न्यायाभिज्ञा एवमाहुः। स्माकं सर्वेषामपि लब्धमनतिक्रम्यैव वस्तुस्वीकारो युक्त इति । युद्धादौ सति परसेनायां प्रविश्य येन यल्लभ्यते तेनैव तगृह्यत इति वक्तूणामभि । देवैन्याये निर्णीते सति तदूर्ध्व गायत्री स्वकीयः स्वभावसिद्धै रक्षरेयुद्ध लब्धैश्चतुरक्षरैरपि स्वयमष्टाक्षराऽभूत् । त्रिष्टुभः पूर्व वर्तमानेषु बकाक्षरस्य गतत्वाध्यक्षरैव सा । तथा जगत्याश्चतुरक्षरेष्वक्षरत्रयस्य गत काक्षरैव साऽभवत् । दानी त्रिष्टुभोऽक्षरत्रयादधिकानामक्षराणां प्राप्तिप्रकारं दर्शयति साऽष्टाक्षरा गायत्री प्रातःसवनमुदयच्छन्नाश कोत्रिष्टुप्ठ्यक्षरा माध्यंदिनं सवनमुद्यन्तुं तां गायत्र्यब्रवीदायान्यपि मेनास्त्विति सा तथे त्यब्रवीत्रिष्टुप्तां वै मैतैरष्टाभिरक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतदै तगायन्यै मध्यंदिने

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१३त्रयो व्याने यन्मरुत्वतीयस्योत्तरे प्रतिपदो यश्चानुचरः सैका दशाक्षरा भूत्वा माध्यंदिनं सवनमुदयच्छन्, इति । येयमष्टाक्षरा गायत्री सेयं प्रातःसवनमुदयच्छदुद्यमनं निर्वाहं तस्य प्रात सवनस्याकरोत् । या तु त्रिष्टुप्ठ्यक्षराऽक्षरत्रयमात्रेण युक्ता सती माध्यति सवनमुद्यन्तं निर्वोढुं नाशकोत्तामशक्तां त्रिष्टुभं दृष्ट्वा गायव्येवमनी आयानि त्वत्सहायार्थमहमागच्छानि मे ममाप्यत्रास्मिन्माध्यंदिने भागोऽस्त्विति । तद्वचनमङ्गीकृत्य सा त्रिष्टुबेवमब्रवीगायत्रीं तां वै माता त्र्यक्षरामेव मां स्वकीयैरेतैरष्टाभिरक्षरैरुपसंधेहि सामीप्येन संधानं कुरु प्रति त्यर्थः । तद्वचनमङ्गीकृत्य सा गायत्री तां त्रिष्टुभमुपदधात्स्वकीयैरष्टाभिरस प्राविशत् । कोऽसौ गायत्र्या लब्धो भाग इति स उच्यते । मरुत्व यस्य शस्त्रस्योत्तरे प्रतिपदौ, आ त्वा स्थमित्यस्मिन्प्रारम्भरूपे त्र्यचे प्रथमा उत्तरे ये द्वे ऋचौ प्रतिपदौ प्रारम्भरूपे विद्यते यश्चेदं वसो सुतमित्यनुचर पत्यूचस्तदेवतहक्पश्चकं माध्यंदिनसवने गायत्र्यै त्रिष्टुभा दत्तं ताश्व पञ्च गायत्रीछन्दस्कास्ततो गायत्रीप्रवेशात्सा त्रिष्टुबेकादशाक्षरा भूत्वा माध्यंदि सवनप्रयोगमुदयच्छनिरवहन् ।

अथ जगत्याः स्वकीयादेकस्मादक्षरादधिकानामक्षराणां प्राप्ति दर्शयति

नाशकोजगत्येकाक्षरा तृतीयसवनमुद्यन्तुं तां गायत्र्यब्रवीदायान्यपि मेत्रास्त्विति सा तथेत्यब्रवीज्जगती तां वै मैतैरेकादश भिरक्षरैरुपसंधेहीति तथेति तामुपसमद धादेतदै तगायत्यै तृतीयसवने यवैश्वदे वस्योत्तरे प्रतिपदो यश्चानुचरः सा हाद

शाक्षराभूत्वा तृतीयसवनमुदयच्छत् , इति । वैश्वदेवशस्त्रस्य प्रतिपदनुचरावुपरिष्टादुदाहरिष्येते । उक्तमर्थं निगमयति

ततो वा अष्टाक्षरा गायत्र्यभवदेकादशाक्षरा

रामः खण्डः] ऐतरेयबामणम् ।

३६१ त्रिष्टुब्हादशाक्षरा जगती, इति । वेदनं प्रशंसति

सर्वेश्छन्दोभिः समावदीयः समावज्जा

मिभी राम्रोति य एवं वेद, इति । गायत्री विशेषणविशेषेण प्रशंसति

एकं वै सत्तत्रेधाऽभवत्तस्मादाहुर्दातव्यमेवं विदुष इत्येकं हि सत्तत्रेधाऽभवत् ॥२८॥ इति । तद्भगायत्र्याः स्वरूपं पूर्व चतुरक्षररूपेणैकमेव सत्पश्चादधिकाक्षरचतुष्टयत्व पादनेन स्वकीयानामष्टाक्षराणां त्रिष्टुब्जगत्योः प्रवेशेन च त्रेधाऽभवत् । मादीदृशो गायच्या महिमा तस्मादेवंविदुषे गायत्रीमहिमानं ज्ञातवते पुरु य लोके सुवर्णादिकं दातव्यमित्येवं धर्मरहस्यविदः प्राहुः । यस्मादायत्री. रूपमेकमेव सत्रेधाऽभूत्तस्मात्तद्विदे दानमुचितमेवेत्युपसंहारार्थे पुनर्वचनम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मण

भाष्ये त्रयोदशाध्याये चतुर्थः खण्डः॥४॥ (२८) [९९]

एवं तावत्तृतीयसवनमवतारयितुं सोमाहरणकथा वर्णिता । अथ तृतीयस मुच्यते । तत्र वैश्वदेवानिमारुतयोः कृप्तिः संगृह्यते

“स्याद्वैश्वदेवे सवितुः पुनस्तु

द्यावापृथिव्याभववैश्वदेविका। वैश्वानरीयं मरुतां च शंसनं

स्युर्जातवेदस्यमिहाऽऽग्निमारुते” ॥ तृतीयसवनस्याऽऽदावादित्यग्रहं विधत्ते

ते देवा अब्रुवनादित्यान्युष्माभिरिदं सवन मुद्यच्छामेति तथेति तस्मादादित्यारम्भणं

तृतीयसवनमादित्यग्रहः पुरस्तात्तस्य, इति । तृतीयसवनं निर्वहन्त्या जगत्या अक्षरसंपूर्तिमवगतवन्तः । ते देवा आदि परासख्याकान्प्रत्येवमब्रुवन् । हे, आदित्या युष्माभिः सहिता वयमि सवनमुघच्छाम निर्वाह करवामहा इति । आदित्याश्व तयेत्यङ्गीकृतवन्तः।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१३त्रयो। यस्मादारम्भे देवैरादित्यसाहित्य प्रार्थितं तस्मादादित्यारम्भणं नती मादित्यग्रह आरम्भणे सर्वेषां ग्रहाणामादौ यस्य सवनस्य तदिदमानित म्भणं स एवार्थ आदित्यग्रह इत्यादिना स्पष्टी क्रियते । तस्य ततीय पुरस्तादादावादित्यदेवताको ग्रहः कर्तव्यः ।

तस्य ग्रहस्य याज्यां विधत्ते

यजत्यादियासो अदितिर्मादयन्तामिति महत्या

रूपसमृद्धया महदै तृतीयसवनस्य रूपम्, इति । अदितेः पुत्रा आदित्यास्ते च तन्माताऽदितिश्च मादयन्तां ग्रहेणा तुष्यन्तु । इत्येषा याज्या मदती। मदी हर्ष इत्यस्माद्धातोरुत्पन्नेन मच्छ पुक्ता । तस्यामादित्यानामदितेश्च हर्षवर्णनाद्विवक्षितदेवताविषयत्वेन रूप मृद्धा । तृतीयसवनस्य स्वरूपमपि मदे हर्षोपेतमेव तत्समाप्तौ देवतानां य मानानामृत्विजां हर्षोत्पत्तेः।

इतरग्रहवत्प्रसक्तावनुवषदारभक्षौ प्रतिषेधति

नानुवषट्करोति न भक्षयति संस्था वा एषा यदनुवषट्कारः संस्थाभक्षः प्राणा

आदित्या नेत्प्राणान्संस्थापयानीति, इति । अनुवषट्दारभक्षयोहसमाप्तिरूपत्वादादित्यानां च प्राणरूपत्वादादिल समापयन्नहं प्राणानेव समापितवान्भविष्यामीति भीत्या तत्समाप्तिरूपाव षट्कारभक्षी न कुर्यात् । नेदिति भयद्योतनार्थो निपातः। अथ सावित्रग्रहं वैश्वदेवशस्त्रस्य प्रतिपदं च विधत्ते

त आदित्या अब्रुवन्सवितारं त्वयेदं सह सव नमुद्यच्छामेति तथेति तस्मात्सावित्री प्रति पद्भवति वैश्वदेवस्य सावित्रग्रहः पुरस्तात्तस्य यजति दमूना देवः सविता वरेण्य इति महत्या रूपसमृद्धया महदै तृतीयसवनस्य रूपं नानु वषट्करोति न भक्षयति संस्था वा एषा यद

आदित्यासो अदिति०-७-५१-२ ।

चमः खण्डः ।

एतरपत्रामणम् ।

तस्यां च, अमदाच संहितायामा

नुवषद्वारः संस्था भक्षः प्राणः

सविता नेत्प्राणं संस्थापयानीति, इति । देवदेवशस्त्रस्य तत्सवितुर्वृणीमह इत्येषा सवितृदेवताका प्रतिपत्मारम्भ नव्या दमना देव इत्यादिका ग्रहस्य याज्या। सा च संहितायामनाना

कारेण पठिता। तस्यां च, अमदनेन मिष्टय इति मदिधातुः प्रयुक्तः। दियं मदती। अन्यत्सर्वमादित्यग्रहवद्याख्येयम् । अथ निवित्पदद्वारा सावित्रग्रहं प्रशंसति

उभे वा एष एते सवने विपिबति यत्स विता प्रातःसवनं च तृतीयसवनं च तद्य रिपबवत्सावित्र्यै निविदः पदं पुरस्ताद वति महदुपरिष्टादुभयोरेवैनं तत्सवनयोरा

भजति प्रातःसवने च तृतीयसवने च, इति । ग्रहस्य देवता यः सविताऽस्ति, एष देवः प्रातःसवनं च तृतीयसवनं ते उभे अपि सक्ने विपिबति विलक्षणत्वेन पिबति । तत्कथमिति तदे यते । वैश्वदेवशस्त्रे सावित्र्यै सवितृदेवताकाया निविदः पदं पिबवत्पिबति युक्तं पुरस्तादादौ भवति मद्वत्पदं मदधातुयुक्तमुपरिष्टादन्ते भवति । तेन सबने च तृतीयसवने चोभयोरपि सवनयोरेनं सवितारमाभजति भांवितं ति । सविता देवः सोमस्य पिबत्वित्येतनिविद आदौ प्रयुज्यमानं पदं वत्पदम् । तथाऽन्ते प्रयुज्यमानं सविता देव इह श्रवदिह सोमस्य मत्स ते मद्वत्पदमप्युदाहरणीयम् । तयोरुभयोः पदयोः सवनद्वयरूपयोविलक्ष वात्सवितुः पानमिति विलक्षणमिति द्रष्टव्यम् । एवंविधसवितृदेवताकत्वा प्रस्ताऽय ग्रह इत्यभिप्रायः । अथवा निवित्पदविधानार्थमिदं वाक्यं व्यम्।

अथ तस्मिन्वैश्वदेवशस्त्र एकया च दशभिश्च स्वभूत इत्येतां वायुदेव

मृचं विधत्ते बढ्यः प्रातर्वायव्याः शस्यन्त एका तृतीयसवने तस्मादूर्वाः पुरुषस्य भूयांसःप्राणायचावाञ्चः, इति।

.-

-.-

-.

१स.स. भ. ट. भाविनं।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१३श्यो।

वायुरग्रे गा इत्याद्या वायव्या ऋचो बढयः प्रातःसवने शस्यन्ते ।। सवने तु एकैव पूर्वोदाहता । तस्मात्यातःसवने वायुदेवताकानां रुषस्यापि प्रातःसवनीयस्थानीय मुखे वर्तमानत्वादूर्वाश्चक्षुर्घाणादयः भूयांसः । यच्च ये केचिदवाञ्चो नाभेराचीने तृतीयस्थानीये देशे पायुगुह्यादयोऽवाचः प्राणा अल्पीयांस इति शेषः।।

तस्मिन्नेव वैश्वदेवशस्त्रे द्यावापृथिवीदेवताकं सूक्तं विधत्ते

द्यावापृथिवीयं शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठाऽसावमुत्र तद्ययावापृथिवीयं

शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति ॥२९॥ इह मनुष्यजन्मनीयमेव भूमिः प्रतिष्ठाऽऽश्रयः । अमुत्र जन्मान्तरेऽसा घुलोकः प्रतिष्ठाऽऽश्रयः । एवं द्यावापृथिव्यावेव प्रतिष्ठे यस्मात्तस्मात्त सूक्तशंसनेनैनं यजमानं प्रतिष्ठारूपयोर्यावापृथिव्योरेवावस्थापयति ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण __ भाष्ये त्रयोदशाध्याये पञ्चमः खण्डः ॥५॥ (२९) [१०]

प्र द्यावा यज्ञैः पृथिवी ऋताहधेत्येतद्यावापृथिवीयं सूक्तं विधाय । प्रथं सुवृतमित्येतदार्भवं सूक्तं विधत्ते

आर्भवं शंसति, इति । ऋभुनामका देवा यस्मिन्सूक्ते सम्ति तदिदमार्भवं तस्य सूक्तस्य प्रश याचि तृतीयपादे तक्षपितृभ्यामृभवो युवद्वय इति तदेवताकत्वं प्रतीय

अथ धाय्ये विधातुमाख्यायिकामाह

ऋभवो वै देवेषु तपसा सोमपीथमभ्यजयंस्तेभ्यः प्रातःसवने वाचि कल्पयिषस्ताननिर्वसुभिः प्रातःसवनादनुदत तेभ्यो माध्यंदिने सक्ने वाचि कल्पयिषस्तानिन्द्रो रुद्राध्यंदिनास वनादनुदत तेभ्यस्तृतीयसवने वाचि कल्पाय घस्तान्विश्वे देवा अनोनुयन्त नेह पास्यान्तशुः खण्डः] ऐतरेयब्राह्मणम् ।

नेहेति स प्रजापतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवेभिः संपिबस्वेति स तथे.

यब्रवीत्सविता तान्दै त्वमुभयतः परिपि । बेति तान्प्रजापतिरुभयतः पयपिबद , इति ।

वेष सर्वेषु मध्य ऋभुनामकाः केचन देवत्वं प्राप्ता मनुष्यविशेषाः प्रजा पहिश्य तपः कृत्वा तेन तपसा सोमपीथमभ्यजयन्सोमपानमभिलक्ष्य

तः प्रजापतेः सकाशात्तल्लब्धवन्त इत्यर्थः । स प्रजापतिरन्या देवताश्च पभभ्यः प्रातःसवने वाचि कल्पयिषन्सोमपानं कल्पयितुमैच्छंस्तदानीं

सवनाभिमान्यग्निर्देवः स्वभृत्यैर्वसुभिः सह तस्मात्प्रातःसवनात्तातृभून न निराकरोत् । तथेन्द्रो रुद्रैः सह माध्यंदिनात्सवनानिराकरोत् । विश्वे स्तृतीयसवनादनोनुद्यन्त भृशं निराकुर्वन् । निराकरणप्रकारः स च नेहेति येन पुनः पुनरनूद्यते । इह तृतीयसवन ऋभवो न पास्यन्ति । विश्वेषां नां प्रत्येकं निराकरणवाक्येन संबन्धान्नेहति नियुक्तम् । ततः स प्रजाप नराकृतानुभून्दृष्ट्वा सवितारमब्रवीत् । हे सवितस्तवेम ऋभवोऽन्तेवासाः पवासिनः शिष्या अतस्त्वमेवैभिः सह सम्यपिवस्व तथेत्यङ्गीकृत्य ता प्रजापतिमिदमब्रवीत् । हे प्रजापते त्वं तान्दै तानेव ऋभूनुभयतः पिब मृभूणामुभयोः पार्थयोः स्थित्वा त्वमपि सोमपानं कुरु । एवमुक्तः प्रजा स्तथैवाकरोत् । भय धाय्ये विधत्ते

ते एते धाय्ये अनिरुक्ते प्राजापत्ये शस्येते अभित आर्भवं सुरूपकृत्नुमूतयेऽयं वेनश्चोदयत्पृश्निगर्भा इति प्रजापतिरेवैनांस्तदुभयतः परिपिबति तस्मा दु श्रेष्ठी पात्रे रोचयत्येव यं कामयते तम् , इति । रूपकृत्नुमित्येका धाय्याऽयं वेन इति द्वितीया ते एते धाय्ये आर्भवसूक्ते " शस्यत । सुरूपकृत्नुमित्येषा सूक्तात्पूर्व शंसनीया । अयं वेन इत्येषा पक्षाच्छसनीया। कीदृश्यो धाय्ये अनिरुक्ते निःशेषेणोक्तो देवोनि तादृशो ययोर्धाय्ययोर्नास्ति ते अनिरुक्ते । न खल्वनयो–चोरीदृशो

सुरूपकृत्नुमूतये-१-४-१ । अयं वेनश्चोदय०-१०-१२३-१ ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१३त्रयो देव इति सहसा निर्णेतुं शक्यते । प्रजापतेरपि जगत्सृष्टेः पूर्व मूर्तस्य । मशक्यत्वात्सोऽप्यनिरुक्तोऽतो योग्यत्वात्ते उभे प्रजापतिदेवता।”

र्धाय्ययोः शंसने प्रजापतिरेवैनानृभूनुभयतः परिपिबति । यसमा

· रनिर्वस्वादिदेवतानामृभुषु रुच्यभावे सति पितृद्वारा बलादृचिमत्यादि स्मादु तस्मादेव कारणाल्लोकेऽपि श्रेष्ठी कश्चिद्धनपतिय स्वकीय भ रङ्गीकृतमपि सर्वेभ्यो रोचयितुं कामयते तं भृत्यमाचारहीनं पात्रे प्रति ग्यस्थाने बलात्सर्वेभ्यो रोचयत्येव.।

अथापरमृग्वयं विधत्ते

तेभ्यो वै देवा अपवाबीभत्सन्त मनुष्यगन्धात्त एते धाय्ये अन्तरदधत

येभ्यो मातैवा पित्र इति ॥३०॥इति । * अग्निवस्वादयो देवास्तेभ्य ऋभुभ्योऽपैव स्वयमपगता एव सन्तोऽजी सन्त, एवं मनसि बीभत्सां कृतवन्तः । कस्मात्कारणादिति तदुच्यते । म ष्यगन्धादिति । एते मनुष्या अस्मत्पतियोग्या न भवन्तीति शङ्कयेत्यर्थ बीभत्सां प्राप्यते वक्ष्यमाणे द्वे धारये अन्तरदधत ऋभूणामयादीनां च मध्ये न्तर्धानं व्यवधानमकुर्वत । के ते धाय्ये इत्युच्यते । येभ्यो माता मधुमदित्येक एवा पित्रे विश्वदेवायेत्यपराऽयं वेन इत्येतस्मात्पूर्वमेतदुभयं शंसेदित्यर्थः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये त्रयोदशाध्याये षष्ठः खण्डः॥६॥ (३०) [१०१]

.

  • अत्र अ. ट. पुस्तकयोमन्त्रदयस्य व्याख्यानं वर्तते तद्यथा-“येभ्यो मातेति माता सर निर्मात्री पृथिवी येभ्यो देवेभ्यो देवतार्थ मधुमन्माधुर्योपेतं पयः सारभूतं क्षीरं पिन्वते । तथाऽदितिरदीनाऽदिबहीं मेघैः परिवृढा प्रश्रद्धा परिवृढमेघा वा द्योश्च पीयूषं पिन्वत थिव्यौ हविरुत्पादयत इत्यर्थः । ऋषिरात्मानं संबोध्याऽऽह । उक्थशुष्मान्स्तुतिबला टेराहर्तन् । हग्रहोरिति भः। स्वमसः मुकर्मणस्तानादित्यानदितः पुत्रान्देवान्स्वस्तयः मदानुस्तुहि । माद्यतेलाटि व्यत्ययेन शप् । मन्दतेर्वा स्तुत्यर्थस्यानित्यमागमशासनामात एवा पित्र इति पित्रे पालकाय विश्वदेवाय सर्वदेवतारूपाय देवानां मत्रप्रतिपाद च मन्त्राभिमानित्वाद्विश्वदेवत्वम् । यद्वाऽत्र देवशब्दः स्तुत्यर्थः । सर्वैः स्तुत्याय बृहस्पतये देवायैवैवमुक्तप्रकारेण यज्ञैस्तत्साधनैर्ह विभिराज्यचर्वादिलक्षणैर्नमसा स्तुत्या र चरेम । हे बृहस्पते सुप्रजाः शोभनपुत्रा वीरवन्तो वीर्योपेता वयं रयीणां धनाना ।

सवः स्तुत्याय वृष्णे की

सा स्तुत्या च विषम

पण धनानां पतयः साम।

२६९

सप्तमः खण्डः] ऐतरेयनामणम् । अथ विश्वदेवदेवताकमा नो भद्राः [१-८९-१] इत्येतत्सूक्तं विधत्ते

वैश्वदेवं शंसति, इति । लौकिकदृष्टान्तेन प्रशंसन्नाहावं विधत्ते

यथा वै प्रजा एवं वैश्वदेवं तद्यथाऽन्तरं जनता एवं मुक्तानि यथाऽरण्यान्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्तान्यरण्यानि सन्त्यन रण्यानि मृगैश्च वयोभिश्चेति ह स्माऽऽह, इति । लोके यथा प्रजा एवमत्र वैश्वदेवशस्त्रं प्रजाशब्देन तन्निवासस्थानं राज्य लक्ष्यते राज्यसदृशं शस्त्रमित्यर्थः । तत्तत्र प्रजाशब्देन राज्ये विवक्षिते येऽन्तरमभ्यन्तरमभ्यन्तरे जनता जनसमूहा यथा तिष्ठन्ति, एवं तस्मि के शस्त्रे सूक्तानि तिष्ठन्ति । यथा वाऽरण्यानि राज्ये कचित्कचिद्भवन्ति, मस्मिञ्शस्त्रे धाय्याः कचित्प्रक्षिप्यन्ते । तथा सत्यरण्यस्थानीयां धाय्या यतः पर्याहयते । शोसावोमित्येष मत्रः पर्याहावः । अस्य धाय्यायाः योर्यस्मात्पाठस्तस्माल्लोकेऽपि बहुवृक्षसंकीर्णानि स्थानानि स्वभावतोऽ. गनि मनुष्यशून्यानि सन्त्यपि मृगैश्च पक्षिभिश्च संकीर्णान्यनरण्यान्य न्येवेति कश्चिदभिज्ञ आह स्म । एवमेकेन दृष्टान्तेन पर्याहावं प्रशस्य पुनरप्यन्येन दृष्टान्तेन प्रशंसति

यथा वै पुरुष एवं वैश्वदेवं तस्य यथाs वान्तरमशान्येवं सूक्तानि यथा पर्वाण्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मा त्पुरुषस्य पर्वाणि शिथिराणि सन्ति दृह

कानि ब्रह्मणाऽऽहितानि धृतानि, इति । लोके यथा पुरुषो हस्तपादादिमान्मनुष्यदेहस्तदिदं वैश्वदेवशस्त्रं तस्य रस्थावान्तरमभ्यन्तरप्रवेशाङ्गान्यवयवा यथा वर्तन्त एवं शस्त्रस्याभ्यन्तरे माननिविष्टानि । यथा तेषामवयवानां संधय एवमेता धाय्याः शस्त्रे पन्त । तथा सति धाय्या उभयपार्थपर्वाणि शिथिराणि पूर्व शिथिलानि

क.स. म. र.’ ते । शंसा । २ क. स. स. म. ट. धाय्याः ।

….

३७०

श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्-[१३वयो। सन्त्यपि पश्चात्प्रयत्नेन धारितानि दृढानि संपद्यन्ते ब्रह्म वा आहार श्रुतत्वादाहावरूपेण ब्रह्मणैव धाय्यारूपाणि पर्वाणि धृतानि भवन्ति ।

अथ धाय्यानां शस्त्रयाज्यानां च प्रकृतौ विकृतौ चान्यत्वं निराकर पत्वं विधत्ते

मूलं वा एतद्यज्ञस्य यदाय्याश्च याज्याश्च तद्यदन्या अन्या धाय्याश्च याज्याश्च कुर्युरुन्मूल

मेव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः, इति । घाय्यानां शस्त्रयाज्यानां वृक्षमूलवद्यज्ञमूलता । तत्मकृतिगताः परित्या विकृतावन्यस्वीकारे यज्ञरूपो वृक्ष उन्मूलितः स्यात् । तस्मात्प्रकृतौ य सन्ति ता एव विकृतावित्युभयत्र समान्य एवैकविधा एव कर्तव्याः।

वैश्वदेवशस्त्रमवयवशः प्रशस्य समुदायाकारेण प्रशंसति

पाञ्चजन्यं वा एतदुक्थं यद्वैश्वदेवं सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वा प्सरसां सर्पाणां च पितॄणां चैतेषां वा एतत्प

ञ्चजनानामुक्थं सर्व एनं पञ्चजना विदुः, इति । यद्वैश्वदेवनामकमुक्थं शस्त्रमस्ति तदेतत्पाञ्चजन्यं वै पञ्चविधानां जना संबन्ध्येव । स एवार्थः सर्वेषामित्यादिना स्पष्टी क्रियते । ये पञ्चविधा जन सन्ति तेषां सर्वेषामेव संबन्ध्येतच्छस्त्रम् । पञ्चविधत्वमेव मनुष्याणामित्यादिन च्यते । अनीन्द्रादिदेवगण एको वर्गः । ब्रह्मक्षत्रियादिमनुष्यगणो द्विती वर्ग: । गन्धर्वाणामप्सरसां वर्गस्तृतीयः । सर्पाणां वर्गश्चतुर्थः। पितॄणां व पञ्चमः । एतेषां पञ्चविधानां जनानां तुष्टिहेतुत्वात्तदीयमेतच्छवम् । एन व देवशस्त्रस्य शंसितारं होतारं सर्वे पञ्चजना विदुर्जानन्ति तेष्वस्य कीतिः । रतीत्यर्थः।

वेदनं प्रशंसति

एनं पञ्चिन्यै जनतायै हविनो

गच्छन्ति य एवं वेद, इति । जनानां देवमनुष्याणां समूहो जनता। सा च पञ्चसंख्योपेतत्वात्मान तस्यै तत्मीत्यर्थ हविनो होतुं कुशलाः पुरुषा एनं वेदितारमागच्छन्ति ।

सप्तमः खण्डः ] ऐतरेयबामणम् ।

३७१ अथ शंसनपूर्वकाले दिग्ध्यानं विधत्ते

सर्वदेवयो वा एष होता यो वैश्वदेवं शंसति सर्वा दिशो ध्यायेच्छंसिष्यन्स

स्वेिव तदिक्षु रसं दधाति, इति । यो होता वैश्वदेवं शस्त्रं शंसति एष सर्वदेवत्यो वै सर्वा देवता अस्येति परितोषहेतरित्यर्थः । अतः सोऽयं शंसितुमुधुक्तः सर्वा दिशो मनसा ध्याये निशंसनेन सर्वास्वेव तद्दिक्षु रसं दधाति ।

कचिद्ध्यानं विधत्ते

यस्यामस्य दिशि द्वेष्यः स्यान तां

ध्यायेदनुहायैवास्य तबीर्यमादत्ते, इति । अस्य होतुर्दृष्यः शत्रुर्यस्यां दिशि वसति तामेकां दिशं न ध्यायेत् । तथा ति, अनुहायैव द्वेष्यस्य पृष्ठतो गत्वैव तदीयं वीर्य सर्व स्वीकरोति ।

शस्त्रस्य परिधानीयामृचं विधत्ते

अदितिौरदितिरन्तरिक्षमित्युत्तमया परिदधा

तीयं वा अदितिरियं द्यौरियमन्तरिक्षम् , इति । अखण्डितत्वाददीनत्वाद्वा भूमिरेवादितिरित्युच्यते । सेयं भूमिरेव घुलो रूपाऽन्तरिक्षरूपा चास्यां भूमौ कर्म कृत्वा तत्तल्लोकमाप्तेः संपादयितुं क्यत्वात् ।

द्वितीयपादमनूद्य व्याचष्टे

अदितिर्माता स पिता स पुत्र

इतीयं वै मातेयं पितेयं पुत्रः, इति । येयमदितिर्भूमिः सैव माता। सोऽदितिरूप एव पिता । सोऽदितिरूप एव

इय वा इत्यादिनोक्तार्थप्रसिद्धिरुच्यते । सत्यां भूमौ मातापितू(ता) नादिभिरवस्थातुं शक्यत्वात्तेषामदितिरूपत्वं प्रसिद्धमित्यर्थः ।

तृतीयपादमनूध व्याचष्टे ___ विश्वे देवा अदितिः पञ्चजना इत्यस्या वै विश्वे

अदितिौरदिति०-१-८९-१।

– ।

-..-

…-




–..-

-…


३७२ - श्रीमत्सायणाचार्यविरचिवमाष्यसमेतम्-[१३त्रयो

देवा अस्यां पञ्चजनाः, इति । विश्वेषां देवानां भूमौ मनुष्यैः पूज्यमानत्वात्पञ्चजनानां देवमनुष्याती भूमाववस्थानाददितेस्तद्रूपत्वम् ।। चतुर्थ पादमनूध व्याचष्टे

अदितिर्जातमदितिर्जनित्वमितीयं

वै जातमियं जनित्वम् , इति । जातं पूर्वमुत्पन्नं प्राणिरूपं जनित्वमितःपरमुत्पत्स्यमानं पाणिरूपं तय रुभयोभूमौ संभवाददितेस्तद्रूपत्वम् ।

परिधानीयाया अस्या ऋचः शंसने प्रकारविशेषं विधत्ते

दिः पच्छः परिदधाति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै सकृदर्धर्चशः प्रतिष्ठाया एव विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव

तद्दिप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति । त्रिः प्रथमां त्रिरुत्तमामन्वाहेति विधेः सार्वत्रिकत्वादस्याः परिधानीयाय स्त्रिरात्तिः प्राप्ता । तत्र द्वयोरावृत्त्योः पच्छः शंसेत् । एकैकस्मिन्पादेऽवसाय वसाय शंसनं कुर्यात् । तत्र पादानां चतुष्टयेन पशुसाम्यात्पशुप्राप्तिर्भवति तृतीयस्यामावृत्तावर्धर्चशः शंसेत । अर्धर्चेऽवसाय पठेदित्यर्थः। तच्च प्रतिष्ठा स्थैर्येणावस्थानार्थमेव भवति । किंच पुरुषोऽयं द्विप्रतिष्ठः पादयोपेतः पर वश्चतुष्पादास्तथा सत्युभयविधशंसनेन द्विपादं यजमानमेव चतुष्पात्सु पह प्रतिष्ठापयति ।

परिधानकाले भूमिस्पर्श विधत्ते

सदैव पञ्चजनीयया परिदध्यात्तदुपस्पृश. भूमि परिदध्यात्तद्यस्यामेव यज्ञ संभरति

तस्यामेवैनं तदन्ततः प्रतिष्ठापयति, इति । सदैव सर्वेष्वपि यज्ञप्रयोगेषु पञ्चजनीयया विश्वे देवा अदितिः पञ्चम इत्युक्तत्वादियमुक्पञ्चजनीया तया परिधान समापनं यदा कुयाच

१ ख-स. म. ट. पनप्रा।

ष्टिमः खण्डः]

ऐतरेयबामणम् । परिदध्यात । तथा सति यस्यामेव भूमौ यज्ञ संभरति, अनुष्ठातुं

न संपादयति तस्यामेव भूमावेनं यज्ञमनेनोपस्पर्शनेनान्ततः प्रति पति ।

नयाज्यां विधत्ते

विश्वे देवाः शृणुतेमं हवं म इति वैश्वदे वमुक्थं शस्त्वा वैश्वदेव्या यजति यथा

भागं तद्देवताः प्रीणाति ॥३१॥ इति । श्वदेवशस्त्रशंसनादूर्व विश्वे देवाः शृणुतेत्येतां वैश्वदेवीं याज्यां पठेत् । ये अन्तरिक्ष य उपद्यविष्ठेत्यादिना भिन्नवर्गाणां देवगणानामभिधाना देवतानां स्वस्वभागमतिक्रम्य प्रीतिं करोति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा. ह्मणभाष्ये त्रयोदशाध्याये सप्तमः खण्डः ॥७॥ (३१) [१०२]

पथ घृतयागसौम्ययागयोर्याज्यां विधत्ते

आग्नेयी प्रथमा वृतयाज्या सौमी सौम्ययाज्या वैष्णवी नृतयाज्या वं सोम पितृभिः संवि

दान इति सौम्यस्य पितृमत्या यजति, इति । गौम्पचरोरुभयतो घृतसाध्यौ द्वौ यागावनुष्ठेयौ । तत्राग्निदेवताका विष्णु

का चेति द्वे याज्ये । घृताहवनो घृतपृष्ठो अग्निरित्याग्नेयी प्रथमा याज्या विष्णो विक्रमस्वेति वैष्णवी द्वितीया घृतयाज्या। अस्ति कश्चित्सोमदेव. धरुस्तस्य त्वं सोमेति सौमी याज्या तत्र पितृभिः संविदान इति श्रुतत्वा पितृमती तां याज्यां सौम्यचरौ पठेत् । तस्य चरोः पुरस्तादानेययाज्यया गा। उपरिष्टाद्वैष्णवयाज्यया घृतयागः । तद्याज्याद्वयमावलायनेन

मी याज्यां प्रशंसति

धन्ति वा एतत्सोमं यदभिषुण्वन्ति तस्यैताम नुस्तरणीं कुर्वन्ति यत्सौम्यः पितृभ्यो वा अनु वि देवाः शृणुतेमं०-६-१२-१३। त्वं सोम पितृभिः०-८-४८-१३ ।

.

३७१ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१३त्रयो ।

स्तरणी तस्मात्सौम्यस्य पितृमत्या यजति, इति । ऋत्विजः सोममभिषुण्वन्तीति यदस्ति सोऽयं सोमस्य वध यः सौम्यश्चरुरस्तिं, एतां सौम्यचरुरूपां तस्य मृतस्य सोमस्या कुर्वन्ति । मृतस्य दीक्षितस्य दहनकाले कांचिद्धां गां हत्वा दौर यवेषु गोरवयवानवस्थाप्य दहेत् । सेयं गौमृतं दीक्षितमनु मृतत्वा तत्वाचानुस्तरणीत्युच्यते । यस्मात्सा पितृभ्यो योग्या तस्मारियन याज्यया सौम्ययागस्य हविर्यजेत् ।

घृतयागसहितं सौम्यं चरुं संगृह्य प्रशंसति

अवधिषुर्वा एतत्सोमं यदभ्यसुष

वुस्तदेनं पुनः संभावयन्ति, इति । अभ्यसुषवुरभितः सोमं मुतवन्त इति यदस्ति, एतेन सोममा ऋत्विजो हतवन्त एव तस्मादेनं व्यथितं सोमं घृतचरुभ्यां व्यथापा राय संभावयन्ति ।

संगृह्य प्रशस्य देवताद्वारा पुनर्विस्तरेण प्रशंसां दर्शयति

पुनराप्याययन्त्युपसदां रूपेणोपसदां किल वै तद्रूपं

यदेता देवता अग्निः सोमो विष्णुरिति, इति । योऽयं हतः सोमस्तं सोममुपसदां रूपेण संपादितन पुनराप्यायय अग्निः सोमो विष्णुरिति या एतास्तिस्रो देवतास्तदेतदुपसदामेव । तत्राप्येतस्य देवतात्रयस्य विद्यमानत्वात् ।

अथ होतुराज्यावेक्षणं विधत्ते

प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगभ्योऽवेक्षत, इति । हुतशेषं सौम्यं चरुमध्वर्युणा दत्तं होता प्रतिगृह्य चरुमध्ये सिक्ते बहुल छन्दोगेभ्य उद्गाभ्यः स्वयं पूर्वभावी सन्स्वकीयां देहच्छायामवेक्षेत ।

अत्र पूर्वपक्षमुत्थाप्य दूषयति

तं हैके पूर्व छन्दोगेभ्यो हरन्ति तत्तथा न कुर्यादषट्कर्ता प्रथमः सर्वभक्षान्अक्षयतीति ह स्माऽऽह तेनैव रूपेण तस्मादषदकतैव पूर्वोऽवे. क्षेताथैनं छन्दोगेभ्यो हरन्ति ॥ ३२॥ इति ।

मः खण्डः ] ऐतरेयब्रामणम् ।

३७५ वन याज्ञिका होतुराज्यावेक्षणात्पूर्वमेव तं घृतयुक्तं सौम्यं चरुं छन्दो. जयन्ति । तत्समर्पणं तथा न कुर्यात् । हविःशेषभक्षणेषु वषदकर्ता प्रथमः पूर्वभावी सन्हविःशेषान्भक्षयति । इत्येवमभिज्ञो महर्षिराह स्म । कारणात्तेनैव रूपेण भक्षणक्रमेणैवावेक्षणेऽपि होतैव प्रथमो भूत्वाऽवे. । अनन्तरमेवैनं सौम्यं चरुं छन्दोगेभ्यः समर्पयेयुः॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा. ह्मणभाष्ये त्रयोदशाध्यायेऽष्टमः खण्डः ॥ ८॥ (३२) [१०३]

याऽऽग्निमारुतशस्त्रं वक्तव्यं तदर्थमादावुपाख्यानमाह

प्रजापति स्वां दुहितरमभ्यध्यायदिवमित्यन्य आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं भूतामभ्येत्तं देवा अपश्यन्नकृतं वै प्रजापतिः करोतीति ते तमैच्छन्य एनमारिष्यत्येत मन्योन्यस्मिन्नाविन्दंस्तेषां या एव घोरत मास्तन्व आसंस्ता एकधा समभरंस्ताः संभृता एष देवोऽभवत्तदस्यैतदूतवनाम, इति । राकदाचित्मजापतिः स्वकीयां दुहितरमभिलक्ष्य भार्यात्वेन ध्यानमकरोत् । ‘दुहितरि महर्षीणां मतभेद आसीत। अन्ये केचन महर्षयो दिवं धुलोकदे न्यातवानित्याहुः। अपरे तु महर्षय उपसमुषःकालदेवतां ध्यातवानित्याहः। । मृगविशेषः। तथाचाभिधानकार आह-गोकर्णपृषतैणयरोहिताश्चमरो शत । स प्रजापतिस्तथाविध ऋश्योऽभूत् । सा च दुहिता रोहितं लोहितं माता । ऋतुमती जातेत्यर्थः । तादृशीं तां दुहितरमभ्यैदभिगतवान्मिथुन पासवानित्यर्थः । तं दुहितगामिनं प्रजापति देवाः परस्परमिदमब्रुवन् । जापतिरकृतं वै, अकर्तव्यमेव निषिद्धाचरणं करोतीति विचार्य यः एन मजापतिमारिष्यति, आर्ति प्रापयितुं क्षमस्तादृशं पुरुषमैच्छन्नन्वेषणं तः । कृत्वा चान्योन्यमिस्तेषां मध्ये तं प्रजापतिघातकं नाविन्दना " हन्तु शक्रोषि त्वं हन्तमिति परस्परं पष्टैकैकस्य शक्तिराहित्यं निश्चि.

पदवषु या एव कश्चिद्धोरतमास्तन्वोऽत्यग्राणि शरीराण्यासंस्ताः एकथा समभरन्मेलयित्वैकं शरीरं कृतवन्तस्ता घोरतमास्तन्वः संभृता

३७६ । श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-१३त्रयोग एकत्वेन संपादिताः सत्य एष देवोऽभवत् । एष इति हस्तेन प्रदर्शनी धीयते । तत्तस्मादेव कारणादस्य रुद्रस्यैतल्लोकमसिद्धं भूतवद्धतशब्दो संपन्नम् । भूतपतिरिति भूतवन्नाम । तच तस्य भवत्यथोनुगमायुक्तम् ।

एतनामवेदनं प्रशंसति

भवति वै स योऽस्यैतदेवं नाम वेद, इति । वेदिता भवति वै भूतिमानेव संपद्यते । अथ तेन रुद्रेण सह देवानां संवादं दर्शयति

तं देवा अब्रुवनयं वै प्रजापतिरकृतमक रिमं विध्येति स तथेत्यब्रवीत्स वै वो वरं वृणा इति वृणीष्वेति स एतमेव वरमणीत

पशूनामाधिपत्यं तदस्यैतत्पशुमनाम, इति । तं रुद्रं देवा एवमब्रुवन् । हे रुद्रायं प्रजापतिरकृतमकनिषिद्धाचरणं कृत स्तस्मादिमं बाणेन प्रहरेति । स रुद्रस्तदङ्गीकृत्योत्कोचत्वेन पशूनामाधि कृतवान् । तस्मात्कारणादस्य रुद्रस्यैतल्लोकप्रसिद्धं पशुपतिरित्येतादृशं पर ब्दोपेतं नाम संपन्नम् ।

तद्वेदनं प्रशंसति

पशुमान्भवति योऽस्यैतदेवं नाम वेद, इति । अथ रुद्रप्रजापत्योर्दृत्तान्तं दर्शयति

तमभ्यायत्याविध्यत्स विद्ध ऊर्ध्व उदप्रपत त्तमेतं मृग इत्याचक्षते य उ एव मृगव्याधः स उ एव स या रोहित्सा रोहिणी यो एवे.

पुस्त्रिकाण्डा सो एवेषुस्त्रिकाण्डा, इति । स रुद्रोऽभ्यायत्य बाणयुक्तं धनुरभित आकृष्य तं प्रजापतिमविश्या ऋश्यमृगरूपः स प्रजापतिविदः सर्ध्वमुख उदप्रपतत्प्रकर्षणोत्पतनमकरराव तमेतमुत्पतितमृश्यमृगरूपं प्रजापतिमाकाशे दृष्टा सर्व एव ते जना मग चक्षते रोहिण्यायोनक्षत्रयोर्मध्येऽवस्थितं मृगशीर्षनक्षत्रं कथयन्ति न निष्पन इत्यर्थः । य उ एवं यस्तु रुद्रो मृगव्याधो मृगघाती स.

मृगपातीस रुद्र आदशमः खण्ड] ऐतरेयबामणम् ।

म उ एव लोकप्रसिद्धो मृगव्याध आसीत् । या दुहिता रोहिता

मगी सेयमाकाशे रोहिणीनक्षत्रमभूत् । यो एव या तु रुद्रेण खिकाण्डाऽनीकं शल्यस्तेजनमित्यवयवत्रयोपेता सो एव सैव लोकप्र काण्डत्रयोपेतेषुर्वाणोऽभवत् । अथ मनुष्योत्पत्तिं दर्शयति

तद्दा इदं प्रजापते रेतः सिक्तमधावत्तत्सरोऽ भवत्ते देवा अब्रुवन्मेदं प्रजापते रेतो दुषदिति यदब्रुवन्मेदं प्रजापते रेतो दुषदिति तन्मादुषम भवत्तन्मादुषस्य मादुषत्वं मादुषं ह वै नामै तयन्मानुषं सन्मानुषमित्याचक्षते परोक्षण परोक्षप्रिया इव हि देवाः ॥३३ ॥ इति । गरूपेण प्रजापतिना यद्रेतो मृग्यां सिक्तं तदेतदतिबहुत्वाद्भूमौ पतितं वाहरूपेणाधावत् । तच्च कचिनिम्न देशेऽवस्थाय प्रौढं सरोऽभूत् । ते देवा ब्रुवन्मजापतेरिदं रेतो मा दुषदुष्टमस्पृश्यं मा भूदिति । यस्मान्मा दुषदि स्तिस्मादोषरहितस्य रेतसो मादुषमिति नाम संपन्नम् । जनास्तु दकार ने नकारं प्रक्षिप्य मानुषमिति ब्राह्मणक्षत्रियादिशरीरमाचक्षते । तद्वस्तुतो चारेण दोषरहितत्वान्मादुषमेव । तथा सति मादुषनामयोग्यमपि तच्छरीरं पण नाना व्यवहर्तव्यमित्यभिप्रेत्य वर्णव्यत्ययेन मानुषमित्याचक्षते । ल्लोके देववत्पूज्या उत्तमाः पुरुषाः परोक्षप्रिया इव हि प्रत्यक्षे मातापितृ. ति देवदत्तादिनाम्नि न प्रीतिं कुर्वन्ति किंतूपाध्यायाचार्य स्वामीत्यादिके पत्रादीनामक्रप्सत्वेन परोक्षे नाम्नि प्रीतिं कुर्वन्ति तस्मात्परोक्षत्वाय नका. पो युज्यते । शत श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्म णभाष्ये त्रयोदशाध्याये नवमः खण्डः ॥ ९ ॥ (३३) [१०४]

अथाऽऽदित्यादिदेवतोत्पत्ति दर्शयति

तदग्गिना पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्न प्राच्या वयत्तदग्निना वैश्वानरेण पर्यादधुस्तन्मरुतोऽ

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१३त्रयो। धून्वंस्तदनिर्वैश्वानरः प्राच्यावयत्तस्य यद्रे तसः प्रथममुदीप्यत तदसावादित्योऽभव द्यद्वितीयमासीत्तगुरभवत्तं वरुणो न्यगृ हीत तस्मात्स भृगुर्वारुणिरथ यत्तृतीयमदी देदिव त आदित्या अभवन्येऽङ्गारा आसं स्तेऽङ्गिरसोऽभवन्यदङ्गाराः पुनरवशान्ता

उदीप्यन्त तबृहस्पतिरभवद , इति । प्रजापतेः संबन्धि यद्रेतो देवैर्दोषरहितं कृतं तद्रेतो देवा अग्निना ए दधुः परितो वेष्टितवन्तः । सरोरूपेणावस्थितस्य रेतसो दाहेन द्रवी निवारयितुं परितोऽग्निं प्रज्वलितवन्त इत्यर्थः । यदामिः प्रज्वलित मरुतो वायवस्तद्रतोऽधून्वशोषणाय वायुसंयुक्तमकुर्वन् । सोऽग्निस्तद्रेती पाच्यावयत् । द्रवीभावात्यच्युतं नाकरोत् । द्रवबाहुल्यात्पिण्डाकार नाशकोदित्यर्थः । वैश्वानरो नाम कश्चिदग्निविशेषः प्राणिनामुदरे प्रविश्या पानादिकं पाचयति । तथा च भगवतोक्तम्

“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्” इति ॥ तेन वैश्वानरनामकेनाग्निविशेषेण तद्रेतः पूर्ववत्पर्यादधुः । देवैरग्नौ परीि सति मरुतस्तद्रेतः पूर्ववदधन्वन् । सोऽयं वैश्वानरोऽनिस्तद्रेतो द्रवीभावात्मन तमकरोत् । तस्य पिण्डीभूतस्य रेतसो यत्प्रथमं पिण्डरूपमुददीप्यतोदप्तिम दूपमसौ दिवि दृश्यमान आदित्योऽभवत् । द्वितीयं यत्पिण्डरूपमासचिव भुंगुरभवत्तं भृगु वरुणो न्यगृहीत निगृह्य स्वपुत्रत्वेन स्वीकृतवान् । तस्मा भृगुर्वारुणिरित्युच्यते । वरुणस्यापत्यं वारुणिः । एतदेवाभिप्रेत्य तार आमनन्ति-‘भृगुर्वै वारुणिः। वरुणं पितरमुपससार’ इति । अथानन्तर पिण्डरूपमदीदेदिवातिशयेन दीप्तमेवाऽऽसीत । त आदित्या अदिता पुत्र विशेषा अभवन् । पूर्वमादित्यशब्देन मण्डलवर्ती सूर्य उक्तः । अत्राद इतरे देवा उच्यन्ते । ये रेत:पिण्डा दग्धाः सन्तोजारा अभवस्त तक रोनामका ऋषयोऽभवन् । पुनरपि तत्र यदहारा ये केचिदहार, शान्तिरहिताः सन्त उददीप्यन्त, उत्कर्षेण दीसातत्सर्व वृहर

SETTE

सातत्सर्व बृहस्पविरभवत् ।

.. -

शमः खण्डः] ऐतरेयग्रामणम् ।

३७९ थ पशुसृष्टिं दर्शयति

यानि परिक्षाणान्यासंस्ते कृष्णाः पशवोऽभ वन्या लोहिनी मृत्तिका ते रोहिता अथ यग स्माऽऽसीत्तत्परुष्यं व्यसर्पद्रौरो गवय अश्य

उष्ट्रो गर्दभ इति ये चैतेऽरुणाः पशवस्ते च, इति । अकारेष शान्तेषु यानि कृष्णवर्णान्यासन्काष्ठानि ते कृष्णवर्णाः पशवोऽभ अमिताहेन भूमौ या लोहिनी रक्तवर्णा मृत्तिका तिष्ठति ते रोहिता रक्त पशवोऽभवन् । अत्राग्निस्थाने यद्भस्माऽऽसीत्तत्परुष्यं परुषशरीरजातं पा व्यसर्पत, विविधमरण्यादावगच्छत् । किं तत्परुष्यमिति तदेवोच्यते ।

गवय ऋश्य इत्येतेऽरण्यमृगाः । उष्ट्रगर्दभौ प्रसिद्धौ । एवमादिकं परुष रम् । येऽप्येतेऽरुणाः पशवस्ते च व्यसर्पन् । एवमुपाख्यानेनाऽऽनिमारुतशस्त्रस्योपोद्घातमभिधाय तस्मिञ्चने शंसनी.

कामचं विधत्ते

तान्वा एष देवोऽभ्यवदत मम वा इदं मम वै वास्तुहमिति तमेतयर्चा निर

वादयन्त यैषा रौद्री शस्यते, इति । तान्वै तानेव पशून्सर्वानभिलक्ष्यैष रुद्र इदं सर्व ममैवेत्यब्रवीत् । तत्रो. त्ति चोक्तवान् । वास्तुहं वास्तौ यज्ञभूमौ हीनं यद्रव्यमस्ति तत्सर्वं ममेति पन्तरेऽपि प्रसिद्धम् । तथाच तैत्तिरीया रुद्रवाक्यमामनन्ति-‘यद्यज्ञवास्तो ति मम वै तत्’ इति । तं रुद्रं सर्वान्पशूनभिगच्छन्तमेतया वक्ष्यमाणयर्चा खादयन्त निरपेक्षमकुर्वत । तया तुष्टो रुद्रः पश्वपेक्षा परित्यजति स्म । का गति सोच्यते । यैषा रौद्री रुद्रदेवताका शस्यते साऽवगन्तव्या। तस्या ऋचः पादत्रयं पठति : आ ते पितमरुतां सुसमेतु मा नः सूर्यस्य संदृशो

युयोथाः। त्वं नो वीरो अर्वति क्षमेथाः, इति । मरुतां देवानां पितर्हे रुद्र ते तव सुम्नं सुखमैत्वागच्छतु । नोऽस्मान्सूर्यस्य सूयोवलोकनान्मा युयोथा मा वियोजय दृष्टियुक्तान्कुर्वित्यर्थः । किंच

आ ते पितमरुतां०-२-३३-१।

…..

.

.

…….-.

३८०

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१३त्रयोध्या हे रुद्र वीरस्त्वं नोऽस्माकमर्वति पवादिवस्तुनि क्षमेथा सहिष्णा दीयान्पश्चादिवस्तूनि मा विवासयेत्यर्थः ।

तृतीयपादस्य त्वं नो वीर इत्यत्रत्यः पाठः । अभि नो वीर इति शाम रपाठस्तयोर्मध्ये स्वपाठं विधाय शाखान्तरपाठं निषेधति

इति ब्रूयानाभि न इयनभिमानुको

हैष देवः प्रजा भवति, इति । इत्यनेन पूर्वोक्तेन प्रकारेण त्वं नो वीर इति पाठमेव शंसनकाले ग्रा भाभि न इति पाठं ब्रूयात् । त्वं नो वीर इति पाठे सत्येष देवः मजा अ भिमानुको भवति । अभिमानुकोऽभि न इति पाठान्तरेऽभिशब्दस्य विद्यमा त्वात्पुत्रादिकाः प्रजा अभिलक्ष्य ताः श्रयिष्यामीति रुद्रो मनुते । त्वं न इ पाठे तु न तथेत्यर्थः।

चतुर्थपादेऽपि स्वाभिमतपाठविधिपूर्वक पाठान्तरं विधत्ते

प्रजायेमहि रुद्रिय प्रजाभिरिति बयान

रुद्रेत्येतस्यैव नाम्नः परिहृत्य, इति । हे रुद्रिय रुद्रसंबन्धिभृत्य त्वदनुज्ञया वयं प्रजाभिः प्रजायेमहि पुत्रपौत्रा रूपेणोत्पद्येमहि । अस्मिन्पादे रुद्रियेत्येतमेव पाठं ब्रूयान्न तु रुद्रेति पाठम एतस्यैव रुद्रनाम्न उग्रस्य परिहाराय रुद्रियेतिपागदरः।।

आ ते पितरित्यस्या ऋचः स्थाने कांचिदन्यामृचं विधत्ते

तदु खलु शं नः करतीत्येव शंसेच्छ मिति प्रतिपद्यते सर्वस्मा एव शान्त्यै नृभ्यो नारिभ्यो गव इति पुमांसो वै नरः

स्त्रियो नार्यः सर्वस्मा एव शान्त्य, इति । तदु खलु तत्रैव पूर्वामृचं परित्यज्य तस्या एव स्थाने शं नः करत्यय इत्येतामृचं शंसेत् । तथा सति को लाभ इति तदुच्यते । तस्या ऋच आर यच्छमित्यनेन पदेन प्रतिपद्यते प्रारम्भः क्रियते तस्य पदस्य शान्तिवाचकत्व सर्वस्मै सर्वस्यापि स्वकीयस्य वस्तुनः शान्तिर्भवति । सर्वस्मा इत्य

शं नः करत्यवते०-१-४३-१।

१ एकादशः खण्डः]

ऐतरेयबामणम् ।

३८१ यानं नृभ्य इत्यादि । तस्यापि व्याख्यानं पुमांस इत्यादि । सर्वस्मा शान्त्या इत्युपसंहारः। प्रकारान्तरेण तामृचं प्रशंसति

सोऽनिरुक्ता रौद्री शान्ता सर्वायुः सर्वायुत्वाय, इति । सो साऽप्युगनिरुक्ता रुद्रवाचकपदाभावादस्पष्टदेवताकोऽत एव रौद्री रुद्र ताका सत्यपि घोरार्थवाचकरुद्रपदाभावादियं शान्ता तां शंसेद्धोता सर्वा विति । तच यजमानस्य सर्वायुत्वाय संपद्यते । वेदनं प्रशंसति

सर्वमायुरेति य एवं वेद, इति । पुनरपि प्रकारान्तरेण प्रशंसति

सो गायत्री ब्रह्म वै गायत्री ब्रह्मणै

वैनं तं नमस्यति ॥ ३४ ॥ इति । सो सा च ऋग्गायत्रीछन्दस्का । गायत्री च ब्रह्म ब्राह्मणजातिरेव । उभयोः पतिमुखजत्वात् । अतो ब्रह्मणैव ब्राह्मणेनैवैनं रुद्रं नमस्करोति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबाम

भाष्ये त्रयोदशाध्याये दशमः खण्डः ॥१०॥ (३४) [१०५]

अथ वैश्वानराय पृथुपाजसे विप इत्यनेन सूक्तेनाऽऽनिमारुतशस्त्रस्य (म्भं विधत्ते

वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते वैश्वा नरो वा एतद्रेतः सिक्तं प्राच्यावयत्तस्मादै

श्वानरीयेणाऽऽनिमारुतं प्रतिपद्यते, इति । रेतसः प्रच्यावनं काठिन्यापादनम् । तस्मिन्वैश्वानरीयसूक्ते कंचिद्विशेष पत्ते

अनवानं प्रथम ऋक्शंस्तव्याऽग्रीन्वा एषोऽ चौंष्यशान्तान्प्रसीदनेति य आनिमारुतं शंसति प्राणेनैव तदनीस्तरति, इति।

१ ख. स. का तत।

१८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१३त्रयोध्या

अवानशब्देनोच्छवासनिश्वासावुच्येते । तौ यथा न भवतस्तथा । ऋक्शंस्तव्या । तथा सति सर्वाननीन्वै ज्वालारूपाननीनेवैष होताशा न्कृत्वा प्रसीदन्यसादं कुर्वन्नेति गच्छति । यः पुमानाग्निमारुतशस्त्रं शंसति । प्रसादहेतुत्वं कथमिति तदुच्यते। उच्छ्वासनिश्वासनिरोधादनवानं शंसा णवायुनैव तानीस्तरत्युल्लङ्घयति, अग्मिकृतमुपद्रवं शमयतीत्यर्थः ।

शासनकाले प्रामादिकस्य वर्णादिलोपरूपस्यापराधस्य प्रतीकारं दर्शयति

अधीयन्नुपहन्यादन्यं विवक्तारमिच्छे

तमेव तत्सेतुं कृत्वा तरति , इति । अधीयमधीयानः शंसनं कुर्वन्होता यधुपहन्यादुपघातं वर्णलोपं कुर्यात्त नीमन्यं कंचित्पुरुषं विवक्तारं विविच्य वक्तुं समर्थमिच्छेत्समीपेऽवस्थापये तदानीं तमेव पुरुषमपराधतरणोपायं सेतुं कृत्वा तमपराधमुलुङ्घयति। : पक्षोऽनुकल्पः।

मुख्यपक्षं दर्शयति

तस्मादाग्निमारुते न व्युच्यमेष्टव्यो विवक्ता, इति । यस्मात्ममादं कृत्वा विवक्तपुरुषसंपादनं न मुख्यं तस्मादाग्निमारुते शर व्युच्यं न पश्चाद्विवक्तव्यं किंतु प्रथममेव विवक्ता विविच्य वक्तुं सा होता, एष्टव्यः प्रयत्नेन संपादनीयः।।

अथ प्रत्वक्षसः प्रतवस इत्येतन्मरुद्देवताकं सूक्तं विधत्ते

मारुतं शंसति मरुतो ह वा एतद्रेतः सिक्तं

धून्वन्तः प्राच्यावयंस्तस्मान्मारुतं शंसति, इति । मरुतां धूननेन प्रजापतिरेतःशोषणं पूर्वमेवोक्तम् । अय प्रगाथद्वयं विधत्ते

यज्ञा यज्ञा वो अग्नये देवो वो द्रवि णोदा इति मध्ये योनि चानुरूपं च

शंसति तद्यन्मध्ये योनि चानुरूपं च

• शंसति तस्मान्मध्ये योनिर्धता, इति । प्रत्यक्षसः प्रतवसः०-१-१७-१। यज्ञा यज्ञा वो अग्नये०-६-४८-१

१ द्वादशः खण्डः] ऐतरेयब्राह्मणम् ।

२८३ शायनीय इत्येकः प्रगायः। देवो व इति द्वितीयः। तत्र प्रयमे प्रगाये

संपद्यते । सोऽयं स्तोत्रियस्तस्मिस्यूचे सामगैः स्तूयमानत्वात् । अत सौ द्वयोर्मध्ये प्रथमभावित्वायोनिरित्युच्यते । द्वितीयमगाथे समुत्पमस्य. जापो यादृशः स्तोत्रियस्तादृशत्वमनुरूपत्वम् । तदेतदुभयं शस्त्रमध्ये शंस. यं न तु शस्त्रान्तरेष्विव स्तोत्रियानुरूपयोरादौ शंसनीयम् । तथा सति मादत्र सूक्तमध्ये योनेरनुरूपस्य च शंसनं तस्माल्लोकेऽपि नारीणां शरीर. पे योनिर्धता। शनमध्ये तयोः स्थानविशेषं दर्शयति

यदु हे सूक्ते शस्त्वा शंसति प्रतिष्ठयोरेख

तदुपरिष्टाजननं दधाति प्रजात्यै, इति । यदु यस्मादेव कारणाद्वैश्वानरीयं मारुतं चेति द्वे सूक्ते शस्त्वा पश्चादेतो त्रियानुरूपौ शंसति तस्मात्कारणाद्वित्वसंख्योपेतयोः प्रतिष्ठयोः स्थिति गः पादयोरेवोपरिष्टादूर्ध्वदेशे प्रजननं प्रजोत्पादकमिन्द्रियं दधाति । तब

त्यै प्रजोत्पादनाय संपद्यते । वेदनं प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद ॥३५॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये त्रयोदशाध्याय एकादशः खण्डः ॥११॥ (३५) [१०६] अथ प्रतव्यसीमित्येतज्जातवेदोदेवताकं सूक्तं विधत्ते

जातवेदस्यं शंसति, इति । देतत्पशंसति

प्रजापतिः प्रजा असृजत ताः सृष्टाः पराच्य एवाऽऽयन्न व्यावर्तन्त ता अग्निना पर्यगच्छत्ता अग्निमुपावर्तन्त तमेवाद्याप्युपावृत्ताः सोऽब्र वीजाता वै प्रजा अनेनाविदमिति यदब्रवी जाता वै प्रजा अनेनाविदमिति तजातवे

प्रतव्यसी नव्यसी०-१-१४३-१ ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१३त्रयोध्याये दस्यमभवत्तजातवेदसो जातवेदस्त्वम्, इति । पुरा प्रजापतिना सृष्टाः प्रजाः प्रजापति पृष्ठतः कृत्वा पराङ्मुखत्वेनैवाडा गच्छन्न पुनरावृत्तास्तदानीं प्रजापतिस्ताः प्रजा अग्निना पर्यगच्छत्परितोली प्राकारं कृतवान् । अतस्ताः प्रजा दूरं गन्तुमशक्ता अग्निमुपेत्य पुनरावर्तन्त यस्मादेवं तस्मादद्यापि शीतार्ताः प्रजास्तमेवाग्निमुपावृत्ताः परितो गच्छन्यो। प्यग्निं दृष्ट्वा समीपे कृत्वा सेवितुमावर्तन्ते । ततः संतुष्टः प्रजापतिरेनमब्रवीत जाता उत्पन्ना याः प्रजास्ताः सवों अहमनेनाग्निनाविदं लब्धवानस्मिा वानस्मीति वा । यस्माज्जाता अविदमनेनेत्युक्तवांस्तस्मादग्निसंबन्धि जात वेदस्यं सूक्तमभवत् । जातवेदसोऽग्नि(मे)रपि जातान्वेत्यनेनेति व्युत्पत्त्य तमाम संपन्नम् ।

आपो हि ष्ठा मयोभुव इत्यादिकं त्र्यूचं विधत्ते

ता अग्निना परिगता निरुद्धाः शोचत्यो दीध्यत्योऽतिष्ठंस्ता अद्रिरभ्यषिञ्चत्तस्मादुप

रिष्टाजातवेदस्यस्याऽऽपोहिष्ठीयं शंसति, इति । अग्निना परिगताः परितो वेष्टिता निरुद्धा गन्तुमशक्ताः शोचत्यः शो प्रामुवत्यो दीध्यत्यो दीप्यमानाः प्रजास्तत्रैवातिष्ठन् । प्रजापतिस्ताः प्रजा संतापपरिहारायाद्भिरभ्यषिश्चत् । यस्मादेवं तस्माज्जातवेदस्याख्यस्योपरिष्टा दापो हि ष्ठेत्यादिकं त्र्यूचं शंसेत् ।

तत्र कंचिद्विशेषं विधत्ते

तस्मात्तच्छमयतेव शंस्तव्यं ता अद्भिर

भिषिच्य निजा स्यैवामन्यत, इति । .. यस्मादापोहिष्ठीयं तापशमनकारणं तस्मात्तच्छमयतेव होत्रा शंसनीयम् यथा वहिं शमयन्पुरुषः शनैः शनैः क्रमेण जलं सिञ्चति, एवमनेनापि शन शंसनं कर्तव्यम् । ततः स प्रजापतिस्ताः प्रजा अद्भिरभिषिच्य निजा ए स्वकीया एव ताः प्रजा इत्यमन्यत । स्याशब्दस्तच्छब्दपर्याय एकवचनान्ताश पहुवचनान्तत्वेन परिणमयितव्यः । तथा सति ताः प्रजा इत्युक्तं भवान तस्माच्छनैः शंसनेन शस्त्रस्य स्वकीयत्वं संपद्यत इत्यर्थः । यद्वा ता अद्भा त्याधर्थवाद उत्तरशेषत्वेन योजनीयः।

आपो हि ष्ठा मयोभुवः०-१०-९-१।

। प्रयोदशः खण्डः] ऐतरेयनामणम् ।

३८५ उत नोऽहिर्बुध्न्य इत्यस्या ऋचः शंसनं तद्देवतास्तुतिद्वारेणोभयति

तासु वा अहिना बुध्न्येन परोक्षात्तेजोऽदधादेष हवा अहिर्बुध्न्यो यदमिर्गार्हपत्योऽमिनैवाऽऽ सु तगार्हपत्येन परोक्षात्तेजो दधाति तस्मा

दाहु ह्वदेवाजुह्वतोऽवसीयानिति ॥३६॥ इति । शास्वभिषेकादूर्ध्व स्वकीयत्वेन स्वीकृतासु प्रजासु प्रजापतिरहिना बुध्न्ये. दिशब्दबुध्न्यशब्दद्वयनामकामिविशेषेण परोक्षात्परोक्षरूपेण तेजोऽदधात् ।

नां संतापभीरुत्वात् । ता यथा न पश्यन्ति तथा तास्वग्निविशेषसंबन्धि : स्थापितवान् । यो गार्हपत्योऽग्निरस्ति, एष एवाहिशब्देन बुध्न्यशब्देना हितः । अतस्तदीयाशंसने सति गाईपत्येनैवामिना प्रजासु परोक्षत्वेन तेजा आपयति । यस्मादाग्नेयं तेजोऽपेक्षितं तस्मादजुहतो होमरहितात्पुरुषाज्जुह । होमं कुर्वन्नेव पुरुषोऽवसीयानत्यन्तं श्रेष्ठ इत्येवं जना आहुः। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये त्रयोदशाध्याय द्वादशः खण्डः ।। १२ ।। (३६) [१०७] अथ देवानां पत्नीरुशतीरवन्तु न इस्युग्द्वयं देवपत्नीदेवताकं विधत्ते

देवानां पत्नीः शंसत्यनूचीरमिं गृहपति

तस्मादनूची पत्नी गार्हपत्यमास्ते, इति । देवानां पत्नीरित्यनेन देवतावाचकेन शब्देन तत्प्रतिपादकमृग्द्वयं विवक्षि ।। ततश्च देवानां पत्नीहपतिमग्निमनूचीः शंसेत् । गृहपतिरनिरित्येताभ्यां दाभ्यां तत्मतिपादिकोत नोऽहिर्बुध्न्य इत्य॒ग्विवक्षिता । तदपेक्षया देवप नामकस्य मवजातस्य पश्चाद्भावित्वमन्वक्त्वम् । अतः पूर्वोक्ताया ऋचः च्छंसेदित्यर्थः । यस्मादत्रैवं तस्माद्यज्ञशालायां पत्नी गाईपत्यमनूच्य दवतिष्ठत इत्यर्थः। अत्र कंचित्पूर्वपक्षमुत्थापयति तदाहू राकां पूर्वा शंसेज्जाम्यै वै पूर्वपेयमिति, इति । संपूर्णचन्द्रमण्डलयुक्ता पौर्णमासी राका । तदभिमानिदेवतायाः प्रतिपादि

उत नोऽहिर्बुध्न्यः०-६-१०-१४ । देवानां पत्नीः०-५-४६-६ ।

१८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१३त्रयोव्याने कपि राकेत्युच्यते । तां राका पूर्वी देवपत्नीभ्यः पूर्वभाविनी सेत। राका देवानां जामी नाम भगिनी तस्मात्तस्या एवं पूर्वपेयं प्रथमतः सोमण युक्तमिति पूर्वपक्षः।

तं निराकृत्य देवपत्नीनामेव पूर्वत्वं दर्शयति

तत्तवाऽऽदृत्यं देवानामेव पत्नीः पूर्वाः शंसेदेष ह वा एतत्पत्नीषु रेतो दधाति यदग्निर्हपत्योऽग्निनैवाऽऽसु तद्गार्हपत्येन

पत्नीषु प्रत्यक्षाद्रेतो दधाति प्रजात्यै, इति । राकायाः पूर्वत्वमनादरणीयं देवपत्नीनामेव पूर्वत्वं युक्तं गार्हपत्योऽग्नि पत्नीष्वेव रेतः स्थापयति न तु भगिन्यां तस्मात्पत्नीनां पूर्वशंसनेन प्रत्यक्ष मेव पत्नीषु गार्हपत्यमुखेन रेतः स्थापयति । तच्च प्रजात्यै संपद्यते ।

वेदनं प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद, इति । लौकिकोदाहरणेन पत्नीनां पूर्वभावित्वं भगिन्याः पश्चाद्भावित्वं चोप पादयति

तस्मात्समानोदर्या स्वसाऽन्योदर्याय

जायाया अनुजीविनी जीवति, इति । पुरुषाणामेकोदरजाऽपि भगिनी परस्मै दीयते । भिन्नोदरजाऽपि जाय स्वार्थ स्त्री क्रियते । तथा सति परस्मै दत्ता भगिनी यदा कदाचिदातृजाया मनुसृत्य तहत्तानपानाभ्यां जीवन्ती सती जीवति कंचित्कालमवतिष्ठति ।

राकामहमित्यग्द्वयं विधत्ते

राकां शंसति राका ह वा एतां पुरु

षस्य सेवनी सीव्यति यैषा शिश्रेऽधि, इति । देवतावाचिराकाशब्देन तदभिधायिन्यूगभिधीयते । तां धांसेत् । पुरुष शिश्नेऽधि शिश्नस्योपरि स्थिता गुदवलयपर्यन्तं व्याप्ता येषा सका

-.”

"

राकामहं सुहवां०-२-१२-४ ।

१ ग. इ. च. छ. अ. ट. शिश्न्येऽधि ।। प्रयोदशः खण्डः] ऐतरेयबामणम् ।

१८७ सन्दीपस्थपदाभिधेया शिराऽस्ति तां शिरा राकाख्या देवता सीव्यति पद्धां करोति । तस्मात्तदीयामृचं शंसेत् ।

वेदनं प्रशंसति

पुमांसोऽस्य पुत्रा जायन्ते य एवं वेद, इति । पावीरवी कन्येत्येतामृचं विधत्ते

पावीरवी शंसति वाग्वै सरस्वती पावी

खी वाच्येव तद्दाचं दधाति, इति । येयं वागभिमानिनी सरस्वती देवता सैव पावस्य शोधस्य हेतुत्वात्पा. वी । तत्पाठेन वाच्येव देवतायां मत्ररूपायां वाचं स्थापयति । अत्र विचारमवतारयति

तदाहुर्यामी पूर्वी शंसेश्व, पिच्याश्मिति , इति । इमं यम प्रस्तरमित्येषा यमदेवताकत्वाद्याम्योदीरतामवर इत्येषा पितृदे कत्वात्पित्र्या । उभयोः पौर्वापर्यकारणस्यानिश्चयाद्विचारस्तदर्थी युतिः। तत्र निर्णयं दर्शयति

यामीमेव पूर्वी शंसेदिमं यम प्रस्त स्मा हि सीदेति राज्ञो वै पूर्वपेयं

तस्माद्यामीमेव पूर्वी शंसेव, इति । यमो हि राजा। यमः पितॄणां राजेति श्रुत्यन्तरात् । राज्ञश्च प्रथम । युक्तम् । पूर्वोक्तयाम्या अन्यां यामी विधत्ते

मातली कव्यैर्यमो अङ्गिरोभिरिति काव्याना मनूची शंसत्यवरेणैव वै देवान्काव्याः परेणैव पितृस्तस्मात्काव्यानामनूची शंसति, इति । काव्यरिति श्रुत्यन्तरादियं काव्यानामृक्सा च पूर्वोक्तामृचमनु पचार नत्यनूची तां तथैव शंसेत् । काव्या देवानां स्तोतारः केचिदधमजाति. गावीरवी कन्या०-६-४९-७ । इमं यम प्रस्तरमा हि०-१०-१४-४ ।

नामवर०-१०-१५-१ । मातली कन्यैर्यमो०-१०-१४-३ ।

१८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१३अयोध्या विशेषाः पितृभ्योऽप्युसमजातीयाः। तदेव देवानवरेण पितन्परेणत्या अत एव पूर्वमुक्ताया याम्या वक्ष्यमाणायाः पित्र्यायाच मध्ये तर युक्तम् ।

अथ तिस्रः पितृदेवताका ऋचो विधत्ते

उदीरतामवर उत्परास इति पित्र्याः शंसति, इति । उदाहृतं पादं द्वितीयपादेन सह व्याख्यातुं द्वितीयपादं पठति

उन्मध्यमाः पितरः सोम्यास इति, इति । पादद्वयं व्याचष्टे

ये चैवावमा ये च परमा ये च मध्य

मास्तान्सर्वाननन्तरायं प्रीणाति, इति । । अवरे निकृष्टाः पितर उदीरतामुत्कर्षेण गच्छन्तु । परास उत्कृष्टाः पि उदीरताम् । तथा मध्यमा निकृष्टोत्कृष्टमध्यवर्तिनः पितर उदीरतां ते त्रिविध पितरः सोम्यासः सोमयोग्या इत्येतस्य पादद्वयस्य पाठेन त्रिविधान पितूननन्तरायं कस्याप्यन्तरायो यथा न भवति तथा तर्पयति ।

विहितासु तिसृष्तृक्षु प्रथमाया उदाहृतत्वादनन्तरभाविनी द्वितीयाय दर्शयति

आहे पितन्मुविदवाँ अवित्सीति द्वितीयां शंसति, इति । तस्या ऋचस्तृतीयपादमनूध व्याचष्टे

बर्हिषदो ये स्वधया सुतस्येयेतद्ध वा एषां प्रियं धाम यर्हिषद इति

प्रियेणैवैनांस्तद्वाना समर्धयति, इति । बहिषि दर्भे सीदन्त्युपविशन्तीति बहिषदः पितरः। अत्र बहिषद . यदुच्यत एतद्ध वा एतदेव बहिरेषां पितॄणां प्रियं स्थानं तस्मादेतत्पादन पितृन्मियेणैव धाम्ना स्थानेन समृद्धान्करोति ।

उदीरतामवर०-१०-१५-१ । आहं पितनसुविदनाँ-१०-१

१ ग. उ. च. छ. “वैनस्त।

। त्रयोदशः खण्डः] ऐतरेयबामणम् । बेदनं प्रशंसति

प्रियेण धाना समृध्यते य एवं वेद, इति । तृतीयाचं दर्शयति

इदं पितृभ्यो नमो अस्त्वद्येति नम

स्कारवतीमन्ततः शंसति तस्माद __न्ततः पितृभ्यो नमस्क्रियते, इति । अस्यामृचि नमो अस्त्विति श्रूयमाणत्वादियं नमस्कारवती तामेतां तिसृणा याणामन्ते शंसेत् । यस्मादेवं तस्माच्छ्राद्धस्यान्ते नमो वः पितर इत्या. ना पितृभ्यो नमस्कारः क्रियते । एतासु पित्र्यासु कंचिद्विशेषं विचार्य निर्णयं दर्शयति

तदाहुाहावं पित्र्याः शंसे३त् । अव्या हावामिति । व्याहावमेव शंसेदसंस्थितं वै पितृयज्ञस्य साध्वसंस्थितं वा एष पितृ यज्ञं संस्थापयति यो व्याहावं शंसति

तस्मायाहावमेव शंस्तव्यम् ॥ ३७॥ इति । बांसायोमिति मत्र आहावः । अनेन मन्त्रेण प्रत्युचं व्याहावं विशेषेणाऽऽ. |ऽऽहय किं तिस्रः पित्र्याः शंसत । आहोस्विदव्याहावं पृथक्पृथगाहाव विना शंसेदिति विचारं ब्रह्मवादिन आहुः । अत्र पित्र्याः शंसतीत्येके विधिना विहितत्वात्पृथक्पृथगाहावो नास्तीति पक्षः प्रतिभाति । पुनरपि सामसति नमस्कारवती सतीति पृथग्विधिदर्शनात्प्रत्येकमाहावः कर्तव्य पप्रतिभाति । विचारार्थ प्लतिद्वयम्। तत्र पृथक्पृथगाहाव एव सिद्धान्तः । मुपपत्तिः। पितृयज्ञस्य संबन्धि यदङ्गमसंस्थितमेव वर्ततेऽसमाप्तं तिष्ठति साधु समाप्तं कर्तव्यम् । यो होता पृथगाहावं कृत्वा शंसति, एष होता स्वतमसमाप्त पितृयज्ञं संस्थापयति । तस्मात्पृथक्पृथगाहावमत्रं पठित्वैव

न्यम् ॥

श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्य त्रयोदशाध्याये त्रयोदशः खण्डः ॥१३।। (३७) [१०८]

इदं पितृभ्यो नमो०-१०-१५-२ ।

३९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१३त्रयो ध्याये.

अथ चतस्र ऋचो विधत्ते

स्वादुष्किलायं मधुमाँ उतायमितीन्द्रस्यन्द्री रनुपानीयाः शंसत्येताभिर्वा इन्द्रस्तृतीयसवन

मन्वपिबत्तदनुपानीयानामनुपानीयात्वम् , इति । स्वादुष्किलायमित्यादिका ऋच ऐन्ध इन्द्रदेवताकत्वात्पपिवांसमिन्द्रमिती न्द्रस्तृतीयपादे श्रूयते । ताश्चेन्द्रस्यानुपानीया भोजनादूर्ध्वं यत्पानं तत्पश्चाना वित्वादनुपानं तत्स्थानीया एता ऋचः । ताः शंसेत् । कथमिवाऽऽसामनुपानी यात्वमिति तदुच्यते । अयमिन्द्रस्तृतीयसवनमनु पश्चादेताभिर्जग्भिः शस्यमान सन्सोममपिबत्तस्मादनुपानीयेति नाम संपन्नम् ।

एतच्छंसनकालेऽध्वर्योः प्रतिगरमन्ने विशेष विधत्ते

माद्यन्तीव वै तर्हि देवता यदेता होता

शंसति तस्मादेतासु महत्पतिगीर्यम् , इति । सस्मिभनुपानीयानामृचा शंसनकाले होतुः शंसनं श्रुत्वा देवताः सब माधन्तीव वै सर्वथा हृष्यन्त्येव । तस्मात्कारणादेतास्वृक्षु शस्यमानास्वध्वर्युण मद्वत्पतिगीर्य मदिधातुयुक्तं प्रतिगरणं पठनीयम् । मदामो दैवेत्ययं मदिधाइ युक्तः प्रतिगरणमन्त्रः।

ऋगन्तरं विधत्ते

ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणी मृचं शंसति विष्णुवै यज्ञस्य दुरिष्टं पाति

वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै, इति । विष्णुवरुणश्च मिलित्वा देवता यस्या ऋचः सा वैष्णुवारुणी तां जपेच्छ सेदित्यर्थः । तस्याश्चतुर्थपादे विष्णुरगन्वरुणेति श्रवणाद्वैष्णुवारुणीत्वम् । स चाऽऽश्वलायनेन पठिता । दुरिष्टमङ्गविकलं यदनुष्ठितं तद्विष्णुः पाति वैकर निवारयतीत्यर्थः । स्विष्टं साकल्येन यदङ्गमनुष्ठितं तद्वरुणः पाति तस्य फल तिबन्धं निवारयतीत्यर्थः। तस्मादियमुक्तयोरुभयोर्विष्णुवरुणयोरेव शान्त मीत्य संपद्यते।

विष्णोर्नु के वीर्याणि प्रवोचमिति वैष्णवीं स्वादुष्किलायं मधुमाँ०-६-४७-१ । विष्णोर्नु कं वीयाणि०-१-१५४-१।

१ चतुर्दशः खण्डः] ऐतरेयबामणम् ।

शंसति यथा वै मत्यमेवं यज्ञस्य विष्णुस्त घथा दुष्कृष्टं दुर्मतीकृतं सुकृष्टं सुमतीकृतं कुर्वनियादेवमेवैतद्यज्ञस्य दुष्टुतं दुःशस्तं मुष्टुतं

सुशस्तं कुर्वनेति यदेतां होता शंसति, इति । विष्णोरिति श्रूयमाणत्वादियं वैष्णवी । मतौ बुद्धौ सम्यक्त्वेन प्रतिभा ये मत्यम् । अयं दृष्टान्तः । विष्णुर्दान्तिकः । यथा मत्यं कार्य लोके फल विसायि भवति तथा विष्णुरपि फलपर्यवसायीत्यर्थः । उक्तयोदृष्टान्तदा तकयोस्तात्पर्य तद्यथेत्यादिना प्रपश्यते । यथा लोके दुष्कृष्टं कर्षकैः सस्य ने दोषयुक्तं यथा भवति तथा कर्षणं कृतम् । यत्किचिद्राजकार्यममात्यैः कृतं दुष्टुं मतमन्यथा चिन्तितं पूर्व तत्कार्यमवुर्मतं सत्पश्चाबुद्धिममादाहु | संपादितं तत्र कश्चिद्बुद्धिमान्कर्षकः कष्टस्थाने दुष्टस्य तृणादेरपनयनेन कृष्टं कुर्वनियात्कर्षकस्य पृष्ठतो गच्छेत् । राजकार्यमपि दुर्बुद्धिनाऽमात्येन तीकृतं कश्चित्सुबुद्धिरमात्यः सुमती कुर्वन्गच्छेत् । यथैतदुभयं लोक एवमे स्मिन्कर्मणि यज्ञसंवन्धि यत्स्तोत्रमकुशलैरुद्गातृभिर्दोपसहितं कृतं यदपि नृभिः शस्त्रं दोषसहितं पठितं तदुभयमपि विष्णुः क्रमेण सुष्टुतं सुशस्तं कुर्व ते गच्छति तत्रत्यदोष परिहरतीत्यर्थः। यद्यदा वैष्णवीमेता होता शंसति

तदुभयसमाधानमिति द्रष्टव्यम् । ऋगन्तरं विधत्ते

तन्तुं तन्वत्रजसो भानुमन्विहीति प्राजापत्यां शंसति प्रजा वै तन्तुः

प्रजामेवास्मा एतत्संतनोति , इति । अस्यामृचि काचिदपि देवता साक्षाद्वाचकशब्देन नोक्ता तस्मादियमनि

। तादृश्याश्च प्रजापतिर्देवता । तदेवताकत्वं पूर्वमेव निरूपितं तामेतां लापत्यां शंसेत् । हे प्रजापते तन्तुं तन्वन्पुत्रपौत्रादिसंतति विस्तारयव्रजसो मात्मकस्य जगतो भानुं भासकमादित्यमन्विधनुरुध्य गच्छ । आदित्यो हि

पुनः संचरनहोरात्रनिष्पत्तिं करोति तत्कालानुसारेणैव त्वमपि संतान कुवित्यर्थः । अस्मिन्पादे तन्तुशब्देन पुत्रपौत्रादिमजा विवासिता तन्तु.

तन्तुं तन्वबनसो०-१०-५३-१।

१९२ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम् -[१३प्रयोग वद्विस्तार्यमाणत्वात्तस्मादेतत्पादपाठेनास्मै यजमानाय प्रजामेव संतमोर

अविच्छिमा करोति ।

द्वितीयपादमनूध व्याचष्टे

ज्योतिष्मतः पथो रक्ष धिया कृता निति देवयाना वै ज्योतिष्मन्तः

पन्थानस्तानेवास्मा एतद्वितनोति, इति । हे प्रजापते धिया कृतान्यागाधनुष्ठानबुद्ध्या संपादिताज्योतिष्मतः प्रक शयुक्तान्पथः स्वर्गमार्गान्रक्ष विघ्नपरिहारेण पालय । अत्र ज्योतिष्मत्पयिः दाभ्यां देवगमनमार्गा विवक्षिताः। देवा येषु मार्गेषु यान्ति ते देवयानाः सर्वेषां देवानां तेजस्वित्वात्तन्मार्गेषु न कदाऽप्यन्धकारोऽस्ति । तस्मादेतत्प दपाठेनास्मै यजमानाय तानेव मार्गान्होता विस्तारयति ।

उत्तरार्धमनूध व्याचष्टे

अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमियेवैनं तन्मनोः प्रजया संतनोति प्रजात्यै, इति । पनः पुनः कर्मस गच्छन्ति प्रवर्तन्त इत्यनशानशीला जोगशब्देनोच्यन्ते ताशानां जोगुवामस्मत्संततावुत्पन्नानां पुत्रादीनामपोऽनुष्ठीयमानमेतत्कर्मा ल्वणमनतिरिक्तं वयत हे प्रजापते वय निर्वह । बहुवचनं पूजार्थम् । मनु त्वमपि मनुष्योत्पादनार्थमनुरूपो भव । ततो दैव्यं देवताराधनयोग्यं ज पुत्रादिरूपं मनुष्यं जनयोत्पादय । तत्तेनार्धपाठेनैनं यजमानं मनोः संबन्धिन प्रजया मनुष्यरूपया संतनोति संयोजयति । तच्च प्रजात्यै यजमानस्य प्रज त्पादनाय संपद्यते। वेदनं प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद, इति । ऋगन्तरेण शस्त्रसमाप्तिं विधत्ते

एवा न इन्द्रो मघवा विरप्शीत्युत्तमया परि दधातीयं वा इन्द्रो मघवा विरप्शी, इति । ।

एवा न इन्द्रो०-४-१७-२०।

।। चतुर्दशः खण्डः], ऐतरेयबामणम् ।

१९३ गोऽयमिन्द्रोऽस्ति सोऽयं न एवास्मदर्थमेव करत्करोत्विति द्वितीयपादे प्रमाणेन संबन्धः । कीदृश इन्द्रः । मघवा धनवान् । तथा विरप्शी । रम

स्य इत्यस्माद्धातोरुत्पन्नोऽयं शब्दः । विशेषेण राभस्यवान्सर्वदोधुक्त त्यर्थः । अनयर्होत्तमया शस्त्रापेक्षयाऽन्तिमया परिधानं कुर्यात् । उदाहते मपाद इन्द्रादिशब्दैः सर्वैरपीयं वै भूमिरेवोपलक्ष्यते । अनया भूमिस्पर्शस्य वास्यमानत्वात् । द्वितीयपादमनूध व्याचष्टे

करत्सत्या चर्षणीध्दनर्वतीयं वै

सत्या चर्षणीधृदन , इति । चर्षणीशब्दो मनुष्यवाची तान्धारयति पोषयति चर्षणीधृदिन्द्रः। सोऽय गया हयं परित्यज्य यागभूमानुपविष्टत्वादश्वरहितस्तादृशः सन्सत्या फलप नस्याऽऽवश्यकत्वेन सत्यानि कर्माणि करत्करोतु विघ्नपरिहारेण संपादयतु। स्मिन्नपि पादे सत्यादिपदैः पूर्ववदियं भूमिरेवोपलक्षणीया। तृतीयपादमनूद्य व्याचष्टे

वं राजा जनुषां धेह्यस्मे इतीयं

वै राजा जनुषाम् , इति । जनुषां जातानामस्मे अस्माकमृत्विजां हे इन्द्र वं राजा भूत्वा धेहि वक्ष्य गमभीष्टं संपादय । अस्मिन्नपि पादे राजा जनुपामिति पदद्वयेन पूर्ववदियं मेरेवोपलक्षणीया।

चतुर्थपादमनूध व्याचष्टे

अधि श्रवो माहिनं यज्जरित्र इतीयं वै माहिनं यज्ञश्रवो यजमानो जरिता

यजमानायैवैतामाशिषमाशास्ते , इति । जरित्रे स्तोत्रे यजमानाय यत्प्रसिद्ध माहिनं महत्त्वं श्रवः कीर्ति चाधि ति पूर्वेणान्वयः। हे इन्द्राऽऽधिक्येन संपादयेत्यर्थः । अस्मिन्नपि पादे हेनमित्यनेनेयं भूमिरेवोपलक्षणीया । यच्छब्दो नपुंसकलिङ्गो य इति पुंलि नि विपरिणमयितव्यः । तेन यो यज्ञ इति प्रसिद्धं यबमाचष्टे । सोऽपीयं परेव । कीर्तिवाचिना श्रवाशब्देनापि भूमिरेवोपलक्षणीया । यजमानो

३९४

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१४चतुर्द ध्याये जरितृशब्देनाभिधेयः । एतत्पादचतुष्टयपाठेन होता यजमानार्थमेवाSAR नीयं सर्व प्रार्थयते ।

परिधानकाले होतुर्भुमिस्पर्शनं विधत्ते

तदुपस्टशन्भूमि परिदध्यात्तद्यस्यामेव यज्ञं संभ

रति तस्यामेवैनं तदन्ततः प्रतिष्ठापयति, इति । तत्तदा शस्त्रसमाप्तिकाले भूमि स्पृशन्नेव समापयेत् । तत्तेन स्पर्शेन यस्य मेव भूमौ यज्ञमनुष्ठातुं साधनं संभरति संपादयति तस्यामेव भूमावेनं यह तद न्ततस्तत्समाप्तिपर्यन्तं प्रतिष्ठापयति ।

अथ शस्त्रयाज्यां विधत्ते

अग्ने मरुद्भिः शुभयविभिरित्यानिमारुत मुक्थं शस्त्वाऽऽग्निमारुत्या यजति यथाभागं

तद्देवताः प्रीणाति प्रीणाति ॥ ३८ ॥ इति । अग्निमरुतश्च यस्योक्थस्य शस्त्रस्य देवता तदाग्निमारुतमुक्थं पूर्वोक्तमकारे शस्त्वा तत ऊर्ध्वमने मरुद्भिरित्यतया मारुत्या यजेत् । आनिमारुतयाज्य पठेदित्यर्थः । तथा सति तस्मिञ्शस्त्रे प्रतिपादिता यावत्यो देवताः सन्ति ता सर्वास्तत्तद्भागमनतिक्रम्य तर्पयति । अभ्यासोऽध्यायसमाप्त्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मण भाष्ये त्रयोदशाध्याये चतुर्दशः खण्डः ॥१४॥ (३८) [१०९] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्रा ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये

प्रयोदशोऽध्यायः ॥१३॥